०७८

अष्टसप्ततितमः सर्गः ७८

श्रीवसिष्ठ उवाच ।

एवं बहूनि वर्षाणि मिथुनं निर्भरस्पृहम् ।
रेमे यौवनलीलाभिरमन्दाभिर्दिने दिने ॥ १ ॥

तयोः क्रमेण वैराग्यं सच्छास्त्राभ्यासनिष्ठता ।
चूडालाया विवेकोऽत्र ज्ञानलाभश्च वर्ण्यते ॥

निर्भरस्पृहं दृढप्रेम । मिथुनं तत्स्त्रीपुंसद्वन्द्वम् ॥ १ ॥

अथ यातेषु बहुषु वर्षेष्वावृत्तिशालिषु ।
शनैर्गलिततारुण्ये भिन्नकुम्भादिवाम्भसि ॥ २ ॥

अथ शनैस्तारुण्ये गलति सति तद्युग्मं इति निर्णीय अध्यात्मसम्मतं शास्त्रं
विचारयामासेति दशमे एकादशे च सम्बन्धः ॥ २ ॥

तरङ्गनिकराकारभङ्गुरव्यवहारिणि ।
पातः पक्वफलस्येव मरणं दुर्निवारणम् ॥ ३ ॥

निर्णयहेतुं प्रथमं तत्कृतं विचारं प्रपञ्चयति-तरङ्गेत्यादिना ।
तरङ्गनिकराकारेण भङ्गुरेण देहेन व्यवहरणशीले देहिनि । मरणं
देहवियोगः ॥ ३ ॥

हिमाशनिरिवाम्भोजे जरा निपतनोन्मुखी ।
आयुर्गलत्यविरतं जलं करतलादिव … ४ ॥

कुतो दुर्निवारणं तत्राह-हिमाशनिरिति ॥ ४ ॥

प्रावृषीव लतातुम्बी तृष्णैका दीर्घतां गता ।
शैलनद्या रय इव सम्प्रयात्येव यौवनम् ॥ ५ ॥

तृष्णाभोगतत्साधनतृष्णाप्रावृषि कटुतुम्बीलतेव दीर्घतां गता वर्धते इति
यावत् । रयोऽत्र वार्षिकपूरः ॥ ५ ॥

इन्द्रजालमिवासत्यं जीवनं जीर्णसंस्थिति ।
सुखानि प्रपलायन्ते शरा इव धनुश्च्युताः ॥ ६ ॥

जीव्यते अस्मिन्निति जीवनं देहादि ॥ ६ ॥

पतन्ति चेतो दुःखानि तृष्णा गृध्र इवामिषम् ।
बुद्बुदः प्रावृषीवाप्सु शरीरं क्षणभङ्गुरम् ॥ ७ ॥

दुःखान्याध्यात्मिकादीनि तृष्णा च चेतः पतन्ति निपत्य तुदन्तीति यावत् ॥ ७ ॥

रम्भागर्भ इवासारो व्यवहारो विचारगः ।
सत्वरं युवता याति कान्तेवाप्रियकामिनः ॥ ८ ॥

अप्रियां [अत्राप्रियं सपत्नीसङ्ग्रहणं कामयत इति व्याख्यानं युक्तं ।
यथास्थितव्याख्यायां पुंवद्भावानुपपत्तिः ।] सपत्नीं कामयते यस्तस्य
कान्ता प्रियतमेव ॥ ८ ॥

बलादरतिरायाता वैरस्यमिव पादपम् ।
तदिह स्याच्छुभाकारं स्थिरं किमतिशोभनम् ॥ ९ ॥

अरतिरिष्टविषयालाभनिमित्तं दौर्मनस्यम् । वैरस्यं रसशोषः । इहास्मिन् संसारे ॥ ९

यदासाद्य पुनश्चेतो दशासु न विदूयते ।
इति निर्णीय युग्मं तत्संसारव्याधिभेषजम् ॥ १० ॥

दशासु जन्ममरणादिदुर्दशासु । तद्युग्मं मिथुनं इति विचार्य तत्र
अध्यात्मशास्त्रमेव संसारव्याधिभेषजं निर्णीय तदेव विचारयामासेत्यन्वयः ॥
१० ॥

