त्रिषष्टितमः सर्गः ६३
श्रीवसिष्ठ उवाच ।
स कदाचिद्ददर्शाथ रुद्रं रुद्रपुरे खगः ।
वैरिञ्चनलिनीनाललीलालाभेन लीलया ॥ १ ॥
रुद्रभूतेन तेनात्र पूर्वदेहप्रबोधनम् ।
तेषां च शतरुद्रत्वमैकात्म्यं चेह वर्ण्यते ॥
स हंसो लीलया अनायासेनैव वैरिञ्चासननलिनीनाले लीलाः क्रीडास्तल्लाभेन ।
पद्मजसामीप्यमुक्तिपदप्राप्तिबलेनेति यावत् । कदाचित्पद्मजेन सह रुद्रपुरं गतो
रुद्रं ददर्श ॥ १ ॥
तत्र बुद्धिरभूत्तस्य रुद्रोऽहमिति निश्चिता ।
प्रतिबिम्बवदादर्शे द्रागित्येव हि बिम्बिता ॥ २ ॥
तत्र रुद्रस्य ज्ञानयोगैश्वर्यादिसर्वगुणोत्कर्षदर्शनात्तस्य हंसस्याहमपि
रुद्राहम्भावनया रुद्रः स्यामिति निश्चिता बुद्धिरभूत् । ननु जीवन्मुक्तस्य
निर्वासनस्य हंसस्य कथं रुद्रत्वस्पृहा । तद्भावनाभ्यासेन देहत्यागेन पुना
रुद्रशरीरधारणं च । यदि तु भरतस्य त्रिजन्मभिः इति न्यायेन तस्य
नानादेहभोग्यप्रारब्धशेषाद्देहान्तरधारणं तर्हि
रुद्राहम्भावधारणवर्णनस्यानुपयोगप्रसङ्गात् रुद्रस्येश्वरतया तद्भावस्य
कर्मफलत्वायोगाच्चेति चेत्तत्राह-प्रतिबिम्बवदिति । नायं मुख्यो रुद्रभावः
किन्तु प्रतिबिम्बवत्सारूप्यमुक्तिः सा च कर्मोपास्तिफलं भवत्येव-देवो भूत्वा
देवानप्येति इति श्रुतेरिति भावः ॥ २ ॥
रुद्रभूतवपुस्तत्र तनुं तत्याज तामसौ ।
गन्धः पवनतां गच्छन्कुसुमस्तबकं यथा ॥ ३ ॥
नाप्येतज्जन्मान्तरं किन्तु प्रारब्धशेषोपनीतयेच्छया
योगिवन्मानसदेहान्तरकल्पनेन पूर्वदेहत्यागमात्रमित्याशयेनाह##-
स रुद्रो रुद्रभवने विजहार यथेच्छया ।
तैस्तैः शिवपुराचारैर्गणकोटिगरिष्ठया ॥ ४ ॥
गणकोटिषु गरिष्ठया श्रेष्ठया । गाणपत्यपदव्येति यावत् ॥ ४ ॥
रुद्रस्त्वनुत्तमज्ञानविलासैकतया तया ।
स्वमशेषं च वृत्तान्तमपश्यत्प्राक्तनं धिया ॥ ५ ॥
सारूप्यमुक्तौ जगत्संहारादिव्यापाराधिकाराभावेऽपि ज्ञानैश्वर्यादिना
प्रसिद्धरुद्रसाम्यमस्त्येवेत्याशयेनाह-रुद्रस्त्विति ।
अनुत्तमज्ञानैरैश्वर्यविलासैश्च प्रसिद्धरुद्रेणैकतया साम्येन ॥ ५ ॥
निरावरणविज्ञानवपुः स भगवांस्तदा ।
उवाच स्वयमेकान्ते स्वस्वप्नशतविस्मितः ॥ ६ ॥
स्वयमेकान्ते स्वमनस्येवोवाच ॥ ६ ॥
अहो नु चित्रा मायेयं तता विश्वविमोहिनी ।
असत्यैवापि सद्रूपा मरुभूमिषु वारिवत् ॥ ७ ॥
इति प्रथममाज्ञातं चिद्योऽहं चित्ततां गतः ।
सर्वसम्पन्नसर्वज्ञगगनादिविभावनात् ॥ ८ ॥
आ इति स्मरणद्योतको निपातः । अहं प्रथमं प्राक्तनपारमार्थिकस्थित्या चिदेव । ततो
मायया चित्ततां बहु स्यां प्रजायेय इति सर्गसङ्कल्पवृत्तितां गत
इत्यादीदमाज्ञातं स्मृतमित्यर्थः । तादृशसङ्कल्पादेवाहं सर्वसम्पन्नः
