एकसप्ततितमः सर्गः ७१
श्रीवसिष्ठ उवाच ।
इत्युक्तवति वेताले वक्तुं प्रश्नान्विहस्य सः ।
उवाच वचनं राजा दन्तांशुधवलाम्बरः ॥ १ ॥
आद्यप्रश्नसमाधानं विस्तरेणात्र वर्ण्यते ।
अनन्तकोटिब्रह्माण्डफलवृक्षादिकल्पनैः ॥
प्रसिद्धब्रह्माण्डानां त्रसरेणुत्वमित्यल्पदृष्ट्या त्वयोक्तं
वक्ष्यमाणकल्पनया कोटिकोटिगर्भब्रह्माण्डानामपि तत्र
त्रसरेणुत्वसम्भवादित्याशयेन विहस्य दन्तानामंशुभिः
प्रभाभिर्धवलान्यम्बराणि वस्त्राण्याकाशं च यस्य तथाविधः सन् ॥ १ ॥
राजोवाच ।
आस्ते कदाचिच्चेदं हि ब्रह्माण्डमजरं फलम् ।
उत्तरोत्तरं दशगुणभूतत्वक्परिवेष्टितम् ॥ २ ॥
तत्रादौ कस्य सूर्यरश्मीनां ब्रह्माण्डास्त्रसरेणवः इति प्रथमप्रश्नस्योत्तरं
वक्तुमभिज्ञतमत्वाभिमानं वेतालस्य तिरस्कुर्वन्कञ्चित्कल्पनाचमत्कारं राजा
दर्शयति-आस्ते इत्यादिना । इदं त्वया मया चाश्रितं ब्रह्माण्डयज्ञदृष्ट्या
अजरमुत्तरोत्तरं दशगुणाभिर्भूतत्वग्भिर्भूजलाद्यावरणैः परिवेष्टितम् ॥ २ ॥
तादृशानां सहस्राणि फलानि यत्र सन्ति हि ।
अत्युच्चैस्तादृशी शाखा विपुला चलपल्लवा ॥ ३ ॥
इदं ब्रह्माण्डं १ ईदृशब्रह्माण्डसहस्रगर्भाणि पञ्चीकृतमहाभूतानि २
तद्गर्भा गन्धतन्मात्रा ३ उत्तरोत्तरं तद्गर्भाणि रसादितन्मात्राणि ७ तद्गर्भं
हैरण्यगर्भं मनः ८ अतीतानागतानन्ततद्गर्भा भूतमात्राराशयः ९ तद्गर्भाः
कल्पकालाः १० तद्गर्भा उत्तरोत्तरस्य दिनभूता
ब्रह्मविष्णुरुद्राणामायुःकालास्तदात्मानस्त एव १३ अनन्तकोटीनां तेषां
सत्तास्फूर्तिव्यवहारप्रवर्तकं मायाशबलं ब्रह्म १४
इत्येतांश्चतुर्दशपदार्थानिह
क्रमात्फलशाखादिचतुर्दशकल्पनाभिर्निदर्शयति-तादृशानामित्यादिना ।
चलानि पल्लवानीव भुवनानि यस्याम् ॥ ३ ॥
तादृशानां सहस्राणि शाखानां यत्र सन्त्यथ ।
तादृशोऽस्ति महावृक्षो दुर्लक्ष्यो विपुलाकृतिः ॥ ४ ॥
तादृशानां सहस्राणि यत्र सन्ति महीरुहाम् ।
तादृशं वनमत्युच्चैरनन्ततरुगुल्मकम् ॥ ५ ॥
तादृशानां सहस्राणि वनानां यत्र सन्त्यथ ।
तादृगस्ति बृहच्छृङ्गमत्युच्चैर्भरिताकृति ॥ ६ ॥
शृङ्गपदेनात्र तत्प्रधानो गिरिरेवोच्यते । विपुलतमत्वात्सर्वतो भरिताकृति ॥ ६ ॥
तादृशानां सहस्राणि शृङ्गाणां यत्र सन्त्यथ ।
तादृशोऽस्त्यतिविस्तीर्णो देशो विपुलकोटरः ॥ ७ ॥
तादृशानां सहस्राणि देशानां यत्र सन्त्यथ ।
तादृगस्ति बृहद्द्वीपं महाह्रदनदीयुतम् ॥ ८ ॥
महाह्रदनदीवदाविर्भूतानाविर्भूतप्रवहणप्राणादिवायुचेष्टाभिर्युतम् ॥ ८ ॥
तादृशानां सहस्राणि द्वीपानां यत्र सन्त्यथ ।
तादृगस्ति महीपीठं विचित्ररचनान्वितम् ॥ ९ ॥
विचित्राभिर्नामादिरचनाभिरन्वितम् ॥ ९ ॥
तादृशानां सहस्राणि पृथ्वीनां यत्र सन्त्यथ ।
तादृगस्ति महास्फारं महाभुवनडम्बरम् ॥ १० ॥
