०७५

पञ्चसप्ततितमः सर्गः ७५

श्रीवसिष्ठ उवाच ।

अथ तस्य गुरोर्वक्त्रादित्याकर्ण्य भगीरथः ।
मनस्याहितकर्तव्यः स्वव्यापारपरोऽभवत् ॥ १ ॥

मखव्याजेन सर्वस्वत्यागो राज्ञोऽत्र वर्ण्यते ।
भैक्षचर्या क्वचिच्छैले त्रितलेन समं स्थितिः ॥

मनसि आहितं निश्चितं वक्ष्यमाणं कर्तव्यं येन तथाविधः सन् ॥ १ ॥

ततः कतिपयेष्वेव वासरेषु गतेषु सः ।
अग्निष्टोममखं चक्रे सर्वत्यागैकसिद्धये ॥ २ ॥

अग्निष्टोमग्रहणन्न् विश्वजित्पर्यन्तानां सोमसंस्थानामुपलक्षणम् ॥ २ ॥

गोभूम्यश्वहिरण्यादि ददौ धनमशेषतः ।
द्विजेभ्यो निजबन्धुभ्यो गुण्यगुण्यविचारयन् ॥ ३ ॥

अगुणि श्रुताध्ययनादिविकलमपि अविचारयन् । तद्विचारे विलम्बापत्तेः ॥ ३ ॥

दिवसत्रयमात्रेण सर्वमेव परित्यजन् ।
असुमात्रावशेषोऽसावासीद्राजा भगीरथः ॥ ४ ॥

असवः प्राणास्तन्मात्रावशेषः ॥ ४ ॥

अथ सर्वार्थरिक्तं तत्खिन्नप्रकृतिपौरकम् ।
सीमान्तिने तृणमिव राज्यन्न् स्वमरये ददौ ॥ ५ ॥

सीमान्तिने सीमान्ते सन्निहिताय ॥ ५ ॥

आक्रान्ते द्विषता राज्ये मुनिः सद्मनि मण्डले ।
अधोवासोवशेषोऽसौ निर्जगाम स्वमण्डलात् ॥ ६ ॥

अधोवासः कौपीनाच्छादनं तदवशेषः ॥ ६ ॥

यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात् ।
तत्र ग्रामेष्वरण्येषु दूरेषूवास धैर्यवान् ॥ ७ ॥

यत्र स्वयं दृष्टोऽपि जनैर्भगीरथनाम्ना न ज्ञायते । यत्र च
जनमुखात्स्वनामापि न ज्ञायते न श्रूयते तत्र तादृशेषु ॥ ७ ॥

इत्यल्पेनैव कालेन प्रशान्तसकलैषणः ।
परमेण शमेनासावाप विश्रान्तिमात्मनि ॥ ८ ॥

इति अनया रीत्या वर्तमानः ॥ ८ ॥

भ्रमन्द्वीपानि भूपीठे कदाचित्कालयोगतः ।
अवशः शत्रुणाक्रान्तं स्वमेव प्राप तत्पुरम् ॥ ९ ॥

द्वीपानि नद्यन्तरितानि मण्डलानि । अवशः सन् दर्शनाधीनचित्तः ॥ ९ ॥

नानागारांश्च तत्रासौ प्रवाहपतितांश्च तान् ।
पौरांश्च मन्त्रिणश्चैव शमी भिक्षामयाचत ॥ १० ॥

प्रवाहपतितान् क्रमप्राप्तान् नानागारान् । छान्दसं पुंस्त्वम् । प्राप्येति शेषः ॥ १० ॥

विविदुस्ते नृपं पौरा मन्त्रिणश्च भगीरथम् ।
पूजयामासुरथ तं सविषादाः सपर्यया ॥ ११ ॥

विविदुः परिचिक्युः ॥ ११ ॥

प्रभो राज्यं गृहाणेति प्रार्थितोऽप्यरिणा मुनिः ।
नादत्तेऽनादृताशेषस्तृणमप्यशनादृते ॥ १२ ॥