संश्चिदंशे सर्वज्ञो जडांशे गगनादिविभागवांश्च जात इत्यर्थः ॥ ८ ॥
यदृच्छया स्थितो जीवो भूततन्मात्ररञ्जितः ।
कस्मिंश्चिदभवत्सर्गे भिक्षुरक्षुभितोऽभितः ॥ ९ ॥
ततो यदृच्छया व्यष्टिसमष्टिलिङ्गस्थूलदेहे चिदाभासात्मनानुप्रवेशे भूतैः
स्थूलैस्तन्मात्रैः सूक्ष्मैश्च तैर्देहैस्तादात्म्यसंसर्गाध्यासेन
तद्गतवासनावैचित्र्यैश्चित्रपट इव रञ्जितः सन् जीवो भूत्वाहं स्थित इत्यर्थः । स च
जीवः अनादिकालाज्जन्मपरम्परामनुभवन्कस्मिंश्चित्सर्गे
वैराग्यसमाधिपाटवादभित्तो विषयैरक्षुभितो भिक्षुः परिव्राडभवत् ॥ ९ ॥
तेनावयवबन्धेन बहिः स्वैरविहारिणी ।
लीलाऽविलुलिताकारा यदा रम्येति भावतः ॥ १० ॥
आत्मज्ञानशून्यस्य तस्य रम्ये बाह्यवस्तुनीदङ्ग्रहेणाहङ्ग्रहेण वा
चित्तनिरोधाभ्यासपाटवेन पूर्वदेहादेरात्यन्तिकविस्मरणशाक्त्युद्भवं
दर्शयति-तेनेत्यादिना । तेन भिक्षुणा बद्धपद्मासनस्थैर्येण
स्थूलदेहावयवानां हस्तपादादीनां लिङ्गदेहावयवानां प्राणेन्द्रियादीनां च
बन्धेन निरोधेन बहिर्देवतादिविषये चित्तस्य यदा यैव मानसपूजादिलीला रम्येति
भावतः अविलुलिताकारा आरभ्यते तदा स तदभ्यासवशात्तामेव लीलां
तत्तद्विरुद्धसर्वभावोपमर्देनान्वभूदिति परेणान्वयः ॥ १० ॥
सर्वभावोपमर्देन तदभ्यासवशात्तदा ।
तामेव सोऽन्वभूद्भिक्षुस्त्यक्त्वान्यं मननोदयम् ॥ ११ ॥
चमत्कृतिश्चेतसि या रूढा सैव विजृम्भते ।
वल्ली त्यजति नैदाघी पीतमप्यम्बु माध्वम् ॥ १२ ॥
रूढया उत्तरचमत्कृत्या रूढाया अपि पूर्वचमत्कृतेरुपमर्दे
दृष्टान्तमाह-वल्लीति । नैदाघी निदाघोष्णचमत्कृतिव्याप्ता वल्ली माधवं
वसन्तकालिकं पीतमप्यम्बु हरितभावचमत्कारं त्यजति शुष्यतीति यावत् ॥ १२ ॥
स भिक्षुर्जीवटो भूत्वा जन्तुर्जरठवासनः ।
तेषु देहेषु बभ्राम रन्ध्रेष्विव पिपीलिका ॥ १३ ॥
तस्यैव
सिद्धस्याप्यशास्त्रीयमानसखेलनप्रवृत्तावनर्थपरम्परोदयोऽभूदित्याह-स
इत्यादिना । तेषु देहेषु योनिषु । जरठवासन इत्यनेन शास्त्रीयवासनाशैथिल्ये
अनाद्यनर्थवासनोद्भवोऽवश्यम्भावीति सूच्यते ॥ १३ ॥
आत्मनि द्विजभक्तत्वात्सोऽपश्यद्द्विजतामथ ।
भावाभावविपर्यासे बलवानेव वर्धते ॥ १४ ॥
तानेव सनिमित्तं प्रपञ्चयति-आत्मनीत्यादिना । भावस्योद्भूतस्य
अभावस्यानुद्भूतस्य च विपर्यासे वैपरीत्ये साध्ये अभ्यासपाटवादिबलवानेव
वासनाचयोवर्धते उद्भवति अन्यस्तिरोभवतीत्यर्थः ॥ १४ ॥
सामन्ततामवापासौ विप्रः सन्ततचिन्तिताम् ।
सातत्येन रसः पीतः फलतामेति पादपे ॥ १५ ॥
राज्यार्थं धर्मकार्याणां कर्तृत्वात्सोऽभवन्नृपः ।
सकामुकतया राजा सुरस्त्रीत्वमवाप ह ॥ १६ ॥
धर्मप्रचयसहितया कामुकतया ॥ १६ ॥
