सप्तषष्टितमः सर्गः ६७
दशरथ उवाच ।
मुनिनायक तं भिक्षुं गत्वा सम्बोधयन्त्वमी ।
नरा मत्प्रहिताः शीघ्रं चानयन्तु कुटीगतम् ॥ १ ॥
भिक्षोः समाधौ मुक्तस्य देहनाशोऽत्र वर्ण्यते ।
भिक्षुभ्रान्तिवदन्येषां बन्धो मोक्षश्च बोधतः ॥
सम्बोधयन्तु समाध्र्व्युत्थापयन्तु । अमी मत्प्रहिता मया प्रेषिता नरा मन्त्रिणो
भवदाज्ञया आनयन्तु ॥ १ ॥
श्रीवसिष्ठ उवाच ।
राजंस्तस्य महाभिक्षोः स देहः प्राणवर्जितः ।
क्लेदो वैवर्ण्यमायातो नासौ जीवितभाजनम् ॥ २ ॥
अद्यैव तस्य संवेत्तुं नियतेरेष निश्चयः इति मदुक्तं विस्मृत्य त्वयेदं
पृष्टमिति सूचयन्वसिष्ठ उवाच-राजन्निति । क्लेदः
प्राणोपष्टम्भकान्नरसभागः शोषेण वैवर्ण्यमायातः ॥ २ ॥
तस्य भिक्षोस्तु जीवोऽसौ भूत्वा पद्मजसारसः ।
जीवन्मुक्तः स्थितो भूयो नासौ संसृतिभाजनम् ॥ ३ ॥
स तर्हि त्वदीयसत्यसङ्कल्पेन प्रजीवतु तत्राह-तस्येति । सत्येव
तद्देहभोग्यप्रारब्धशेषे मत्सङ्कल्पः प्रवर्तते नान्यथेति भावः ॥ ३ ॥
तद्गृहे मासपर्यन्ते बलान्निष्कासितार्गलाः ।
अन्तराले तु तिष्ठन्ति भृत्या भिक्षुदिदृक्षवः ॥ ४ ॥
मासपर्यन्तं गृहार्गलं न निष्कासनीयमिति भिक्षुणा आज्ञप्तैरन्तरालवासिभिस्त
द्भृत्यैर्गुप्तत्वादपि त्वन्मन्त्रिभिस्तत्प्रबोधनं कर्तुमशक्यमित्याह##-
भिक्षुदेहदिदृक्षवो भृत्या बहिर्द्वारान्तराले तिष्ठन्ति । बलाद्भिक्ष्वाज्ञाबलादिति
वा ॥ ४ ॥
ततो नष्टाङ्गसन्धानं कायं निष्काल्यते जले ।
त्यक्ष्यन्त्यन्यं करिष्यन्ति भिक्षुमक्षुण्णमानसम् ॥ ५ ॥
ततो मासान्ते कायं भिक्षुशरीरं निष्काल्य निःसार्य जले त्यक्ष्यन्ति मज्जयिष्यन्ति ।
तस्यां कुट्यामन्यं तत्कायाकारशिलाप्रतिमारूपं भिक्षुं
पूजाभक्त्यादिव्यवहारप्रवर्तनाय करिष्यन्ति । दृढत्वादक्षुण्णं मानसं
भक्तमनःकल्पितदेवतारूपम् । कर्मधारयः ॥ ५ ॥
अनेनैवं सदेहेन भिक्षुर्मुक्तो व्यवस्थितः ।
कथं प्रबोध्यते नष्टं तद्विहारे शरीरकम् ॥ ६ ॥
एवमुक्तरीत्या मुक्तः । विहारे प्राणचेष्टादिव्यापारविषये नष्टं मृतम् ॥ ६ ॥
एषा [एवातिवितता मायेति पाठः ।] गुणमयी माया दुर्बोधेन दुरत्यया ।
नित्यं सत्यावबोधेन सुखेनैवातिवाह्यते ॥ ७ ॥
प्रश्नं प्रासङ्गिकमुक्त्वा प्रस्तुतमेवावलम्बते-एषेत्यादिना । दुर्बोधेन
भ्रान्तिपरम्पराहेतुविक्षेपशक्त्या । अतिवाह्यते निरस्यते ॥ ७ ॥
असत्येव कृतारम्भा हेम्नः कटकता यथा ।
प्रतिभासविपर्यासमात्रकारणकोदया ॥ ८ ॥
