०६६

षट्षष्टितमः सर्गः ६६

वाल्मीकिरुवाच ।

वसिष्ठमुनिसंयुक्ता विश्वामित्रादिसंयुताः ।
स्थिताः खेचरसिद्धौघा विऽस्रान्ता नृपनायकाः ॥ १ ॥

अन्विष्टस्यात्र यत्नेन भिक्षोर्दर्शनमुच्यते ।
तादृशानां तथान्येषां मुनीनां भूतभाविनाम् ॥

स्थिता उपविष्टाः । ततो नृपास्ततो नायकाः सामन्तादयश्च विश्रान्ता उपविष्टाः ॥ १ ॥

सरामलक्ष्म्णा सैव तथैवाथ सभा बभौ ।
सौम्या समसमाभोगा शान्तवातेव पद्मिनी ॥ २ ॥

पद्मिनी पद्मवती सरसी ॥ २ ॥

अनवेक्ष्य वचः प्रश्नमुवाचाथ मुनीश्वरः ।
बोधयन्ति बलादेव सानुकम्पा हि साध्वः ॥ ३ ॥

प्रश्नमनवेक्ष्य अप्रतीक्ष्य वच उवाच । प्रातर्वदाम्यहमिति स्वयं प्रतिज्ञातत्वादिति
भावः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

राजन् रघुकुलाकाशशशाङ्क रघुनन्दन ।
ह्यो मया ज्ञाननेत्रेण स भिक्षुः प्रेक्षितश्चिरम् ॥ ४ ॥

चिरं प्रेक्षितोऽन्विष्टः । चिरमन्विध्य प्रेक्षित इति वा ॥ ४ ॥

ध्यानेनाहं चिरं भ्रान्तस्तादृग्भिक्षुदिदृक्षया ।
द्वीपानि सप्त विपुलां [पृथ्वीम् ।] कुलशैलसपर्वताम् ॥ ५ ॥

यावत्कुतश्चिदप्येवं भिक्षुर्लब्धो न तादृशः ।
कथं किल मनोराज्यं बहिरप्युपलभ्यते ॥ ६ ॥

यावन्न लब्धस्तावदहं चिरं भ्रान्त इति पूर्वेणान्वयः ॥ ६ ॥

ततस्त्रिभागशेषायां रात्र्यां पुनरहं धिया ।
उत्तराशान्तरं यातो बेलावात इवार्णवम् ॥ ७ ॥

उत्तरस्या आज्ञाया दिश आन्तरं देशं यातो मनसा पर्यालोचितवानिति यावत् ॥ ७ ॥

जिननामैष तत्रास्ति श्रीमान् जनपदो महान् ।
वल्मीकोपरि तत्रास्ति विहारो जनसंश्रयः ॥ ८ ॥

वल्मीकाख्याज्जनपदादुपरि परतो जिननामा एष प्रसिद्धो जनपदोऽस्ति तत्र जनपदे
विहाराख्यो जनसंश्रयो बहुजनाश्रयो देशोऽस्ति ॥ ८ ॥

तस्मिन्विहारे स्वकुटीकोशे कपिलमूर्धजः ।
भिक्षुर्दीर्घदृशो नाम स्थित एव समाधये ॥ ९ ॥

दृक्शब्दाद्भागुरिमतेन हलन्ताट्टापि दीर्घे दृशे यस्येति व्युत्पाद्यम् ॥ ९ ॥

एकविंशतिरात्रं च तस्यैवं स्थितिशालिनः ।
दृढार्गलं गृहं ध्यानभङ्गभीता विशन्ति नो ॥ १० ॥

तस्य गृहं कुटीं ध्यानभङ्गभीताः प्रिया अपि भृत्या नो विशन्ति किल ॥ १० ॥

भृत्याः प्रियाः किल तथा सन्तिष्ठति स भिक्षुकः ।
अद्यैव तस्य संवेत्तुं नियतेरीदृशी स्थितिः ॥ ११ ॥