लोला लोचनलोभेन सा मृगी रसशालिनी ।
बभूव वासनामोहश्चाहो दुःखाय जन्तुषु ॥ १७ ॥
लोचनपदेन मृगलोचनसौन्दर्यं लक्ष्यते तल्लोभेन लोला । रसशालिनी रञ्जिता ॥ १७ ॥
मृगी सा बत चित्तस्था बभूव विपिने लता ।
अवश्यम्भावि लवनं लतिकाऽनुबभूव ह ॥ १८ ॥
लवनं छेदनम् ॥ १८ ॥
अन्तःसञ्ज्ञाचिराभ्यस्तं भ्रमरत्वमथात्मनि ।
साऽपश्यत्सावमर्देन तदा तद्भावभाविता ॥ १९ ॥
सावमर्देन छेदनावमर्दसहितलतादेहेन ॥ १९ ॥
सवारणखरक्षोदमनुभूयाथ भावितम् ।
भूयोभूयः प्रबभ्राम महासंसृतिसम्भ्रमान् ॥ २० ॥
भूयोभूय इत्यनेनान्तरालिकानि वारणालिहंसादीनि नवतिजन्मानि स्मृतान्युच्यन्ते ॥ २०
॥
संसारशतपर्यन्ते रुद्रः सोऽहमहं स्थितः ।
अस्मिन्संसारसंरम्भे स्वमनोमात्रसम्भ्रमे ॥ २१ ॥
स भिक्षुरहं सन्नेव रुद्रोऽहमिति स्थितः ॥ २१ ॥
एवमत्यन्तचित्रासु संसारारण्यभूमिषु ।
बह्वीष्वहमतिभ्रान्तस्त्वशून्यास्विव भूरिशः ॥ २२ ॥
अशून्यासु सत्यास्विव भातासु ॥ २२ ॥
कस्मिंश्चिदभवं सर्गे त्वहं जीवटनामकः ।
कस्मिंश्चिद्ब्राह्मणश्रेष्ठः कस्मिंश्चिद्वसुधाधिपः ॥ २३ ॥
हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः ।
हरिणो देहयन्त्रादौ दशामहमिमां गतः ॥ २४ ॥
विन्ध्यकच्छे वारणो हरिणश्चाभवम् । इत्थं देहयन्त्रे आदिपदान्मनोयन्त्रे
चाहमिमां वर्णितरूपां दशां गतः ॥ २४ ॥
अत्र वर्षसहस्राणि चतुर्युगशतानि च ।
समतीतान्यनन्तानि दिनर्तुचरितानि च ॥ २५ ॥
मम प्रथमसर्गकालादारभ्य परात्पदाच्चिदेकरसरूपाच्चलितस्य
प्रच्युतस्यात्रास्मिन्संसारे वर्षसहस्राणि चतुर्युगशतानि च अनन्तानि
समतीतान्यनन्तानि दिनर्तुचरितानि च ॥ २५ ॥
मम प्रथममेव प्राक्चलितस्य परात्पदात् ।
तत्त्वज्ञानितया रूढो भिक्षुत्व योग्यताक्रमः ॥ २६ ॥
मम भिक्षुत्वे तत्त्वज्ञानितया भवितुं यो योग्यताक्रमः
श्रवणमननाद्यभ्यासरूपो रूढोऽपि प्रमादादतिक्रम्य भूयोभूयश्च
जन्मपरम्परया ब्रह्महंसतां गतः स एव प्राक्तनोऽभ्यस्यत इत्यभ्यासक्रमो
रुद्रसङ्गमोदयाद्रुद्रत्वे तत्त्वज्ञानफलेन फलित इति द्वयोरन्वयः ॥ २६ ॥
भूयोभूयोऽप्यतिक्रम्य गतश्च ब्रह्महंसताम् ।
स एव प्राक्तनोऽभ्यासः फलितः सङ्गमोदयात् ॥ २७ ॥
दृढाभ्यासो य एवास्य जीवस्योदेत्यविघ्नतः ।
सोऽत्यन्तमरसेनापि तमेवाश्वनुधावति ॥ २८ ॥
अत एव शास्त्रीयसाधनाभ्यासो ज्यायान् यो विरुद्धैरनेकजन्मभिर्व्यवहितोऽपि
पुनरुद्भूय पुरुषार्थं साधयत्येवेत्याह-दृढाभ्यास इति । सः
अत्यन्तमरसेन जन्मसहस्रेण व्यवहितोऽपीति शेषः ॥ २८ ॥
काकतालीययोगेन कदाचित्साधुसङ्गमात् ।
अशुभो भावनाभ्यासो जीवस्य विनिवर्तते ॥ २९ ॥
