०६४

चतुःषष्टितमः सर्गः ६४

श्रीराम उवाच ।

जीवटब्राह्मणादीनां हंसादीनां मुनीश्वर ।
भिक्षुस्वप्नशरीराणां सम्पन्नं किमतः परम् ॥ १ ॥

तैस्तैर्देहैः पुनस्तेषां शेषभोगोऽत्र वर्ण्यते ।
ततो रुद्रगणत्वाप्तिः सङ्कल्पस्थिरताक्रमः ॥

भिक्ष्वादिरुद्रान्तदेहेष्वान्तरालिकाष्टनवतिदेहेषु भोजकप्रारब्धशेषाः सन्ति न वेति
सदेहात्तद्वृत्तान्तं रामः पृच्छति-जीवटेति । किं सम्पन्नं
स्वाप्नशरीरवद्बाध उताग्रे व्यवहारोऽपि सम्पन्न इत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

रुद्रेण सह सम्भूय प्रबुद्धाः सर्व एव ते ।
मिथश्च दृष्टसंसारा रुद्रांशाः सुखिनः स्थिताः ॥ २ ॥

ते रुद्रांशा मिथश्च दृष्टपूर्वोत्तरसंसाराः सन्तः कृतकृत्यत्वात्सुखिनः
स्थिताः ॥ २ ॥

तेन रुद्रेण तां मायामवलोक्य यथोदिताम् ।
स्वांशास्तामेव संसारस्थितिं ते प्रेषिताः पुनः ॥ ३ ॥

तेन कौतुकदर्शनाय प्रथमं प्रवृत्तेन रुद्रेण । तां जीवटादिसंसारस्थितिमेव ॥
३ ॥

श्रीरुद्र उवाच ।

गच्छताशु निजं स्थानं तत्र भुक्त्वा कलत्रकैः ।
कञ्चित्कालं समं भोगान्मत्सकाशमुपैष्यथ ॥ ४ ॥

भविष्यथ मदंशा ये गणा मत्पुरभूषणाः ।
ततो महाप्रलयतो यास्यामस्तत्परं पदम् ॥ ५ ॥

महाप्रलयतो द्विपरार्धावसानतः प्रारब्धक्षये भोजकाविद्यालेशेन सह ।
जगत्प्रतिभासक्षयतो वा ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा भगवान् रुद्रस्तेषां सोऽन्तरधीयत ।
अन्त्यसंसारसङ्ख्यानं रुद्राणां मध्यमाययौ ॥ ६ ॥

तेषां स्र्वेषां रुद्राणां तदानीमन्त्यरुद्रसंसारस्य यत्सङ्ख्यानं दर्शनं
यत्साक्षिचैतन्यमभूत्तन्मध्यमान्तरालिकं जीवटादिसंसारं प्रत्येकमाययौ
स्वप्नसाक्षीव जागरमित्यर्थः ॥ ६ ॥

प्रययुः स्वास्पदं तेऽपि जीवटब्राह्मणादयः ।
स्वकलत्रैः समं देहं क्षपयित्वाथ कालतः ॥ ७ ॥

रुद्रलोकं समासाद्य भविष्यन्ति गणोत्तमाः ।
कदाचिद्व्योम्नि दृश्यन्ते तारकाकारकारिणः ॥ ८ ॥

भविष्यन्तीत्युक्तेर्वसिष्ठरामसंवादकाले ते स्वस्वसंसारे एव स्थिता इति गम्यते ॥ ८ ॥

श्रीराम उवाच ।

भिक्षुसङ्कल्परूपास्ते जीवटब्राह्मणादयः ।
कथं सत्यत्वमायाताः सङ्कल्पार्थे क्व सत्यता ॥ ९ ॥

प्राग्बहुशः पृष्टार्थस्यैव विशेषजिज्ञासया प्रश्नः स्पष्टः ॥ ९ ॥

श्रीवसिष्ठ उवाच ।

सङ्कल्पसत्यता त्वंशे त्यज सङ्कल्पसत्यताम् ।
तत्र यन्नास्ति तन्नास्ति यतः सर्वात्म तत्पदम् ॥ १० ॥

