०७२

द्विसप्ततितमः सर्गः ७२

राजोवाच ।

कालसत्ता नभःसत्ता स्पन्दसत्ता च चिन्मयी ।
शुद्धचेतनसत्ता च सर्वमित्यादि पावनम् ॥ १ ॥

इहावशिष्टप्रश्नानां पञ्चानामुत्तरं क्रमात् ।
वेतालायाप्रमत्ताय राजा सम्यगुदीर्यते ॥

एवं प्रथमं प्रश्नं समाधाय कस्मिन् स्फुरन्ति पवने महागगनरेणवः इति
द्वितीयप्रश्नं राजा समाधत्ते-कालसत्तेत्यादिना । तत्र गगनपदेन
प्रसिद्धगगनस्यैव ग्रहणं विवक्षितमुतमहत्पदविशेषितत्वाद्गौण्या
महाकालरूपश्चित्संवलितमायाकाश उत स्पन्दशक्तिप्रधानः सूत्रात्माकाशः उत
ततो निष्कृष्टः शुद्धचिदाभासलक्षणो जीवाकाशः अन्यो वास्तु सर्वेष्वपि कल्पेषु
तत्तत्सत्ता एव सूक्ष्मतमत्वात्तेषां रेणवस्त्वयोक्ता इत्याह-कालसत्तेति । स्पन्दः
क्रियाशक्तिप्रधानः सूत्रात्मा तत्सत्ता । शुद्धचेतनस्ततो
निष्कृष्टश्चिदाभासस्तत्सत्ता चेत्यादि सर्वं सूक्ष्मत्वात्पावनं निर्दोषं रजः
परमात्ममहावायौ कल्पितानेकविकारचञ्चलं स्फुरतीति परेणान्वयः ॥ १ ॥

परमात्ममहावायौ रजः स्फुरति चञ्चलम् ।
कुसुमाङ्ग इवामोदस्तदतद्रूपकं स्वतः ॥ २ ॥

ननु परमात्मन एव सर्वानुगतसत्तारूपत्वात्तत्र कालादिसत्ता
स्फुरतीत्याधाराधेयभावेन व्यपदेशः कथं तत्राह-कुसुमाङ्ग इति । यथा
कुसुममेव स्वाङ्गे आमोदाख्यं भेदं स्वत एव परिकल्प्य कुसुमे
आमोदरूपकमिव तदाधेयतया स्थितं तद्वत्परमार्थसत्तैव
कालादिसत्ताभेदात्मतां स्वात्मनि परिकल्प्य स्थितेत्यर्थः ॥ २ ॥

जगदाख्ये महास्वप्ने स्वप्नात्स्वप्नान्तरं व्रजत् ।
रूपं त्यजति नो शान्तं ब्रह्मशान्तत्वबृंहणम् ॥ ३ ॥

स्वप्नात्स्वप्नान्तरं गच्छन्नित्यादितृतीयप्रश्नस्योत्तरमाह-जगदाख्ये इति ।
शान्तं प्रशान्ततत्तत्स्वप्नदोषमसङ्गज्योतीरूपम् । अत एव तथा बोधमात्राद्ब्रह्म
शान्तत्वबृंहणम् ॥ ३ ॥

रम्भास्तम्भो यथा पत्रमात्रमेवान्तरान्तरम् ।
अन्तरन्तस्तथेदं हि विश्वं ब्रह्म विवर्त्यपि ॥ ४ ॥

रम्भास्तम्भो यथा पत्रमात्रमिति चतुर्थं प्रश्नं समाधत्ते-रम्भास्तम्भ
इति । अन्तः अन्तः ब्रह्मणि विवर्ति विवर्तनशीलम् । अपिशब्दादवान्तरकारणेषु
परिणामशीलं च । अतः सोऽणुस्ततोऽप्यन्तरन्तरित्यर्थः ॥ ४ ॥

सद्ब्रह्मात्मादिभिः शब्दैर्यदेताभिर्विगीयते ।
शून्यमव्यपदेशं ते न तत्किञ्चिच्च किञ्चन ॥ ५ ॥

विवर्तजगद्बृंहणादिनिमित्तादेव तत्तद्ब्रह्मात्मादिशब्दगोचरता न तु वस्तुतः
सर्वधर्मशून्यत्वादित्याह-ब्रह्मेति ॥ ५ ॥

या या विभाव्यते सत्ता सा सानुभवनिर्मितान् ।
रम्भास्तम्भवदेतावच्चिन्मात्रममलं ततम् ॥ ६ ॥

