द्विषष्टितमः सर्गः ६२
श्रीवसिष्ठ उवाच ।
अत्र राघव वक्ष्येऽहमितिहासमिमं शृणु ।
यद्वृत्तं कस्यचिद्भिक्षोः किञ्चिन्मननशालिनः ॥ १ ॥
विचित्रवासनायोगान्नानादेहाप्तिविभ्रमम् ।
वर्ण्यते जीवटाख्याने भिक्षुमानसचेष्टितम् ॥
अत्र अस्मिन् भ्रमाद्भ्रमान्तरं गच्छन्निति वर्णितेऽर्थे उदाहरणभूतमितिहासं
पुरावृत्तम् । यद्वृत्तं सम्पन्नम् ॥ १ ॥
आसीत्कश्चिन्महाभिक्षुः समाध्यभ्यासतत्परः ।
नित्यं स्वव्यवहारेण क्षपयत्यखिलं दिनम् ॥ २ ॥
महान् शान्तिदान्तिवैराग्यादिसम्पन्नो भिक्षुः परिव्राट् । स्वव्यवहारेण
स्वाश्रमोचितश्रवणमननादिव्यवहारेण ॥ २ ॥
समाध्यभ्यासशुद्धं तत्तस्य चित्तं क्षणेन यत् ।
चिन्तयत्याशु तद्भावं गच्छत्यम्ब्विव वीचिताम् ॥ ३ ॥
समाधिश्चित्तस्य ध्येयाकारदार्ढ्येन पूर्वस्वरूपशून्यत्वापादनं
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिरिति पतञ्जलिवचनात् ।
तदभ्यासेन शुद्धं पूर्ववासनात्यागक्षमम् । अम्बु जलं वीचितामिव ॥ ३ ॥
कदाचित्स समाधानविरतोऽतिष्ठदेकधीः ।
किञ्चित्सञ्चिन्तयामास स्वासनस्थः क्रियाक्रमम् ॥ ४ ॥
एकधीरेकाग्रचित्तः ॥ ४ ॥
तस्य चिन्तयतो जाता प्रतिभेयमिति स्वतः ।
भावयाम्याशु लीलार्थं सामान्यजनवृत्तिताम् ॥ ५ ॥
सामान्यजनाः शास्त्रसंस्कारहीनास्तद्वृत्तितां चित्तचेष्टानुसारिताम् ॥ ५ ॥
इति सञ्चिन्त्य चेतोऽस्य स्थितं किञ्चिन्नरान्तरम् ।
स्पन्दसंस्थानसन्त्यागमात्रेणावर्तनेऽम्ब्विव ॥ ६ ॥
नरान्तरं यतिधर्मानियन्त्रितपामरपुरुषान्तररूपम् । यथा अम्बु आवर्तने कृते
प्राक्तनप्रवाहस्पन्दस्य समसंस्थानस्य च सन्त्यागमात्रेण
नाभ्याकारमावर्ताख्यरूपान्तरेण तिष्ठति तद्वत् ॥ ६ ॥
तेन चित्तनरेणाथ कृतं नामात्मवाञ्छया ।
जीवटोऽस्मीति सहसा काकतालीयवत्स्थितम् ॥ ७ ॥
तत्र नान्तरीयकीं नामकल्पनामाह-तेनेति ॥ ७ ॥
जीवटो विजहाराथ स स्वप्नपुरुषश्चिरम् ।
स्वप्ननिर्माणनगरे कस्मिंश्चित्पुरवीथिषु ॥ ८ ॥
तत्र पानं पपौ मत्तो भृङ्गः पद्मरसं यथा ।
लीलयैव दृढं हृष्टः सुष्वाप घननिद्रया ॥ ९ ॥
हृष्टो मत्तः ॥ ९ ॥
स्वप्ने ददर्श विप्रत्वं पाठानुष्ठानतुष्टिमत् ।
प्रतिभामात्रसम्पन्नां चित्ते देशान्तराप्तिवत् ॥ १० ॥
पाठैरध्ययनैः सत्कर्मानुष्ठानैश्च तुष्टिमत् सन्तुष्टं न पृथग्जनचरित्रेण
॥ १० ॥
कदाचित्स द्विजश्रेष्ठस्त्वहर्व्यापारनिष्ठया ।
सुष्वापान्तर्व्यवहृतिर्बीजतायामिव द्रुमः ॥ ११ ॥