चिरं विचारयामास शास्त्रमध्यात्मसम्मतम् ।
आत्मज्ञानैकमात्रेण संसृत्याख्या विषूचिका ॥ ११ ॥

संशाम्यतीति निश्चित्य तावास्तां तत्परायणौ ।
तच्चित्तौ तद्गतप्राणौ तन्निष्ठौ तद्विदाश्रयौ ॥ १२ ॥

तद्विदा अध्यात्मशास्त्रविद एवाश्रयः शरणं ययोस्तौ ॥ १२ ॥

तदा तदर्चनपरौ तदीहौ तौ विरेजतुः ।
तत्रैवातिघनाभ्यासौ बोधयन्तौ परस्परम् ॥ १३ ॥

तत्प्रीतौ तत्समारम्भावन्योन्यं तौ बभूवतुः ।
अथ साविरतं राम रमणीयपदक्रमान् ॥ १४ ॥

तस्मिन्नध्यात्मशास्त्र एव सम्यक् तच्चिन्तनं तच्छ्रवणमन्योन्यं तत्प्रबोधनम्
इत्यादिः समारम्भो ययोस्तौ । सा चूडाला ॥ १४ ॥

श्रुत्वाध्यात्मविदां वक्त्राच्छास्त्रार्थांस्तारणक्षमान् ।
इत्थं विचारयामास स्वमात्मानमहर्निशम् ॥ १५ ॥

इत्थं वक्ष्यमाणप्रकारेण ॥ १५ ॥

अव्यापृता व्यापृता वा धिया धवलयेद्धया ।
प्रेक्षे तावत्स्वमात्मानं किमहं स्यामिति स्वयम् ॥ १६ ॥

अव्यापृता त्यक्तशारीरव्यापारा । प्रेक्षे विविच्य पश्येयम् । अस्मिन्
कार्यकारणसङ्घाते अहं चेतनधातुः किं स्याम् ॥ १६ ॥

कस्यायमागतो मोहः कथमभ्युत्थितः क्व वा ।
देहस्तावज्जडो मूढो नाहमित्येव निश्चयः ॥ १७ ॥

अयं संसारलक्षणो मोहो भ्रमः कस्यागतः । यस्य हि भ्रान्तिरागता स तन्निवारणे
स्वस्थः स्यात्स एव क इत्यर्थः । कथं [कथं नैर्निमित्तैरिति पाठः ।] वेति
निमित्तजिज्ञासा । क्वेति तन्मूलजिज्ञासा । मूले हि परिज्ञाते तदुच्छेदेनोच्छेत्तुं स
शक्यः ॥ १७ ॥

आबालमेतत्संसिद्धं मतौ चैवानुभूयते ।
कर्मेन्द्रियगणश्चास्मादभिन्नावयवात्मकः ॥ १८ ॥

मतौ स्थूलोहं गौरोहमित्यादिबुद्धिवृत्तौ सत्यामेवानुभूयते न स्वत इति तस्य
जडत्वमित्यर्थः । अस्माद्देहादभिन्नहस्तपादाद्यवयवात्मकः ॥ १८ ॥

अवयवावयविनोर्न भेदो जड एव च ।
बुद्धीन्द्रियगणोऽप्येवं जड एवेति दृश्यते ॥ १९ ॥

बुद्धीन्द्रियगणोपि एवं शरीरावयवात्मक एव । यद्यप्यणवश्चेति सूत्रे
इन्द्रियप्राणादयः सूक्ष्मा लिङ्गदेहावयवा एव न स्थूलदेहावयवा इति
वादरायणेन सिद्धान्तितं तथापि तेषां
देहावयवत्वेनैवापण्डितपामरमनुभवादवयववद्देहसंयुक्तत्वाच्च
तदवयववज्जडत्वमेवेत्याशयः ॥ १९ ॥

प्रेर्यते मनसा यस्माद्यष्ट्येव भुवि लोष्टकः ।
मनश्चैवं जडं मन्ये सङ्कल्पात्मकशक्ति [कथं नैर्निमित्तैरिति
पाठः ।] यत् ॥ २० ॥