अनादृतमशेषं राज्यं येन ॥ १२ ॥

कतिचिद्दिवसांस्तत्र नीत्वाऽन्यत्र जगाम सः ।
भगीरथोऽयं हा कष्टमिति लोकेन शोचितः ॥ १३ ॥

शोचितः शोकविषयीकृतः ॥ १३ ॥

अथान्यत्रोपशान्तात्मा परिविश्रान्तधीः सुखी ।
आत्मारामं कदाचित्तु स प्राप त्रितलं गुरुम् ॥ १४ ॥

स्वमेव स्वागतं कृत्वा तेन सार्धं भगीरथः ।
कञ्चित्कालमुवासाद्रौ वने ग्रामे पुरे जने ॥ १५ ॥

स्वमेव गुरुमिति पूर्वान्वयि । स्वागतग्रहणन्न् वन्दनाद्युपलक्षणम् ॥ १५ ॥

समतामुपयातौ तौ गुरुशिष्यौ समौ स्थितौ ।
कलयामासतुः स्वस्थौ विनोदं देहधारणम् ॥ १६ ॥

विनोदं कुतूहलभूतं देहधारणम् ॥ १६ ॥

किमयं धार्यते देहः किं वानेनोज्झितेन नः ।
यथाक्रमं यथाचारं तिष्ठत्वेष यथास्थितम् ॥ १७ ॥

यथाक्रमं यथाशास्त्रोक्तक्रमम् । यथाचारं वृद्धाचारमनुसृत्य च तिष्ठतु
॥ १७ ॥

इति निश्चित्य तिष्ठन्तौ तौ वनाद्वनगामिनौ ।
अनानन्दं परानन्दं नासुखं न च मध्यमम् ॥ १८ ॥

न विद्यन्ते विषयानन्दा यत्र तथाविधं परानन्दं प्रापतुरिति शेषः । तदेव
विशिनष्टि-नासुखमिति । असुखं दुःखं तद्रहितम् । मध्यमं
सुखदुःखोभयशून्यान्तरालावस्था तद्भिन्नम् ॥ १८ ॥

धनानि वाजिविभवाद्यैश्वर्यं चाष्टधोदितम् ।
सिद्धैरप्यर्पितं तुष्टैर्मेनाते जर्जरं तृणम् ॥ १९ ॥

तयोर्मानुषभोगोष्विव दिव्यभोगेष्वपि वैराग्यदार्ढ्यं दर्शयति-धनानीति ।
तच्चरितसन्तुष्टैः सिद्धैर्ब्रह्मादिभिरर्पितं दत्तमणिमादिभेदेनाष्टधा उदितं
प्रसिद्धमैश्वर्यं च जर्जरं जीर्णतमं तृणमिव मेनाते ॥ १९ ॥

स्वकर्मणैव देहोऽयं यावत्सत्त्वमनिच्छया ।
धारणीय इति स्वेन कर्मणैवाथ तस्थतुः ॥ २० ॥

स्वारम्भकेण प्रारब्धकमेणैव यावत्सत्त्वं यावदायुर्धारणीय इति निश्चित्य
तस्थतुः ॥ २० ॥

अभिननन्दतुरागतमुत्तमौ निजसमाचरणक्रमजं मुनी ।
सुखमसौख्यमभीप्सितवर्जितौ समसमेऽतिसमौ शमिनौ स्वतः ॥ २१ ॥

तौ मुनी निजेन पूर्वसमाचरणक्रमेण जातं सुखमसौख्यं दुःखमपि
अभिननन्दतुः । यतस्तौ समेभ्योऽपि समे ब्रह्मणि अतिसमौ एकरसीभूतौ सन्तौ
स्वतस्तत्स्वभावादेव शमिनौ परमशान्तिमन्तौ ॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भगीरथनिर्वाणं नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भगीरथनिर्वाणं नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