०६८

अष्टषष्टितमः सर्गः ६८

श्रीवसिष्ठ उवाच ।

सुषुप्तमौनवान्भूत्वा त्यक्त्वा चित्तविलासिताम् ।
कलनामलनिर्मुक्तस्तिष्ठावष्टब्धतत्पदः ॥ १ ॥

मौनं चतुर्विधं त्वत्र लक्षणैरुपवर्ण्यते ।
सुषुप्तमौनं तत्रापि तुर्यातीतप्रतिष्ठितम् ॥

चित्तविलासितां चित्तस्य स्वाभाविकप्रवृत्त्यनुसारिताम् ॥ १ ॥

श्रीराम उवाच ।

वाङ्वौनमक्षमौनं च काष्ठमौनं च वेद्दृयहम् ।
सुषुप्तमौनं मौनेश ब्रह्मन्ब्रूहि किमुच्यते ॥ २ ॥

वागादीनां मौनं संयमः । काष्ठमिव मौनं काष्ठमौनम् । सर्वेषु मौनेषु
ईशिषे समर्थो भवसीति मौनेश ॥ २ ॥

श्रीवसिष्ठ उवाच ।

द्विविधः प्रोच्यते राम मुनिर्मुनिवरैरिह ।
एकः काष्ठतपस्वी स्याज्जीवन्मुक्तस्तथेतरः ॥ ३ ॥

द्विविधा इति । त्वद्विदितानां त्रयाणां काष्ठतपस्विनां
तारतम्यभेदानामनात्मज्ञतया एककोटितैवेति भावः ॥ ३ ॥

अभावितायां शुष्कायां क्रियायां बद्धन्निश्चयः ।
हठाज्जितेन्द्रियग्रामो मुनिः स्यात्काष्ठतापसः ॥ ४ ॥

तमेव प्रकटयति-अभावितायामिति । भावितमात्मतत्त्वपर्यालोचनं
तच्छून्यायां शुष्कायां तदनुभवरसशून्यायां
कृच्छ्रचान्द्रायणादिक्रियायाम् ॥ ४ ॥

यथाभूतमिदं बुद्ध्वा भावितात्मात्मनि स्थितः ।
लोकोपमोपि तृप्तोऽन्तर्यः स मुक्तमुनिः स्मृतः ॥ ५ ॥

व्यवहारे इतरतपस्विलोकोपमोऽप्यन्तर्निरतिशयानन्दास्वादतृप्तः ॥ ५ ॥

एतयोर्यो भवेद्भावः शान्तयोर्मुनिनाथयोः ।
चित्तनिश्चयरूपात्मा मौनशब्देन स स्मृतः ॥ ६ ॥

प्रकृत्यर्थं व्युत्पाद्य प्रत्ययार्थ व्युत्पादयति-एतयोरिति ॥ ६ ॥

चतुष्प्रकारमाहुस्तं मौनं मौनविदो जनाः ।
वाङ्मौनमक्षमौनं च काष्ठं सौषुप्तमेव च ॥ ७ ॥

तत्राद्यं त्रेधा विभज्य चतुष्प्रकारं मौनं मुनय आहुरित्यर्थः ॥ ७ ॥

वाङ्मौनं वचसां रोधो बलादिन्द्रियनिग्रहः ।
अक्षमौनं परित्यागश्चेष्टानां काष्ठसञ्ज्ञकम् ॥ ८ ॥

तेषां प्रत्येकं लक्षणान्याह-वाङ्मौनमित्यादिना । इन्द्रियनिग्रहोऽक्षमौनम् ॥
८ ॥

मनोमौनं पञ्चमं च तन्मृतौ काष्ठतापसे ।
भावे सुषुप्तमौनाख्यं जीवन्मुक्तोऽनुजीवति ॥ ९ ॥

एवं विभागपर्यालोचने मनोमौनमपि पञ्चमं यद्यपि सम्भवति तथापि तत्
काष्ठतापसे मृतो मूर्च्छासुषुप्त्योरेव सम्भवति नान्यदेति तत्तैर्न
परिगणितमित्यर्थः । त्वर्थे चः । भावे आत्मतत्त्वानुभवे ॥ ९ ॥

त्रिषु मौनविशेषेषु विषयः काष्ठतापसः ।
सुषुप्तमौनावस्थायां सा तुर्या सैव मुक्तधीः ॥ १० ॥

विषयः अधिकृतः । तुर्या चतुर्थी । मुक्तेषु जीवन्मुक्तेषु धीयत इति मुक्तधीः ॥ १० ॥

वाङ्मौनं मौनमित्येतत्सिद्धं तच्च मनः किल ।
मलिनं जीवबन्धाय तत्रस्थः काष्ठतापसः ॥ ११ ॥

यद्यपि त्रिषु मौनेषु मौनत्वं सिद्धं तथापि तानि
मलिनमनोदृढनिश्चयरूपाण्येवेति जीवस्य बन्धायैवेत्याह-वागिति ॥ ११ ॥

