०७०

सप्ततितमः सर्गः ७०

श्रीवसिष्ठ उवाच ।

जीवोऽजीवो भवत्याशु याति चित्तमचित्तताम् ।
विचारादित्यविद्यान्तो मोक्ष इत्यभिधीयते ॥ १ ॥

मायाभ्रान्त्यनवस्थाने चिदात्मपरिशुद्धये ।
वेतालराजसंवादकथोदाहियते शुभा ॥ १ ॥

चित्ते शान्ते शाम्यतीयं संसारमृगतृष्णिकेत्युक्तं चित्तशान्तौ च विचार एव
ज्ञानोदयपर्यन्त उपाय इत्याह-जीव इति । इति अनेनोपायेन सम्पन्नो यः
कार्यकारणाविद्ययोरन्तो नाशः स मोक्ष इत्यभिधीयते ॥ १ ॥

मृगतृष्णाजलमिव मनोऽहन्तादि दृश्यते ।
असदेव मनागेव तद्विचारात्प्रलीयते ॥ २ ॥

उक्तार्थाऽसम्भावनाहेतुं प्रपञ्चे दार्ढ्यभ्रमं वारयति-मृगतृष्णेति ॥
२ ॥

संसृतिस्वप्नविभ्रान्तौ वेतालोदाहृतानिमान् ।
प्रश्नानाकर्णय शुभान्प्रसङ्गात्स्मृतिमागतान् ॥ ३ ॥

असदेव मनागेवेत्युक्तार्थस्य समर्थनायाख्यायिकामवतारयति-संसृतीति ॥ ३ ॥

अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः ।
स किञ्चिन्मण्डलं गर्वादाजगाम जिघांसया ॥ ४ ॥

गर्वाद्वधयोग्येष्वज्ञजनेष्वनादरात् ॥ ४ ॥

स वेतालोऽवसत्पूर्वं कस्मिंश्चित्सज्जनास्पदे ।
बहुबल्युपहारेण नित्यतृप्ततया सुखी ॥ ५ ॥

सङ्क्षिप्योक्तं विस्तारयितुं पुनरादित आरभ्याह-स इति । सज्जनस्य राज्ञ आस्पदे
देशे किरातराज्ये कर्कटीव राजकृतेन बहुवध्यजनबल्युपहारेण नित्यतृप्ततया
निर्विक्षेपसमाधिसुखी ॥ ५ ॥

निर्निमित्तं निरागस्कं पुरोऽप्यभ्यागतं न सः ।
क्षुधितोऽपि नरं हन्ति सन्तो हि न्यायदर्शकाः ॥ ६ ॥

स कालेनाटवीगेहो जगाम नगरान्तरम् ।
न्याययुक्त्या जनं भोक्तुं क्षुधा समभिचोदितः ॥ ७ ॥

कालेन तत्र वध्यजनालाभकालेन । अटवी गेहं यस्य ॥ ७ ॥

तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम् ।
तमाह घनघोरेण शब्देनोग्रनिशाचरः ॥ ८ ॥

रात्रिचर्या निशि नगरे दुष्टजनपरिज्ञानाय चोरादिवधाय च सञ्चारस्तदर्थं
विनिर्गतम् ॥ ८ ॥

वेताल उवाच ।

राजṁल्लब्धोऽसि भीमेन वेतालेन मयाधुना ।
क्व गच्छसि विनष्टोऽसि भव भोजनमद्य मे ॥ ९ ॥

राजोवाच ।

हे रात्रिचर निर्न्याय्यन्न् मां चेदत्सि बलादिह ।
तत्ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः ॥ १० ॥

निर्न्याय्यं न्यायापेतक्रमेणात्सिचेत् ॥ १० ॥

वेताल उवाच ।

न त्वामद्म्यहमन्यायं न्यायोऽयं हि मयोच्यते ।
राजासि सकलाशाश्च पूरणीयास्त्वयार्थिनाम् ॥ ११ ॥