मन-आदेरपि जडदेहादिप्रेरकत्वात्तत्संयोगयोग्यद्रव्यतया यष्ट्यादिवज्जडत्वं
सिद्धमित्याह-प्रेर्यत इत्यादिना ॥ २० ॥

क्षेपणैरिव पाषाणः प्रेर्यते बुद्धिनिश्चयैः
बुद्धिर्निश्चयरूपैवं जडा सत्तैव निश्चयः ॥ २१ ॥

जडा सत्ता जाड्यस्वभावैवेति निश्चयः । क्षेपणै रज्जुयन्त्रैः ॥ २१ ॥

खातेनेव सरिन्नूनं साऽहङ्कारेण वाह्यते ।
अहङ्कारोऽपि निःसारो जड एव शवात्मकः ॥ २२ ॥

खातेन वप्रद्वयान्तरालिकनिम्नदेशेन । सा बुद्धिर्वाह्यते प्रेर्यते ॥ २२ ॥

जीवेन जन्यते यक्षो बालेनेव भ्रमात्मकः ।
जीवश्च चेतनाकाशो वातात्मा हृदये स्थितः ॥ २३ ॥

जीवेन प्राणावच्छिन्नचिदाभासेन जन्यते अध्यस्यते । तथा च
यक्षदेहवत्तस्याध्यस्तत्वादेव जडत्वमित्यर्थः । वातात्मा प्राणोपाधिः ॥ २३ ॥

सुकुमारोऽन्तरन्येन केनापि परिजीवति ।
अहो नु ज्ञातमेतेन चेत्योल्लेखकलङ्किना ॥ २४ ॥

अन्तरन्येन स्वान्तर्यामिबिम्बचैतन्येन परिपूर्णो जीवति । चेत्योल्लेखः साक्षिभावेन
विषयप्रकाशनं तेन कलङ्किना दूषितप्रायेण ॥ २४ ॥

जीवो जीवति जीर्णेन चिद्रूपेणात्मरूपिणा ।
चेत्यभ्रमवता जीवश्चिद्रूपेणैव जीवति ॥ २५ ॥

जीर्णेन चिरन्तनेन ॥ २५ ॥

आमोदः पवनेनेव खातेनेव सरिद्रयः ।
असत्यजडचेत्यांशचयनाच्चिद्वपुर्जडम् ॥ २६ ॥

चेत्योल्लेखकलङ्किनेति तत्रोपपत्तिमाह-असत्येति ।
चयनात्तादात्म्यसंसर्गाध्यासाच्चिद्वपुश्चित्स्वभावमपि तज्जडमिव
सम्पन्नमित्यर्थः ॥ २६ ॥

महाजलगतो ह्यग्निरिव रूपं स्वमुज्झति ।
सद्वासद्वा यदाभाति चित्समाधौ सति स्वतः ॥ २७ ॥

महाजलं तप्तजलं सामुद्रं वा तद्गतोऽग्निरिव स्वं भास्वररूपमुज्झति मुञ्चति ।
अत एव सत्तांशे चिद्वैलक्षण्यमिव लब्धा घटः सन्पटः सन्निति सत्ता
घटपटाद्यचिदाकारसमरसानुभूयते । घटाद्याकारस्य मृदादौ लये घटो
नास्ति पटो नास्तीति सत्ताकारमप्युज्झन्ती अभावतामप्यापद्यत इति भावः । चित्समाधौ
चेत्यैकाग्र्ये सद्रूपमसद्रूपं वा यदेव वासनोपनीतं स्वत आभाति तदेव
क्षणादलं पूर्ण स्वरूपमुत्सृज्य तत्क्षणात्स्वयं भवतीति परेणान्वयः ॥ २७ ॥

स्वरूपमलमुत्सृज्य तदेव भवति क्षणात् ।
एवं चिद्रूपमप्येतच्चेत्योन्मुखतया स्वयम् ॥ २८ ॥

एवमुक्तरीत्या परमार्थतश्चिद्रूपमपि अविद्यावरणादध्यासपरम्परया जडं
शून्यमसत्कल्पं च सम्पन्नं जगद्रूपं बुद्धावनावृतस्वभावेन
चैतन्येनैव तत्तदाकारवृत्तिव्याप्त्या मूलविद्यावरणभङ्गद्वारा प्रबोध्यत इति
परेणान्वयः ॥ २८ ॥