अस्मत्संस्मरणं वापि दृश्यं वाङ्मयमस्पृशन् ।
अपश्यन्नेव पश्यन् हि काष्ठमौनी तु तिष्ठति ॥ १२ ॥

तर्हि तद्वान्काष्ठतापसः समाधौ कथं तिष्ठति तदाह-अस्मदिति ।
बलान्मनोनिग्रहेणान्तरस्पदोऽहम्भावस्य संस्मरणमनुसन्धानमस्पृशन्
बहिरपि दृश्यं रूपप्रपञ्चं वाङ्मयं नाम प्रपञ्चं
चास्पृशान्नज्ञानावृतमात्मानमपश्यन्नेव सुषुप्ताविव
नित्यात्मदृग्विलोपाभावाद्भस्मच्छन्नाग्निवत्साक्षिमात्रज्योतिषा
पश्यंस्तिष्ठतीत्यर्थः ॥ १२ ॥

प्रस्फुरच्चित्तकलनमेतन्मौनत्रयं स्मृतम् ।
भवन्ति मौनिनस्तत्र न तज्ज्ञास्तत्स्थलीलया ॥ १३ ॥

व्युत्थानकाले त्वेतन्मौनत्रयं प्रस्फुरच्चित्तचलनमेव । तत्र प्राक्तनास्त्रयो मौनिनो
भवन्ति तज्ज्ञास्तु चित्तबाधान्न तत्स्थनिरोधव्युत्थानादिलीलया तत्र भवन्तीत्यर्थः ॥
१३ ॥

नात्रोपादेयताज्ञानमेतन्मौनत्रये किल ।
लीलया कथितं तेन तज्ज्ञाः कुप्यन्तु वा न वा ॥ १४ ॥

अथवा तत्स्थलीलयेत्यस्य पूर्णात्मस्थितिलीलया । तज्ज्ञास्तुच्छप्राक्तनमौनत्रये
बन्धरूपमेवेदं निरस्यमिति तु कुप्यन्तु चिदानन्दविलास एवेति बुद्ध्या न वा कुप्यन्तु
तथापि तेषामत्रोपादेयताज्ञानमेव नास्तीत्यर्थे तात्पर्यमित्याह-नात्रेति ॥ १४ ॥

इदं सुषुप्तमौनं तु जीवन्मुक्तमितिस्थितम् ।
अपुनर्जन्मनो जन्तोः शृणु श्रवणभूषणम् ॥ १५ ॥

जीवन्मुक्तानां मितिरनुभवस्तत्र स्थितम् । जन्तोर्भवतीति शेषः । अतस्त्वमपि शृणु ॥
१५ ॥

नात्र संयम्यते प्राणस्त्रिविधो नापि योज्यते ।
नोल्लस्यन्ते न ग्लायन्ते समस्तेन्द्रियसंविदः ॥ १६ ॥

तत्त्वदर्शने सिद्धे अयत्नेनैव तत्सिद्ध्यतीति न पूर्वमौनक्लेशसापेक्षतेत्याह##-
निरोधक्लेशेन न ग्लायन्ते ॥ १६ ॥

नानाताकलनेयं च न वल्गति न शाम्यति ।
चेतो न चेतो नाचेतो न सन्नासन्न चेतरत् ॥ १७ ॥

तस्य ज्ञानबाधितं चित्तं कथमवतिष्ठते तदाह-चेत इति ॥ १७ ॥

अविभागमनभ्यासं यदनाद्यन्तमास्थितम् ।
ध्यायतोऽध्यायतश्चैतत्सौषुप्तं मौनमुच्यते ॥ १८ ॥

विभाजकविकल्पक्षयात्तारतम्यविभागाभावाच्चाविभागम् ।
अतएवानभ्यासमभ्यासनिरपेक्षम् । अपरिच्छिन्नात्मरूपत्वादनाद्यन्तम् ॥ १८ ॥

यथाभूतमिदं बुद्ध्वा जगन्नानात्वविभ्रमम् ।
यथास्थितमसन्देहं सौषुप्तं मौनमेव तत् ॥ १९ ॥

जगदिति नानात्वविभ्रमो यस्मिंस्तत् इदं आत्मतत्त्वं यथास्थितं बुद्ध्वा ॥ १९ ॥

अनेकसंविद्रूपात्म शिवेनैवेदमाततम् ।
इत्यास्थितमनन्तं यत्सौषुप्तं मौनमुच्यते ॥ २० ॥

अनेकधा संविद्रूपाणामात्मा यः शिवस्तेनैवाततं पूर्णं आस्थितभवस्थानं
यत्तदित्यर्थः ॥ २० ॥

आकाशं नैव चाकाशं सर्वमस्ति च नास्ति च ।
इति चित्तं समं शान्तं यत्तन्मौनं सुषुप्तवत् ॥ २१ ॥

शून्यरूपत्वाभावान्नैव चाकाशे ॥ २१ ॥

सर्वशून्यं निरालम्बं शान्तिविज्ञप्तिमात्रकम् ।
न सन्नासदिति यस्यामासितं मौनमुत्तमम् ॥ २२ ॥

