०६९

एकोनसप्ततितमः सर्गः ६९

श्रीराम उवाच ।

कुतः शतत्वमायातं रुद्राणां मुनिनायक ।
ये गणास्ते तु ये रुद्रा उत नेति वदाशु मे ॥ १ ॥

गणानामपि रुद्रत्वं मुक्तानामैच्छिकी स्थितिः ।
योगात्प्राणस्य विलयो मृतेस्तूद्भूतिरुच्यते ॥

प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते । समाजग्मुर्विरेजुश्च
रुद्राणामुत्तमं शतम् ॥ इति शतानामप्युत्तमरुद्रता प्रागुक्ता तदुत्तरसर्गे च
रुद्राज्ञया तेषु तेषु देहेषु प्रारब्धशेषं भुक्तवतां तेषाम् । तत्र भुक्त्वा चिरं
भोगान्प्राप्य रुद्रपुरं ततः । गणतामावसन्तस्ते स्थास्यन्ति सपरिच्छदाः इत्युक्तं
तत्र रुद्रेच्छया शतरुद्रमूर्तीनां गणत्वमेकैव रुद्रमूर्तिरिति सन्देहानो रामः
पृच्छति-कुत इति । रुद्राणां शतत्वं कुत आगतम् । किं गणैः सह
परिगणनादुत तद्व्यतिरिक्तरुद्राणामेव परिगणनात् । एवार्थे तुशब्दः । ये
गणास्त्वयोक्तास्त एव ये रुद्रा उक्तास्ते उत न । अन्ये एव रुद्रा इत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

स्वप्नानां भिक्षुणा दृष्टं शतं शतशरीरकम् ।
सर्वमुद्देशतो ज्ञातं तत उक्तं न तन्मया ॥ २ ॥

तत्र प्रथमकल्पमेवावलम्ब्य वसिष्ठ उत्तरमाह-स्वप्नानामिति । उद्देशतः
प्राग्वर्णिततत्तज्जन्मादिप्रस्तावतस्त्वया ज्ञातमेव ततस्तन्मया रुद्रशतसङ्ख्याने
नामतो विशिष्य नोक्तम् ॥ २ ॥

य आकाराश्च ते स्वप्ने तत्तद्गणशतं स्मृतम् ।
तदेतद्रुद्रशतकं रुद्रा अपि गणा विधौ ॥ ३ ॥

भिक्षुस्वप्ने ये जीवटाद्याकारास्तदाकारमेवोत्सर्गतो गणशतमिति स्मृतम् ।
तदेवैतद्रुद्रशतकमपि भोगैश्वर्यसाम्याद्रुद्रांशत्वाच्च भवति । ननु गणा इति
रुद्रस्य सेवकाः पार्षदा उच्यन्ते ते कथं मुख्यरुद्राः स्युः ।
स्वामिभृत्यभावयोर्विरुद्धयोरेकत्रासम्भवात् । किं च शततमस्य
मुख्यरुद्रत्वाद्गणत्वाभावाद्गणशतमित्युक्तिश्चानुपपन्नैवेति चेत्तत्राह-रुद्र
अपीति । ते शतं स्वयं रुद्रा अपि पूर्वसिद्धस्येश्वरकोटिभूतरुद्रस्य परिचर्यादिविधौ
गणा एव भवन्ति । तेषां कर्मफलभोगैश्वर्यप्राप्तेस्तदधीनत्वादित्यर्थः ॥ ३ ॥

श्रीराम उवाच ।

एकस्माद्भगवंश्चित्तात्कथं चित्तशतं कृतम् ।
तत्स्वप्नकृतरुद्रेण दीपाद्दीपशतं यथा ॥ ४ ॥

बोधयित्वा तु तं भिक्षुं चेतसा चेतनेन च इत्यादिना भिक्षुस्वप्रकृतेन शततमेन
रुद्रेण स्वचित्तचैतन्यदानेन भिक्ष्वादीनां बोधनं यत्प्रागुक्तं
तदन्यत्रादर्शनादसम्भावयन् रामः पृच्छति-एकस्मादिति ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