तर्ह्यशुभोऽपि भावनाभ्यासस्तुल्ययुक्त्या शुभाभ्यासव्यवहितोऽपि
पुनरुद्भवेत्तत्राह-काकतालीयेति ॥ २९ ॥
सङ्गत्यधिगतं चैष केवलं स्वोदयं प्रति ।
प्राक्तनो वासनाभ्यासो हातुरुद्यममीक्षते ॥ ३० ॥
तर्ह्यशुभवासनावच्छुभवासनाभ्यासोऽपि स्वयमेव
प्राक्तनसंस्कारादुद्भविष्यति तद्बलादेवायं पुरुषः अशुभवासनां हास्यति चेति
पुरुषप्रयत्नविधानं व्यर्थमित्याशङ्क्याह-सङ्गतीति । हातुर्दुर्वासनाजालं
जिहासतः पुम्स एष प्राक्तनः सद्वासनाभ्यासः कालान्तरे स्वोदयं प्रति
सत्पुरुषप्रयत्नमीक्षते प्रतीक्षते न तं विनोद्भवतीत्यर्थः ॥ ३० ॥
यच्चेहाभ्यस्यतेऽजस्रं यच्च देहान्तरेऽपि च ।
जाग्रत्स्वप्नेष्वसदपि तत्सदित्यनुभूयते ॥ ३१ ॥
स च यत्नोऽनेकजन्माभ्यस्त एव सद्वासनादार्ढ्येन दुर्वासनाक्षयसमर्थो भवति न
सहसैवेत्याशयेनाह-यच्चेति । असदपीत्यनेन
मिथ्यार्थविषयदेवतोपास्त्यादिप्रयत्नोऽपि यत्र
जाग्रत्स्वप्नकालसत्यतानुभवयोग्यदेवताभावादिफलसमर्थो भवति तत्र किं
वाच्यं परमार्थवस्तुगोचरः श्रवणादिप्रयत्नः
प्रमाणगम्यपरमार्थसत्यस्वभावलाभाय भवतीति सूच्यते ॥ ३१ ॥
तत्तदर्थक्रियाकारि दुःखाय च सुखाय च ।
उदेति भावनं तस्माद्भावनाभावनं जयः ॥ ३२ ॥
अतएवानात्मविषयः शास्त्रीयोऽपि भावनाभ्यासो दुःखमिश्रितसुखायैवेति
सर्वभावनोच्छेद एवास्यात्यन्तिकानर्थजयो
नान्तरालिकदेवत्वादिप्राप्तिरित्याशयेनाह-तत्तदिति । तां तां
देवताशरीरतद्भोगाद्यर्थक्रियां करोति तच्छीलं भावनमनात्मचिन्तनम् ॥ ३२ ॥
भावनैव स्वमात्मानं देहोऽयमिति पश्यति ।
असत्तामात्रविस्तारं गुल्मकत्वमिवाङ्कुरः ॥ ३३ ॥
किञ्चानात्मभावनाकृत एवायमनर्थः स कथं तद्भीरुणा सेव्य
इत्याशयेनाह-भावनैवेति ॥ ३३ ॥
भावना प्रेक्ष्यमाणैषा न किञ्चिदिह शिष्यते ।
न च विद्यत एवेति तद्भ्रमेणालमस्तु नः ॥ ३४ ॥
सा तत्त्वदर्शनमात्रेण सूच्छेदेत्याह-भावनेति । न वा तदुच्छेदः साध्योऽस्ति
नित्योच्छिन्नत्वादसत इत्याह-न चेति ॥ ३४ ॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
असंवेदनमात्रैकं मार्जनायालमस्तु नः ॥ ३५ ॥
असन्मयीस्वरूपैषा परं सत्तैव लालनी ।
वर्तते चेद्विनोदाय किञ्चित्सा न करिष्यति ॥ ३६ ॥
अथवा मास्त्वसंवेदनं तत्त्वज्ञानबाधितस्य संवेदनेऽपि बाधिताहेरिव
भयजननासामर्थ्येनानर्थत्वाभावात्प्रत्युत लीलाहेतुत्वाच्चेत्याह-असन्मयीति##-
कौतुकहेतुरेव परं इति प्रातिभासिकसत्तया वर्तते चेत्तर्हि विनोदायैव ।
किञ्चिदणुमात्रमप्यनर्थं सा न करिष्यतीत्यर्थः ॥ ३६ ॥
तत्तान्सर्वान्स्वसंसारानुत्थायालोकयाम्यहम् ।
सम्यगालोकदानेन तेभ्य एकीकरोम्यहम् ॥ ३७ ॥