अंशे अधिष्ठानचिदम्श एव । अध्यस्तांशे तु सङ्कल्पस्य सत्यतां विवेकेन त्यज ।
तत्र सदसत्संवलितसाङ्कल्पिकार्थे यत्सदतिरिक्तरूपं पूर्वोत्तरकालयोर्नास्ति तदेव
नास्ति तत्पदमधिष्ठानं तु यतः सर्वात्म ततोस्त्येवेति तत्सत्तयैव
भोजकादृष्टोद्बोधितसाङ्कल्पिकार्थस्यार्थक्रियासामर्थ्यमित्यर्थः ॥ १० ॥

यत्स्वप्ने दृश्यते यच्च सङ्कल्पैरवलोक्यते ।
तत्तथा विद्यते तत्र सर्वकालं तदात्मकम् ॥ ११ ॥

सर्वकालं यत्सदधिष्ठानं तदात्मकं भूत्वा तद्देशकालात्मतया तत्र सदा
विद्यते ॥ ११ ॥

तद्देशकालात्मतया गत्वा देशान्तरं यथा ।
देशाद्देशान्तरं यद्वन्न गत्यात्मादिकं विना ॥ १२ ॥

गत्वा देशान्तरं यथेत्येतद्विवृणोति-देशादिति । यथा
मथुरादिदेशाद्देशान्तरं पाटलिपुत्रादि तत्र विद्यमानमपि गतिर्गमनमात्मा
स्वस्थं मनः आदिपदाच्चक्षुरादिपाटवमहरादिकालस्तद्विवेकोपदेष्ठा पुरुष
इत्यादिकं कारणकलापं विना न लभ्यते तथा स्वप्नोऽपि तत्र जाग्रत्सुषुप्त्योः
स्वप्नान्तरे वा न लभ्यते इति परेणान्वयः ॥ १२ ॥

न लभ्यते तथा स्वप्नो विना तत्र न लभ्यते ।
सर्वमस्ति चितः कोशे यद्यथालोकयत्यसौ ॥ १३ ॥

चितः कोशे कोशसदृशे सर्ववासनाकरे अज्ञाने यथा यथा आलोकयति
भोजकादृष्टोद्बोधितवासनाभिः पर्यालोचयति तथा तथा चित् अविक्षतं समग्रं
तद्विषयरूपं दृश्यतया आप्नोति ॥ १३ ॥

चित्तथा तदवाप्नोति सर्वात्मत्वादविक्षतम् ।
सङ्कल्पः स्वप्नकस्त्वङ्ग यया च दशयाप्यते ॥ १४ ॥

सर्वस्य स्वप्नसङ्कल्पादेर्युगपद्दर्शने तर्हि क उपायस्तमाह-सङ्कल्प इति ।
आप्यते तां दशां शृण्विति शेषः ॥ १४ ॥

परमभ्यासयोगाभ्यां विना त्वेतन्न लभ्यते ।
येषां तु योगविज्ञानदृष्टयः फलिताः स्थिताः ॥ १५ ॥

परमिति । अभ्यासयोगपरिपाकदशैव सेत्यर्थः । तत्रेश्वराणां विनाप्यभ्यासं स्वत
एव योगसिद्धिफलमस्तीति विशेषमाह-येषां त्विति ॥ १५ ॥

सर्वं सर्वत्र पश्यन्ति ते यतः शङ्करादयः ।
इदमग्रगतं वस्तु तथा सङ्कल्पितं मया ॥ १६ ॥

अभ्यासयोगयोः सङ्कल्पितार्थलाभे तदैकाग्र्यसम्पादकत्वेनैवोपयोगः ।
ऐकाग्र्याभावे तु चित्तमनेकार्थव्यासक्तमेकमपि स्वसाङ्कल्पिकमर्थ न लभत
इत्यसत्यसङ्कल्पतास्य सम्पन्नेत्याशयेनाह-इदमित्यादिना । मया
ऐकाग्र्यशून्येन न आप्यं प्राप्तुं शक्यं यतश्चित्तं
सङ्कल्पिततदन्योभयाश्रयादुभयभ्रंशं प्राप्नोति नैकत्र
स्थिरीभवतीत्युत्तरेणान्वयः ॥ १६ ॥