निरावरणसद्भावा यद्यथा कल्पयन्ति हि ।
तत्तथानुभवन्त्येव रसावरणसंविदः ॥ ५ ॥

अनीश्वरेष्वज्ञेषु तददर्शनेऽपि ईश्वरेषु मुक्तेषु न तदसम्भावना युक्तेति
परिहरति-निरावरणेति । ज्ञानैश्वर्येण निरावरणा योगैश्वर्येण सद्भावाः
सत्यसङ्कल्पाः । रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति इति श्रुतेः । रसो
भूमानन्दस्तं आसमन्तात्साङ्कल्पिकार्थसत्तालाभाय वृणोति स्वीकरोति तथाविधा
या माया प्रतिबिम्बसंवित् सार्वज्ञ्यसर्वशक्तत्वाख्या तद्बलादित्यर्थः ॥ ५ ॥

सर्वात्मनः सर्वगत्वाद्यद्यथा यत्र भाव्यते ।
तथानुभूयते तत्र तत्तथा ज्ञतया धिया ॥ ६ ॥

सार्वात्म्यबलादपि तेषां सर्वभावितार्थसिद्धिरित्याह-सर्वात्मन इति ॥ ६ ॥

श्रीराम उवाच ।

कपालमालाभरणो भस्मशाली दिगम्बरः ।
श्मशाननिलयो ब्रह्मन्कामुकश्च किमीश्वरः ॥ ७ ॥

एवमैश्वर्ये सति हरिहरादयः किमर्थं
मानुषयोन्याद्यवतारश्मशानवासादिकदर्थनां स्वस्य कल्पयन्ति शुभमेव कुतो
न कल्पयन्तीत्याशयेन रामः पृच्छतिकपालेति । भस्मना शालते शोभते तच्छीलः ।
ईश्वरः सर्वशक्तिसम्पन्नोऽपि सन् किं किमर्थमेवास्ते इत्यर्थः ॥ ७ ॥

श्रीवसिष्ठ उवाच ।

महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् ।
न क्रियानियमोऽस्तीह स ह्यज्ञस्यैव कल्पितः ॥ ८ ॥

क्रियाः शास्त्रीया एव मङ्गलरूपा एव सुखभोगफला एव कार्या इति न नियमस्तेषां
विधिकिङ्करत्वाभावात् । अज्ञदृक्प्रसिद्धमङ्गलानामपि सर्वेषां तत्त्वदृशा
अमङ्गलतमत्वाविशेषात् । अशुभकर्माभावेन दुःखसामग्र्यापि तेषां
दुःखभोगानुदयात्सर्वस्य सुखरूपत्वाविशेषाच्चेति भावः ॥ ८ ॥

अज्ञस्तु [अज्ञः तुदितचित्तत्वात् इत्यपि विग्रहः केषाञ्चन सम्मतः स च
टीकाकर्त्रसम्मतत्वादादर्शान्तरेष्वप्यलब्धत्वादयुक्तत्वाच्च
नादृतोऽस्माभिः ।] दितचित्तत्वात्क्रियानियमनं विना ।
गच्छन्न्यायेन मात्स्येन परं दुःखं प्रयाति हि ॥ ९ ॥

सुज्ञास्त्विष्टेष्वनिष्टेषु न निमज्जन्ति वस्तुषु ।
यतेन्द्रियत्वाद्बुद्धत्वान्निर्वासनतया तथा ॥ १० ॥

दितचित्तत्वात् रागद्वेषलोभादिदोषसहस्रखण्ण्दितचित्तत्वान्मात्स्येन मत्स्येषु
प्रसिद्धेन दुर्बलस्वपरजातिग्रसनन्यायेन गच्छन् क्रियानियमनं विना परं जन्म
परम्परानरकादिदुःखं प्रयाति । हि इति शास्त्रप्रसिद्धौ ॥ ९ ॥ १० ॥

काकतालीयवद्रूढां क्रियां कुर्वन्ति ते सदा ।
न कुर्वन्त्यपि वै किञ्चिन्नैषां क्वचिदपि ग्रहः ॥ ११ ॥

