सप्तसप्ततितमः सर्गः ७७
श्रीवसिष्ठ उवाच ।
एतामवष्टभ्य दृशं भगीरथधिया धृताम् ।
समः स्वस्थो यथाप्राप्तं कार्यमाहर शान्तधीः ॥ १ ॥
चूडालाख्यानमुक्तार्थद्रढिम्नेत्रावतार्यते ।
शिखिध्वजस्य माहात्म्यं विवाहक्रीडनक्रमाः ॥
भगीरथेन पश्चाद्राज्यकाले धिया धृताम् ॥ १ ॥
इदं पूर्वं परित्यज्य क्रोडीकृत्य मनःखगम् ।
शान्तमात्मनि तिष्ठ त्वं शिखिध्वज इवाचलः ॥ २ ॥
इदं विभवजातं परित्यज्य । मनःखगं क्रोडीकृत्य हृदि निरुद्ध्य ॥ २ ॥
श्रीराम उवाच ।
कोऽसौ शिखिध्वजो नाम कथं वा लब्धवान्पदम् ।
एतन्मे कथय ब्रह्मन्भूयो बोधविवृद्धये ॥ ३ ॥
श्रीवसिष्ठ उवाच ।
द्वापरे भवतां पूर्वमिदानीं च भविष्यतः ।
तेनैव सन्निवेशेन दम्पती स्निग्धतां गतौ ॥ ४ ॥
दम्पती जायापती पूर्वकल्पे द्वापरे अभूताम् । इदानीमष्टाविंशे
चतुर्युगेऽग्रिमद्वापरे तेनैव सन्निवेशेन भविष्यतः ॥ ४ ॥
श्रीराम उवाच ।
यत्पूर्वमासीद्भगवंस्तदिदानीं तथैव हि ।
भविष्यति किमर्थं वै वद मे वदतां वर ॥ ५ ॥
भूतभविष्यतोः सादृश्ये को हेतुरिति रामप्रश्नार्थः ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
जगन्निर्माणनियतेरस्या ब्रह्मादिसंविदः ।
ईदृश्यवस्थितिर्नित्यमनिवार्यस्वभावजा ॥ ६ ॥
जगन्निर्माणे नियतिरूपाया ब्रह्मादीनां सत्यसङ्कल्पसंविदः । अनिवार्यस्वभाव एव
तद्धेतुरित्यर्थः ॥ ६ ॥
यदन्यद्बहुशो भूत्वा पुनर्भवति भूरिशः ।
अभूत्वैव भवत्यन्यः पुनश्च न भवत्यलम् ॥ ७ ॥
ईदृशीत्युक्तं प्रपञ्चयति-यदिति । यथा एकस्मिन्नाम्रतरौ अन्यदन्यत्फलं
बहुशो भूत्वा पुनः पुनस्तादृशमेव भूरिशो भवति । स्कन्धवटस्तु अभूत्वैव
भवति स च छिन्नः पुनस्तस्मिन्न भवति ॥ ७ ॥
अन्यत्प्राक्सन्निवेशाढ्यं सादृश्येन विवल्गति ।
सदृशा विषमाश्चैव यथा सरसि वीचयः ॥ ८ ॥
ता एवान्याश्च दृश्यन्ते व्यवस्थाः संसृतौ तथा ।
तस्माद्राजेव भूयोऽपि वक्ष्यमाणकथेश्वरः ॥ ९ ॥
संसृतौ शिखिध्वजादिसंसारेऽपि तथेत्यर्थः । राजा अतीतशिखिध्वज इव
वक्ष्यमाणकथायां वर्ण्यत्वेन ईश्वरो नायकः ॥ ९ ॥
भविष्यति महातेजास्तद्वृत्तान्तमिमं शृणु ।
द्वापरे पूर्वमभवदतीते सप्तमे मनौ ॥ १० ॥
चतुर्युगे चतुर्थे तु सर्गेऽस्मिन्कुरुणां कुले ।
जम्बूद्वीपे प्रसिद्धस्य विन्ध्यस्यादूरसंस्थिते ॥ ११ ॥
