एकषष्टितमः सर्गः ६१
श्रीराम उवाच ।
यथास्माकं मुने स्वप्नपुरपत्तनमण्डलम् ।
तथैव पद्मजादीनां यदि देहपरिग्रहः ॥ १ ॥
इह प्रसाध्यते युक्त्या स्वप्नमायासमं जगत् ।
सर्वत्र चाविरोधेन भ्रान्त्या सर्वस्य सम्भवः ॥
यदि सर्व जगत्परमात्मनः स्वप्नसदृशी भ्रान्तिकल्पितविभूतिस्तर्हि ब्रह्मादिदृशा
स्वप्नवद्भ्रान्तिरित्येव भासते । अस्मदादिदृशा तु न स्वप्नतुल्यः किन्तु दृढतरः
सत्य इत्येव भासत इति वैषम्ये को हेतुः । न च दीर्घकालानुवृत्त्यास्माकं तथा
भातीति तत्समाधानं युक्तम् । ब्रह्मादीनां परार्धद्वयायुषां ततोपि चिरकालं
संसारानुवृत्त्या सत्यतादार्ढ्याधिक्यापत्तेरित्याशयेन रामः पृच्छति##-
तथैवेदं च सञ्जातं यदि सर्वमसन्मयम् ।
तदस्माकं दृढतरः प्रत्ययः कथमुत्थितः ॥ २ ॥
अस्माकं अस्माकमेव प्रपञ्चे दृढतरः सत्यताप्रत्ययः कथमुत्थितो न
पद्मजादीनामित्यर्थः ॥ २ ॥
श्रीवसिष्ठ उवाच ।
अस्मत्सर्गवदाभाति पूर्वसर्गः प्रजापतेः ।
आजीवप्रतिभासात्मा विद्यते न तु वास्तवः ॥ ३ ॥
अबाधितचिरानुवृत्तिरेव सत्यताभ्रमदार्ढ्यहेतुर्न बाधितचिरानुवृत्तिरित्याशयेन
वसिष्ठः समाधत्ते-अस्मदिति । यदायं पद्मजः पूर्वमुपासकावस्थोऽभूत्तदा
तत्त्वज्ञानाभावादस्य प्रजापतेस्तदानीन्तनः पूर्वसर्ग
इदानीमस्मदनुभूयमानसर्गवदेव
आसमन्ताच्चतुर्विधभूतग्रामलक्षणजीवप्रतिभासात्मा सत्य एवाभाति तथापि
साम्प्रतं तस्य तत्त्वज्ञानबाधितत्वाद्वास्तवो न विद्यते ॥ ३ ॥
सर्वगत्वाच्चितेः सर्वं जीवः सर्वत्र संसृतिः ।
सा चासम्यग्दर्शनोत्था सम्यग्दर्शननाशिनी ॥ ४ ॥
यावदज्ञानं तावच्चितेः सर्वगत्वात्सर्वं जीवो भवति । सर्वत्र च संसृतिः सत्येव
भवति । सा च सम्यग्दर्शनविरोष्यज्ञानोत्था सम्यग्दर्शनेन नष्टुं
शीलमस्यास्तथाविधेत्यर्थः ॥ ४ ॥
स्वप्नाभः प्रतिभासोऽस्य य एष समुपस्थितः ।
अहन्ताप्रत्ययैकात्मा स एवातिदृढं स्थितः ॥ ५ ॥
अतएवास्य प्रजापतेस्तत्त्वज्ञानबाधितः स्वप्नाभः पेलवः प्रपञ्चप्रतिभासो यः
समुपस्थितः सः अज्ञास्मदाद्यहन्ताप्रत्ययेनैकात्मा एकीभूतः सन् अतिदृढं
स्थितः ॥ ५ ॥
स्वप्ने क्षिप्रविनाशित्वं यथा पुंसा न दृश्यते ।
सर्वस्वप्ने तथैवैतद्ब्रह्मणामिह लक्ष्यते ॥ ६ ॥
तर्हि प्रजापतिभिः स्वकल्पितप्रपञ्चस्य तत्त्वबोधेन क्षिप्रविनाशिता कुतो नानुभूयत
इति चेद्भोजकादृष्टेन प्रतिबन्धादित्याशयेनाह-स्वप्ने इति । यथा सुप्तपुंसा