अहर्व्यापारनिष्ठया श्रान्त इति शेषः । अन्तःसंस्कारात्मना लीना व्यवहृतिर्यस्य ।
यथा बीजतायां द्रुमोऽन्तर्गतविटपादिसंस्कार आस्ते तद्वत् ॥ ११ ॥
द्विजोऽपश्यत्स्वयं स्वप्ने सामन्तत्वमथात्मनि ।
स सामन्तः कृताहारः कदाचिद्घननिद्रया ॥ १२ ॥
सामन्तत्वं माण्डलिकराजताम् ॥ १२ ॥
अपश्यद्राजतां स्वप्ने ककुब्वलयपालिनीम् ।
लालितां भोगपूगेन पुष्पौघेण लतामिव ॥ १३ ॥
कृताहारो भुक्तवान् सन् सुप्तो घननिद्रया राजतां साम्राज्यम् । ककुभां दिशां
वलयानि पालयितुं शीलं यस्यास्तथाविधाम् ॥ १३ ॥
स कदाचिन्नृपः स्वस्थः सुष्वापास्तमितेहितः ।
पुरोभाविनिजाचारः स्वकार्यमिव कारणे ॥ १४ ॥
पुरोभावी फलदानायोपस्थितो निजः स्वीयः स्त्र्यास्रक्तिरूप आचारो यस्य । स्वकार्य
वृक्षादि । कारणे बीजे ॥ १४ ॥
अपश्यत्स्वात्मनि स्वप्ने सुरस्त्रीत्वमनिन्दितम् ।
वृक्षकोशरसोल्लासे मञ्जरीत्वमिवोदितम् ॥ १५ ॥
बहुपुरुषसम्भोगेऽप्यनिन्दितं सुरस्त्रीत्वमप्सरस्त्वम् । रसोल्लासे
चेतनत्वकल्पनयोक्तिर्लक्षणया वृक्षजीवोक्तिर्वा ॥ १५ ॥
सा सुरस्त्री रतिश्रान्ता निद्रां गाढामुपागता ।
मृगीत्वमात्मनि स्वैरमावर्तत्वमिवाम्बुता ॥ १६ ॥
मृगीनयनसौन्दर्याभिलाषवासनया मृगीत्वमपश्यदित्यनुकृष्यते । अम्बुता
अम्बुसाम्यावस्था ॥ १६ ॥
सा मृगी लोलनयना कदाचिन्निद्रया हृता ।
स्वप्ने ददर्श वल्लीत्वं स्वाभ्यासाद्दृढमात्मनि ॥ १७ ॥
तिर्यञ्चोऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः ।
दृष्टानां च श्रुतानां च चेतःस्मरणमक्षतम् ॥ १८ ॥
तिरश्चां स्वप्नदर्शनमस्ति न वेति सन्दिहानान्प्रत्याह-तिर्यञ्च इति । चित्तस्य
दृष्टश्रुतसंस्कारग्राहित्वात्सति संस्कारे
स्मृतिवत्स्वाप्नस्याप्यवर्जनादित्याशयः ॥ १८ ॥
सा बभूव लतापुष्पफलपल्लवशालिनी ।
वनदेवी वनोद्यानलतागृहविलासिनी ॥ १९ ॥
लतापल्लवासक्तिवशाल्लता बभूव । वनदेवीनां वने प्रसिद्धलतागृहमिव
विलसनशीला ॥ १९ ॥
बीजान्तस्थाङ्कुराकाररूपयेहाधिरूढया ।
सापश्यदन्तःसंवित्त्या स्फुटं लवनमात्मनः ॥ २० ॥
सा लता कञ्चित्कालमन्तःसंवित्त्या साक्षिचैतन्येन निद्राजडतां सुषुप्तिमनुभूय
बीजान्तस्थाया भाव्यङ्कुराकाराया धियो रूपमिव स्वरूपं यस्यास्तथाविधया
स्वप्नोन्मुख्या धिया भ्रमराकारोद्बुद्धसंस्कारया आत्मानं
भ्रमरमपश्यदित्यन्वयः ॥ २० ॥
कञ्चित्कालं सुषुप्तस्थं कलया जडतां घनाम् ।
अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थिरम् ॥ २१ ॥
षट्पदो विजहाराथ वने वनलतास्वसौ ।
