०६५

पञ्चषष्टितमः सर्गः ६५

श्रीवसिष्ठ उवाच ।

ईषद्दृष्टो यथा तेन भिक्षुणा चेतसि भ्रमः ।
भूतं प्रयत्नमेवैष पृथक्कृत्वा सुपश्यति ॥ १ ॥

भिक्षुन्यायोऽत्र सर्वेषु जीवेषु सम उच्यते ।
रात्रावन्वेष्यता भिक्षोः सभोत्थानं च वर्ण्यते ॥

सर्वस्याभासजीवस्य मृतिजन्ममयी स्थितिः ।
भवत्येव चिदाकाशरूपिण्येवाकृतिं गता ॥ २ ॥

यथावर्णितप्रकारस्तेन भिक्षुणा स्वचेतसि यो भ्रम ईषद्दृष्टः आपाततश्चिन्तितः
एष भिक्षुस्तं भ्रमं स्वं भूतं प्राक्तनं शुभाशुभकर्मलक्षणं
प्रयत्नमेव फलावस्थायां पृथक् स्वात्मनो व्यतिरिक्तमिव कृत्वा सुष्टु स्पष्टं
प्रपश्यति । नाणुमात्रमप्यन्यदस्तीत्यर्थः ॥ १ ॥ २ ॥

पृथक्कृत्यैक्यमभ्येति स्वात्मा संसारखण्डकम् ।
सर्व एव मृतो जन्तुः पृथक्स्वप्ननिभात्मकम् ॥ ३ ॥

एवमेव सर्वेषामपि जीवानां मरणकालोद्बुद्धं स्वकर्मैव स्वप्न इव जगदात्मना
आमोक्षं भातीति बोध्यमित्याह-सर्वे एवेति ॥ ३ ॥

एवन्ततस्वरूपोऽपि देही चामोक्षमाकुलः ।
जीवयूथं मया तुभ्यं कथितं कथयाऽनया ॥ ४ ॥

एवं भिक्ष्वात्मेव ततमपरिच्छिन्नं स्वरूपं यस्य तथाविधोऽपि देही देहपरिच्छिन्न
इव आमोक्षमाकुलस्तिष्ठतीत्यर्थः । अनया भिक्षुकथया ॥ ४ ॥

परात्प्रस्पन्दितात्मेति न भिक्षू राम केवलम् ।
मोहान्मोहान्तरं याति जीवोऽहरहरेव नः ॥ ५ ॥

परात्पूर्णस्वरूपात्प्रस्पन्दितात्मा सर्वोऽपि जीव इति एवम्प्रकार एव न केवलं
भिक्षुरित्यर्थः । अहरहः प्रतिदिनं स्वप्ने नः अनुभवसिद्धमेवेत्यर्थः ॥ ५ ॥

पर्वताग्रपरिभ्रष्टो ह्यधोध उपलो यथा ।
परमात्मपरिभ्रष्टो जीवः स्वप्नमिमं दृढम् ॥ ६ ॥

पश्यत्यस्मादपि स्वप्नाद्याति स्वप्नान्तरं पुनः ।
स्वप्नात्स्वप्ने विनिपतन्मृषैवेदं दृढं किल ॥ ७ ॥

इदं जन्मादिदुःखं क्वचित्केनचिन्निमित्तेन परिपश्यतीति परेणान्वयः ॥ ७ ॥

परिपश्यति जीवोऽन्तर्मायया जर्जरीकृतः ।
क्वचित्केनचिदेवेह कदाचिदपि वा स्वयम् ॥ ८ ॥

देहनाम्नोऽहमित्यन्तो मुच्यते स्वं प्रपद्यते ।

श्रीराम उवाच ।

अहो नु विषमो मोहो जीवस्यास्योपजायते ॥ ९ ॥

इदानीं बन्धमोक्षतत्त्वं सङ्क्षिप्याह-देहेति । देहनाम्नोऽहमित्यभिमान एवान्तो
बन्धः स्वात्मलाभ एव मोक्ष इति निष्कर्ष इत्यर्थः । किञ्चित्प्रष्टुकामो रामो
वर्णितार्थप्रबोधमाश्चर्याभिनयेन व्यनक्ति अहो इत्यादिना ॥ ९ ॥

यथा सुप्तस्य स्तोकेन नानाकारविकारया ।
मिथ्याज्ञानोग्रयामिन्या मायया निपतत्यलम् ॥ १० ॥

स्तोकेनाल्पेनापि मदश्रमादिनिमित्तेन सुप्तस्य मनः स्वाप्नमायया यथा
अलमत्यन्तं भीमं वैषम्यं दुःखसङ्कटं निपतति तच्च
निजवत्सत्यवत्स्वीयवद्वा उच्यते तद्वदहो आश्चर्यमिति परेणान्वयः ॥ १० ॥