तत्तस्मात्कौतुकवशादेवोत्थाय गत्वा सम्यगालोकस्य प्रबोधस्य दानेन तेभ्य
उपाधिभ्यो विविक्तं स्वात्मानमेकीकरोमि ॥ ३७ ॥
इति सञ्चिन्त्य रुद्रोऽसौ तं सर्गं प्रजगाम ह ।
यत्र भिक्षुर्विहारस्थः सुप्तः शव इव स्थितः ॥ ३८ ॥
बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च ।
योजयामास सस्मार भिक्षुरप्यात्मनो भ्रमम् ॥ ३९ ॥
बोधयित्वा जागरूकं कृत्वा चेतसा स्वचित्तांशेन चित्तेन चेतनेन
स्वांशचिदाभासलक्षणेन तत्त्वज्ञजीवेन च योजयामास । अत एव भिक्षोर्जागरणेन
नास्मदादिस्वापप्रपञ्चस्येव जीवटादिरुद्रान्तशरीराणां तत्प्रपञ्चानां च
निरनुवृत्तिबाधप्रसङ्गो निरस्तः । सर्वत्र रुद्रांशजीवप्रवेशकल्पनेन
तदीयसत्यसङ्कल्पबलेन विचित्रभोजकादृष्टशेषबलेन च बाधितानामपि
सर्वेषामाकल्पान्तमनुवृत्तिसम्भवादिति ॥ ३९ ॥
रुद्रमात्मानमालोक्य जीवटादिमयं तथा ।
बोधादविस्मयार्होऽपि स भिक्षुर्विस्मयं ययौ ॥ ४० ॥
बोधात्तत्त्वदर्शनात् । अल्पकाले चिरकालानेकजन्मानुभवलक्षणस्य
स्वाप्नरुद्रशरीराद्यनुवृत्तिलक्षणस्य चाश्चर्यस्य दर्शनाद्विस्मयं ययौ ॥ ४० ॥
अथ रुद्रस्तथा भिक्षुर्द्वावेवोत्थाय जग्मतुः ।
क्वापि जीवटसंसारं चिदाकाशैककोणगम् ॥ ४१ ॥
जीवटसंसारं ब्रह्माण्डान्तरम् ॥ ४१ ॥
तत्र तद्भुवनं गत्वा तद्द्वीपं तच्च मण्डलम् ।
विषयं तत्पुरं तच्च तं च पाणावसिग्रहम् ॥ ४२ ॥
तत्र लीलोपाख्यानवर्णितरीत्या प्रविश्य भुवनं भूलोकं गत्वा तत्रापि
तज्जीवटास्पदं द्वीपम् । विषयं मण्डलान्तर्गतदेशम् । तच्च गृहम् । तत्र गृहे
पाणौ असेर्ग्रहणं ग्रहो यस्य तथाविधं तं जीवटं च ददृशतुः ॥ ४२ ॥
सुप्तं ददृशतुर्नष्टसञ्ज्ञं जीवटकं शवम् ।
स्थापयित्वा वपुर्भावं प्रभान्तं भवभूमिषु ॥ ४३ ॥
शवमिव सुप्तम् । तत्रत्यजनानां स्वदर्शनायोग्यत्वाद्रुद्रभिक्षुवपुषो भावो
जीवटबोधनाभिप्रायस्तम् । रुद्रस्य या कोटिसूर्याभा प्रभा तदन्तं च सर्व
स्वप्रभावं स्थापयित्वा अन्तर्धानशक्त्या गोपयित्वा । भवभूमिषु
जीवटसंसृतिप्रदेशेषु ॥ ४३ ॥
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
एकरूपास्त्रिरूपास्ते रुद्रजीवटभिक्षुकाः ॥ ४४ ॥
चेतसेत्यादिपूर्ववत् । अन्तरेकरूपाः । बहिस्त्रिरूपाः ॥ ४४ ॥
बोधवन्तोऽप्यबुद्धाभा विस्मिता अप्यविस्मिताः ।
बभुस्तूष्णींस्थिताश्चित्रकृताकारा इव क्षणम् ॥ ४५ ॥
चित्रकृताकाराश्चित्रलिखिता इव ॥ ४५ ॥
अथ जग्मुश्च ते सर्वे क्वचिद्व्योमनि संस्थितम् ।
विप्रसंसारमारब्धं परिभूतसघुङ्घुमम् ॥ ४६ ॥
व्योमनि चिदाकाशे संस्थितमध्यस्तम् । आरब्धं जीवटचित्तपरिणामरूपम् । परितो
भूतैः प्राणिभिः सघुङ्घुमं सशब्दम् ॥ ४६ ॥