अत एव पटसत्ता तन्तुसत्तायां पर्यवस्यति तन्तुसत्ता कार्पाससत्तायां सा च
तत्फलसत्तायां सा गुल्मसत्तायां सा बीजमृज्जलादिसत्तायामित्यादिक्रमेण या या
सत्ता विभाव्यते सा सा तत्तदनुभवनिर्मितानाकारान्विहाय रम्भास्तम्भवदेव
तत्तदनुभवरूपे चिन्मात्रे पर्यवस्यतीत्यतस्तदेवामलं जगदाकारेण ततं
विस्तृतमित्यर्थः ॥ ६ ॥

सूक्ष्मत्वादप्यलभ्यत्वात्परमात्मा परोऽणुकः ।
अनन्तत्वादसावेव प्राप्तो मेर्वादिमूलताम् ॥ ७ ॥

तत्राणुपदप्रवृत्तौ निमित्तमाह-सूक्ष्मत्वादिति । एवं सौक्ष्म्येऽपि न
पूर्णताहानिरिति ब्रह्माण्डादयोऽपि तद्दृष्ट्या अतिपरिच्छिन्नत्वात्परमाणुप्राया इति
ब्रह्माण्डाकाशभूतौपेत्यादिपञ्चमप्रश्नोऽपि दत्तोत्तरः संवृत्त
इत्याशयेनाह-अनन्तत्वादिति । मेर्वादिपदेन प्रश्नोक्ता मेर्वन्ताः पञ्च
व्युत्क्रमेण गृह्यन्ते तेषां मूलतामाधारताम् ॥ ७ ॥

अणोरप्यत्यनन्तस्य पुंसोऽस्य जगदाद्यपि ।
परमाणुवदाभाति प्रतीतत्वादरूपवत् ॥ ८ ॥

जगदादि ब्रह्माण्डादिपञ्चकं
प्रतीतत्वादणुतरतत्तदाकारवृत्तिपरिच्छिन्नचित्कणपरिच्छेद्यत्वादरूपवन्निः##-
परमाणुवदेवेति ॥ ८ ॥

परोऽणुरेषोऽलभ्यत्वात्पूरकत्वान्महागिरिः ।
सर्वावयवरूपोऽपि निरस्तावयवः पुमान् ॥ ९ ॥

कस्यानवयवस्यैव परमाणुमहागिरेः इति षष्ठप्रश्नं समाधत्ते-परोऽणुरिति ।
अलभ्यत्वाच्चक्षुरादिकरणैरग्राह्यत्वात् । एष परोऽणुः पूरकत्वात् सर्वतो व्याप्तो
महागिरिः । अध्यारोपदृशा सर्वं मूर्तामूर्तं अवयवरूपं यस्य तथा ।
नेतिनेत्यपवादेन निरस्तावयवः ॥ ९ ॥

अस्य वै ज्ञप्तिमात्रस्य मज्जामात्रं जगत्त्रयी ।
विज्ञानमात्रमध्यं हि साधो विद्धि जगत्त्रयम् ॥ १० ॥

तत्र शिलान्तर्निबिडैकान्तरूपमज्जाजगत्त्रयीत्यंशं प्रकटयति-अस्येति । हि
यस्माज्जगत्त्रयं द्यावापृथिवी अन्तरेव समाहिते इत्यादिश्रुतिषु
हार्दाकाशरूपविज्ञानमात्रस्य मध्यमान्तरं मज्जावत्प्रसिद्धमिति विद्धीत्यर्थः
॥ १० ॥

विज्ञानमात्रकलनाकलितं जगन्ति शान्तस्वभावसुकुमारमनन्तरूपम् ।
वेतालबालक पदं तदलङ्घनीयमेवं स्वयं समनुभावय शान्तमास्स्व ॥
११ ॥

सर्वप्रश्नानां निरासेन प्रौढ्या वेतालं
परिभवन्निवोक्तार्थसङ्क्षेपेणोपसंहरति-विज्ञानेति । हे वेतालबालक जगन्ति
विज्ञानमात्रस्य कलनानां स्वकौशलानां कलितं प्रकटनं
तच्चात्मविज्ञानरूपं
भवादृशैर्वेतालचाटभटैरलङ्घनीयमनास्कन्दनीयमेव अतो मदुक्त्या
त्वमेवंस्वभावमात्मानमनुभावय स्वानुभवमारोहय ।
शान्तदर्पमास्स्वेत्यर्थः ॥ ११ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
वेतालप्रश्नभेदो नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
वेतालप्रश्नभेदो नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