एकोनाशीतितमः सर्गः ७९
श्रीवसिष्ठ उवाच ।
दिनानुदिनमित्येषा स्वात्मारामतया तया ।
नित्यमन्तर्मुखतया बभूव प्रकृतिस्थिता ॥ १ ॥
अपूर्वश्रीमतीं दृष्ट्वा पृष्टया धरणीभृता ।
चूडालया स्वशोभाया हेतुर्बोधोऽत्र वर्ण्यते ॥
एवं विचारेणोत्पन्नस्य
तत्त्वज्ञानस्याभ्यासाद्दिनक्रमेणोत्तरोत्तरभूमिकाप्रतिष्ठामाह##-
रूपं तस्मिन् स्थिता प्रतिष्ठिता ॥ १ ॥
नीरागा निरुपासङ्गा निर्द्वन्द्वा निःसमीहिता ।
न जहाति न चादत्ते प्रकृताचारचारिणी ॥ २ ॥
तस्यास्तत्प्रतिष्ठालक्षणान्याह-नीरागेत्यादिना ॥ २ ॥
परितीर्णभवाम्भोधिः शान्तसन्देहजालिका ।
परमात्ममहालाभपरिपूर्णान्तरात्मना ॥ ३ ॥
परिपूर्णो देहादान्तरान्मनसोऽप्यान्तरः प्रत्यगात्मा यस्याः ॥ ३ ॥
विश्रान्ता सुचिरं श्रान्ता घनलब्धपदान्तरे ।
सर्वोपमातीततया जगामाव्यपदेश्यताम् ॥ ४ ॥
सुचिरं प्राक्संसारश्रान्ता तदा निरतिशयानन्दघने ज्ञानलब्धे पदान्तरे
परमपदे विश्रान्ता ॥ ४ ॥
इति सा भामिनी तस्य चूडाला वरवर्णिनी ।
स्वल्पेनैव हि कालेन ययौ विदितवेद्यताम् ॥ ५ ॥
यथायमागतः कश्चिज्जागतः स्पन्दविभ्रमः ।
तथा विलीयते सर्वं तत्त्वज्ञानवति स्वयम् ॥ ६ ॥
कथमल्पकालिकेन बोधेनानादेर्महत्तमस्य च भ्रमस्य निवृत्तिस्तत्राह-यथेति ।
कश्चिदनिर्वचनीयस्वरूपः स्पन्दविभ्रमः अविदुषि अकस्मादेवागतस्तथा
तत्त्वज्ञानवति सर्वं निःशेषमकस्मादेव विलीयत इत्यर्थः । दीर्घपाठे यथा
विलीयते तथा तत्त्वज्ञानवती बभूवेति कथञ्चिद्व्याख्येयम् ॥ ६ ॥
अदृष्टसकले शान्ते पदे विश्रान्तिमेत्य सा ।
रराज शरदच्छाभ्रमालेव गतसम्भ्रमा ॥ ७ ॥
न दृष्टं सकलद्वैतं यत्र तथाविधे पदे ॥ ७ ॥
अनाकुला समालोकमसम्बन्धात्मनात्मनि ।
जरद्गवीव शैलाग्रं सतृणं प्राप्य संस्थिता ॥ ८ ॥
यथा जरद्गवी वृद्धा गौर्दुरारोहतमं सतृणोदकं [मूलस्थं
तृणपदमुदकस्याप्युपलक्षणमित्यर्थः ।] समालोकं
तुल्यातपचन्द्रिकोपभोगशैलाग्रं दैवात्प्राप्य अनाकुला संस्थिता भवति तद्वत्सापि
समालोकं जाग्रदादिसर्वावस्थास्वेकरूपप्रकाशं प्रत्यगात्मानं
जाग्रदाद्यसम्बन्धात्मना स्वभावेन प्राप्य तस्मिन्नेवात्मन्यनाकुला
संस्थितेत्यर्थः ॥ ८ ॥
स्वविवेकघनाभ्यासवशादात्मोदयेन सा ।
शुशुभे शोभना पुष्पलतेवाभिनवोद्गता ॥ ९ ॥
आत्मनस्तत्त्वदर्शनप्रयुक्तेनोदयेन पूर्णानन्दस्वरूपाविर्भावेण ॥ ९ ॥
अथ तामनवद्याङ्गीं कदाचित्स शिखिध्वजः ।
अपूर्वशोभामालोक्य स्मयमान उवाच ह ॥ १० ॥
स्मयमानो विस्मयस्मेरास्यः ॥ १० ॥
भूयो यौवनयुक्तेव मण्डितेव पुनः पुनः ।
अधिकं राजसे तन्वि जगद्राजवती यथा ॥ ११ ॥
जगत् जगती । वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च इति शतृवद्भावातिदेशात्
उगितश्च इति स्त्रियां ङीप् छान्दसत्वान्न कृतः । राजवती राजवन्ती पूर्णचन्द्रवती वा
यथा राजते तद्वद्राजसे ॥ ११ ॥
प्रपीतामृतसारेव लब्धा लभ्यपदेव च ।