ते तत्र भुवनं गत्वा तद्द्वीपं तच्च मण्डलम् ।
विषयं तच्च तं ग्रामं प्रापुस्तं ब्राह्मणालयम् ॥ ४७ ॥
ते तत्रेत्यादि पूर्ववत् ॥ ४७ ॥
विप्रं ते ददृशुः सुप्तं कलत्रवलितं गृहे ।
कण्ठे गृहीतं ब्राह्मण्या बहिर्जीवमिव स्थितम् ॥ ४८ ॥
कलत्रं पोष्यवर्गस्तद्वलितम् । बहिर्गतं जीवमिव प्रियतमम् ॥ ४८ ॥
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
तत्स्थास्ते बहवोऽप्यन्ये सविस्मयविविस्मयाः ॥ ४९ ॥
अथ जग्मुश्चिदाकाशकचितं चेतितं चितेः ।
सामन्तं नृपसंसारं भ्रमणाभोगसुन्दरम् ॥ ५० ॥
चितेश्चित्ताकारविवृत्तायाश्चेतितं परिणतिरूपम् ॥ ५० ॥
ततस्ते भुवनं प्राप्तास्तद्द्वीपं तच्च मण्डलम् ।
सामन्तं ददृशुर्मत्तं सुप्तं पर्यङ्कपङ्कजे ॥ ५१ ॥
पर्यङ्कलक्षणे पङ्कजे ॥ ५१ ॥
हेमावदातं हेमाङ्ग्या निहितं कुचकोटरे ।
भ्रमर्येवान्वितं पद्मकोशसुप्तं मधुवतम् ॥ ५२ ॥
कान्ताभिरभ्यावलितं मञ्जरीभिरिव द्रुमम् ।
दीपजालकमध्यस्थं रत्नौघ इव काञ्चनम् ॥ ५३ ॥
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
तत्स्थास्ते बहवोऽप्येके सविस्मयविविस्मयाः ॥ ५४ ॥
तत्स्थास्तत्र स्थिताः सन्तः ॥ ५४ ॥
अथ ते राजसंसारं जग्मुस्तत्र विबोध्य तम् ।
चेतसैवमथान्यासु भ्रेमुः संसारभूमिषु ॥ ५५ ॥
चेतसा आतिवाहिकशरीरेणैव । अत्रान्तराले सुप्तानां सम्बोधनमात्रं मृतानां तु
सञ्जीवनमपि बोध्यम् ॥ ५५ ॥
प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते ।
समाजग्मुर्विरेजुश्च रुद्राणामुत्तमं शतम् ॥ ५६ ॥
ब्रह्महंसरूपां ईहां चित्तपरिणतिम् । रुद्रचित्तचेतनांशैरेव
चित्तचेतनवत्त्वाज्ज्ञानैश्वर्यसम्पन्नत्वाच्चोत्तमम् । ते सर्वे देहा रुद्राणां शतम् ॥
५६ ॥
एकसंविद्भिन्नतनु चित्रचेष्टितवेष्टितम् ।
एकरूपमनेकाभं रूपं तत्पारमेश्वरम् ॥ ५७ ॥
तदेवाह-एकेति ॥ ५७ ॥
रुद्राणां तच्छतमथ निरावरणचिन्मयम् ।
सर्वसंसारसम्बन्धि स्थितं सर्वजगत्स्थितम् ॥ ५८ ॥
प्रातिभासिकसर्वसंसारस्य सम्बन्धि आधारभूतम् । सर्वजगदन्तश्च
स्वयमन्तर्यामितया स्थितम् ॥ ५८ ॥
शतरुद्रशतानीह [दशरुद्रशतानीति पाठष्टीकानुकूलः ।] सन्ति राम
महान्ति हि ।
एतदेकादशं विद्धि संसारं प्रतिसंस्थितम् ॥ ५९ ॥
ईदृश्येव सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् इत्यादिश्रुतिप्रसिद्धानां
रुद्राणां स्थितिरित्याशयेनाह-शतेति । भिक्षुरुद्रकल्पितशतजगतां मध्ये
एतत्त्वां मां च प्रति अनुभूयमानतया संस्थितं जगत् एकादशं
भ्रामररुद्रसंसारं विद्धि ॥ ५९ ॥
यो योऽभितः स जीवस्य संसारः समुदेति हि ।
तत्राप्रबुद्धा जीवौघाः पश्यन्ति न परस्परम् ॥ ६० ॥