कुरुणां कुरुदेशाधिपतीनां कुर्वपत्यानां च कुले वंशे । तद्राजप्रत्ययस्य
बहुषु लुक् । नामि दीर्घाभावश्छान्दसः ॥ ११ ॥
मालवानां पुरे श्रीमाञ्छिखिध्वज इतीश्वरः ।
धैर्यौदार्यदशायुक्तः क्षमाशमदमान्वितः ॥ १२ ॥
मालवानां पुरे उज्जयिन्यामिति यावत् ॥ १२ ॥
शूरः शुभसमाचारो मौनी गुणगणाकरः ।
आहर्ता सर्वयज्ञानां जेता सर्वधनुष्मताम् ॥ १३ ॥
कर्ता सकलकार्याणां भर्ता पूर्ववपुर्भुवः ।
पेशलस्निग्धमधुरो विदग्धः प्रीतिसागरः ॥ १४ ॥
सकलानां वापीकूपतडागारामादिकार्याणाम् । विदग्धो लोकशास्त्रनिष्णातः ॥ १४ ॥
सुन्दरः शान्तसुभगः प्रतापी धर्मवत्सलः ।
वदिता विनयार्थानां दाता सकलसम्पदाम् ॥ १५ ॥
शान्तश्चासौ सुभगः सौभाग्यलक्षणयुक्तश्च विनयार्थानां परेषामपि
विनयशिक्षाहेतूनां वाक्यानां वदिता वक्ता ॥ १५ ॥
भोक्ता सत्सङ्गसहितः सुश्रोता सकलश्रुतेः ।
वेदासौ माननाशून्यः स्त्रैणं तृणवदस्पृशन् ॥ १६ ॥
सर्वं वेद जानाति तथापि मानना अभिज्ञताभिमानस्तच्छून्यः । स्त्रैणं
स्त्रीव्यसनादि ॥ १६ ॥
पितरि स्वर्गमापन्ने बाल एवोत्तमौजसा ।
कृत्वा षोडशवर्षाणि स्वयन्न् दिग्विजयं वशी ॥ १७ ॥
उत्तमेन ओजसा स्वबाहुवीर्येण । अनेन पिता माण्डलिक एवासीदसौ स्वबाहुवीर्येणैव
सम्राट् सम्पन्न इति गम्यते ॥ १७ ॥
नूनं साम्राज्यसम्पत्त्या भूमण्डलमयोजयत् ।
अतिष्ठद्विगताशङ्कं पालयन्धर्मतः प्रजाः ॥ १८ ॥
साम्राज्यप्रयुक्तया सम्पत्त्या । तदा हि क्वापि दस्यूनामभावात्प्रजानां धनं
वर्धत इति विगतजेतव्यशत्रुसद्भावाशङ्कम् ॥ १८ ॥
स धीमान्मन्त्रिभिः सार्धं यशसा शुक्लयन्दिशः ।
अथ गच्छत्सु वर्षेषु वसन्ते प्रोल्लसत्यलम् ॥ १९ ॥
वर्षेषु गच्छत्सु । यौवने प्राप्ते सतीति यावत् । अथास्य चेतः कान्तां प्रति समुत्सुकं
बभूवेति पञ्चमेन सम्बन्धः ॥ १९ ॥
पुष्पेषु जृम्भमाणेषु स्फुरत्सु शशिरश्मिषु ।
मञ्जरीजालदोलासु विटपान्तःपुरान्तरे ॥ २० ॥
विटपः शाखा तल्लक्षणे अन्तःपुरान्तरे मञ्जरीजालदोलासु अलिनां मिथुनेषु
गायत्स्विति व्यवहितेनान्वयः ॥ २० ॥
रजःकर्पूरधवले वलद्दलकपाटके ।
आमोदविलसत्पुष्पगुलुच्छकवितानके ॥ २१ ॥
तदेवान्तःपुरं तत्सामग्रीकल्पनेन वर्णयति-रज इति ॥ २१ ॥
गायत्सु गहनेषूच्चैर्मिथुनेष्वलिनां मिथः ।