रूढां अकस्मात्प्रादुर्भूताम् । ग्रहः आसङ्गः ॥ ११ ॥

काकतालीयतो विष्णुरेवङ्कर्मोदितः पुरा ।
एवङ्कर्मा त्रिनयन एवङ्कर्माअम्बुजोद्भवः ॥ १२ ॥

एवङ्कर्मा मानुष्यादिजन्मकर्मा ॥ १२ ॥

न निन्द्यमस्ति नानिन्द्यं नोपादेयं न हेयता ।
न चात्मीयं न च परं कर्म ज्ञविषयं क्वचित् ॥ १३ ॥

न हेयता कस्यचिदिति शेषः । आत्मीयं स्ववर्णाश्रमोचितम् । परं तदन्यत् । ज्ञाः
सिद्धास्तान्विषिणोति बध्नातीति विषयस्तथाविधं न क्वचिदित्यर्थः ॥ १३ ॥

अग्न्यादीनां यथौष्ण्यादि सर्गादौ रूढिमागतम् ।
हरादीनां तथा कर्म द्विजातीनां च जातयः ॥ १४ ॥

तर्हि कथं हरस्य प्रसिद्धहरचरित्रवेषक्रियानियमो हरेर्वा तच्चरित्रवेषादिनियमो
भवदादीनां च ब्राह्मणोत्तमचर्यानियमः । काकतालीयन्याये
तदघटनादित्याशङ्क्याह-अग्न्यादीनामिति । जातयस्तत्तज्जात्युचितकर्मनियमः ।
मुख्येश्वरेच्छारूपानादिनियतिरेव तद्व्यवस्थापिकेत्यर्थः ॥ १४ ॥

सर्गे प्ररूढिमायाते सङ्केतवशतः पृथक् ।
अनुभूतिफलाश्चर्याः कल्पिताः कल्पिताः स्वयम् ॥ १५ ॥

अज्ञानां तु चर्या नाग्न्यादिक्रियावन्नियताः सर्गादावभिव्यक्ताः किन्तु सर्गे
रूढिमायाते सति तत्तद्वर्णादिविभागसङ्केतवशतः पृथक्
ऐहिकपारलौकिकसुखदुःखानुभूतिफलाः शास्त्रीयाः स्वाभाविक्यश्च
रागादिवशात्स्वयं कल्पिता इति वैषम्यमित्यर्थः ॥ १५ ॥

विदेहमुक्तविषयं तुर्यमौनमतो मया ।
नोक्तं तव परं मौनं सदेहस्य रघूद्वह ॥ १६ ॥

एवं प्रश्नं समाधाय प्रस्तुतेषु मौनेषु वक्तव्यशेषं दर्शयति-विदेहेति ।
सदेहस्य प्रसिद्धाच्चतुर्विधमौनात्परं तव नोक्तं तच्छृण्विति परेणान्वयः ॥ १६

खादप्यतितरामच्छमात्माकाशं चिदात्मकम् ।
तत्ताप्राप्तिः परं श्रेयः सा कथं प्राप्यते शृणु ॥ १७ ॥

तत्तायास्तद्भावस्य प्राप्तिः परं श्रेयो मोक्षः ॥ १७ ॥

सम्यग्ज्ञानावबोधेन नित्यमेकसमाधिना ।
सङ्ख्ययैवावबुद्धा ये ते स्मृताः साङ्ख्ययोगिनः ॥ १८ ॥

तत्प्राप्तौ साङ्ख्ययोगावुपाय इति वर्णयिष्यन्साङ्ख्ययोगिनो लक्षयति-सम्यगिति ।
सङ्ख्यया विवेकविचारप्रयुक्तराजयोगेन ॥ १८ ॥

प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः ।
अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ॥ १९ ॥

कर्मयोगिनो लक्षयति-प्राणेति । युक्त्या प्राग्वर्णितहठयोगेन ॥ १९ ॥

उपादेयं तु सर्वेषां शान्तं पदमकृत्रिमम् ।
तत्केचित्सङ्ख्यया प्राप्ताः केचिद्योगेन देहतः ॥ २० ॥