ननु भिक्षुस्वप्नसंसाराः सर्वेपि सर्वैः कुतो नानुभूयन्ते तत्राह-यो य इति । स
उक्तलक्षणो जीवस्य यो यः संसारः अभितः समुदेति । तत्र तेषु संसारेषु ॥ ६० ॥
मिलन्ति हि मनोबुद्धास्तरङ्गा इव वारिधौ ।
अप्रबुद्धास्तु तन्मात्रनिष्ठा लोष्टवदास्थिताः ॥ ६१ ॥
मनसा बुद्धास्तत्त्वविदस्तु तैर्जीवैः सह मिलन्तीति सर्वं पश्यन्तीत्याशयः ॥ ६१ ॥
यथा द्रवत्वाद्वीच्यम्बु त्वन्योन्यं सम्मिलत्यलम् ।
तथा प्रबुद्धा जीवौघा मिथश्चित्त्वान्मिलन्त्यलम् ॥ ६२ ॥
मेलने च हेतुः स्थौल्यापगम इत्याशयेनाह-यथेति ॥ ६२ ॥
प्रत्येकमुदिते चैते संसारे जीवराशयः ।
चिद्धातोः सर्वगत्वेन त्वसत्याः सत्यवत्स्थिताः ॥ ६३ ॥
सर्वजीवतत्त्वभूतब्रह्मैक्यलाभ एव
सर्वैस्तदीयकल्पितरूपात्मकजीवैर्मिलनमित्याशयेनाह-प्रत्येकमिति ।
चिद्धातोश्चित्सारस्य ब्रह्मणः ॥ ६३ ॥
यद्यदाखन्यते भूमेस्तत्तन्नाम यथा नभः ।
सर्वगायाश्चितेर्यद्यदुह्यते तत्तथैव चित् ॥ ६४ ॥
उह्यते अपोह्यते तत्त्वदर्शनेन सत्यत्वादपनीयते तत्तथा नभोवदेव चित्परिशिष्यते ॥ ६४
॥
सर्वप्रपञ्चभूतानि यथानुभवसीह हि ।
तथेह सर्वभूतात्म चित्त्वं सर्वत्र विद्यते ॥ ६५ ॥
नभस इव चितः सर्वत्र सत्त्वमनुभावयति-सर्वेति । सर्वे प्रपञ्चा
विशेषविभागास्तद्युक्तानि पञ्चभूतानि यथा सर्वत्रानुभवसि तथा
सर्वभूतात्मभूतसत्तारूपं चित्त्वमपि सर्वत्र विद्यते तदनुभवेत्यर्थः ॥ ६५ ॥
यच्छालभञ्जिका वृक्षे शैले श्वभ्रे गत्ऽन्तकम् ।
प्रेक्ष्यते तद्वदेकात्मा तथा चिति जगत्स्थितम् ॥ ६६ ॥
तस्य सर्वगतत्वे तत्र च सर्वकल्पने दृष्टान्तमाह-यदिति । यद्यथा वृक्षे
काष्ठे शैले शिलास्तम्भे वा टङ्कच्छेदेन
शिल्पिभिस्तत्तदाकारप्रतिमानुकूलश्वभ्रे कृते अन्तकं
पुरुषहस्तितुरगाद्याकारपरिच्छेदं गते सति तदेव पुरुषादिविचित्ररूपा शालभञ्जिका
प्रेक्ष्यते तद्वदेकात्मा सद्रूपः सर्वाकारः प्रेक्ष्यते चिद्रूपे तस्मिंश्च जगत्तथा
स्थितं प्रेक्ष्यत इत्यर्थः ॥ ६६ ॥
अवेदने परे शुद्धे वेदनं यज्जगत्स्थितम् ।
अकारणमचैतन्यं शून्यत्वेन यथा नभः ॥ ६७ ॥
वृक्षादौ टङ्कश्वभ्रकृतः परिच्छेद इह तु किङ्कृतः स तत्राह-अवेदने
इति । अवेदने अविषये परे शुद्धे यद्वेदनं विषयतापादनमन्यथाज्ञानं तदेव
जगदिति परिच्छेदनिमित्तं स्थितमित्यर्थः । चिदेकरसे ब्रह्मणि
यज्जगदाकारमचैतन्यं जाड्यं तदकारणं निर्निमित्तमेवेति नभ इव शून्यत्वेन
स्थितम् ॥ ६७ ॥
विद्यते वेदनं दृश्यबन्धो मोक्षस्त्ववेदनम् ।
यदेव रुचिरं ते स्यात्तदेवाशु दृढीकुरु ॥ ६८ ॥
तथा च तादृशवेदनमेवास्य दृश्यबन्धस्तन्निवृत्तिरेव मोक्ष इति
फलितमित्याह-विद्यत इति ॥ ६८ ॥