तादृशानां सहस्राणि जगतां यत्र सन्त्यथ ।
तादृगस्ति महच्चाण्डं चण्डमम्बरपीठवत् ॥ ११ ॥
तादृशानां सहस्राणि यत्राण्डानि करण्डकाः ।
तादृशोऽस्ति गतस्पन्दो विपुलाब्धिश्च सागरः ॥ १२ ॥
तादृक्सागरलक्षाणि तरङ्गो यत्र पेलवः ।
तादृशः स्वविलासात्मा निर्मलोऽस्ति महार्णवः ॥ १३ ॥
तादृगब्धिसहस्राणि वस्योदरजलान्यथ ।
तादृशोऽस्ति पुमान्कश्चिदत्युच्चैर्भरिताकृतिः ॥ १४ ॥
पुमान् विष्णुः ॥ १४ ॥
तादृशानां नृणां लक्षैर्यस्य मालोरसि स्थिता ।
प्रधानं सर्वसत्तानां तादृशोऽस्ति परः पुमान् ॥ १५ ॥
परः पुमान् रुद्रः ॥ १५ ॥
तादृशानां सहस्राणि पुरुषाणां महात्मनाम् ।
स्फुरन्ति मण्डले यस्य स्वतनूरुहजालवत् ॥ १६ ॥
तनूरुहाः केशलोमानि तज्जालवत् । तथा च श्रुतिः-यथा सतः पुरुषात्केशलोमानि
तथाऽक्षरात्सम्भवतीह विश्वम् इति ॥ १६ ॥
तादृशोऽस्ति महादित्यः शतमन्यासु दृष्टिषु ।
या एताः कलनाः सर्वास्ता एतास्तस्य दीप्तयः ॥ १७ ॥
प्रत्यग्दृष्टेरन्यासु पराग्दृष्टिषु या एता रुद्रादिब्रह्माण्डान्ताः
शतमसङ्ख्याः कलनाः प्रतिभासास्ता एताः सर्वप्राणिप्रत्यक्षास्तस्यादित्यस्य
दीप्तयो रश्मयः ॥ १७ ॥
अस्यादित्यस्य दीप्तीनां ब्रह्माण्डास्त्रसरेणवः ।
मय चित्सूर्य इत्युक्तः सर्वमेतत्तपत्यसौ ॥ १८ ॥
मया चिदात्मा इति एवम्प्रभावः सूर्य इति त्वत्प्रश्नोत्तरत्वेनोक्त एतत्सर्वं जगदसौ
तपति प्रकाशयति ॥ १८ ॥
विज्ञानात्मैव परमो भास्करो भाविताशयः ।
इमे ये भुवनाभोगास्तस्यैव त्रसरेणवः ॥ १९ ॥
भुवनाभोगा ब्रह्माण्डाः ॥ १९ ॥
विज्ञानपरमार्कस्य भासा भान्ति भवन्ति च ।
इमा जगदहर्लक्ष्म्यः क्वचिल्लक्ष्म्यो रवेरिव ॥ २० ॥
भान्ति स्फूर्तिं लभन्ते । भवन्ति सत्तां च लभन्ते ॥ २० ॥
विज्ञानमात्रकचितात्मनि जन्तुजाए त्रैलोक्यमण्डपमणेरविकासभाजि ।
चिज्जन्मनोर्भवनसम्भ्रमतावलेखाः सन्तीह रे न हि मनागपि शान्तमास्स्व ॥
२१ ॥
रे वेताल वर्णितशबलब्रह्मलक्षणस्य त्रैलोक्यमण्डपमणेः सूर्यस्य
पारमार्थिकतत्त्वभूते मुख्याधिकारिषु विज्ञानं
शास्त्रजन्याखण्डाकारसाक्षात्कारस्तन्मात्रेण कचितात्मनि स्वात्मतया प्रथमाने
अनधिकारिजन्तुमात्रे तु अविकासभाजि अस्फुटे इह प्रत्यगात्मनि
अग्निविस्फुलिङ्गवच्चिज्जन्मनोर्जीवजगतोर्भवनस्य पृथक्सत्तायाः
कर्तृत्वभोक्तृत्वाद्यनन्तसम्भ्रमतानां चावलेखा उल्लेखाः सन्ति ।
परमार्थदृशा तु मनागपि न सन्ति । अतस्त्वं शान्तप्रश्नाडम्बरमास्स्वेत्यर्थः ॥
२१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पू० वेतालप्रथमप्रश्नोत्तरवर्णनं नामैकसप्ततितमः सर्गः ॥ ७१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
वेतालप्रथमप्रश्नोत्तरवर्णनं नामैकसप्ततितमः सर्गः ॥ ७१ ॥