षट्सप्ततितमः सर्गः ७६
श्रीवसिष्ठ उवाच ।
अथैकदा पुरे श्रेष्ठे कस्मिंश्चिन्मण्डलान्तरे ।
अनपत्यं नृपं मृत्युरहन्मत्स्य इवामिषम् ॥ १ ॥
पुनर्भगीरथस्येह राज्यप्राप्तिरुदीर्यते ।
आराध्य ब्रह्मरुद्रादीन् गङ्गायाश्चावतारणम् ॥
कोसलमण्डलाद्भगीरथास्पदमण्डलाच्च मण्डलान्तरे । अहन् हतवान् । आमिषं
क्षुद्रमत्स्यादि ॥ १ ॥
तत्र प्रकृतयः खिन्ना नष्टदेशक्रमा नृपम् ।
अन्विष्यन्ति स्म संयुक्तं गुणलक्ष्म्या विशालया ॥ २ ॥
नष्टो देशस्य क्रमः पालनमर्यादा येषां तथाविधाः सन्तः पालनसमर्थया
गुणलक्ष्म्या संयुक्तं नृपमन्विष्यन्ति स्म ॥ २ ॥
तं भगीरथमासाद्य स्थिरं भिक्षाचरं मुनिम् ।
परिज्ञाय समानीय सैन्ये चक्रुर्महीपतिम् ॥ ३ ॥
सर्वगुणलक्ष्मीसमन्वितोऽयमिति परिज्ञाय प्रत्यभिज्ञाय तत्रागते सैन्येऽभिषिच्य
महीपतिं चक्रुः ॥ ३ ॥
भगीरथः क्षणेनैव प्रावृषीवाम्बुना सरः ।
वलितः सेनया गुर्व्या झटित्याशिश्रिये गजम् ॥ ४ ॥
झटिति गजं आशिश्रिये आरुरोह ॥ ४ ॥
भगीरथो जगन्नाथो जयतीति जनारवैः ।
नीरन्ध्रतामुपाजग्मुर्गिरीन्द्राणां महागुहाः ॥ ५ ॥
नीरन्ध्रतां पूर्णताम् ॥ ५ ॥
तत्र तं पालयन्तं तद्राज्यं राजानमादृताः ।
आजग्मुः प्राक्प्रकृतयः प्राहुरित्थं नृपाधिपम् ॥ ६ ॥
तस्मिन्नेव काले दैवात्कोसलराज्यहारिणोऽपि मरणादयोध्यास्था अपि प्रकृतयो
भगीरथमागत्यप्रार्थयामासुरित्याह-तत्रेति । भगीरथस्यैव प्राक्तना
मन्त्रिपुरोहितादिप्रकृतयः ॥ ६ ॥
प्रकृतय ऊचुः ।
राजन्नस्माकमधिपो यस्त्वया स पुरस्कृतः ।
मृत्युना विनिगीर्णोऽसौ मत्स्येनेवामिषं मृदु ॥ ७ ॥
राज्यं त्यजता त्वया यः सीमान्तवासी अरिः राज्यदानेन पुरस्कृतः असौ ॥ ७ ॥
तत्तत्पालयितुं राज्यं प्रसादं कर्तुमर्हसि ।
अप्रार्थितोपयातानां त्यागोऽर्थानां च नोचितः ॥ ८ ॥
तत्तस्माद्धेतोस्तत्प्राक्तनं राज्यम् ॥ ८ ॥
श्रीवसिष्ठ उवाच ।
इति सम्प्रार्थितो राजा तदङ्गीकृत्य तद्वचः ।
सप्तसागरचिह्नायाः स बभूव भुवः पतिः ॥ ९ ॥
समः शान्तमना मौनी वीतरागो विमत्सरः ।
प्राप्तकार्यैककरणः स तिरोहित विस्मयः ॥ १० ॥
मौनी मितहितसत्यवाक् । तिरोहितस्तत्त्वज्ञानेन बाधितो विस्मयो महत्यपि कौतुके
आश्चर्यताबुद्धिर्यस्य ॥ १० ॥
पातालतलनष्टानां सागराकारकारिणाम् ।
पितामहानां गङ्गाम्बु शुश्रुवे तारणक्षमम् ॥ ११ ॥
अश्वान्वेषणाय भूमेः खननात्सागराकारं गर्तं कर्तुं शीलं येषाम् ।
कपिलक्रोधाग्निना पातालतले नष्टानां भस्मीभूतानां स्वपितामहानां
गङ्गाम्बु प्लावनेन जलाञ्जलिदानेन च तारणक्षमं न प्राकृतं जलमिति
तार्क्ष्यवचनं जनपरम्परया तेन शुश्रुवे इत्यर्थः ॥ ११ ॥
तदा किल स्वर्गनदी वहति स्म न भूतले ।
पितॄणां भूतविख्योऽभूत्तेन गङ्गाजलाञ्जलिः ॥ १२ ॥
तदानीं भूतले गङ्गा स्थितैव तत्रैव जलाञ्जलिः कुतो न दत्त इत्याशङ्क्त्याह##-
विख्या प्रख्यातिर्यस्य तथाविधोऽभूदित्यर्थः ॥ १२ ॥
भगीरथेन च महीमवतारयितुं दिवः ।
गङ्गां गृहीतो नियमस्ततःप्रभृति भूभृता ॥ १३ ॥
ततस्तच्छ्रवणदिनात्प्रभृति ॥ १३ ॥
ततो राज्यं परित्यज्य मन्त्रिणां भूपतिः शमी ।
तपसे कार्यकार्येहो जगाम विजनं वनम् ॥ १४ ॥
गङ्गावतरणकार्यार्थं यत्तप-आदि कार्यं तदर्था ईहा चेष्टा यस्य ॥ १४ ॥
तत्र वर्षसहस्रैश्च समाराध्य पुनः पुनः ।
ब्रह्माणं शङ्करं जह्नुं भुवि गङ्गामयोजयत् ॥ १५ ॥
अयोजयत् अवतार्य संयोजितवान् ॥ १५ ॥
ततः प्रभृत्यमलतरङ्गभङ्गिनी जगत्पतेः शशिविभृदङ्गसङ्गिनी ।
नभस्तलान्निपतति गां त्रिमार्गगा महात्मनामिव बहुपुण्यसन्ततिः ॥ १६ ॥
जगत्पतेः शशिविभृतः शिवस्याङ्गसङ्गिनी शिरसि सङ्गता ।
सापेक्षत्वादसमर्थत्वेऽपि समासश्छान्दसः । जगत्पेतेर्ब्रह्मणो वा नियोगादिति
शेषः । नभस्तलाद्गां भूमिं निपतति । महात्मनां स्वर्गिणां बह्वी
पुण्यसन्ततिरिवेत्युत्प्रेक्षा ॥ १६ ॥
स्फुरत्तरङ्गभङ्गिनी स्वफेनपुञ्जहासिनी प्रसन्नपुण्यमञ्जरीयुतेव
धर्मसन्ततिः ।
भगीरथे महीपतौ यशःप्रचारवीथिका तदा हि सा त्रिमार्गगा महीतले बभूव
॥ १७ ॥
भगीरथे महीपतौ सञ्जातस्य शाश्वतस्य यशस आसमुद्रं प्रचारार्थं वीथिका इति
रूपकोत्प्रेक्षा ॥ १७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
गङ्गावतरणं नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
गङ्गावतरणं नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