नाप्यं यतोभयभ्रशं स प्राप्नोत्युभयाश्रयात् ।
सर्वं ह्यभिमतं कार्यमेकनिष्ठस्य सिद्ध्यति ॥ १७ ॥

यत इत्यत्र यलोपस्यासिद्धत्वात्सन्धिरार्षः । उक्तमेवार्थं सामान्योक्तिभिः
समर्थयति-सर्वमित्यादिना ॥ १७ ॥

दक्षिणां ककुभं गच्छन्कः प्राप्नोत्युत्तरां दिशम् ।
सङ्कल्पार्थपरैरेव सङ्कल्पार्थोऽवगम्यते ॥ १८ ॥

ककुभं दिशम् ॥ १८ ॥

अग्रस्थार्थपरैरग्रे संस्थितोर्थोऽवगम्यते ।
अग्रस्थे बुद्धिसंस्थे यः सङ्कल्पं प्राप्तुमिच्छति ॥ १९ ॥

तदासावेकनिष्ठत्वाभावात्तन्नाशयेद्द्वयम् ।
तस्मादेकार्थनिष्ठत्वाद्भिक्षुजीवेन रुद्रताम् ॥ २० ॥

प्रकृते योजयति-तस्मादिति ॥ २० ॥

प्राप्य सर्वात्मना लब्धं तथा सर्वं तथास्थितेः ।
भिक्षुसङ्कल्पजीवास्ते प्रत्येकं तज्जगत्पृथक् ॥ २१ ॥

तथा प्रसिद्धरुद्रवदेव सार्वज्ञ्येन सर्वं लब्धम् । अस्यापि तथा स्थितेः । ते
आन्तरालिका जीवटादयोऽष्टनवतिभिक्षुसङ्कल्पजीवाः प्रत्येकं यतः स्थितास्तज्जगच्च
पृथक्पृथक् ततोऽन्योन्यं न पश्यन्ति ॥ २१ ॥

पश्यन्ति चैते नान्योन्यं रुद्रज्ञानादृते ततः ।
अप्रबुद्धाः प्रजायन्ते जीवा जीवान्तबोधिनः ॥ २२ ॥

तर्हि ते रुद्रसन्निधौ कथमन्योन्यं दृष्टवन्तस्तत्राह-अप्रबुद्धा इति ।
जीवानामन्ताः संसारभेदास्तद्बोधिनस्तस्य रुद्रस्येच्छया प्रजायन्ते ॥ २२ ॥

तदिच्छयाशु तद्रूपा बहुरूपाश्च ते इह ।
इह विद्याधरोऽहं स्यामहं स्यामिह पण्डितः ॥ २३ ॥

तथा तद्रूपा बहुरूपाश्च ते तदिच्छयैव जायन्ते इत्यर्थः । प्रातिस्विकसंसारदर्शने
तु तेषामेवेच्छा हेतुरित्याह-इहेति ॥ २३ ॥

इत्येकध्यानसाफल्यं दृष्टान्तोऽस्यां क्रियास्थितौ ।
एकत्वं च बहुत्वं च मौर्ख्यं पाण्डित्यमेव वा ॥ २४ ॥

अन्येषामपि जीवानामस्यां प्रसिद्धायां क्रियास्थितौ
तत्तद्व्यवहारव्यवस्थायामयं भिक्षुसङ्कल्पसर्ग एव दृष्टान्तः । अयं जीवो
धारणाध्यानयत्नानुसारेण यद्यदिष्टं तत्तत्सर्व क्रमेण युगपच्च यथेच्छं
कर्तुं समर्थ इत्याह-एकत्वमित्यादिना ॥ २४ ॥

देवत्वं मानुषत्वं च देशकालक्रियाक्रमैः ।
तुल्यकालमलं कर्तुं धारणाध्यानयत्नतः ॥ २५ ॥