तस्य भिक्षोः । संवेत्तुं विदेहकैवल्याय चरमसाक्षात्कारं प्राप्तुम् । तत्कुतः । यतो
नियतेस्तदायुर्नियन्तुर्विधातुः ॥ ११ ॥

रात्रयो ध्याननिष्ठस्य गतास्तस्यैकविंशतिः ।
स तु वर्षसहस्राणि तथा चित्तेन भूतवान् ॥ १२ ॥

तथा प्राग्वर्णितप्रकारेण ॥ १२ ॥

कस्मिंश्चित्प्राक्तने कल्पे भिक्षुरेवं पुराऽभवत् ।
अद्य त्विह द्वितीयोऽस्मिंस्तृतीयो नोपलभ्यते ॥ १३ ॥

एवं एवंविधः । अद्यास्मिन्कल्पे । अयं द्वितीयः । तृतीयो नोपलभ्यते तदानीं
मयेत्यर्थः ॥ १३ ॥

मया तु पुनरन्विष्य चेतसा चतुरात्मना ।
तादृग् भिक्षुस्तृतीयोऽन्यो जगत्पद्मोदरालिना ॥ १४ ॥

जगत्पद्मे अलिना अलिवद्भ्रमता मया अस्मिन् सर्गे तृतीयो नोपलभ्यत इति पूर्वेण परेण
वा अन्वयः ॥ १४ ॥

अस्मात्सर्गात्ततो लब्धस्तृतीयस्तादृशाशयः ।
अथान्ये लीलया सर्गा मया सम्प्रेक्षितास्ततः ॥ १५ ॥

अथ मया लीलया अस्मात्सर्गादन्ये सर्गाः सम्प्रेक्षितास्तत्र तृतीयस्तादृगाशयो
लब्ध इत्यन्वयः ॥ १५ ॥

यावत्तस्मिंश्चिदाकाशकोशशायिनि सर्गके ।
तृतीयो विद्यते भिक्षुर्ब्राह्मश्च सदृशक्रमः ॥ १६ ॥

तदेवाह-यावदिति । ब्राह्मस्तत्रत्यब्रह्मणा निर्मित एतत्सदृश एव भुवनक्रमो
विद्यते ॥ १६ ॥

एवं तेनैव तेनैव सन्निवेशेन भूरिशः ।
भविष्यन्त्यभवन्सर्वे पदार्थाः सर्गसन्ततौ ॥ १७ ॥

एवं ब्रह्माण्डभेदेन सदृशे पदार्थक्रमे तादृशभिक्षवोऽप्यनन्ताः
सम्भवन्तीत्याशयेनाह-एवमिति ॥ १७ ॥

अस्यां सभायामपि ये मुनयो ब्राह्मणास्तथा ।
भाव्यमेवं समाचारैस्तैरन्यैरप्यनेकशः ॥ १८ ॥

अस्मिन्नर्थे मुमुक्षुव्यवहारोक्तमेवार्थ पुनः प्रपञ्चयन्नाह-अस्यामित्यादिना
। तैरप्येवं भिक्षुसदृशसमाचारैः स्वसदृशसमाचारैश्च भाव्यम् । अन्यैरपि
एतन्मुनिसमाचारैर्भिक्षुसमाचारैश्च भाव्यमित्यर्थः ॥ १८ ॥

नारदेनामुना भाव्यं पुनरन्येन चामुना ।
एवं कलनकर्मभ्यां युक्तेनान्येन भूरिशः ॥ १९ ॥

कलनन्न् ज्ञानं कर्म चरित्रं ताभ्यां युक्तेन ॥ १९ ॥

एवं जन्मादिना भाव्यं व्यासेनापि शुकेन च ।
शौनकेन पुनर्भाव्यं क्रतुना पुलहेन च ॥ २० ॥