आनन्दापूरपूर्णेव राजसे नितरां प्रिये ॥ १२ ॥
उपशान्तं च कान्तं च दधाना सुन्दरं वपुः ।
अभिभूयेन्दुमायासि श्रियं कामपि कामिनि ॥ १३ ॥
अभोगकृपणं शान्तमूर्जितं समतां गतम् ।
गम्भीरं च प्रशान्तं च चेतः पश्यामि ते प्रिये ॥ १४ ॥
ऊर्जितं विवेकोर्जितम् । शान्तं शमादिगुणवत् । प्रशान्तमुपरतचापलम् ॥ १४ ॥
तृणीकृत्य त्रिभुवनं पीताखिलजगद्रसम् ।
अनन्तोड्डामरं सौम्यं मनः पश्यामि ते प्रिये ॥ १५ ॥
न केनचिन्महाभागे विभवानन्दवस्तुना ।
चेतस्तव तुलामेति मरुक्षीराब्धिसुन्दरम् ॥ १६ ॥
मरुरिव निर्जलजाड्यतया क्षीराब्धिरिव पूर्णतया च सुन्दरम् ॥ १६ ॥
तैरेव बालकदलीमृणालाङ्कुरकोमलैः ।
अङ्गैः स्थितिमनुप्राप्तैर्वृद्धिं यातेव लक्ष्यसे ॥ १७ ॥
स्थितिमचापल्यमुपायातैस्तैः प्राक्तनैरेवाङ्गैरवयवैस्तेजोतिशयेन वृद्धिं
यातेव ॥ १७ ॥
तथा तेनैव तेनैव सन्निवेशेन संस्थिता ।
अन्यतामुपयातासि लतेव ऋतुपर्यये ॥ १८ ॥
ऋतुपर्यये शिशिरात्यये ॥ १८ ॥
किं त्वया पीतममृतं प्राप्तं साम्राज्यमेव वा ।
अमृत्युमेव सम्प्राप्ता प्रयोगायोगयुक्तितः ॥ १९ ॥
प्रयोगो रसायनादिप्रयोगः आयोगो मन्त्रादिसिद्धिः युक्तयो
राजयोगहटयोगोपायास्ताभ्य इति ततः ॥ १९ ॥
राज्याच्चिन्तामणेर्वापि त्रैलोक्याद्वा त्वयाधिकम् ।
अप्राप्तं किमनुप्राप्तं नीलोत्पलविलोचने ॥ २० ॥
चूडालोवाच ।
नाकिञ्चित्किञ्चिदाकारमिदं त्यक्त्वाहमागता ।
नकिञ्चित्किञ्चिदाकारं तेनास्मि श्रीमती स्थिता ॥ २१ ॥
एवं राज्ञा पृष्टा चूडाला स्वशोभातिशयनिमित्तं परिच्छिन्नदेहात्मतात्यागः
पूर्णाद्वितीयब्रह्मात्मलाभश्चेति गूढोक्त्या प्रथममुत्तरमाह-नाकिञ्चिदिति ।
अहमिदं सर्व मूढजनप्रसिद्धमिदं शरीरात्मत्वं त्यक्त्वा न विद्यन्ते अकिञ्चित्
अशेषाः किञ्चिन्नामरूपाकारा यस्मिंस्तथाविधं ब्रह्मात्मत्वं तत्त्वबोधेन
आगता न तु मन्त्ररसायनादिसाधनमात्रेण । किञ्चित्किञ्चिदल्पं तुच्छं च
तत्तत्सिद्ध्याकारं तेनेत्यर्थः । अथवा अहं किञ्चित्किञ्चिदाकारं
जाग्रत्स्वप्नावस्थाद्वयं नागता नाप्यकिञ्चित्किञ्चिदाका सुषुप्तरूपं किन्तु
इदमवस्थात्रयमपि त्यक्त्वा तुरीयस्वभावमागता तेन हेतुनेत्यर्थः । अथवा अहं
कर्मोपासनादिना किञ्चित्किञ्चिदाकारं इन्द्रचन्द्रादिहिरण्यगर्भान्तं पदं
भावनाकृततादात्म्यसिद्ध्या नागता । नाप्यकिञ्चित्किञ्चिदाकारमव्यक्तरूपं
किन्त्विदं सर्वं त्यक्त्वा स्वस्वरूपा एवावस्थिता तेन हेतुनेत्यर्थः । अथवा अहमिदं
लिङ्गदेहपरिच्छिन्नं जीवाकारं त्यक्त्वा यन्नाकिञ्चित्किञ्चित्सर्वात्मक आकारो यस्य
तथाविधं परमार्थतो नकिञ्चित्किञ्चिदाकारं च ब्रह्म तदागता प्राप्तवती तेन
हेतुनेत्यर्थः ॥ २१ ॥
इदं सर्वं परित्यज्य सर्वमन्यन्मयाश्रितम् ।
यत्तत्सत्यमसत्यं च तेनास्मि श्रीमती स्थिता ॥ २२ ॥
उक्तमेवार्थं भङ्ग्यन्तरेण पुनराह-इदमिति । इदं परिच्छिन्नं सर्वं