देशकालक्रियाक्रमैस्तुल्यकालं वा कर्तुमलं समर्थः ॥ २५ ॥

सर्वशक्त्यः [बह्वादित्वान्ङीष् शक्तियष्ट्योरीकगिति
सूत्रस्थभाष्यस्थकैयटोक्तेः ।] स्वरूपत्वाज्जीवस्यास्त्येकशक्तिता ।
अनन्तश्चान्तपृक्तश्च [युक्तश्च इति पाठः ।] स्वभावोऽस्य स्वभावतः
॥ २६ ॥

तत्र हेतुमाह-सर्वेति । यतोऽयं जीवः परमार्थतोऽनन्तः अतोऽस्य सर्वशक्तयः सन्ति
यतश्चायमेकैकदेहाभिमानलक्षणेनान्तेन परिच्छेदेन पृक्तः
अतोऽस्यैककार्यमात्रशक्तितास्ति । शक्तिस्वभावानुसारतश्च तत्तत्कार्यस्वभावोऽस्य
व्यवस्थित इत्यर्थः ॥ २६ ॥

सविकासः ससङ्कोचोऽहिंस्रस्तेन चिदात्मनः ।
यदिच्छति तदस्याङ्ग जन्तुः सम्पद्यते स्वयम् ॥ २७ ॥

अत एव प्राणिकर्मानुसारेण स्वर्गनरकाद्यनर्थसहस्रसर्गात्मना सविकासः
सर्वप्राणिसंहारेण प्रलयात्मना च ससङ्कोचो जगदीश्वरः अहिंस्रो
हिंसाप्रयुक्तवैषम्यनैर्घृण्यदोषशून्यः यतोऽयं जन्तुर्जीवसङ्घः स्वयं
यदिच्छति तदेव स्वेच्छानुसारादस्य चिदात्मन ईश्वरस्य सङ्कल्पात्सम्पद्यते न तेन
किञ्चित्कस्यचिदनिष्टं क्रियत इत्यर्थः । तथा च भगवतो वादरायणस्य सूत्रम्
वैषम्यनैर्घृण्ये न सापेक्षत्वात् इति ॥ २७ ॥

स्वयं सम्पादितैरेभिर्देशकालक्रियाक्रमैः ।
योगिन्यो योगिनश्चेह तिष्ठन्त्यन्यत्र यत्र च ॥ २८ ॥

इदानीं धारणाध्यानयत्नफलमैच्छिकीमेकधानेकधावस्थितिमुदाहरणेन
प्रपञ्चयति-स्वयं सम्पादितैरित्यादिना ।
तत्तद्देशकालानुसारिप्राण्यनुग्रहनिग्रहक्रीडाद्याधिकारिकक्रियाक्रमैः । इह
स्वगृहे अन्यत्र यत्रेच्छन्ति तत्र च नानादेहादिकल्पनया तिष्ठन्ति ॥ २८ ॥

इह वामुत्र भोगेन दृष्टमेतदनेकशः ।
कार्तवीर्यो गृहे तिष्ठन्सर्वेषां भयदोऽभवत् ॥ २९ ॥

इह लोके अमुत्र स्वर्गादिषु वा योगिनो युगपत्प्रारब्धभोगेन तिष्ठन्तीति पूर्वेणान्वयः
। एतदेवंविधं योगिनां चरित्रम् । सर्वेषां चोरादीनां तत्र तत्र सन्निधानेन
भयदः शास्ता अभवत् । तच्च भगवतो दत्तात्रेयस्य प्रसादाल्लब्धं योगसामर्थ्यं
तस्य मार्कण्डेयपुराणादौ प्रसिद्धम् ॥ २९ ॥

विष्णुः क्षीरोदधौ तिष्ठन्जायते पुरुषो भुवि ।
पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे ॥ ३० ॥

जायते जन्मादिना व्यवहरति । स्वर्लोके योगिनीगणमध्ये तिष्ठन्त्य एव भूलोके
पशुपेयाद्युपहारग्रहणार्थं यान्ति ॥ ३० ॥