असती अविद्यमानैव कृतजगदारम्भा । हेम्नः कटकतयेव प्रतिभासस्य यो
विपर्यासोऽन्यथाभावस्तन्मात्रकारणको विभ्रमोदयो यस्याः ॥ ८ ॥
परमात्मनि वाचेयमित्थं मायानुमीयते ।
तरङ्गालीव पयसि प्रेक्षामात्रविनाशिनी ॥ ९ ॥
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्यादिदृष्टान्तश्रुतिवाचा
दार्ष्टान्तिकमायापि इत्थमनृतस्वभावैवानुमीयते ॥ ९ ॥
ज्ञो हि दृश्यतया दीर्घस्वप्नात्स्वप्नान्तरं व्रजेत् ।
एवं जीवत्वमायाति विवेकात्सर्वमात्मदृक् ॥ १० ॥
ज्ञः परमात्मा एवं अविवेकाज्जीवत्वमायाति स च स्वविवेकात्सर्वमात्मेति
पश्यतीत्यात्मदृक् चिन्मात्रः परिशिष्यत इत्यर्थः ॥ १० ॥
यो यस्य प्रतिभासः स्यादात्मैव स स्वबोधतः ।
स एवोदेति संसारः करञ्जवनगुल्मदृक् [गुल्मधृगिति पाठः ।] ॥ ११
॥
सः स्वबोधत आत्मैव । अबोधतस्तु स एव संसारात्मना उदेति ॥ ११ ॥
प्रत्येकं भूतमुदितं कृतं संसारमण्डलम् ।
भिक्षोः स्वप्नान्तर इव परां भङ्गिमिवाम्भसः ॥ १२ ॥
भूतं प्राणिनिकायं प्रति प्रत्येकं संसारमण्डलं भ्रान्त्या उदितं कृतम् ।
यथा भिक्षोः स्वप्नान्तरे अम्भसो भङ्गि आवर्ततरङ्गादिविभागमिव विद्धीत्यर्थः
॥ १२ ॥
प्रस्तुतः पद्मजादेव जगत्स्वप्नो यथोदितः ।
तथैवास्वच्छचित्तोत्थो रूढः सर्वजनं प्रति ॥ १३ ॥
समष्टेर्हिरण्यगर्भस्य मनोमात्रनिर्माणत्वादयं सर्गः स्वप्न एव चेद्व्यष्टेरपि
तथैव भवितुमर्हति । अस्वच्छचित्तादुत्थित इति परः स्थिर इव भासत इत्याह-प्रस्तुत
इति ॥ १३ ॥
पितामहवदाभाति सर्गः स्वप्नविलासवत् ।
प्रत्येकमुदितस्तेन ब्रह्माण्डानीव कोटिशः ॥ १४ ॥
चित्तशुद्धौ तु पितामहस्येव पितामहवत् स्वप्नविलासवदसत्य आभाति तेन
तादृशभानेन ज्ञायते । प्रत्येकमयं ब्रह्माण्डानीव कोटिश उदित इति निश्चीयत
इत्यर्थः ॥ १४ ॥
स्फुरन्यथा तथा वास्मिञ्जीवः पश्यति विभ्रमम् ।
हृदयेऽयन्न् समर्थं च स्वप्नवद्दीर्घमान्तरम् ॥ १५ ॥
अयं जीवो व्यष्टिप्रपञ्चरूपेण समष्टिप्रपञ्चरूपेण वा
साधारणप्रपञ्चरूपेण प्रत्येकमसाधारणप्रपञ्चरूपेण वा यथा तथा वा
स्फुरन्नस्तु तथापि हृदये प्रतिभानसमर्थ दीर्घ विभ्रमं पश्यतीति स
स्वप्नवन्मिथ्यैवेत्यर्थः ॥ १५ ॥
चित्सत्तामात्रमासाद्य प्रतीतिच्युतमात्रतः ।
जरामरणदुःखानां क्वचिद्भाजनतां गतः ॥ १६ ॥
दीर्घस्वप्नदर्शने निमित्तमाह-चित्सत्तामात्रमिति । तत्त्वतः
प्रतीतेश्च्युतमावृत्तं तावन्मात्रतश्चित्सत्तामात्रमासाद्य आश्रित्य