पद्मिनीषु च फुल्लासु तरुणीष्विव वल्लभः ॥ २२ ॥
प्रियाबिम्बाधरस्वादुरसवत्कौसुमं मधु ।
भ्रमत्कुसुमसङ्घासु मुक्तावल्लीविलासिषु ॥ २३ ॥
कौसुमं मधु मकरन्दं पपौ इति शेषः ॥ २३ ॥
स बभूव सरोजिन्यां व्यसनी बिसनालगः ।
क्वचिदेव रतिं ह्येति चेतो जडमतेरपि ॥ २४ ॥
व्यसनी अत्यासक्तः सन् विसस्य नालगो नालसंलग्नः ॥ २४ ॥
तामाजगाम नलिनीं परिलोलयितुं गजः ।
रम्यवस्तुक्षयायैव मूढानां जृम्भते पदम् ॥ २५ ॥
पदं व्यवसितम् । जृम्भते वर्धते ॥ २५ ॥
नलिनी मर्दिता सैव समं तेन स षट्पदः ।
गतो दन्तान्तरं व्रीहिरिव चूर्णत्वमाययौ ॥ २६ ॥
तेन गजेन सा भ्रमराश्रिता नलिनी मर्दितैव । तेन नालेन समं स षट्पदो गजस्य
दन्तान्तरं गतः सस्यसंलग्नकृष्णव्रीहिरिव चर्व्यमाणश्चूर्णत्वमाययौ ॥ २६ ॥
भ्रमरो वारणालोकाद्वारणालोकभावनात् ।
ददर्शात्मानमामोदमत्तहस्तितयोदितम् ॥ २७ ॥
वारणस्यालोकादवलोकनावारणस्यालोक्यत इत्यालोक आकारस्तद्भावनादात्मानं
मत्तहस्तितया उदितं सम्पन्नं ददर्श ॥ २७ ॥
शुष्कसागरगम्भीरे गजः खाते पपात ह ।
तमोघनघने शून्ये संसार इव जीवकः ॥ २८ ॥
स गजः खाते हस्तिपकनिर्मितगर्ते । घनेभ्यः शृङ्खलादिबन्धेभ्योऽपि घने
कठोरे संसारे जीवक इव पारवश्यदुःखान्यनुभवन् ॥ २८ ॥
बभूव वल्लभो राज्ञो महापरबलान्तकः ।
सदा मदबलक्षीबो घूर्णोतीव निशाचरः ॥ २९ ॥
निशाचर इत्युत्तरान्वयि ॥ २९ ॥
कदाचिदसिनिस्त्रिंशच्छिन्नः सोऽस्तमुपाययौ ।
विवेकानिलनिर्लूनरूपो जीव इवात्मनि ॥ ३० ॥
स कदाचिदुपस्थिते निशायुद्धे चरतीति निशाचरः
सन्नसिभिर्दीर्घखङ्गैर्निर्गतास्त्रिंशद्भ्योऽङ्गुलिभ्यो निस्त्रिंशाः
कृपाणिकास्ताभिश्च च्छिन्नः सन्नस्तं मृत्युमुपाययौ । जीवो
जीवोपाधिर्देहाद्यभिमान इव ॥ ३० ॥
पश्वन्गजघटाकुम्भस्थलाग्रोच्चलितानलीन् ।
गण्डस्थभ्रमराभ्यासाद्गजो भूयोऽप्यभूदलिः ॥ ३१ ॥
गजघटानां हस्तिसमूहानां कुम्भस्थलाग्रेभ्य उच्चलितानुड्डीनान् ।
अभ्यासाच्चिरपरिशीलनसंस्कारात् । अल्युड्डयनदर्शनसंस्कारोद्बोधितादित्याशयः ॥
३१ ॥
सेवमानो वनलतां पुनरायात्स पद्मिनीम् ।
दुस्त्यजो हि दुरभ्यासो वासनानामबोधिनः ॥ ३२ ॥
पुनः पूर्ववासनयेत्यर्थः । अबोधिनः अज्ञस्य । शेषे षष्ठी नतु कर्तरि । नलोकेति
निषेधात् ॥ ३२ ॥
तत्र हस्तिखुराक्रान्तः पुनः सञ्चूर्णतां ययौ ।
पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः ॥ ३३ ॥
संवित्त्या दर्शनेन । तदुद्बोधितवासनयेति यावत् ॥ ३३ ॥
