०७४

चतुःसप्ततितमः सर्गः ७४

श्रीराम उवाच ।

यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् ।
भगीरथस्य सम्पन्नं तन्मे कथय भो प्रभो ॥ १ ॥

भगीरथस्यात्र गुणाश्चिन्ता चाथ विचारजा ।
त्रितलेन च संवादो जिहासातोऽत्र वर्ण्यते ॥

चित्तस्य पूर्णतादिलक्षणया चमत्कृत्या ॥ १ ॥

श्रीवसिष्ठ उवाच ।

आसीद्भगीरथो नाम राजा परमधार्मिकः ।
भुवः समुद्रयुक्ताया मण्डलीतिलकोपमः ॥ २ ॥

समुद्रयुक्ताया भुवो राजा स्वीयकोसलमण्डल्यास्तु तिलकोपमः ॥ २ ॥

सङ्कल्पानन्तरं प्राप्ता यथाभिमतमर्थिनः ।
चन्द्रप्रसन्नवदनादस्माच्चिन्तामणेरिव ॥ ३ ॥

तस्य दानशौण्डतां वर्णयति-सङ्कल्पानन्तरमिति । अर्थिनो याचका
अस्माद्भगीरथाद्याञ्चासङ्कल्पानन्तरमेव समीपगमनवाक्प्रयोगादिश्रमं
विनैव यथाभिलषितमर्थ प्राप्ताः प्राप्तवन्तः । गत्यर्थाकर्मक- इति कर्तरि क्तः ।
चन्द्रप्रसन्नवदनादित्यनेन दानोत्साहान्मुखे प्रसादातिशय एव न त्वस्य
धनव्ययदुःखान्म्लानिरिति द्योत्यते ॥ ३ ॥

साधूनां यो व्यवस्थार्थं धनान्यविरतं ददौ ।
तृणमात्रमुपादत्ते क्वचिच्चिन्तामणिर्यथा ॥ ४ ॥

अपात्रेषु दानं वारयति-साधूनामिति । एवं व्ययशीलस्य कथं
धनप्राप्तिस्तत्राह-तृणमात्रमिति । क्वचित् आयस्थाने स्वधर्मतः प्राप्तं
तृणमात्रमप्युपादत्ते । पौनरुक्त्यातृणोपादानाप्रसिद्धेश्च चिन्तामणिपदेन
कामधेनुर्लक्ष्यते ॥ ४ ॥

वज्रसारमिव प्रोतमुज्ज्वलन्नेमि योऽभिनत् ।
अधो मणिरयोयन्त्रं सर्वदुर्जनचेष्टितम् ॥ ५ ॥

यथा वज्रवेधनमणिः अधः अधोभागे अयसा यन्त्र्यते बध्यते इत्ययोयन्त्रं
वज्रसारं दृढतरं वज्रान्तरं परिभ्रमन्त्या स्वकान्त्या उज्ज्वलन्ती प्रकाशमाना
यन्त्रचक्रनेमिर्यस्मिन्कर्मणि तद्यथा भवति तथा भित्त्वा स्वप्रोतं तं गुणयोग्यं
करोति तथा यो भगीरथो बलवत्तरमपि सर्वं दुर्जनं तच्चेष्टितं च
तद्देशास्कन्दनेन स्वप्रतापेनोज्ज्वलन्ति रथनेम्यङ्कितानि च मण्डलानि
यस्मिन्कर्मणि तद्यथा भवति तथा शस्त्रास्त्रप्रोतं निगृह्य अधः पाददेशे
निगडाद्ययोभिर्यन्त्र्यते इत्ययोयन्त्रं कृत्वा अभिनत् भित्त्वेव गुणपूर्ण
चकारेत्यर्थः । वज्रसारमपि इति पाठेऽपि रूपकेणायमेव तात्पर्यार्थः ॥ ५ ॥

अधूमवह्निदेहश्रीः श्रान्तोऽपि दैन्यमप्यलम् ।
तमोऽहरन्नृणां नैशं द्युमणिर्वेश्मनामिव ॥ ६ ॥

दिवानिशं प्रजापालनाय सर्वतः परिभ्रमणात्स्वयन्न् श्रान्तोऽपि
नृणामधर्मप्रवृत्तिहेतुं तमोगेहान्धकारं दैन्यं दारिद्र्यमप्यहरत् । यथा
द्युमणिर्वेश्मनां नैशं तमो व्यवहारदैन्यं च हरति तद्वत् । विशेषणे उभयत्र
योज्ये ॥ ६ ॥

किरन्नग्निकणासारमभितः स्वप्रतापजम् ।
मध्याह्नसूर्यकान्ताग्निरिव ज्वलति योऽरिषु ॥ ७ ॥