क्वचित्कस्मिंश्चिद्देवनरतिर्यगादिदेहे ॥ १६ ॥
पातालं ब्रह्मलोकं वा चित्तत्सुकृतशालिनी ।
चित्तांशस्पन्दमात्रेण कृत्वा कृत्वेव संस्थिता ॥ १७ ॥
तत्तत्र स्वप्ने विचित्रसुकृतशालिनी जीवचित् स्वचित्तांशस्पन्दमात्रेणाधः पातालं वा
ऊर्ध्वं ब्रह्मलोकं वा कृत्वा कृत्वा भुञ्जाना संस्थितेत्यर्थः ॥ १७ ॥
चित्स्पन्दरूपिणी जीवनामरूपं गतात्मनि ।
अन्यत्र च विलुठति गत्वा सम्भ्रमहारिणी ॥ १८ ॥
परमात्मचिदेव प्राणकल्पनया तदधीनस्पन्दरूपिणी भूत्वा तद्द्वारेण
जीवनामकं रूपं गता सती आत्मनि देहाकारसम्भ्रमहारिणी अन्यत्र बहिश्च गत्वा
विषयाकारसम्भ्रमहारिणी भूत्वा विलुठति ॥ १८ ॥
चित्तेति परमात्मा न परमात्मा न वा न किम् ।
जीवदेहादिनाम्नोऽस्य प्रतिबिम्बादिवार्हता ॥ १९ ॥
अस्त्वेवमस्य भ्रान्त्या जीवादिनामरूपभेदस्तथापि परमात्मैवैषः
अध्याससहस्रैरप्यधिष्ठानस्यान्यत्वायोगादिति परमपुरुषार्थफलं
जीवब्रह्मैक्यं दृढीकरोति-चित्तेतीति । प्रत्यगात्मा
चित्तेत्युपाध्याकारभ्रान्तिमात्रापराधात्किं परमात्मा ब्रह्म न परं वा ब्रह्म
किं आत्मा प्रत्यगात्मा न किमस्य ब्रह्मणो मुखस्य दर्पणे
प्रतिबिम्बनादिवौपाधिकजीवनाम्नो देवदत्तयज्ञदत्तादेर्देहनाम्न
आदिपदात्प्राणवाक्चक्षुरादिनाम्नश्चाहर्ता न किन्तु अभेदेऽप्युपाधिवशात्सर्वं
सम्भवत्येव । तथा च श्रुतिः स एष इह प्रविष्ट आनखाग्रेभ्यः प्राणन्नेव प्राणो
नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मन इति
तान्येतस्य कर्मनामान्येव इति ॥ १९ ॥
ब्रह्मण्येव परं ब्रह्म जगद्दृष्ट्यैव संस्थितम् ।
शुद्धाकाशमिवाकाशे जले जलमिवामलम् ॥ २० ॥
एवमैक्यदर्शने जगद्दृष्ट्या व्यवहारदृष्ट्यैव परं ब्रह्म ब्रह्मण्येव
संस्थितं किं पुनः परमार्थदृष्ट्या समूलोपाधिबाधे तद्वाच्यमिति भावः ॥ २०
॥
लोको ब्रह्मण एवायं जगद्रूपेषु तिष्ठति ।
बिभेत्यन्यतया बोधात्प्रतिबिम्बादिवार्भकः ॥ २१ ॥
किं च दर्पणादौ मुखादत्यन्तमिन्ने मुखस्य स्थितावन्यथाभ्रान्तिसम्भावनापि
स्यात् । अयं जीवलोकस्तु स्वात्मभूतस्याभयस्य ब्रह्मण एव मूर्तामूर्तात्मकेषु
जगद्रूपेषु तिष्ठतीति न तत्सम्भावनापि तथापि अन्यतया आत्मन्यतिरिक्तमन्यन्मम
भयहेतुरस्तीति बोधाद्बिभेतीत्याश्चर्यमित्यर्थः ॥ २१ ॥
स्पन्देऽस्पन्दीकृते चेह स्वतः सञ्ज्ञा विलीयते ।
साप्यलं परिणामेन लीयतेऽग्नौ घृतं यथा ॥ २२ ॥