कलहंसश्चिरतरं योनिष्वन्यासु संल्लुठन् ।
कदाचिद्बहुभिर्हंसैः सङ्गतो विजहार ह ॥ ३४ ॥
योनिष्वन्यासु संल्लुठन्नित्युक्त्या । हंसः पद्मवने भूत्वा विन्ध्यकच्छे च
वारणः । हरिणो देहयन्त्रादौ इत्यादिवक्ष्यमाणदिशा अन्तराले पञ्चाशीतिजन्मानि
जातानीति गम्यते । तथा चात्रोक्तहंसजन्मद्वयानन्तरं रुद्रतां गतः
संसारशतपर्यन्ते रुद्रः सोऽहं व्यवस्थितः इति वक्ष्यति । स कदाचित्
पुनर्हसजन्मप्राप्तोऽन्यैर्हंसैः सङ्गतो विजहारेत्यर्थः ॥ ३४ ॥
ब्राह्महंसात्मिका संवित्सशब्दार्थवती मनाक् ।
तत्र पुष्टास्य तस्यान्तः प्रागण्डरसबर्हिवत् ॥ ३५ ॥
तत्र हंससंसदि ब्रह्महंसगुणाकारादिवर्णनश्रवणात् सशब्दा तन्नामसहिता
तदाकारार्थवती चेति द्वेधापि ब्राह्महंसात्मिका संवित् अहमपीदृशो
ब्राह्महंसः स्यामिति वासना तत्र तस्मिन् जन्मनि तस्य हंसभूतस्यास्य
भिक्षुमनसः प्राग् वर्णिताण्डरसस्थबर्हिवत् पुष्टा । घनीभूतेत्यर्थः ॥ ३५ ॥
स तच्चिन्तां चरन्मृतो दृढं व्याधिघुणाहतः ।
तत्संवित्त्यनुसन्धानाज्जातः पद्मजसारसः ॥ ३६ ॥
स तां ब्राह्महंसचिन्तामेव दृढं चरन्नावर्तयन् व्याधिघुणाभिहतो भृतः
पद्मजस्य सारसो लक्षणया हंसो वाहनमित्यर्थः ॥ ३६ ॥
तत्रातिसततविवेकवतो विलासैः सम्बोधितो विगतलौकिकवस्तुदृष्टिः ।
मुक्तः स्थितो ननु युगान्तविधौ विदेहमुक्तेन तेन किमु भावि विभाव्यमेतत् ॥ ३७
॥
तत्र तस्मिन् जन्मनि ब्रह्मलोके च अतिशयेन सन्ततैर्विवेकवतः
प्रजापतेर्विवेकवैराग्यतत्त्वज्ञानाद्युपदेशविलासैः सम्यग्बोधितः । अत एव विगता
लौकिकवस्तुषु भोग्यवर्गेषु सारतादृष्टिर्यस्य तथाविधः सन् मुक्तो जीवन्मुक्तो
भूत्वा स्थितः । एवं जीवतैव निरतिशयानन्दमोक्षसुखे लब्धे सति । ब्रह्मणा सह ते
सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् । इति
श्रुतेर्युगान्तविधौ द्विपरार्धावसाने ब्रह्मणा सह विदेहमुक्तेन तेन हंसेन
किमधिकं भावि साध्यम् । एतत् सुधीभिर्विर्भाव्यं चिन्त्यम् । उ इति वितर्के । ज्ञानेनेहैव
समूलानर्थनिवृत्तेर्निरतिशयानन्दवाप्तेश्च
सम्पादितत्वात्तदतिरिक्तपुरुषार्थाभावाच्चास्य कृतकृत्यत्वादित्यर्थः ॥ ३७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भिक्षुसंसारोदाहरणं नाम द्विषष्टितमः सर्गः ॥ ६२ ॥
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० निर्वा० पू० जीवटोपाख्याने स्वप्नशतरुद्रीये
भिक्षुसंसारोदाहरणं नाम द्विषष्टितमः सर्गः ॥ ६२ ॥