उपादेयं फलीभूततत्त्वसाक्षात्कारेण प्राप्तव्यम् । सर्वेषां द्विविधानामपि
योगिनाम् । देहतः अनेनैव देहेन ॥ २० ॥

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ।
यत्साङ्ख्यैः प्राप्यते स्थानं परं योगैस्तदेव हि ॥ २१ ॥

फलत एतदेव स्फुटयति-यदिति ॥ २१ ॥

यत्र प्राणमनोवृत्तिरत्यन्तं नोपलभ्यते ।
वासनावागुरोत्क्रान्ता तद्विद्धि परमं पदम् ॥ २२ ॥

ननु विभिन्नरूपयोस्तयोः कुत एकं फलं तत्राह-यत्रेति ।
प्राणमनोवृत्त्योरुभयोरप्यात्यन्तिकविलयोपलक्षितत्वादुभयवासनावागुरोत्क्रान्ता
स्थितिरेव तत्परमं पदं तत इत्यर्थः ॥ २२ ॥

वासनां चित्तमेवाहुः कारणं तद्धि संसृतेः ।
तदकारणतामेति विलीयोभयकर्मसु ॥ २३ ॥

एकफलत्वे ओदनसिद्धौ वह्निजलयोरिव साङ्ख्ययोगयोः समुच्चयो युक्तो न विकल्प इति
चेत्तत्राह-वासनामिति ।
संसृतेर्बाह्यान्तःकरणप्राणादिचेष्टायास्तद्वासनापुञ्जात्मकं मन एव
कारणं तच्च साङ्ख्येन योगेन वा एकेनैव विलीय तत्त्वज्ञानात्मना
परिणतमुभयोः करणप्राणयोरपि कर्मसु व्यापारेषु
अकारणतामेतीत्येकैकेनोभयफलसिद्धेर्न समुच्चय इत्यर्थः ॥ २३ ॥

मनः पश्यति वै देहं बालो वेतालकं यथा ।
स्वात्मानं विलयं नीत्वा न भूयस्तं प्रपश्यति ॥ २४ ॥

देहाहन्तादर्शनपूर्विकैव सर्वा संसृतिस्तन्मूलं मनस्तच्छान्तौ
सर्वसंसृतिशान्तिरुपपन्नेत्याह-मन इति ॥ २४ ॥

मनो मुधैवाभ्युदितमसदेवानवेक्षणात् ।
स्वप्ने स्वमरणाकारं प्रेक्ष्यमाणं न विद्यते ॥ २५ ॥

आत्मदर्शनेन तर्हि कथं मनसो नाश इति चेत्तददर्शनजन्यत्वादित्याह-मन इति
॥ २५ ॥

मनोभवस्तु संसारः क्व ममाहं क्व सन्ततिः [संसृतिः ।] ।
उपदेश्योपदेशादिबन्धमोक्षौ च तत्कुतः ॥ २६ ॥

ज्ञानेन मनोबाधे तत्कार्याहम्ममतादिबन्धमोक्षान्ताः सर्वाः कल्पना बाध्यन्त
इत्याह-मनोइभव इति । क्व कुत इत्यनयोः प्रतिपदमन्वयः ॥ २६ ॥

एकतत्त्वघनाभ्यासः प्राणानां विलयस्तथा ।
मनोविनिग्रहश्चेति मोक्षशब्दार्थसङ्ग्रहः ॥ २७ ॥

इदानीमुत्तमाधममध्यमाधिकारिक्रमेण मोक्षसाधनत्रयं
सर्वशास्त्रार्थतात्पर्यसङ्ग्रहेण दर्शयति-एकेति ॥ २७ ॥

श्रीराम उवाच ।

यदि हि प्राणविलयो मुने मोक्षस्य कारणम् ।
मृता एव विमुच्यन्ते तन्मन्ये सर्वजन्तवः ॥ २८ ॥

तेषु मध्यमं राम आक्षिपति-यदीति । मरणे सर्वेषां प्राणविलयप्रसिद्धेरिति
भावः ॥ २८ ॥