स्वाप्नभोगप्रदकर्मप्रतिरुद्धत्वात्स्वप्ने विद्यमानमपि क्षिप्रविनाशित्वं न
दृश्यते तथा समष्टिस्वप्ने जगत्यपि ब्रह्मणां पद्मजानामिह विनाशित्वबोधे
प्रतिबन्धो लक्ष्यत इत्यर्थः ॥ ६ ॥
स्वप्नोऽयं पुरुषस्यास्य प्रतिभासस्य यो भवेत् ।
रामाऽस्मदादिसर्वात्मा भवेत्तादृश एव च ॥ ७ ॥
हे राम अस्य सुप्तपुरुषस्य प्रतिभासस्य प्रतीतेरयं प्रसिद्धः स्वप्नः
अस्मदादिसर्वजीवजगदात्मा यादृशोऽनाद्यनन्तप्रवाहरूप इत्येव भवेत्प्रजापतेरपि
तादृश एव भवेदित्यर्थः ॥ ७ ॥
यत्स्वप्नपुरुषाज्जातं तत्स्वप्नपुरुषात्मकम् ।
भवतीत्यनुभूतं हि यद्बीजं तत्फलं यथा ॥ ८ ॥
अस्तु तादृशः किं ततस्तत्राह-यदिति । यथा तस्याम्रादेर्बीजमेव
तज्जन्यवृक्षफलात्मना परिणतं न वस्त्वन्तरं तद्वदित्यर्थः ॥ ८ ॥
असत्यमेव तद्विद्धि यदसत्येन साध्यते ।
असत्येऽर्थे समर्थेऽपि न युक्तं भावनं घनम् ॥ ९ ॥
अस्त्वेवं ततोऽपि किं तत्राह-असत्यमेवेति । असत्येन मनःपुरुषेण यत्साध्यते
तदसत्यमेवेति सिद्धम् अतो जन्मान्तरस्वर्गनरकाद्यर्थक्रियासमर्थेऽपि घनं
सत्यत्वभावनं न युक्तमित्यर्थः ॥ ९ ॥
येन तेन परित्याज्यमसद्भावनभावनम् ।
दृढप्रत्ययितं स्वप्नपुरुषाद्यत्समुत्थितम् ॥ १० ॥
येन हेतुना न युक्तं तेन हेतुना दृढप्रत्ययितमपि परित्याज्यम् ॥ १० ॥
भवत्यात्मनि सर्गादि दृढप्रत्ययमेव तत् ।
निमेषमात्रः पौरोऽयं सर्गस्वप्नः पुरः स्थितः ॥ ११ ॥
किञ्चास्मदादीनामपि स्वाप्नसर्गादि यद्भासते तत्तदानीं दृढप्रत्ययमेव भवति
न मिथ्याबुद्धिवत्तदा दृश्यते नैतावतास्य सत्यतेत्यर्थः । अभ्युपेत्य प्राजापत्यस्य
सर्गस्य दीर्घकालस्थायित्वमिदं सर्वमुक्तम् । वस्तुतस्तु तस्य दैर्घ्यमपि
हरिश्चन्द्रस्वप्नदैर्घ्यवदल्पकालेऽपि सम्भवतीत्याह-निमेषमात्र इति । वार्षिकः
पूर इव प्रवृद्धः पौरः अयं प्राजापत्यः सर्गस्वप्नः ॥ ११ ॥
तस्मिन्निमेष एवास्मिन्कल्पता परिकल्प्यते ।
सुदीर्घस्वप्नखण्डोऽयं यथोदेति प्रजापतेः ॥ १२ ॥
प्रजापतेरिव सर्वेषामपि स्वस्वप्नेषु तदानीं दीर्घप्रपञ्चताप्रत्ययोऽस्त्येवेत्याह##-
सर्गाख्यः सर्वभूतानां प्रत्येकमुदितस्तथा ।
चित्तत्त्वस्यैव भावेन सर्गवर्गपरम्परा ॥ १३ ॥
चिदधीनप्रसिद्धिकत्वरूपं दृश्यत्वं मिथ्यात्वे प्रयोजकं तच्चोभयत्रापि
समानमित्याशयेनाह-चित्तत्त्वस्येति ॥ १३ ॥