स्वस्य प्रतापः पराक्रमः अतितप्तता च तस्माज्जातमग्निकणानामासारं धारां
किरन्सन् योऽरिषु मध्याह्नकाले उद्भूतः सूर्यकान्तशिलाग्निरिव ज्वलति । अग्निपक्षे अराः
अग्राण्येषां सन्तीति अरिणस्तृणादयस्तेषु ॥ ७ ॥

मृदुशीतलसंस्पर्शो यः समाह्लादयन्मनः ।
सुज्ञानां द्रवति स्निग्धस्येन्दोरिन्दुमणिर्यथा ॥ ८ ॥

सुज्ञा ब्रह्मतत्त्वविदस्तेषां सन्निधौ । इन्दुमणिश्चन्द्रकान्तः ॥ ८ ॥

जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः ।
गङ्गावाहस्य येनास्यां तृतीयः पूरितो गुणः ॥ ९ ॥

येन गङ्गावाहस्य गङ्गाप्रवाहलक्षणस्य जगद्यज्ञोपवीतस्य तृतीयो गुणस्तन्तुः
अस्यां पृथिव्यां गङ्गावतारणेन पूरितः ॥ ९ ॥

अगस्त्यशोषितोऽम्भोधिर्गङ्गापूरेण पूरितः ।
येन दुष्पूरभूतोऽपि महासार्थोऽर्थिनामिव ॥ १० ॥

सर्वदिगन्तवर्तिनामर्थिनां महान् सार्थः सङ्घो धनेनेव ॥ १० ॥

गङ्गासोपानपद्धत्या येन पातालवासिनः ।
योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना ॥ ११ ॥

भूतद्रोहित्वाद्ब्रह्मदण्डनिर्दग्धत्वाच्च पातालवासिनः अधोगतिं प्राप्ता
बान्धवाः सगरपुत्रा येन गङ्गालक्षणया सोपानपद्धत्या ब्रह्मणो लोके योजिता
आरोपिताः ॥ ११ ॥

ब्रह्माणं शङ्करं जह्नुं तपसाराधयंश्च यः ।
भूयोभूयो ययौ खेदमशून्याध्यवसायिनः ॥ १२ ॥

अशून्याध्यवसायिनः अविच्छिन्नदृढनिश्चयात् स्वमनसः सकाशात् ॥ १२ ॥

यौवने वर्तमानस्य तस्य भूमिपतेरपि ।
प्रविचारयतो लोकयात्रां पर्याकुलामिमाम् ॥ १३ ॥

अपिशब्दात्तवेवेति गम्यते ॥ १३ ॥

सुविरागचमत्कारविचारकणिकोदभूत् ।
वयस्यपि च तारुण्ये दैवाद्वल्ली मराविव ॥ १४ ॥

यौवने विचारवैराग्योदयोऽतिदुर्लभ इति द्योतनाय मराविवेति ॥ १४ ॥

एकान्ते चिन्तयामास महीपतिरसाविति ।
जगद्यात्रामिमां नित्यमसमञ्जसमाकुलम् ॥ १५ ॥

इति वक्ष्यमाणप्रकारेण इमां जगद्यात्रां चिन्तयामास । चिन्ताप्रकारमेवाह##-

पुनर्दिनं पुनः श्यामा दानादानशतं पुनः ।
तदेव भुक्तविरसं लक्ष्यते कर्म कुर्वताम् ॥ १६ ॥

श्यामा रात्रिः । बहुशो भुक्तं विरसं च फलं यस्य तत्तथाविधमेव सर्वेषां
कुर्वतां लक्ष्यते न त्वपूर्व परमपुरुषार्थफलं चेत्यर्थः ॥ १६ ॥

येन प्राप्तेन लोकेऽस्मिन्न प्राप्यमवशिष्यते ।
तत्कृतं सुकृतं मन्ये शेषं कर्म विषूचिका ॥ १७ ॥

तत्तत्प्राप्तिसाधनं कृतं कर्म विषूचिकेवाशुद्धिदुःखफलमेवेत्यर्थः ॥ १७ ॥

पुनः पुनः पर्युषितं कर्म कुर्वन्न लज्जते ।
मूढबुद्धिरबुद्धिस्तु कः कुर्यात्किल बालवत् ॥ १८ ॥

अथैकदोद्विग्नमनाः कदाचित्त्रितलं गुरुम् ।
एकान्तं संसृतेर्भीतः समपृच्छद्भगीरथः ॥ १९ ॥