जडं शून्यमसत्कल्पं चैतन्येन प्रबोध्यते ।
इति सञ्चिन्त्य चूडाला केनैषा चित्प्रचेतनी ॥ २९ ॥

तर्हि मूलाविद्यावरणभङ्गेनैषा ब्रह्मचित्केनोपायेन दृश्यस्वप्नं विहाय
प्रबोधवती स्यादिति चिन्तितवतीत्याह-इतीति ॥ २९ ॥

इति सञ्चिन्तयामास चिरायेत्थं व्यबुध्यत ।
अहो नु चिरकालेन ज्ञातं ज्ञेयमनामयम् ॥ ३० ॥

इत्थं वर्ण्यमानप्रकारेण व्यबुध्यत । आत्मतत्त्वमित्यर्थः ॥ ३० ॥

यद्वै विज्ञेयतां कृत्वा न कश्चिद्धीयते पुनः ।
एते हि चिद्विलासान्ता मनोबुद्धीन्द्रियादयः ॥ ३१ ॥

कश्चिदपि पुरुषो न हीयते परमपुरुषार्थात्प्रच्युतो न भवतीत्यर्थः । अथवा
कश्चिदपि काम्योऽर्थो न हीयते न हानिं प्राप्यते । तत्प्राप्त्यैव
सर्वकामावाप्तेरित्यर्थः । अथवा किञ्चिद्वस्तु दुःखसाधनमिति बुद्ध्या न हीयते न
त्यज्यते । सर्वस्याप्यानन्दैकरसत्त्वसम्पत्तेरित्यर्थः ।
हानासम्भवोक्तिरुपादानस्याप्युपलक्षणम् । चिद्विलासस्य अन्ताः परिच्छेदहेतवः ॥ ३१

असन्तः सर्व एवाहो द्वितीयेन्दुपदस्थिताः ।
महाचिदेकैवास्तीह महासत्तेति योच्यते ॥ ३२ ॥

द्वितीयस्य तैमिरिकदृष्टिपरिकल्पितस्येन्दोः पदे स्थाने स्थिताः । भ्रान्तिकल्पिता इति यावत्
॥ ३२ ॥

निष्कलङ्का समा शुद्धा निरहङ्काररूपिणी ।
शुद्धसंवेदनाकारा शिवं सन्मात्रमच्युतम् ॥ ३३ ॥

शुद्धं संवेदनमेव आकारः स्वरूपं यस्याः । शिवं
भूमानन्दरूपत्वात्परममङ्गलं तादृशस्वभावात्कदाप्यप्रच्युतमित्यच्युतम्
॥ ३३ ॥

सकृद्विभाता विमला नित्योदयवती सदा ।
सा ब्रह्मपरमात्मादिनामभिः परिगीयते ॥ ३४ ॥

सकृन्मूलाविद्यावरणभङ्गेण विभाता न पुनः केनाप्याव्रियत इति सकृद्विभाता
। अत एव नित्योदयवती परिगीयते वेदान्ताद्मध्यात्मशास्त्रेषु लक्षणया ॥ ३४ ॥

चेत्यचेतनचित्तादि नास्या भिन्नं न मानतः ।
तयैषा चेत्यते चिच्छ्रीः सैषाद्या चिदिति स्मृता ॥ ३५ ॥

चेत्यादित्रिपुटीजालमस्याः सकाशाद्भिन्नं वस्तु न । यत एषा त्रिपुटी तया साक्षिभूतया
चेत्यते न तु मानतः सिद्धा सैषा साक्षिचित् त्रिपुटी प्रवृत्तेः प्रागेव
स्वतःसिद्धत्वादाद्या ॥ ३५ ॥

अचेत्यं यदिदं चित्त्वं तत्तस्या रूपमक्षतम् ।
मनोबुद्धीन्द्रियाद्यर्थरूपैः सैव विजृम्भते ॥ ३६ ॥

विजृम्भते विवर्तते ॥ ३६ ॥

तरङ्गकणकल्लोलकलनेयं चिदात्मनि ।
जगद्रूपपदार्थानां सत्ता स्फुरति मातरि ॥ ३७ ॥

मनोबुद्ध्यादिविवर्तैश्चिदात्मनि मातरि प्रमातृभावापन्ने सति तत्र
तरङ्गादिकलनाप्राया जगद्रूपभूतभौतिकपदार्थानां सत्त्वा अस्तिता स्फुरति ॥ ३७ ॥