आवाति मधुरे वायौ शशिशीकरशीतले ॥ २२ ॥
शशिना शीकरैश्च शीतले ॥ २२ ॥
कदलीकन्दलीकच्छतलपल्लवलासिनि ।
कान्तां प्रति बभूवास्य वसच्चेतः समुत्सुकम् ॥ २३ ॥
कदली प्रसिद्धा । कन्दल्यो गुल्मभेदास्तेषां कच्छप्रायेषु तलेषु पल्लवेषु च लासिनि
लास्य शीले इति शैत्यमान्द्योपपादकं वायोर्विशेषणम् । वसदित्युक्त्या पूर्वमेव
गुणसौन्दर्यादिश्रवणाच्चूडालायामनुरक्तमिति गम्यते ॥ २३ ॥
क्षीबं कुसुमसम्भारसौगन्ध्यमधुरासवैः ।
मनो नान्यास्पदं चक्रे सवसन्तमिवोदितम् ॥ २४ ॥
कुसुमसम्भाराणां सौगन्ध्यलक्षणैर्मधुरैरासवैः क्षीबं मत्तं सत्
सवसन्तं वनमिव उदितं रागपल्लवितं मनः अन्यास्पदं
कान्तातिरिक्तविषयावलम्बनं न चक्रे ॥ २४ ॥
उद्यानवनदोलासु लीलाकमलिनीषु च ।
कदा प्रणयिनीं मुग्धां हेमाब्जमुकुलस्तनीम् ॥ २५ ॥
तदौत्सुक्यप्रकारं प्रपञ्चयति-उद्यानेत्यादिना ॥ २५ ॥
करिष्ये कामिनीमङ्के पर्यङ्के कुङ्कुमाङ्किताम् ।
कदा कमलवल्लीनां दोलास्वलिरिवालिनीम् ॥ २६ ॥
आलोलां तां निवेक्ष्यामि बालां भुजलतानुगाम् ।
मृणालहारकुन्देन्दुवृन्दवल्ल्यभिलाषिणी ॥ २७ ॥
निवेक्ष्यामि परिणेष्यामि । ममेव तस्या अपि स्वाभिलाषप्रयुक्तसन्तापः कदा स्याद्येन
शीघ्रं घटना स्यादित्याशयेनाह-मृणालेति । वृन्दवल्ल्यः
पुष्पितलतागृहात्मना वृन्दीभूता वल्ल्यस्तदभिलाषिणी ॥ २७ ॥
मत्कृते मदनातप्ता कदा स्यादिन्दुसुन्दरी ।
इति चिन्तापरो भूत्वा कुसुमावचयोन्मुखः ॥ २८ ॥
विजहार वनान्तेषु कुसुमोपवनेषु च ।
वनोपवनलेखासु लीलाकमलिनीषु च ॥ २९ ॥
वल्लीवलयगेहेषु विविधोद्यानभूमिषु ।
वनोपवनविन्यासवर्णनावलितासु च ॥ ३० ॥
वनानामुपवनानां च गुणानुवर्णने आवलितासु कथासु चारमतेति सप्तमीनां
सम्बन्धः ॥ ३० ॥
शृङ्गाररसगर्भासु कथास्वरमतोन्मनाः ।
हृदि हारलसत्कायविलोलालकवल्लरीः ॥ ३१ ॥
कुमारीः पूजयामास सुवर्णकलशस्तनीः ।
एतन्मन्ये विदुर्भव्या मन्त्रिणो नृपनिश्चयम् ॥ ३२ ॥
कुमारीः हृदि पूजयामास बहुमेने साङ्कल्पिकभूषणैरलञ्चक्रे वा । मन्ये
इत्यव्ययं वितर्के । वितर्कवचनं वसिष्ठस्य वाक्यालङ्कारार्थम् ॥ ३२ ॥
इङ्गिताकारवेदित्वमेव मन्त्रिपदं परम् ।
अथ तस्य विवाहाय मन्त्रिवर्गो विचारयन् ॥ ३३ ॥
मन्त्रिणां पदं लक्षणम् । परस्परानुरागगुणशीलकुलादिसम्पत्तिं विचारयन् ॥ ३३ ॥