श्रीवसिष्ठ उवाच ।

त्रिष्वेतेषु प्रयोगेषु मनःप्रशमनं वरम् ।
साध्यं विद्धि तदेवाशु यथा भवति तच्छिवम् ॥ २९ ॥

त्रयोऽप्युपाया मनोनाशद्वारैव मोक्षहेतवो मरणे च न मनोनाशः प्राणनाशो
वा किन्तु मूर्च्छाकाले विलीनसैन्धववदविद्यायां
वासनात्मनावस्थानमुत्क्रमणकाले पुनराविर्भावः । सविज्ञानो भवति
सविज्ञानमेवान्ववक्रामतीति श्रुतेस्तृणजलायुकादृष्टान्तप्रसिद्धेर्विलीनानां
प्राणानां चक्षुरादिद्वारेणोत्क्रमणासम्भवाच्च । न च
स्थूलदेहरूपाधाराभावाद्बाहिर्निर्गतानां विलयः । बाह्याकाशे
सहोत्क्रान्ताभिर्भूतमात्राभिस्तात्कालिकव्यवहारयोग्यदेहकल्पन##-
मनःप्रशमनमेव वरं श्रेष्ठं साध्यं विद्धि ॥ २९ ॥

यदा निर्वाणनं प्राणास्त्यजन्तीदं शरीरकम् ।
तदानुभूय तन्मात्रैर्यान्ति व्योमनि सङ्गमम् ॥ ३० ॥

यदा प्राणा निर्वाणनं वण शब्दे उपशान्तघुर्घुरारावमिदं शरीरकं त्यजन्ति
तदा वासनाकामकर्मोपस्थापितं भाविदेहाकारमनुभूय बाह्यव्योमनि
तादृशदेहारम्भानुकूलैस्तन्मात्रैर्भूतमात्राभिः सङ्गमं यान्ति । तथा च
श्रुतिः सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति इति । तद्यथा पेशस्कारी पेशसो
मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते एवमेवायमात्मेदं
शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा
गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् इति च ।
श्रुतौ पेशस्कारी स्वर्णकारः पेशसः स्वर्णस्य मात्रां शकलान्युपादायेत्यर्थः ॥
३० ॥

वासनासात्मकान्येव विद्धि तन्मात्रकाणि वै ।
तदात्मकैर्मनोवद्भिः प्राणैः श्लिष्यन्ति नेतरैः ॥ ३१ ॥

तर्हि ता भूतगात्रा बहिर्जीवान्तरप्राणैः सहापि कुतो न श्लिष्यन्ति तत्राह-वासनेति ।
तत्तज्जीववासनामात्रात्मकानि तानि
तादृशवासनावन्मनोविशिष्टप्राणैरेवसंश्लिष्यन्ति नेतरैरिति व्यवस्थितमित्यर्थः
॥ ३१ ॥

सवासनास्तूत्पद्यन्ते प्राणा मुञ्चन्ति देहकम् ।
तद्व्योमवायुसंश्लेषं यान्ति दुःखाय गन्धवत् ॥ ३२ ॥

प्राणादेहान्तरे तद्देहवासनासहिता एवोत्पद्यन्ते । यतः पूर्वदेहमपि
भाविदेहवासनासहिता एव मुञ्चन्ति । देहान्तरे च तदीयहार्दव्योम्ना
तदन्तर्गतवायुभिश्च संश्लेषं यान्ति । यथा कुसुमगन्धस्तिलेषु
प्रतिविशस्तद्गततैलेन संश्लेषं यातीति यन्त्रनिष्पीडनादिदुःखाय भवति तद्वत् ॥ ३२ ॥

मनः साम्बुरिवाम्भोधौ न शाम्यति सवासनम् ।
नामनस्काः सम्भवन्ति प्राणाः सूर्य इव त्विषः ॥ ३३ ॥