यदिदं तत्परं रूपं तस्याः खलु महाचितेः ।
शुद्धचिन्मणिवत्सा हि सेयं समसमोदिता ॥ ३८ ॥

यदिदं जगत्सत्तारूपं प्रसिद्धं तत्तस्या अधिष्ठानभूताया महाचितेरेव परं
रूपं रूपान्तरम् । खलु शब्दो द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च
इत्यादिश्रौतप्रसिद्धिद्योतनार्थः । यतः सा हि
चित्स्फटिकमणिवज्जगत्प्रतिबिम्बमसङ्गैव धत्ते । सेयं जगत्सत्ता च व्यावहारिकेषु
प्रातिभासिकेषु च समसमा स्वस्वाधिष्ठानानुसारिणी उदिता ॥ ३८ ॥

अनन्ययैव या शक्त्या जगज्जृम्भिकया स्थिता ।
सत्ता मायातिरेकेण नान्या सम्भवतीह हि ॥ ३९ ॥

अत एव जगत्सत्ताया अधिष्ठानसत्तान्यत्वनिरूपणायोगान्मायामात्रत्वमित्याह##-

विचित्रतेव भाण्डानां ननु हेमतया यथा ।
सा तथोदेति तद्रूपमात्मानं चेतति स्वयम् ॥ ४० ॥

अत एव नामरूपविशेषप्रलये जगत्सत्ता मायाशबलब्रह्मसत्तात्मनैव परिशिष्यते ।
मायाबाधे तु आनन्दैकरससन्मात्ररूपमात्मानं स्वयमनुभवतीत्याह##-
हेमसत्तात्मनैवोदेति तथेत्यर्थः ॥ ४० ॥

स्वचित्तेन द्रवत्वेन तरङ्गादित्वमम्बुषु ।
महाचितौ जगच्चित्तादुदेतीवानुदेत्यपि ॥ ४१ ॥

सत्तायां दर्शितन्यायेनैव जगद्वैचित्र्यस्फुरणरूपचिद्भेदानामपि विषयाकारभेदे
मिथ्यात्वपर्यालोचने अपरिच्छिन्नपरब्रह्मचिन्मात्रता पर्यवस्यतीत्याशयेनाह##-
सिद्धेषु समुद्राद्यम्बुषु तरङ्गादि अनुद्यदप्युदेतीव तथा महाचितौ ब्रह्मण्यपि
समष्टिचित्ताज्जगदनुद्यदप्युदेतीत्यर्थः । अनुदेतीति नञस्तिङन्तेन सहेति
योगविभागात्समासश्छान्दसो वा ॥ ४१ ॥

तदात्मैव यथा यातो रूपवान् जलधौ द्रवात् ।
एवं चिन्मात्रमेवाहमनहम्भावमाततम् ॥ ४२ ॥

अस्त्वेवं किं ततस्तत्राह-तदिति । तत्तत्र स्वप्ने चिद्रूप आत्मैव चित्तकल्पितजलरूपेण
रूपवान् संस्तरङ्गादिद्रव्यभेदान्यथा यातस्तत्रात्मव्यतिरिक्तं नाणुमात्रमपि
किञ्चिदस्ति । एवं चिन्मात्रमेवाहं जगद्भानविशेषभेदैः सम्पन्नो न
परमार्थतः पूर्णचिदात्मनो मत्तो
व्यतिरिक्तमणुमात्रमप्यस्तीत्यहम्भावस्याप्यपरिशेषादनहम्भावं
चिन्मात्रमेवाततं विस्तीर्णमित्यर्थः ॥ ४२ ॥

न तस्य जन्ममरणे न तस्य सदसद्गती ।
न नाशः सम्भवत्यस्य चिन्मात्रनभसः क्वचित् ॥ ४३ ॥

मरणं देहवियोगो नाशो ध्वम्स इति भेदः । सदसद्गती स्वर्गनरकौ ॥ ४३ ॥

अच्छेद्योऽयमदाह्योऽयं चिदादित्योऽतिनिर्मलः ।
आहो नु चिरकालेन शान्तास्मि परिनिर्वृता ॥ ४४ ॥