सुराष्ट्राधिपतेः कन्यां ययाचे यौवतान्विताम् ।
नवयौवनसम्पन्नां भार्यात्वे विधिनोत्तमाम् ॥ ३४ ॥
युवतीनां समूहो यौवतम् । भस्याढे तद्धिते इति पुंवद्भावः । तेनान्विताम् । नवेन
यौवनेन वयसा च सम्पन्नाम् ॥ ३४ ॥
उपयेमे स तामात्मसदृशीं प्रतिमामिव ।
चूडालेति भुवि ख्याता नाम्ना नृपतिसुन्दरी ॥ ३५ ॥
प्रतिमां प्रतिच्छायामिव सदृशीमनुरूपाम् ॥ ३५ ॥
सा तं भर्तारमासाद्य रेजे फुल्लेव पद्मिनी ।
नीलनीरजनेत्रां तां चूडालां स शिखिध्वजः ॥ ३६ ॥
स्नेहाद्विकासयामास सूर्यो देवो यथाब्जिनीम् ।
अवर्धत तयोः प्रीतिरन्योन्यार्पितचेतसोः ॥ ३७ ॥
विकासयामास प्रसादयामास ॥ ३७ ॥
हावभावविलासाढ्यैरङ्गैर्नवलतेव सा ।
सुमन्त्र्यर्पितसर्वार्थः स सुखी सुस्थितप्रजाः ॥ ३८ ॥
हावभावादयः शृङ्गारचेष्टाभेदास्तदाढ्यैरङ्गैर्नवलतेव सा शुशुभे इति
शेषः । शोभनै राजचित्तानुवर्तिभिरनुरक्तैर्मन्त्रिभिरर्पिताः सर्वे उपभोग्यार्था
यस्मै । अथवा शोभनैर्धार्मिकैर्मन्त्रिभिः सर्वेभ्योऽर्थिभ्यः अर्पिताः सर्वे
अभिलषितार्था यस्य । अत एव सुस्थितप्रजास्तत्पालनविक्षेपरहितः सन् रेमे ॥ ३८ ॥
राजहम्स इवाब्जिन्या रेमे दयितया तया ।
अन्तःपुरेषु दोलासु लीलाकमलिनीषु च ॥ ३९ ॥
उद्यानेषु विहारेषु लतापुष्पग्रहेषु च ।
कदम्बवनलेखासु चन्दनागुरुवीथिषु ॥ ४० ॥
चन्दनागुरु सुगन्धितासु वीथिषु चन्दनागुरुवृक्षाणां पङ्क्तिषु च ॥ ४० ॥
मन्दारदामलोलासु कदलीकन्दलीषु च ।
पुरान्तेषु वनान्तेषु दिगन्तेषु सरस्सु च ॥ ४१ ॥
जङ्गलेषु जनान्तेषु जम्बूजम्बीरजातिषु ।
बभूवाह्लादकं सर्वं तयोरन्योन्यचेष्टितम् ॥ ४२ ॥
सद्वर्षयोर्धुरवरैर्द्युभूम्योरिव कान्तयोः ।
नित्यमेव [नित्यमेवावियुक्तत्वात् इति पाठः ।]
वियुक्तत्वात्प्रियत्वाच्चेष्टितस्य च ॥ ४३ ॥
धुरवरैर्बलीवर्दैः कृष्टेषु क्षेत्रेषु सत् रमणीयं वर्षं
वृष्टिर्ययोस्तथाविधयोर्मेघसस्यसम्पत्कान्तयोर्द्युभूम्योरिव ॥ ४३ ॥
मिथः कलाकलापस्य कोविदौ तौ बभूवतुः ।
स्वरूपमेकमेवैतौ दधतुर्मित्रतां गतौ ॥ ४४ ॥
मिथः अन्योन्यस्माच्छिक्षणादन्योन्यसाम्यार्थित्वाच्च कोविदौ प्राज्ञतरौ अत एव
सर्वगुणसाम्म्यादनुरागेण ताद्रूप्यरञ्जनाच्च जीवैक्यमिव सम्पन्नमित्याह##-