अगस्त्येन पुलस्त्येन भृगुणाऽङ्गिरसापि च ।
एत एव तथान्ये च एवंरूपक्रियास्पदम् ॥ २१ ॥

एवंविधस्य रूपस्य संस्थानस्य क्रियाणां चास्पदं भविष्यन्तीत्यर्थः ॥ २१ ॥

चिराच्चिराद्भविष्यन्ति मायेयं वितता यतः ।
सदृशाचारजन्मानस्त एवान्ये च भूरिशः ॥ २२ ॥

भूयोभूयो विवर्तन्ते सर्गेष्वप्स्विव वीचयः ।
अत्यन्तसदृशाः केचित्केचिदर्धसमक्रमाः ॥ २३ ॥

केचिदीषत्समाः केचिन्न कदाचित्पुनस्तथा ।
एवमेषातिवितता महतामपि मोहिनी ॥ २४ ॥

क्षणेनेहास्ति नो कर्म प्रतिपत्तिर्हि जृम्भते ।
क्वैकविंशत्यहोरात्रा अनन्ताकृतयोऽनघ ॥ २५ ॥

क्षणे निरवयवकालात्मनि ईहा मानसचेष्टापि नास्ति । देहादिचेष्टालक्षणं कर्म च
दूरनिरस्तत्वादेव नास्ति । किं तर्हि प्रतिपत्तिर्भ्रान्तिरेव केवलं जृम्भते । तदेवेह
भिक्षुचरित्रे स्पष्टमित्याह-क्वेति । अनन्ता जीवटादिसर्गाकृतयस्तासामलं
सम्यगुपलम्भश्च क्व ॥ २५ ॥

क्व तासामुपलम्भोऽलमहो भीमा मनोगतिः ।
प्रतिभामात्रमेवेदमित्थन्न् विकसितं स्थितम् ॥ २६ ॥

नानाकलहकल्लोलं जले प्रातरिवाम्बुजम् ।
जातं संवेदनादेव शुद्धादिदमशुद्धिमत् ।
संसारजालमखिलं सार्चिर्वह्निकणादिव ॥ २७ ॥

प्रातरम्बुजमिव विकसितम् । तत्पक्षे भ्रमरादीनां नानाकलहा जलकल्लोलाश्च पश्येति
योज्यम् । अर्चिर्भिः सहवर्तमानः सार्चिर्महानग्निर्वह्निकणादिव
शुद्धात्संवेदनादेवेदमशुद्धिमज्जगज्जातम् ॥ २७ ॥

प्रत्येकमेवमुदितः प्रतिभासखण्डः खण्डान्तरेष्वपि च तस्य
विचित्रखण्डः ।
सर्वे स्वयं ननु च तेऽपि मिथो न मिथ्या सर्वात्मनि स्फुरति कारणकारणेऽस्मिन् ॥
२८ ॥

एवं भिक्षुमनसीव सर्वजीवमनःस्वपि प्रत्येकं जगद्रूपः प्रतिभासखण्ड
उदितस्तस्य तस्यान्तर्जीवखण्डान्तरेष्वपि च विचित्रः सर्गखण्ड उदित इत्यनवस्थैव
मायादृशेत्यर्थः । ते प्राथमिकखण्डाः स्वयं तेपि च तदन्तर्गतजगत्खण्डा
मिथः स्वस्वव्यवहारदृशा न मिथ्या सत्या एव । किं स्वतो नेत्याह-सर्वात्मनीति ।
सर्वात्मन्यास्मिंश्चित्सत्तैकरसे परमात्मनि तादात्म्येन स्फुरति सति । तेन
स्वतत्त्वबोधेन तद्भावत्यागे तु न किञ्चित्सत्यमित्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्र० पू० जीवटोपाख्याने
भिक्षुसंसृतिकथनं नाम षट्षष्टितमः सर्गः ॥ ६६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भिक्षुसंसृतिकथनं नाम षट्षष्टितमः सर्गः ॥ ६६ ॥