स्फुरत्यम्भो द्रवत्वेन यथावर्तविवर्तनैः ।
यथा स्वप्नात्मिकैवेयं सर्गलक्ष्मीर्न वास्तवी ॥ १४ ॥
तदा सम्भवतीदं वै तत्पदं प्रलयं गतम् ।
यद्यथा यादृशं दृष्टं तत्तादृग्विद्यते तथा ॥ १५ ॥
तत्प्राजापत्यं पदं सर्गादिसहितं प्रलय गतमत्यन्तासदेवेति न निरोधो न चोत्पत्तिर्न
बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तिरित्येषा परमार्थता ॥ इतीदं प्रसिद्धं
श्रुतिवचनं सम्भवतीत्यर्थः । नन्वत्यन्तासदेवेदं चेत्कथं व्यवहारार्हमिति
चेत्तथा दृष्टत्वादेव नात्र पर्यनुयोज्यमस्तीत्याह-यद्यथेति ॥ १५ ॥
न हि पर्यनुयोक्तव्याः स्वप्नविभ्रमरीतयः ।
न तदस्ति जगत्यस्मिन्यन्न सम्भवति भ्रमे ॥ १६ ॥
अज्ञानस्याघटितघटनासामर्थ्यादपि न पर्यनुयोज्यतेत्याह-न तदिति ॥ १६ ॥
विचित्रास्त्रिषु लोकेषु दृश्यन्ते वस्तुदृष्टयः [वस्तुसृष्टयः इति पाठः ।
] ।
जलमध्ये ज्वलत्यग्निर्यथाब्धौ वडवानलः ॥ १७ ॥
असम्भावितानां बहूनां जगति दर्शनमुदाहरति-विचित्रा इत्यादिना ॥ १७ ॥
नगराण्यम्बरे सन्ति यथा वैमानिकाश्रयाः ।
शिलास्वब्जानि जायन्ते हेमाद्राविव पादपाः ॥ १८ ॥
हेमाद्रौ निर्मृत्तिके ॥ १८ ॥
एकान्ते सर्वपुण्यानि सन्ति कल्पतरौ यथा ।
शिलाः फलन्ति फलिवद्यथा रत्नगुलुच्छकाः ॥ १९ ॥
एकान्ते एकदेशे सर्वाणि पुण्यानि पुण्यफलभूतान्यभिलषितवस्तूनि । पण्यानि इति पाठे
पणनं व्यवहारस्तद्योग्यवस्तूनि । पुष्पाणि इति पाठे तु स्पष्टम् । यथाशब्दाः
सर्वत्रोदाहरणार्थाः । फलिवद्वृक्षवत् । रत्नगुलुच्छकाश्चिन्तामणिगुच्छाः ॥ १९ ॥
शिलान्तः प्राणिनः सन्ति भेका इव शिलान्तरे ।
दृषदो वारि निर्याति चन्द्रकान्तोपलादिव ॥ २० ॥
निमेषेण घटो याति पटतां स्वापसंविदि ।
असत्यमपि बुध्येत स्वप्ने स्वमरणं यथा ॥ २१ ॥
स्वापसंविदि स्वप्ने ॥ २१ ॥
आकस्मिकं जलं व्योम्नि ध्रियते भूतगं यथा ।
वितानमिव खे वारि तिष्ठति स्वर्णदी यथा ॥ २२ ॥
स्वर्णदी मन्दाकिनी ॥ २२ ॥
उड्डीयन्ते शिलाः स्थूलाः पक्षवन्तो यथाद्रयः ।
शिलान्तः प्राप्यते सर्वं ननु चिन्तामणेरिव ॥ २३ ॥
चिन्तितानि फलन्त्याशु देवोद्यानान्तरेष्विव ।
तान्येव न फलन्त्याशु मोक्षादीनां च राघव ॥ २४ ॥
न फलन्ति नोत्पद्यन्ते । यथा मोक्ष उत्पद्यतां ब्रह्म नश्यतु प्रपञ्चः सत्योऽस्तु
भोगाः शाश्वताः सन्तु नियतिर्भज्यतां वेदा अप्रमाणीभवन्तु इत्यादीनां विषये