सकलाः आशास्यन्त इत्याशा अभिलषितार्थाः । किलेति [मूले किल इति
टीकाकृत्पाठोऽस्मन्निकटवर्त्यादर्शान्तरेषु न दृश्यते ।]
धर्मशास्त्रप्रसिद्धौ ॥ ११ ॥

ममैतामर्थितां राजन्सम्भवार्थां प्रपूरय ।
प्रश्नानिमान्मयोक्तांस्त्वं सम्यगाख्यातुमर्हसि ॥ १२ ॥

अज्ञश्चेदपराधसहस्रं सुलभन्न् सुज्ञश्चेन्नापराध्यत्येव । स च
सत्यप्यपराधसहस्रे पालनीय इति परीक्षणाय प्रश्नपरिपूरणमेव प्रार्थयते##-
परवधप्रवृत्तिः स्वस्य नास्तीति दर्शितम् ॥ १२ ॥

कस्य सूर्यस्य रश्मीनां ब्रह्माण्डान्यणवः कृशाः ।
कस्मिन्स्फुरन्ति पवने महागगनरेणवः ॥ १३ ॥

सर्वेषां प्रश्नानामापाततोऽर्थः स्पष्टः । तात्पर्यतस्तूत्तरसर्गे स्फुटीकरिष्यते ॥ १३

स्वप्नात्स्वप्नान्तरं गच्छञ्छतशोऽथ सहस्रशः ।
त्यजन्न त्यजति स्वच्छं कः स्वरूपं प्रभास्वरम् ॥ १४ ॥

उत्तरोत्तरस्वप्ने पूर्वपूर्वसत्यतां त्यजन्नपि तत् प्रकाशकं स्वच्छं
सत्यात्मस्वरूपं न त्यजति ॥ १४ ॥

रम्भास्तम्भो यथा पत्रमात्रमेवं पुनः पुनः ।
अन्तरन्तस्तथान्तश्च तथा कोऽणुः स एव हि ॥ १५ ॥

यथा रम्भायाः कदल्याः स्तम्भः अन्तरन्तस्तथा तदन्तश्च पत्रमात्रं
वल्कलमात्रम् । दृष्टान्ते तत्सदृशवल्कलान्तरं दार्ष्टान्तिके स एवेति विशेष इति
भावः ॥ १५ ॥

ब्रह्माण्डाकाशभूतौघसूर्यमण्डलमेरवः ।
अपरित्यजतोऽणुत्वं कस्याणोः परमाणवः ॥ १६ ॥

भूतौघपदेन तदाधारभुवनानि लक्ष्यन्ते । अतिमहत्त्वेन प्रसिद्धा ये
ब्रह्माण्डाकाशादयोऽपि यस्याणोरपेक्षया परमा अणवः अत्यन्तक्षुद्राः ॥ १६ ॥

कस्यानवयवस्यैव परमाणुमहागिरेः ।
शिलान्तर्निबिडैकान्तरूपमज्जा जगत्त्रयी ॥ १७ ॥

परमाणोः सूक्ष्मस्यैव सतो महतो गिरेः । निबिडं घनतरं यत् सत्तैकान्तरूपं
तदेव मज्जा सारो यस्याः ॥ १७ ॥

इति कथयसि चेन्न मे दुरात्मंस्तदिह निगीर्य भवन्तमात्मघातिन् ।
फलमिव तव मण्डलं ग्रसेयं प्रसभमुपेत्य जगद्यथा कृतान्तः ॥ १८ ॥

इति षट् प्रश्नान् मे न कथयसि चेद्दुष्टो देहादिरेव आत्मा यस्य तथाविध
अतएवापरिच्छिन्नमात्मानं परिच्छेदेन घातितवानसीत्यात्मघातिन्
तत्तस्मादकथनापराधादेव भवन्तं फलमिव निगीर्य प्रसभं बलात्तव
मण्डलं मण्डलस्थजनान् ग्रसेयम् । ग्रसेऽहमिति पाठे
विकरणपदव्यत्ययश्छान्दसः ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
वेतालप्रश्नो नाम सप्ततितमः सर्गः ॥ ७० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
वेतालप्रश्नो नाम सप्ततितमः सर्गः ॥ ७० ॥