अत एव मरणमात्रेण न मनोनाश इति न प्राणनाशोऽपीत्याह-मन इति । यथा
साम्बुर्घटः अम्भोधौ मग्नो बाह्यजनैरदृश्यमानोऽपि न शाम्यति न नश्यति ।
मनःप्राणयोः समनियतत्वं व्यतिरेकमुखेनान्वयमुखेन च दर्शयति##-

न जहाति मनः प्राणान्विना ज्ञानेन कर्हिचित् ।
तृणान्तरेणैव विना तृणाङ्गमिव तित्तिरिः ॥ ३४ ॥

ज्ञानादवासनीभावं स्वनाशं प्राप्नुयान्मनः ।
प्राणात्स्पदं च नादत्ते ततः शान्तिर्हि शिष्यन्ते ॥ ३५ ॥

अत एव ज्ञानाद्वासनाक्षये उभयनाश इत्याह-ज्ञानादिति ॥ ३५ ॥

ज्ञानात्सर्वपदार्थानामसत्त्वं समुदेत्यलम् ।
ततोऽङ्ग वासनानाशाद्वियोगः प्राणचेतसोः ॥ ३६ ॥

ततो न पश्यति मनः प्रशान्तं देहतां पुनः ।
स्वनाशेन पदं प्राप्तं वासनैव मनो विदुः ॥ ३७ ॥

कथं ज्ञानेन वासनानाश इति चेत्तद्धेतुद्वैतबाधादित्याह-ज्ञानादिति ॥ ३६ ॥ ३७

चेतो हि वासनामात्रं तदभावे परं पदम् ।
तत्त्वं सम्पद्यते ज्ञानं ज्ञानमाहुर्विचारणम् ॥ ३८ ॥

इत्यस्याः संसृते राम पर्यन्तः सम्प्रवर्तते ।
स्वयं विवेकमात्रेण रज्जुसर्पभ्रमाकृतेः ॥ ३९ ॥

तदपि ज्ञानं सवासनं सर्वं बाधित्वा आत्मतत्त्वमेव सम्पद्यते तच्च तत्त्वं
विचारणं रलयोरभेदाद्विगतचालनमचलं ज्ञानमेव शिष्यत इत्यनुभवनिष्ठा
आहुः ॥ ३८ ॥ ३९ ॥

एकार्थाभ्यसनप्राणरोधचेतःपरिक्षयाः ।
एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् ॥ ४० ॥

प्रस्तुतमुपादत्ते-एकेति । एकोऽर्थोऽद्वयं तत्त्वं तदभ्यसनं श्रवणाद्यावर्तनम्
॥ ४० ॥

तालवृन्तस्य संस्पन्दे शान्ते शान्तो यथानिलः ।
प्राणानिलपरिस्पन्दे शान्ते शान्तं तथा मनः ॥ ४१ ॥

प्राणः शरीरविलये प्रयाति व्योमवायुताम् ।
यथा वासितमेवेदं सर्वं पश्यति तत्र वा ॥ ४२ ॥

सति शरीरे प्राणोत्क्रमणे अस्त्वयं क्रमः यत्र शरीरस्यैव शापच्छेदादिना
नाशस्तत्र कः क्रमस्तमाह-प्राण इति । व्योमवायुतां
बाह्याकाशस्थवायुमिलनात्तद्भावम् । तत्र बाह्याकाशे ॥ ४२ ॥

यथा विदेहाः पश्यन्ति प्राणा व्योमनि देहकम् ।
समनस्कास्तथाचारं सर्वं चानुभवन्ति ते ॥ ४३ ॥

यथा यादृशं कर्मोद्भावितवासनामयं सुरनरपश्वादिदेहकं पश्यन्ति तथा
तदनुरूपमेव आचारं व्यवहारमनुभवन्ति ॥ ४३ ॥

शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति ।
तथा शान्ते मनःस्पन्दे शाम्यन्ति प्राणवायवः ॥ ४४ ॥

अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ।
कुसुमामोदवन्मिश्रे तिलतैले इव स्थिते ॥ ४५ ॥