अथ उक्तचिन्तानन्तरं संसृतेः सकाशादेकान्तमत्यन्तं भीतः सन् ॥ १९ ॥

भगीरथ उवाच ।

अन्तःशून्यासु सुचिरं भ्रमत्संसारवृत्तिषु ।
अरण्यानीषु चैतासु भृशं खिन्ना वयं विभो ॥ २० ॥

भ्रमतां जीवानां रागद्वेषादिसंसारवृत्तिषु तत्फलभूतास्वेतासु
स्वर्गनरकमानुष्याद्यरण्यानीषु च ॥ २० ॥

जरामरणमोहादिरूपाणां भवकारिणाम् ।
भगवन्सर्वदुःखानां कथमन्तः प्रजायते ॥ २१ ॥

त्रितल उवाच ।

चिरसाम्यात्मनोत्तेह्न निर्विभागविलासिना ।
राजन् ज्ञेयावबोधेन पूर्णेन भरितात्मना ॥ २२ ॥

साधनचतुष्टयश्रवणमननाद्युपायैश्चिराभ्यस्तं
यत्साम्यविक्षेपवैषम्यशून्यन्न् समाधिस्तदात्मना अनादिसिद्धब्रह्माकारेण च
उत्थेनाविर्भूतेन ज्ञेयस्य प्रत्यक्तत्त्वस्यावबोधेन सर्वदुःखानि क्षीयन्ते इति
परेणान्वयः ॥ २२ ॥

क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयोऽभितः ।
संशयाः समतां यान्ति सर्वकर्माणि चानघ ॥ २३ ॥

ज्ञेयं विदुरथात्मानं संशुद्धं ज्ञप्तिरूपिणम् ।
स च सर्वगतो नित्यं नास्तमेति न चोदयम् ॥ २४ ॥

उदयं च नैति ॥ २४ ॥

भगीरथ उवाच ।

चिन्मात्रं निर्गुणं शान्तमस्ति निर्मलमच्युतम् ।
देहादि नेतरत्किञ्चिदिति वेद्मि मुनीश्वर ॥ २५ ॥

एवमुपदिष्टो भगीरथो विवेकेन स्वयमेवात्मतत्त्वमन्तः पर्यालोच्यापाततो निश्चित्य
तत्र विक्षेपबाहुल्याच्चित्तस्य प्रतिष्ठामलभमानः स्वावगतांशं गुरवे
निवेदयंस्तत्स्फुटीभावे विक्षेपोपशमे चोपायं पृच्छति-चिन्मात्रमिति ।
अस्तीत्यनेन असत्त्वोपपादकोऽज्ञानांशो मे नष्ट इति सूचितम् ।
देहेन्द्रियप्राणमनोबुद्ध्यविद्यान्तमितरत्किञ्चिदात्मा नेत्यपि
त्वद्वचनविश्वासात्स्वोपपत्त्या च वेद्मि ॥ २५ ॥

किं तत्र प्रतिपत्तिर्मे स्फुटतामेति नेतरा ।
एतावन्मात्रसंवित्तिः स्यामहं भगवन्कथम् ॥ २६ ॥

तत्राभानापादकोऽज्ञानाम्श इतरावभासहेतुर्विक्षेपांशश्च स्वस्य न नष्ट इति
दर्शयति-किमिति । अत्र अनयोः सदसद्विवेकबोधयोर्मध्ये इतरा आद्या
सदात्मबोधरूपा प्रतिपत्तिः स्फुटतां करतलामलकवत्स्पष्टतां नैति तत्र किं
कारणम् । अहं सर्वविक्षेपशान्त्या एतावन्मात्रसंवित्तिश्च कथं केनोपायेन
स्यामित्यर्थः ॥ २६ ॥

त्रितल उवाच ।

ज्ञानेन ज्ञेयनिष्ठत्वमेति चेतो हृदम्बरे ।
ततः सर्ववपुर्भूत्वा भूयो जीवो न जायते ॥ २७ ॥

तत्र भगीरथस्य राज्याद्यभिमानादेव तत्तद्विषयेषु
चित्तधावनाद्विक्षेपस्तत्प्राबल्यादेव न स्फुटात्मप्रतिपत्तिरिति निश्चित्य
त्रितलस्तत्परित्याजनाय प्रथमं गीतोक्तामानित्वादिसाधनान्युपदिशति-ज्ञानेनेति ।
ज्ञायते अनेनेति ज्ञानममानित्वादि तेन ज्ञेयन्न् यत्तत्प्रवक्ष्यामि इत्यादि##-
पूर्णस्वभावान्न प्रच्यवत इत्यर्थः ॥ २७ ॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ २८ ॥

अमानित्वादिषु कानिचिदवयुत्यानुवादव्याख्याभ्यां प्रपञ्चयति-असक्तिरित्यादिना ॥
२८ ॥

