षष्टितमः सर्गः ६०
श्रीवसिष्ठ उवाच ।
एवमाद्यं परं तत्त्वं चिद्घनं परमं पदम् ।
तत्स्था एते महारूपा ब्रह्मविष्णुहरादयः ॥ १ ॥
अद्वितीयस्य शुद्धस्य परस्य निजमायया ।
सर्वाकारैः स्थितिरिह विभूतिरुपदिश्यते ॥
वर्णितब्रह्मणो विभूतीः प्रपञ्चयिष्यंस्तत्र मुख्यान्प्रथमं निर्दिशति##-
मानुषादिहरान्तेष्विति भावः ॥ १ ॥
विभूतिभिः स्फुरन्त्युच्चैर्जनास्तुष्टा नृपा इव ।
आकाशगमनाद्याभिः क्रीडाभिः क्रीड्यते चिरम् ॥ २ ॥
नृपा मानुषानन्दविभवपूर्णा इवेति
तैत्तिरीयश्रुतिदर्शितानन्दोत्कर्षक्रमप्रथमभूमिकानिर्देशः । तदुक्तभूमिकासु
सुखोत्कर्षमाह-आकाशेति । क्रीड्यते तत्स्थेनैव जनेनेति परेणान्वयः ॥ २ ॥
तत्स्थेनैव जनेनेह स्वर्गे स्वर्गौकसो [स्वर्गौकसा यथा इत्युभयत्र पाठः
।] यथा ।
तत्प्राप्याङ्ग न म्रियते तत्प्राप्याङ्ग न शोच्यते ॥ ३ ॥
तस्मिन्ब्रह्मणि आनन्दस्फूर्तिविरोधिमालिन्यक्षयतारतम्येन तिष्ठतीति तत्स्थो
मनुष्यगन्धर्वादिर्जनस्तेन । स्वर्गौकसो [स्वर्गौकसा य्था इत्युभयत्र पाठः ।
] यथेति तदुत्तरगन्धर्वाद्युत्तरभूमिकोदाहरणार्थम् ।
तत्सर्वानन्दोत्कर्षावधिभूतं ब्रह्म तत्त्वबोधेन प्राप्य । अङ्गेति सम्बोधने ॥ ३ ॥
तत्प्राप्य जीव्यते नाङ्ग तत्प्राप्याङ्ग न रुध्यते ।
अपारपरमाकाशरूपिणः परमात्मनः ॥ ४ ॥
न जीव्यते प्राणधारणनिमित्तैरशनायादिभिर्न पीड्यते । न रुध्यते कुड्यादिभिः ॥ ४ ॥
सत्तासामान्यरूपं चेन्मनागपि विभाव्यते ।
तत्त्वं निमेषमात्रेण जन्तुर्मुक्तमना मुनिः ।
कुर्वन्संसारकर्माणि न भूयः परितप्यसे ॥ ५ ॥
तत्तत्त्वं जन्तुः साधारणजन्तुशरीरोऽपि यदि स्यात्तथापि न परितप्यसे किं
पुनरुत्तमशरीर इत्युत्तरेणान्वयः ॥ ५ ॥
श्रीराम उवाच ।
मनो बुद्धिरहङ्कारश्चित्तं यत्र क्षयं गतम् ।
सत्तासामान्यमाभातं मनस्वी स किमुच्यते ॥ ६ ॥
यद्विभावनाज्जन्तुर्न परितप्यते तत्सत्तासामान्यरूपं किं निर्विशेषमुत सविशेषम् ।
आद्ये तस्य विभूतिवर्णनगसङ्गतम् । द्वितीये तत्प्राप्य जन्तुर्न परितप्यते
इत्यात्यन्तिकपरितापोच्छेदवर्णनमयुक्तमित्याशयेन रामः पृच्छति-मन इति ।
मनोबुद्ध्यासि सर्वद्वैतं यत्र क्षयं गतं तन्निर्विशेषमाभातं
पूर्णचिन्मात्रमेव सत्तासामान्यमिति त्वयोच्यते उत मनस्वी मन##-
श्रीवसिष्ठ उवाच ।
यद्ब्रह्म सर्वदेहस्थं भुङ्क्ते पिबति वल्गति ।