अहो नु खलु वैषम्यं भीमं निजवदुच्यते ।
भगवन्सर्वदा सर्वं सर्वदैव जगत्स्थितौ ॥ ११ ॥

सर्व सर्वत्र सर्वदा सम्भवतीति च त्वया यदुक्तं तदप्यनुभवारूढं
ममाभूदित्याह-भगवन्निति ॥ ११ ॥

त्वया सम्भवतीत्युक्तं यथा तच्चानुभूयते ।
एवङ्गुणविशिष्टात्मा तन्मोहात्मा स भिक्षुकः ॥ १२ ॥

एवमुपदिष्टार्थाभिनन्दनेन गुरुं प्रतोष्य त्वयायं भिक्षुर्मद्बोधाय
कल्पयित्वोक्त उत क्वचिदस्तीति सन्देहेन कौतुकात्पृच्छति-एवङ्गुणविशिष्टेति ।
तन्मोहात्मा ताद्दशजीवटादिमोहात्मा ॥ १२ ॥

क्वचिदस्ति न वास्त्यन्तरालोक्य कथयाशु मे ।

श्रीवसिष्ठ उवाच ।

अद्य रात्रौ समाधिस्थस्त्रिलोकीमठिकामिमाम् ॥ १३ ॥

अन्तर्योगेन आलोक्य त्वद्बोधाय यद्यपि कल्पयित्वा मया भिक्षुरुक्तस्तथापि
तद्वाक्यस्यानृतत्वायोगात्क्वचित्सम्भावित एव सः । तस्य च योगेनाधुना दर्शने
उत्थाने विलम्बः स्यादित्याशयेन वसिष्ठस्तत्कालोचितमुवाच-अद्येति ॥ १३ ॥

भिक्षुरेकोऽस्तिनास्तीति प्रेक्ष्य प्रातर्वदाम्यहम् ।

वाल्मीकिरुवाच ।

मुनौ चैवं कथयति बहिर्मध्याह्नडिण्डिमः ॥ १४ ॥

उत्थानयोग्यमध्याह्नबोधको डिण्डिमो वाद्यभेदस्तद्ध्वनिरिति यावत् ॥ १४ ॥

उदभूत्प्रलयक्षुब्धघनगर्जितमांसलः ।
तत्यजुः पादयोस्तस्य पुष्पाञ्जलिपरम्पराः ॥ १५ ॥

घनगर्जितमिव मांसलः पुष्टः । तस्य वसिष्ठस्य ॥ १५ ॥

मृपाः पौरा विटपिनः पुष्पं वातधुता इव ।
पूजयित्वा मुनिश्रेष्ठानुदतिष्ठन्स्वविष्टरात् ॥ १६ ॥

वातेन धुताः कम्पिता विटपिन इव ॥ १६ ॥

सभा तदनु सोत्तस्थौ सप्रणामपरम्परा ।
क्रमेण ह्यस्तनेनैव जग्मुः खेचरभूचराः ॥ १७ ॥

ह्यस्तनेन पूर्वेद्युर्भवेन ॥ १७ ॥

स्वास्पदेषु यथाशास्त्रमहर्व्यापारमादृताः ।
सर्वे सम्पादयामासुर्निजधर्मं क्रमोचितम् ॥ १८ ॥

अहर्व्यापारमाह्निकं निजधर्म सम्पादयामासुः ॥ १८ ॥

चिन्तयन्तो मुनिप्रोक्तं महीचरनभश्चराः ।
ज्ञानं क्षपां क्षणमिव निन्युः कल्पमिवापि च ॥ १९ ॥

मुनिप्रोक्तं ज्ञानं शास्त्रं चिन्तयन्तः अभ्यस्यन्तः ।
उपदिष्टार्थानुसन्धानसुखेन क्षणमिव पुना
रामपुष्टार्थश्रवणेच्छौत्कण्ठ्येन निद्राभावात्कल्पमिव च ॥ १९ ॥

प्रातः पुनः प्रसृतकार्यपरम्परेऽस्मिञ्जाते जने
खचरभूचरभूतसङ्घः ।
आख्यानलोकरचनेन तथैव तस्थावन्योन्यसंवदनपूजितपूज्यलोकः ॥ २० ॥

खचरभूचरभूतसङ्घो रात्रिमतिवाह्य प्रातर्जने प्रसृतस्वस्वकार्यपरम्परे
जाते सति दशरथसभामागत्य तथा पूर्वेद्युर्वदेव पुनः आख्यानलोकरचनेन
व्याख्यानश्रवणोचितसभासन्निवेशक्रमरचनेन तस्थौ ॥ २० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
विद्योत्तरविस्मयवर्णनं नाम पञ्चषष्टितमः सर्गः ॥ ६५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
विद्योत्तरविस्मयवर्णनं नाम पञ्चषष्टितमः सर्गः ॥ ६५ ॥