तत्र प्रस्तुतविचारस्यावधौ विश्रान्तिं दर्शयति-अच्छेद्य इति ॥ ४४ ॥

निर्वामि भ्रमनिर्मुक्तमासे निर्मन्दराब्धिवत् ।
असदाभासमत्यच्छमनन्तमजमच्युतम् ॥ ४५ ॥

आसे तासस्त्योः इति सलोपः । असन् दृश्याभासो यस्मिन् ॥ ४५ ॥

आत्माकाशमनावाधममलं परमं चिरम् ।
अनन्तमिदमाकाशं फलौघाश्चाफलादिकाः ॥ ४६ ॥

चिरं कालिकपरिच्छेदरहितम् । अनन्तं देशवस्तुकृतपरिच्छेदरहितम् ।
ब्रह्मादिस्तम्बपर्यन्तप्राणिकर्मफलौघाश्चकारात्तत्साधनव्यापाराः अफलादिका
निष्फलसाधना वृथा चेष्टाश्च इदमाकाशमेव नान्यत् ॥ ४६ ॥

सुरासुरयुतं विश्वमेतन्मयमकृत्रिमम् ।
पुंस्त्वकर्ममयी सेना सर्वं मृन्मात्रकं यथा ॥ ४७ ॥

पुंस्त्वं कुलालादिपुरुषजातिस्तत्कर्ममयी तन्निर्मिता । अथवा पुंस्त्वं प्रतिमायां
कल्पिता पुरुषजातिः कर्म तदनुरूपचलनादि तन्मयी तत्प्रचुरा बालनिर्मितमृत्सेना ॥
४७ ॥

द्रष्ट्टदृश्यमयी सत्ता चिन्मात्रैक्यमयी तथा ।
इदमैक्यमिदं द्वित्वमहं नाहमितीति च ॥ ४८ ॥

क इव भ्रमसम्मोहः कथं कस्य कुतः क्व वा ।
स्वमनन्तमनायासमुपशान्तास्मि संस्थिता ॥ ४९ ॥

किंवृत्तचतुष्टयं प्रकारभोक्तृनिमित्ताधिकरणसम्भावनाप्रतिषेधार्थम् ।
स्वं पारमार्थिकं रूपं प्राप्येति शेषः ॥ ४९ ॥

निर्वाणपरिनिर्वाणा गतमासे गतज्वरम् ।
अचेतनं चेतनं वा योऽयमाभाति चेतति ॥ ५० ॥

निर्वाणे मोक्षसुखे परितो निर्वाणा निर्वृता । गतभवज्वरं गतं
कण्ठचामीकरवत्प्राप्तं स्वरूपमेवाहमासे । यदचेतनं चेतनं वा आभाति ।
योऽयं तद्भोक्ता चेतति तदुभयं भासमानात्माभिन्नं यद्ब्रह्म तद्रूपं ख
चिदाकाशमेवेति परेणान्वयः ॥ ५० ॥

भासमानात्म तद्रूपं खं महाचिति संस्थितम् ।
नेदं नाहं न चान्यच्च न भावाभावसम्भवः ।
शान्तं सर्वं निरालम्बं केवलं संस्थितं परम् ॥ ५१ ॥

किं इदन्ताहन्तान्यत्तादिजगत्स्वभावमत्यक्त्वैव ब्रह्म नेत्याह-नेदमिति ॥ ५१ ॥

इत्थंविचारणपरा परमप्रबोधाद्बुद्ध्वा यथास्थितमिदं परमात्मतत्त्वम्

संशान्तरागभयमोहतमोविलासा शान्ता बभूव शरदम्बरलेखिकेव ॥ ५२ ॥

उक्तमेव सङ्क्षिप्योपसंहरति-इत्थमिति ।
परमप्रबोधादात्यन्तिकमोहनिद्रापगमात् संशान्ता रागादयस्तमोविलासा
अवस्थात्रयस्वप्ना यस्याः ॥ ५२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पूर्वार्धे
चूडालाप्रबोधो नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चूडालाप्रबोधो नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