अन्यताबोधे च बुद्धिस्पन्दो हेतुरिति बुद्धिस्पन्दे समाध्यभ्यासेन अस्पन्दीकृते
भेदबुद्धिलक्षणा सञ्ज्ञा स्वत एव बुद्धौ विलीयते सा बुद्धिरप्यलं
पूर्णब्रह्माकारेण चरमसाक्षात्कारलक्षणपरिणामेनाग्नौ हुतं घृतमिव
तदिद्धे ब्रह्मणि विलीयत इत्यर्थः ॥ २२ ॥
चित्स्पन्द एव चित्स्पन्दे सर्वात्मनि विजृम्भितः ।
स्पन्दास्पन्दौ जृम्भणादि कल्पितं नात्र वास्तवम् ॥ २३ ॥
बोधमात्रात् कथं कुद्दालकोटिदुर्भेद्यं जगद्विलीयत इति
चेदवास्तवचित्स्पन्दमात्रत्वादित्याह-चित्स्पन्द एवेति ॥ २३ ॥
न स्पन्दोऽस्तीह नास्पन्दो नैकता वापि न द्विता ।
शुद्धं चिन्मात्रसर्वस्वं यथैवास्ति तथा स्थितम् ॥ २४ ॥
कल्पितमिति कथं ज्ञातमिति चेत्तत्त्वदृशा तददर्शनादित्याह-नेति ॥ २४ ॥
सारेण तु विचारेण सर्वशब्दार्थयोः समे ।
चिन्मात्रमेव ज्ञातेऽयं नास्तीत्यपि न विद्यते ॥ २५ ॥
सर्वशब्दस्य तदर्थस्य च समे एकरसे स्वभावे ज्ञाते सति चिन्मात्रमेव
परमार्थसत्यम् । नास्तीति अभावभूतोऽप्ययं प्रपञ्चो न विद्यते दूरे भाव इत्यर्थः
॥ २५ ॥
भेदवेदनयोदेति भेदः प्रकृतिलाञ्छनम् ।
अभेदबोधादखिले गलिते शिष्यते परम् ॥ २६ ॥
नानातैवास्य बोधेन स बोधस्त्वनवेक्षणात् ।
पृच्छकं चैवमस्त्येव तस्मान्निःशङ्कता परा ॥ २७ ॥
यथोक्तैव वस्तुस्थितिर्न केनचिदन्यथाकर्तु शक्येति वसिष्ठः प्रतिजानीते-नानातेति ।
एवकारौ भिन्नक्रमौ । हे राम त्वं अबोधेनैव नानातासि । स त्वमबोधरूपाया
नानाताया अनवेक्षणात्तु बोधः पूर्णचिद्रूप एवासि । अस्मिन्नर्थे यं कं च पृच्छ ।
एवमेवास्ति परमार्थः । तस्मादेव तव मम अन्यस्य च परा निःशङ्कता
प्रतिष्ठितेत्यर्थः ॥ २७ ॥
ततः स्वप्नो न जागर्तिर्न सुषुप्तिर्न तुर्यता ।
न बन्धोस्ति न मोक्षोस्ति नान्यथाकल्पनात्मकम् ॥ २८ ॥
ततस्तादृशनिःशङ्कताबलादेव जाग्रदादिसर्वावस्थाद्वैतापलापः प्रवृत्त
इत्याह-तत इति ॥ २८ ॥
शान्तिरेका जगन्नाम्नी शान्तिरेवमवस्थिता ।
अबोधोऽसत्य एवातः क्व द्रष्ट्टदृश्यदर्शनम् ॥ २९ ॥
अबोधवशादेव द्रष्टदृश्यादित्रिपुटीजगत् । यदा त्वबोधः असत्य एव तदा
शुद्धात्मरूपा तच्छान्तिरेवैका जगन्नाम्नी । यतः सा शान्तिरेव गच्छति सर्वतो
व्याप्नोतीति व्युत्पत्त्या एवं जगन्नामयोग्यतया व्यवस्थिता ।
द्रष्ट्टदृश्यदर्शनात्मिका त्रिपुटी तु अत्यन्ताप्रसिद्धेति नासौ तदा
जगन्नाम्नीत्यर्थः ॥ २९ ॥
स्पन्दोऽप्यस्पन्द एव स्यान्निःसङ्कल्पतया च ते ।