तिलतैले सङ्क्रान्तकुसुमामोदवन्मिश्रे ॥ ४५ ॥

मनसः स्पन्दनं प्राणः प्राणस्य स्पन्दनं मनः ।
एतौ विहरतो नित्यमन्योन्यन्न् रथसारथी ॥ ४६ ॥

रथसारथी इव अन्योन्यस्पन्दनं विहरतः सम्पादयतः ॥ ४६ ॥

आधाराधेयवच्चैतावेकाभावे विनश्यतः ।
कुरुतश्च स्वनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥ ४७ ॥

आधाराधेयवत् अग्न्यौष्ण्यवत् ॥ ४७ ॥

एकतत्त्वघनाभ्यासाच्छान्तं शाम्यत्यलं मनः ।
तल्लीनत्वात्स्वभावस्य तेन प्राणोऽपि शाम्यति ॥ ४८ ॥

शान्तं बाधितद्वैतवासनम् । प्राणस्वभावस्य तस्मिन्मनसि लीनत्वादेकीभूतत्वात् ॥
४८ ॥

विचार्य यदनन्तात्मतत्त्वं तन्मयतां नय ।
मनस्ततस्तल्लयेन तदेव भवति स्थिरम् ॥ ४९ ॥

तस्मिन्नात्मतत्त्वे लयेन तदात्मतत्त्वमेव स्थिरं भवति ॥ ४९ ॥

यदेवातितरां श्रेयोऽनुपलम्भोपलम्भयोः ।
द्वयोरप्यसतोस्तत्र शेषे वापि स्थितो भव ॥ ५० ॥

अनुपलम्भोऽज्ञानम् उपलम्भस्तद्बाधिका ब्रह्माकारा
वृत्तिस्तयोर्द्वयोरप्यसतोर्निवृत्तयोर्यः शिष्यत इति शेषस्तत्र चिन्मात्रे
प्राणधारणया वा स्थिरो भवेत्यर्थः ॥ ५० ॥

एकस्मिन्सुदृढे तत्त्वे तावद्भावं विभावयेत् ।
भावोऽभावत्वमायाति स्वभ्यासाद्यावदाततम् ॥ ५१ ॥

कियत्कालमेकतत्त्वभावना धार्या तत्राह-एकस्मिन्निति । भावं
तदाकारवृत्तिधाराम् । यावद्भावः सा वृत्तिधारापि चरमसाक्षात्कारप्लुष्टा सती
अभावत्वमायाति तावदित्यर्थः ॥ ५१ ॥

प्रत्याहारवतां चेतः स्वयं भोग्यक्षयादिव ।
विलीयते सह प्राणैः परमेवावशिष्यते ॥ ५२ ॥

भोग्यक्षयादाहारक्षयात्स्वयं देह इव विलीयते ॥ ५२ ॥

यदेकतानं भवति चेतस्तद्भवति क्षणात् ।
शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः ॥ ५३ ॥

धारणान्तैः पञ्चभिरङ्गैर्मनसो बाह्याकारक्षये सति
धारणादिभिस्त्रिभिर्ब्रह्मैकतानतासम्पत्त्या निर्विकल्पसमाधिपरिपाकेन
ब्रह्मभावः सिद्ध्यतीत्याह-यदेकतानमिति ॥ ५३ ॥

अविद्येयं तु नास्तीति बुद्ध्वा युक्तियुतं धिया ।
ज्ञानादेव परावाप्तिस्तदभ्यासस्ततः परम् ॥ ५४ ॥

अश्रुते अमते च ध्यानधारणाद्यभ्यासायोगाच्छ्रवणमननाभ्यां
द्वैतजातमविद्यैव सा च नास्त्येव तत्त्वज्ञानादेव परावाप्तिरिति
प्रमाणप्रमेयासम्भावनादोषनिरासपर्यन्तं बुद्ध्वा ततः परं
ध्यानधारणादिना ज्ञानाभ्यासः कार्य इत्यर्थः ॥ ५४ ॥

चित्ते शन्ते शाम्यतीयं संसारमृगतृष्णिका ।
जरामुपगते मेघे मिहिका तन्मयी यथा ॥ ५५ ॥