यस्यां जीवन्मुक्तदशायामासितमवस्थानम् ॥ २२ ॥

भावाभावादशादेशविशेषैर्वितथोत्थितैः ।
संविदो यदनाभासस्तन्मौनं परमं विदुः ॥ २३

भावाभावादिविशेषैः संविदोऽनाभासः अविवर्तः ॥ २३ ॥

अत्यन्तमसतैवान्तश्चेतसाऽवृत्तिरूपिणा ।
यदनावर्तनं संविद्वृत्तेस्तन्मौनमक्षयम् ॥ २४ ॥

बाधितत्वादत्यन्तमसतैव ॥ २४ ॥

नाहमस्मि न चान्योऽस्ति न मनो न च मानसम् ।
इति संविदसंवित्तिरविच्छिन्नातिमौनिता ॥ २५ ॥

मानसं विकल्पनम् । इति बाधितस्य संविदा असंवित्तिरप्रतिभासः ॥ २५ ॥

अहमस्मि जगत्यस्मिन्स्वस्ति शब्दार्थमात्रकम् ।
सत्तासामान्यमेवेति सौषुप्तं मौनमुच्यते ॥ २६ ॥

स्वस्ति अनामयं शब्दार्थमात्रकं सर्वं सत्तासामान्यमेव ॥ २६ ॥

यस्मात्संविदमेव स्यात्स्वान्यादिकलना कुतः ।
अनन्तमेव सौषुप्तं सर्वं मौनमतस्ततम् ॥ २७ ॥

यस्माद्धेतोः अमा सर्वबाधकस्वाकारचरमवृत्तिप्रमाशून्या तामपि ग्रसन्तीव
स्यात्तस्मात्स्वस्य अन्यस्य आदिपदाद्भेदस्य च ॥ २७ ॥

सुषुप्तमौनमेवेदमनन्तत्वात्प्रबोधवत् ।
तुर्यमेवामलं विद्धि तुर्यातीतमथापि च ॥ २८ ॥

अविद्याबाधात्तुर्य तद्बाधकवृत्तीनामपि बाधात्तुर्यातीतम् ॥ २८ ॥

सौषुप्तैकसयाधानस्तथा तुर्यसमाधिकः ।
तुर्यातीतसमाधिर्वा जाग्रत्यपि भवन्ति वै ॥ २९ ॥

प्रागुक्तसप्तविधज्ञानभूमिकानां मध्ये पञ्चम्यादय एतास्तिस्रो भूमिकाः
समाधिभेदरूपाः जाग्रति अपिशब्दात्स्वप्नस्थेऽपि तत्त्वविदि पर्यायेण भवन्तीत्याह##-
॥ २९ ॥

तुर्यस्थ एव सकलामलशान्तिवृत्तिर्जाग्रत्यपि व्यवहरन्निपुणं समन्तात् ।
नित्यं सदेह उत वापि विदेह एव ब्रह्मन्नभोभवत एव किलास्ति साधो ॥ ३० ॥

हे ब्रह्मन् ब्रह्मभूत हे साधो जाग्रति समन्तान्निपुणं व्यवहरन्सदेहोऽपि उत वा
त्यक्तव्यवहारः समाधिस्थोऽपि जीवन्मुक्तः सकलामलशान्तिवृत्तिनित्यं तुर्यस्थ एव
तथा विदेह एव । इयं च स्थितिः स्थूलसूक्ष्माकारद्वयबाधानाभो भवतीति
नभोभवन् यस्तस्यैवास्ति नान्यस्येत्यर्थः । अथवा नभ इत्यपि सम्बोधनमेव । इयं
स्थितिस्तथा भवत एवास्ति नान्यस्येत्यर्थः । अथवा भवतस्तवैवास्तीति रामं प्रति
सिद्धवत्कारोक्तिः ॥ ३० ॥

ॐमित्युदस्तभववासनमेकमास्स्व न त्वं न चाहमपि नान्यदिहास्ति सत्यम् ।
सर्वं च विद्यत इतीह किलान्तराभं ज्ञस्तिष्ठ चिद्गगनकोशकलैकनिष्ठः ॥ ३१

हे राम त्वं ॐमिति माण्डूक्योपनिषदुक्तरीत्या
विराडादिपादमात्राप्रविलापनेनोदस्तभववासनमेकं तुर्यरूपमास्स्व । सर्वं च
विद्यत इतीह किल यत्प्रसिद्धं तत् आन्तरो नाड्यन्तरनुभूयमानः स्वप्नस्तदाभं
बुद्ध्वा ज्ञो जीवन्मुक्तस्त्वं चिद्गगनकोशकलैकनिष्ठस्तिष्ठेत्यर्थः ॥ ३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
महामौनयत्नोपदेशो नामाष्टषष्टितमः सर्गः ॥ ६८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
महामौनयत्नोपदेशो नामाष्टषष्टितमः सर्गः ॥ ६८ ॥