न स्पन्दास्पन्दयोर्भिन्ना सङ्कल्परहितैव चित् ॥ ३० ॥
ननु चित्तप्राणादिस्पन्दस्य बोधमात्रेण कथं निवृत्तिरिति
चेत्तद्धेतुसङ्कल्पक्षयादेवेत्याह-स्पन्द इति ॥ ३० ॥
द्वैतैक्यविकला [विकसद्रूप इति पाठः ।] रूपसङ्कल्पश्चिदभावनात् ।
स च भावनमात्रेण गतो ब्रह्मैव शिष्यते ॥ ३१ ॥
चितः अभावनाददर्शनाद्द्वैतैक्यादिरूपसङ्कल्प उदितः स च भावनमात्रेण
दर्शनमात्रेण गत इति द्वैतैक्यरहिता चिद्ब्रह्मैव शिष्यत इत्यन्वयः ॥ ३१ ॥
चिच्चन्द्रबिम्बे सङ्कल्पकलङ्कः स्फुरतीव यः ।
नासौ कलङ्कस्तद्विद्धि चिद्घनस्य घनं वपुः ॥ ३२ ॥
तद्दर्शनप्रकारमाह-चिच्चन्द्रबिम्बे इति ॥ ३२ ॥
चिद्घनस्य न सन्नासन्स्थीयतां यत्तते पदे ।
इत्यदोषमहाबोधसारसङ्ग्रहणं कृतम् [कुरु इति
पाठश्चेद्व्याख्यानुगुणः स्यात् ।] ॥ ३३ ॥
नासौ कलङ्क इत्यर्थे युक्तिमाह-चिद्घनस्येति । त्वया चिद्घनस्य तते पदे
स्थीयताम् । यद्यस्मात्पूर्णभावावस्थानात्सङ्कल्पादिस्त्वदैकरस्यमापन्नः
पृथङ् न सन् त्वदात्मना च सन् भवति इति अनयैव युक्त्या
सर्ववस्तूनामात्मैकरस्यसम्पादकनिर्दोषबोधसारस्य सङ्ग्रहणं
सम्यगवलम्बनं कुरु ॥ ३३ ॥
चिच्चन्द्रबिम्बासङ्कल्पकलङ्कामृतविग्रहः ।
त्वया भव्येन संस्पृष्टो भावाभावक्षयात्मना ॥ ३४ ॥
हे चिच्चन्द्रबिम्ब हे असङ्कल्पकलङ्क । भावाभावक्षयात्मना भव्येन त्वया
संस्पृष्टः सर्वोपि पदार्थः अमृतविग्रहः सम्पद्यते । अहो ते
माहात्म्यमित्यर्थः ॥ ३४ ॥
भावाभावादिकलनां नीत्वा चिन्मयतां चितः ।
समोल्लासविलासान्तः समाश्वस यथासुखम् ॥ ३५ ॥
चितः समोल्लासविलासस्यान्तः सम्यगाश्वस विश्रान्तिं भज ॥ ३५ ॥
स्पन्दास्पन्दौ कल्पनाकल्पना वा चित्ताम्नायो विद्धि नामाब्धिनाम्ना ।
सर्वाकारा निर्वृतिः शान्तिसत्ता पूर्णापूर्णे ह्येकमेवास्थितेति ॥ ३६ ॥
हे राम त्वं अब्धिनाम्ना आनन्दसमुद्राख्येन स्वरूपेण स्थितः सन् स्पन्दास्पन्दौ
कल्पना सङ्कल्पः अकल्पना विकल्पो वेति यावांश्चित्ताम्नायश्चित्तभ्रान्तिभेदः स
सर्वोपि सर्वाकारा निर्वृतिः सुखैकरसा शान्तिसत्तैव तथा तथा आस्थिता । इमे च
पूर्णापूर्णे दशे एकमेव मे स्वरूपमिति विद्धि ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
ब्रह्मैक्यप्रतिपादनं नाम सप्तषष्टितमः सर्गः ॥ ६७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
ब्रह्मैक्यप्रतिपादनं नाम सप्तषष्टितमः सर्गः ॥ ६७ ॥