मेघे जरामपक्षयं शरदि उपगते सति ततो हेतोरागता तन्मयी । तत आगत इत्यर्थे
हेतुमनुष्येभ्योऽन्यतरस्याम् इत्यनुवर्तमाने मयट् च इति मयट् ॥ ५५ ॥

चित्तमात्रमविद्येति कुरु तेनैव तत्क्षयम् ।
तद्रूपं राम चित्तात्मा नाभावो हि परं पदम् ॥ ५६ ॥

ब्रह्माकारपरिणतेन तेन चित्तेनैव तस्य चित्तस्य क्षयं कुरु । तस्य चित्तक्षयस्य रूपं
तु चित्ताधिष्ठानमात्मैव न शून्यता । हि यस्मात्तदभावः परं पदं
परमपुरुषार्थो न भवतीत्यर्थः ॥ ५६ ॥

मुहूर्तमेव निर्वाणं यदि चेतः परे पदे ।
तत्तत्परिणतं विद्धि तत्रैवास्वादमागतम् ॥ ५७ ॥

अप्यर्थे एवकारः । निर्वाणं विश्रान्तम् । तत्तर्हि तद्ब्रह्मैव परिणतं विद्धि
नत्वध्यस्तस्याधिष्ठानव्यतिरिक्तं स्वरूपमस्तीति तत्रैव
निरतिशयस्वप्रकाशानन्दास्वादमागतं सन्न व्युत्थानमिच्छतीत्यर्थः ।
तथाचोक्तं शिवधर्मोत्तरे ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । विहाय
सर्वकार्याणि मनस्तत्रैव धावति ॥ इति ॥ ५७ ॥

यदि साङ्ख्येन विश्रान्तं चेतो योगेन वापि ते ।
क्षणं तत्सत्त्वतां यातं न भूय इह जायते ॥ ५८ ॥

इदमेव प्रस्तुतयोः साङ्ख्ययोगयोरेकं फलमित्याह-यदिति ॥ ५८ ॥

चेतो विगलिताविद्यं सत्त्वशब्देन कथ्यते ।
दग्धसंसारबीजं तन्न ददात्यन्तरं पुनः ॥ ५९ ॥

सत्त्वशब्दार्थ स्वयमेवाह-चेत इति । अन्तरं ब्रह्मभावविच्छेदम् ॥ ५९ ॥

कश्चिद्विगलिताविद्यः सत्त्वस्थः शान्तवासनः ।
परं शून्योपमं सद्यो ज्योतिः पश्यति शाम्यति ॥ ६० ॥

तद्दर्शनोन्मुखजना विरला एवेत्याह-कश्चिदिति । अज्ञदृशा
असम्भावनाच्छून्योपमम् । ज्ञदृशा तु परं ज्योतिः ॥ ६० ॥

विगलितात्मपदं विगलन्मनः सुभग सत्त्वमितीह हि कथ्यते ।
न पुनरेति कलामलिनं पदं कनकतामिव ताम्रमुपागतम् ॥ ६१ ॥

उक्तमेवार्थमनुवदन्नुपसंहरति-विगलितेति । हे सुभग
उक्तत्रिविधोपायाभ्यासैर्विगलितान्यात्मनो जाग्रत्स्वप्नसुषुप्तिलक्षणानि
भ्रान्तितद्बीजदर्शनपदानि यस्य तथाविधं स्वयं चाविद्याक्षयाद्विगलद्बाधितं
दग्धपटवत् प्रतिभासमात्रशिष्टं मन इह जीवन्मुक्त्यवस्थायां सत्त्वमिति कथ्यते
। तच्च वासनाबीजशक्तिदाहात् पुना रागद्वेषाभिमानादिकलाभिर्मलिनं संसारपदं
न एति । यथा स्पर्शमणिसङ्गात्कनकतामुपागतं ताम्रं पुनः
कलङ्ककलनामलिनं ताम्रपदं नैति तद्वदित्यर्थः ॥ ६१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू०
प्राणमनःसंयोगविचारणं नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
प्राणमनःसंयोगविचारणं नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