अन्योन्यहृदयस्थत्वादिव सङ्क्रान्तमक्षतम् ।
सर्वशास्त्रार्थवैदग्ध्यं चित्राद्यपि मुखात्प्रभोः ॥ ४५ ॥
अन्योन्यहृदयस्थत्वाद्देहद्वयसङ्क्रान्तमेकमेव जीवस्वरूपम् ।
चित्रादिशिल्पवैदग्ध्यमपि तत्तच्छिल्पकुशलानां मुखादागृह्य अभ्यस्य ॥ ४५ ॥
बालः कालादिवागृह्य साऽसीत्सर्वार्थपण्डिता ।
नृत्यवाद्यादि यावच्च चूडालावदनादसौ ॥ ४६ ॥
यथा बालो बटुः द्वादशवर्ष वेदब्रह्मचर्यमिति शास्त्रनियतकालाद्वेदविद्यां
गृह्णाति तद्वत् । सा चूडाला । असौ शिखिध्वजः ॥ ४६ ॥
अशिक्षत बभूवाथ कलानामतिकोविदः ।
अमावास्यामिवेन्द्वर्कावन्योन्यविलसत्कलौ ॥ ४७ ॥
अमावास्यां प्राप्येति शेषः । इन्द्वर्काविव मिथो हृदयसंस्थौ सन्तौ
ऐक्यमुपागतौ ॥ ४७ ॥
मिथो हृदयसंस्थौ तौ द्वावप्यैक्यमुपागतौ ।
तौ संस्थितावेकरसावन्योन्यं दयितावुभौ ॥ ४८ ॥
मिश्रितक्षीरोदकवदेकरसौ ॥ ४८ ॥
पुष्पामोदाविवाभिन्नौ भूतलस्थौ शिवाविव ।
वैदग्ध्यसुन्दरमती सर्वशास्त्रार्थपण्डितौ ॥ ४९ ॥
भूतलस्थौ भूमाववतीर्णौ शिवौ गौरीशङ्कराविव ॥ ४९ ॥
कार्यार्थं च भुवं प्राप्तौ कमलाकमलाधवौ ।
स्नेहात्प्रसन्नमधुरौ समविज्ञातवादिनौ ॥ ५० ॥
सह प्रत्येकं वा पुष्टं सन्देहपदं लोकशास्त्ररहस्यं समं तुल्यकालं
तुल्यविषयं च विज्ञातं वक्तुं शीलं ययोस्तौ ॥ ५० ॥
अनुवृत्तिपरावास्तां लोकवृत्तान्ततद्विदौ ।
कलाकलापसम्पन्नौ लसद्रसरसायनौ ।
शीतलस्निग्धमुग्धाङ्गौ शशाङ्कौ द्वाविवोदितौ ॥ ५१ ॥
परस्परगुरुद्विजाभिज्ञादीनां चानुवृत्तिः प्रियहितविनयाद्याचारस्तत्परौ ।
लोकवृत्तान्तस्य तस्य शास्त्रैकगम्यधर्मरहस्यस्य च विदौ । लसन्ति
शृङ्गारादिनवरसलक्षणानि रसायनानि ययोस्तौ ॥ ५१ ॥
रेजे लसच्च रतिभोगविलासकान्तमन्तःपुरेषु मिथुनं तदनुत्तमश्रि ।
ब्रह्माण्डखण्डकुहरेष्विव राजहंसयुग्मं विकासिमदमन्मथमन्दचारि ॥
५२ ॥
ब्रह्माण्डखण्डस्य ब्रह्माण्डावयवस्य सत्यलोकस्य कुहरेषु गम्भीरसरस्सु
राजहंसयोर्युग्मं मिथुनमिव ॥ ५२ ॥
इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० निर्वाण० पू० चूडालोपाख्याने
शिखिध्वजविलासकथनं नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिखिध्वजविलासवर्णनं नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