शक्रः स्वर्गासने तिष्ठन्याति यज्ञार्थमुर्विकाम् ।
सहस्रमेकं भवति तथा चास्मिञ्जनार्दनः ॥ ३१ ॥

अस्मिन्रामावतारे जनार्दनो जनस्थाने चतुर्दशसहस्रराक्षसवधाय सहस्रं
सम्पन्नः पुनरेको भवति ॥ ३१ ॥

नृणां शतानि भक्तानां मानुष्यं याति तन्नतैः ।
एकः सहस्रं भवति तथा चैष जनार्दनः ॥ ३२ ॥

तेषां भक्तानां नतैर्नमस्कारादिना प्रार्थनैः । भक्तानां नृणां शतानि
अनुग्रहीतुं पुनर्यदुकुले मानुष्यं याति । तत्र च कुरुसभायां
दुर्योधनादिव्यामोहनायैकः सहस्रं भवति ॥ ३२ ॥

अंशावतारलीलाभिः कुरुते जागतीं स्थितिम् ।
एकः कान्तासहस्राणि तुल्यकलं निमेषवत् ॥ ३३ ॥

कान्तानां सहस्राणि षोडशसहस्रं तुल्यकालमुपभुङ्क्ते इति शेषः । तत्र
दृष्टान्तः-निमेषवदिति । यथा निमी राजर्षिर्विदेहतामापन्नः सर्वप्राणिनां
नेत्रेषु वसन् युगपन्निमेषणानि करोति तद्वत् ॥ ३३ ॥

एवं ते भिक्षुसङ्कल्पा जीवटब्राह्मणादयः ।
रुद्रविज्ञानवशतः स्वसङ्कल्पपुरीं गताः ॥ ३४ ॥

वर्णितरीत्या प्रकृतेऽपि बोध्यमित्याह-एवमिति । रुद्रस्य विज्ञानमभ्यनुज्ञा
तद्वशतः । तत्सङ्कल्पानुसारिण्येव रुद्रस्याभ्यनुज्ञा तद्बलादित्यर्थः ॥ ३४ ॥

तत्र भुक्त्वा चिरं भोगान्प्राप्य रुद्रपुरं ततः ।
गणतामावसन्तस्ते स्थास्यन्ति सपरिच्छदाः ॥ ३५ ॥

नित्यं प्रफुल्लनवकल्पलतालयेषु रुद्रेण साकमुरुरत्नगुलुच्छकेषु ।
नानाजगत्सु च तदा शिवपत्तनेषु विद्याधरीष्वमरमौलिधराश्च रेजुः ॥ ३६ ॥

तेषामपि तदा स्वगृहे सर्वभुवनेषु च बहुदेहकल्पनेनैच्छिकविहारो
युगपत्प्रवृत्त इत्याह-नित्यमिति । ते गणा उरुरत्नगुलुच्छकेषु बहुरत्नस्तबकेषु
प्रफुल्लनवकल्पलतागृहेषु रुद्रेण साकं तथा नानाविधेषु जगत्सु भुवनेषु तथा
शिवेषु कैलासवैकुण्ठब्रह्मलोकादिपत्तनेषु नगरेषु च विहरन्तो
गीतवादित्रनाट्यादिकुशलासु विद्याधरीषु मध्ये अमरैर्मौलिषु ध्रियन्ते सर्वत्र
प्रणम्यन्त इत्यमरमौलिधराः । अमरं मरणनिवारकममृतपूर्णं चन्द्रं
मौलौ धारयन्तीति वा अमरमौलिधराः सन्तो रेजुर्बभुः ॥ ३६ ॥

इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मीकीये दे०मोक्षोपायेषु निर्वाणप्रकरणे पू०
गणत्वप्राप्तिर्नाम चतुःषष्टितमः सर्गः ॥ ६४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
गणत्वप्राप्तिर्नाम चतुःषष्टितमः सर्गः ॥ ६४ ॥

स्वप्नशतरुद्रीयं समाप्तम् ।