परित्यज्य सर्वमपरिच्छिन्नमन्यन्मया आश्रितम् । किं तत् । यत्तत् सत्यमबाधितं न
विद्यते सन्मूर्त त्यदमूर्तं [अन्यदमूर्तं च इति पाठः ।] च प्रपञ्चरूपं
यत्रेत्यसत्यं च तेनेति प्राग्वत् ॥ २२ ॥
यत्किञ्चिद्यन्न किञ्चिच्च तज्जानामि यथास्थितम् ।
यथोदयं यथानाशं तेनास्मि श्रीमती स्थिता ॥ २३ ॥
नकिञ्चित्किञ्चिदाकारमिति स्वोक्तिं भङ्ग्यन्तरेण वर्णयति-यदिति । यद्वस्तु उदयः
सर्गस्तमनतिक्रम्येति यथोदयन्न् सृष्टिदृशा दृश्यमानं किञ्चित्परिच्छिन्नं
यदेव च यथानाशं प्रलयदृशा दृश्यमानं नकिञ्चिच्च भवति तद्यथा येन
कूटस्थभूमानन्दस्वभावेन स्थितं जानामीत्यर्थः ॥ २३ ॥
भोगैरभुक्तैस्तुष्यामि भुक्तैरिव सुदूरगैः ।
न हृष्यामि न कुप्यामि तेनास्मि श्रीमती स्थिता ॥ २४ ॥
एकैवाकाशसङ्काशे केवले हृदये रमे ।
न रमे राजलीलासु तेनास्मि श्रीमती स्थिता ॥ २५ ॥
हृदयपदेन हार्दं ब्रह्म लक्ष्यते ॥ २५ ॥
आत्मन्येव हि तिष्ठामि ह्यासनोद्यानसद्मसु ।
न भोगेषु न लज्जासु तेनाहं श्रीमती स्थिता ॥ २६ ॥
आसनोद्यानादिषु देहे स्थितेऽप्यहं पूर्णात्मन्येव तिष्ठामि न तु
भूषणसन्मानादिशारीरमानसभोगेषु तदलाभप्रयुक्तलज्जासु वा ॥ २६ ॥
जगतां प्रभुरेवास्मि नकिञ्चिन्मात्ररूपिणी ।
इत्यात्मन्येव तुष्यामि तेनाहं श्रीमती स्थिता ॥ २७ ॥
इदं चाहमिदं नाहं सत्या चाहं न चाप्यहम् ।
सर्वमस्मि न किञ्चिच्च तेनाहं श्रीमती स्थिता ॥ २८ ॥
इदं देहादि चात्तदुपभोग्यमधिष्ठानदृशा आरोपितदृशा तु नाहम् ॥ २८ ॥
न सुखं प्रार्थये नार्थं नानर्थं नेतरां स्थितिम् ।
यथाप्राप्तेन हृष्यामि तेनाहं श्रीमती स्थिता ॥ २९ ॥
नानर्थं जिहासामीति शेषः ॥ २९ ॥
तनुविद्वेषराजाभिः प्रज्ञाभिः शास्त्रदृष्टिभिः ।
रमे सह वयस्याभिस्तेनाहं श्रीमती स्थिता ॥ ३० ॥
वयस्याभिः सखीभूताभिः । तनुः कृशीभूतो विद्वेषो रागश्च
याभिस्तथाविधाभिः स्वप्रज्ञाभिः शास्त्रदृष्टिभिश्च सह रमे । अथवा
शास्त्रदृष्टिभिः करणैस्तनुरल्पीभूतो विद्वेषो रागश्च यासां
तथाविधाभिर्वयस्याभिः सखीभिः सह रमे ॥ ३० ॥
पश्यामि यन्नयनरश्मिभिरिन्द्रियैर्वा चित्तेन चेह हि तदङ्ग नकिञ्चिदेव ।
पश्यामि तद्विरहितं तु नकिञ्चिदन्तः पश्यामि सम्यगिति नाथ चिरोदयास्मि ॥ ३१ ॥
अङ्ग हे नाथ इह जगति अहं नयनरश्मिभिरन्यैर्वा इन्द्रियैश्चित्तेन च यत्पश्यामि
तन्नकिञ्चिदनृतमेव । तेनेन्द्रियमनोदृश्येन विरहितं तु नकिञ्चिन्निष्प्रपञ्चं
वस्तु अन्तः पश्यामि । यतो हेतोरिति वर्णितरीत्या अन्तर्बहिश्च सम्यगबाधितरूपं
पश्यामि । तेन हेतुना चिरं सन्ततमुदिता परमाभ्युदयश्रीमती अस्मीत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
चू० चूडालात्मलाभो नामैकोनाशीतितमः सर्गः ॥ ७९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चूडालात्मलाभो नामैकोनाशीतितमः सर्गः ॥ ७९ ॥