सत्यसङ्कल्पानां चिन्तितान्यपि न फलन्तीत्यर्थः ॥ २४ ॥
अचेतनोऽपि कुरुते कर्म यन्त्रपुमानिव ।
एवमाद्यास्तथान्ये च विचित्रारम्भविभ्रमाः ॥ २५ ॥
असम्भवाः असम्भाविता अन्ये च विचित्रारम्भविभ्रमाः
शम्बरगन्धर्वादिमायाविलासैर्दृष्टा इत्यन्वयः ॥ २५ ॥
दृष्टाः शम्बरगन्धर्वविलासैरप्यसम्भवाः ।
देशकालक्रियाद्रव्यरत्नसञ्चरणीयजाः ॥ २६ ॥
देशे दूरत्वादौ चन्द्रप्रादेशिकत्वादयः काले औत्पातिकनभःकबन्धादयो
मन्त्रप्रयोगादिक्रियया औषधादिद्रव्यै रत्नैर्मणिभिः सञ्चरणीयैः
पिशाचमदाद्यनुप्रवेशैश्च जातास्ते ते विचित्रारम्भविभ्रमा दृष्टा इत्यर्थः ॥ २६ ॥
अर्था गन्धर्वजनिता अनन्ताः सत्यसम्भवाः ।
असम्भवः सम्भवोऽयमपि भाव्युपपद्यते ॥ २७ ॥
सत्येभ्य इवार्थक्रियासम्भवो येभ्यस्तथाविधा दृष्टा इति पूर्वेणान्वयः ।
इदानीमसम्भवोऽप्ययं ब्रह्माण्डनाशादिर्भावी सम्भवतीति सम्भव उपपद्यते ॥
२७ ॥
सम्भवोऽसम्भवः सम्यक् सिद्धये स्वप्नविभ्रमः ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ॥ २८ ॥
एवमिदानीं सम्भवोऽपि सर्गरूपः स्वप्नविभ्रमः प्रलये तत्त्वबोधे चासम्भवः
सन् सिद्धये स्वरूपविश्रान्तये भवतीत्यर्थः । एवं च ब्रह्मात्मना दर्शने नासत्यं
किञ्चिदस्ति जगदात्मना दर्शने तु न सत्यं किञ्चिदस्तीति फलितमित्याह-न तदिति ॥ २८
॥
सर्वं सर्वेण सर्वत्र स्वप्ने सर्गाभिधानके ।
स्वप्ने निमग्नधीर्जन्तुः पश्यति स्थिरतां यथा ॥ २९ ॥
सर्गस्वप्ने मग्नबुद्धिः पश्यति स्थिरतां तथा ।
भ्रामाद्भ्रमान्तरं गच्छन्स्वप्नात्स्वप्नान्तरं व्रजन् ।
अतिस्थिरप्रत्ययभागिह जीवो विमुह्यति ॥ ३० ॥
श्वभ्रान्तरं श्वभ्रनिपातदोषात् सम्प्राप्नुवन्मुग्धमृगः प्रयाति ।
मोहं यथा पातमयैकरूपं जीवस्तथा संसृतिपातमूढः ॥ ३१ ॥
यथा मुग्धो मृगः श्वभ्रेषु निपातयतीति
श्वभ्ननिपातस्तथाविधात्स्वमोहदोषाच्छ्वभ्राच्छ्वभ्रान्तरं प्रयाति तथा
संसृतौ पातयन्तीति संसृतिपाता रागादयस्तान् मूढो जीवः पातमयतया
एकरूपं न मृगवन्मध्ये निर्गमनमस्ति यत्र तथाविधं मोहं
देहादिगर्तप्रवेशभ्रमं प्रयातीत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षो० निर्वाणप्रकरणे
पूर्वार्धे जगत्स्वप्नकथनं नामैकषष्टितमः सर्गः ॥ ६१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
जगत्स्वप्नकथनं नामैकषष्टितमः सर्गः ॥ ६१ ॥