त्रिसप्ततितमः सर्गः ७३
श्रीवसिष्ठ उवाच ।
इति राजमुखाच्छ्रुत्वा वेतालः शान्तिमाययौ ।
भावितात्मतया तत्र विचारोचितया धिया ॥ १ ॥
उपदिश्यात्र वेतालप्रश्ननिर्णयसंस्थितिम् ।
भगीरथस्य वृत्तान्तस्तत्रान्योऽप्यत्र वर्ण्यते ॥
तत्र तस्मिन् राजनि विचारोचितया धिया अनुमितया भावितात्मतया तत्त्वज्ञतया निमित्तेन ।
वेतालपक्षे वा सर्व योज्यम् ॥ १ ॥
उपशान्तमना भूत्वा मत्वैकान्तमनिन्दितम् ।
बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधाम् ॥ २ ॥
अविचलध्यानी । समाधिस्थ इति यावत् ॥ २ ॥
एतद्राम मयोक्तं ते वेतालप्रश्नजालकम् ।
एवङ्क्रमेण चिदणौ तेनेदं संस्थितं जगत् ॥ ३ ॥
एवङ्क्रमेण राजवर्णितक्रमेण ॥ ३ ॥
विदणोः कोशगं विश्वं विचारेण विलीयते ।
कायो वेतालकस्येव शिष्यते यत्पदं तु तत् ॥ ४ ॥
बालभ्रान्तिकल्पितवेतालकस्य काय इव विलीयते ॥ ४ ॥
संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना ।
स्वभावापतितं कुर्वन्निरिच्छं तिष्ठ शान्तधीः ॥ ५ ॥
चित्तं सर्वत उपसंहृत्य स्वो भावः परमात्मा तदापतितं तत्प्रतिष्ठितं कुर्वन् ॥
५ ॥
आकाशविशदं कृत्वा मनसैव मनो मुने ।
तिष्ठैकशमशान्तात्मा सर्वत्र समदर्शनः ॥ ६ ॥
हे मुने मननशील राम एकस्मिन् वस्तुनि शमः सर्ववृत्तिलयस्तेन
शान्तात्मोपरतचित्तः अत एव सर्वत्र समं ब्रह्म पश्यतीति समदर्शनः ॥ ६ ॥
स्थिरबुद्धिरसम्मूढो यथाप्राप्तानुवर्तिनः ।
राज्ञो भगीरथस्येव दुःसाध्यमपि सिद्ध्यति ॥ ७ ॥
असम्मूढान्तं पूर्वान्वयि । नन्वेवं स्थितस्य मे कथं देहयात्रासिद्धिस्तत्राह##-
७ ॥
सम्पूर्णशान्तमनसः परितृप्तवृत्तेर्नित्यं समे सुखमयात्मनि
तिष्ठतोऽन्तः ।
सिद्ध्यन्ति दुर्लभतरा अपि वाञ्छितार्था गङ्गावतार इव सागरखातवस्तु ॥ ८ ॥
यथा सगरांशुमद्दिलीपादिदुर्लभतरोऽपि सागराणां सगरपुत्राणां
तत्खातसमुद्रस्य च वस्तु सञ्जीवनमणिप्रायो गङ्गावतारः
शान्तितृप्तिसमदर्शित्वादिगुणसम्पन्नस्य भगीरथस्यानायासेन
सिद्धस्तद्वदित्यर्थः ॥ ८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
वेतालाख्यानं नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
वेतालाख्यानं नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