आत्मनोऽनन्ययोगेन तद्भावनमनारतम् ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ २९ ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी इत्यस्य तात्पर्यार्थं दर्शयति-आत्मन इति ।
निष्कृष्टात्मचिन्तनमेवात्र भगवद्भक्तिर्न
गुणचरित्रश्रवणकीर्तनादिर्भगवदभिप्रेतेत्यर्थः ॥ २९ ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं तदतोऽन्यथा ॥ ३० ॥

अध्यात्मज्ञाननित्यत्वं श्रवणमनननिदिध्यासनाभ्यासः । तत्त्वज्ञानेनार्थस्य
परमात्मतत्त्वस्य दर्शनं स्फुटाभिव्यक्तिर्या त्वया पृष्टा सा
सर्वसाधनफलीभूता ॥ ३० ॥

रागद्वेषक्षयाकारं संसारव्याधिभेषजम् ।
अहम्भावोपशान्तौ तु राजन् ज्ञानमवाप्यते ॥ ३१ ॥

सर्वेषामेव साधनानामनहङ्कारलक्षणं साधनं मूलम् । अहङ्कारे सति
अमानित्वादेर्दुःसम्पादत्वादित्याशयेनाह-अहम्भावेति ॥ ३१ ॥

भगीरथ उवाच ।

शरीरेऽस्मिंश्चिरारूढो गिरौ तरुरिव स्वके ।
अहम्भावो महाभाग वद मे त्यज्यते कथम् ॥ ३२ ॥

तर्हि तत्परित्यागोपायमेव मे वदेति पृच्छति-शरीर इति ॥ ३२ ॥

त्रितल उवाच ।

पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनाम् ।
गत्वा विकसितां सत्तामहङ्कारो विलीयते ॥ ३३ ॥

विकसितामकामोपहतत्वेन स्फुटीभूतां सत्तां शुद्धात्माकारतां गत्वा स्थितस्येति
शेषः ॥ ३३ ॥

यन्त्रणापञ्जरं यावद्भग्नं लज्जादिनाखिलम् ।
अकिञ्चनत्वशेषेण स्फुटा तावदहङ्कृतिः ॥ ३४ ॥

त्यक्तराज्यं मां जना न बहुमन्यन्ते शत्रवश्चोपहसिष्यन्ति
सर्वाभिलषितपूरणसमर्थोऽहं कथं भिक्षामटिष्यामि कथं कदन्नपानादिना
जीविष्यामीत्यादिचिन्ताप्रयुक्तलज्जाभिमानादिना कृतं गृहे पूर्ववदेव
नियन्त्रणालक्षणं पञ्जरं यावदकिञ्चनत्वशेषेण सर्वत्यागेन न भग्नन्न्
तावदहङ्कृतिः स्फुटा अत्यन्तविकसिता नृत्यतीत्यर्थः ॥ ३४ ॥

सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।
तदहङ्कारविलये त्वमेव परमं पदम् ॥ ३५ ॥

तत् तर्हि ॥ ३५ ॥

शान्ताशेषविशेषणो विगतभीः सन्त्यक्तसर्वैषणो गत्वा
नूनमकिञ्चनत्वमरिषु त्यक्त्वा समग्रां श्रियम् ।
शान्ताहङ्कृतिरस्तदेहकलनस्तेष्वेव भिक्षामटन्मामप्युज्झितवानलं यदि
भवस्युच्चैस्त्वमुच्चैरसि ॥ ३६ ॥

सर्वत्यागमेवावश्यकर्तव्यतया प्रपञ्चयति-शान्तेति । शान्तान्यनन्तानि
छत्रचामरादीनि राजविशेषणानि यस्य तथाविधः सन्नूनमत्यन्तमकिञ्चनः सन्
समग्रां श्रियमरिषु त्यक्त्वा अस्तदेहाभिमानस्तेष्वरिष्वेव भिक्षामटन्सन् मां
गुरुमपि अलं पूर्णः सन् प्रष्टव्यार्थपरिशेषाभावादुज्झितवान्न तु शुश्रूषणेन ।
यावदायुस्त्रयो वन्द्या वेदान्तो गुरुरीश्वरः
इत्यादिशास्त्राप्रामाण्यप्रसङ्गादीदृशलक्षणसम्पन्नो यदि भवसि तर्हि
सर्वमुमुक्षुगुणैरुच्चैर्भूतस्त्वमुच्चैः सर्वोत्कृष्टं ब्रह्मैवासि न ते
संसारसम्भावनापीत्यर्थः ॥ ३६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भगीरथोपदेशो नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भगीरथोपदेशो नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