सर्गासर्गौ बन्धमोक्षौ वेदनावेदनात्मकौ ।
अभिन्नौ बोधनाच्चोभौ यथेच्छसि तथा कुरु ॥ ६९ ॥
बोधनात्तदुभयसाक्षिणः ॥ ६९ ॥
असंवित्तेस्तु यन्नास्ति तन्नाशे का कदर्थना ।
तूष्णीम्भावेन यत्प्राप्यं प्राप्तमेवाशु विद्धि तत् ॥ ७० ॥
असंवित्तेरदर्शनमात्राद्यन्नास्ति तस्य अनर्थस्य नाशे का कदर्थना आयासः । यच्च
सुखं तूष्णीम्भावेन प्राप्यं तदाशु प्राप्तमेव । तत्राप्यायासापेक्षा नास्तीत्यर्थः
॥ ७० ॥
यद्वै वेदनमात्रात्म तदङ्गावेदनक्षयम् ।
तद्वेदनं वेदनाया यदिष्टं तत्समाचरेत् ॥ ७१ ॥
यज्जगद्रूपं वेदनमात्रात्म तत् अवेदनमदर्शनमेव क्षयो यस्य तथाविधम् ।
तत्तस्या जगद्वेदनाया यद्वेदनं साक्षिचैतन्यं तत्प्राप्तमेवेत्यनुषज्जते##-
वीचिर्यथाम्भसः स्पन्दो जगच्चैव तथा चितौ ।
एतावन्मात्र एवात्र भेदो यद्रघुनन्दन ॥ ७२ ॥
दृष्टान्ताद्दार्ष्टान्तिके यद्वैलक्षण्यन्न् तद्दर्शयति-एतावन्मात्र इति । भेदो
वैलक्षण्यम् ॥ ७२ ॥
देशकालस्वरूपेषु सत्सु वीच्यादिताम्भसि ।
जगदादौ तु देशाद्या असन्तो जगतीक्षिताः ॥ ७३ ॥
तदेवाह-देशेति । जगत आदौ विवर्तोपादाने ब्रह्मणि देशाद्याः पूर्वमसन्तः
पश्चादारोप्यमाणाः कार्यभूतजगत्कोटावेवेक्षिताः ॥ ७३ ॥
आभास्वरं त्रिजगदित्यतिभाति भास्वत्स्वं वेदनं विदनमेव चितेः स्वरूपम् ।
वाचि स्थितं भवति चैतदुपोह भेदक्लिष्टं प्रशान्तवचनस्तु शिवः परात्मा ॥
७४ ॥
भास्वत्स्वप्रकाशं यत्स्वमात्मरूपं वेदनं चैतन्यं
तदेवाविद्यावरणादाभास्वरमीषत्प्रकाशमिव सम्पन्नं त्रिजगदित्यतिक्रम्य
स्वरूपमन्यथा भाति । चितेश्चिद्रूपस्य तस्य पारमार्थिकं स्वरूपं विदनं
ज्ञानमेव न जडम् । एतद्भेदक्लिष्टं त्रिजगत् । अन्नेन सोम्य
शुङ्गेनाऽपोमूलमन्विच्छ इत्यादिश्रुतिदर्शितोपायैरुपोह उपसंहर ।
तथोपसंहृतं तु तत् वाचारम्भणं विकारो नामधेयम् इति श्रुतिदर्शितदिशा वाचि
वाङ्मात्रे स्थितं भवति । प्रशान्तं वचनं वाङ्मात्रमपि यत्र तथाविधस्तु
परः शिवः परमात्मेत्यर्थः ॥ ७४ ॥
संवेदनं सर्व इतीह शब्दादर्थादभिन्नौ न कदाचिदेतौ ।
वीच्यम्भसी द्वे इति नोचितोक्तिर्यस्याज्ञतायां त्विदमेव युक्तम् ॥ ७५ ॥
एवं संवेदनमात्मचैतन्यं सर्वो जगदिति च शब्दादर्थाच्चभिन्नौ सम्पन्नौ न
कदाचिदेतौ द्वौ स्तः । यस्योक्तरूपस्यात्मनः अज्ञतायामिदमेव युक्तं न तु
ज्ञतायामित्यर्थः ॥ ७५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू०
जीवटोपाख्याने स्वप्नशतरुद्रीयकथनं नाम त्रिषष्टितमः सर्गः ॥ ६३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
स्वप्नशतरुद्रीयकथनं नाम त्रिषष्टितमः सर्गः ॥ ६३ ॥