आदत्ते विनिहन्त्यन्तः संवित्संवेद्यवर्जितम् ॥ ७ ॥
नात्र प्रपञ्चबाधोत्तरपरिशिष्टनिर्विशेषमिति वा तत्पूर्वकालिकं सविशेषमिति वा
विभज्य सत्तासामान्यमुक्तं किन्तु सर्वजीवभावेष्वीश्वरभावे मुक्तौ च
यदनुस्यूतमखण्डदण्डायमानं सन्मात्रं तदेवोक्तं तदेव जगतस्तत्त्वम् । तत्र
तु त्वदभिप्रेतो न कश्चिद्विरोध इत्याशयेन वसिष्ठः समाधत्ते-यदिति ।
आदत्तेऽन्तर्जाग्रत्स्वप्नसर्गकाले । विनिहन्ति सुषुप्तिप्रलययोः । संविन्संवेद्यवर्जितं
तुरीयतायाम् ॥ ७ ॥
तत्सर्वगतमाद्यन्तरहितं स्थितमर्जितम् ।
सत्तासामान्यमखिलं वस्तुतत्त्वमिहोच्यते ॥ ८ ॥
स्थितमेव् कण्ठवामीकरवद्बोधेनार्जितम् ॥ ८ ॥
तत्स्थितं खतया व्योम्नि शब्दे शब्दतया स्थितम् ।
स्पर्शे स्थितं स्पर्शतया त्वचि तत्त्वक्तया स्थितम् ॥ ९ ॥
तदेव वियदादिकार्यानुस्यूतं तद्विभूतितयोपवर्ण्यते
सार्वात्म्यप्रदर्शनायेत्याह-तदित्यादिना ॥ ९ ॥
रसे लीनं रसतया रसनायां तु तत्तया ।
रूपे रूपतया दृष्टं नेत्रे लीनं च दृक्तया ॥ १० ॥
तत्तया रसनेन्द्रियतया । नेत्रे चक्षुरिन्द्रिये ॥ १० ॥
घ्राणे घ्राणतया दृष्टं गन्धे गन्धतयोदितम् ।
पुष्टं कायतया काये भूमावपि च भूतया ॥ ११ ॥
पयस्तया च पयसि वायौ वायुतया स्थितम् ।
तेजस्तया तेजसि च बुद्धौ बुद्धितया गतम् ॥ १२ ॥
मनस्तया मनस्यन्तरहङ्कृत्याप्यहङ्कृतौ ।
रूढं संविदि संवित्त्या चित्ते चित्ततयोत्थितम् ॥ १३ ॥
अहङ्कृत्या अहङ्कारतया । संविदि बुद्धौ । संवित्त्या बुद्धितया ॥ १३ ॥
वृक्षे वृक्षतया लग्नं पटे पटतयोदितम् ।
घटे घटतया रूढं वटे वटतयोत्थितम् ॥ १४ ॥
स्थावरे स्थावरत्वेन जङ्गमत्वेन जङ्गमे ।
पाषाणत्वेन पाषाणे चेतनत्वेन चेतने ॥ १५ ॥
चेतने चतुर्विधभूतेषु ॥ १५ ॥
अमरेष्वमरत्वेन नरत्वेन नरेषु च ।
तिर्यक्त्वेन च तिर्यक्षु क्रिमित्वेन क्रिमिस्थितौ ॥ १६ ॥
तत्र विशेषाकारसत्तापि तदेवेत्याह-अमरेष्विति ॥ १६ ॥
कालक्रमे कालतया ऋतावृतुतया तथा ।
त्रुटिक्षणनिमेषादौ संस्थितस्तत्तया विभुः ॥ १७ ॥
कालस्य क्रमे युगसंवत्सरत्वादिभेदे । ऋतावित्यादिस्तत्प्रपञ्चः ॥ १७ ॥
शुक्ले शुक्लतया जातं कृष्णे कृष्णतया स्थितम् ।
क्रियासु स्पन्दरूपेण नियतौ नियमेन च ॥ १८ ॥
नियमेन नियतितया ॥ १८ ॥
संस्थितः संस्थितौ स्थित्या नाशे नाशतया स्थितः ।
उत्पत्तिरूपेणोत्पत्तावास्थितः परमेश्वरः ॥ १९ ॥
बाल्येन बाल्ये विश्रान्तो यौवने यौवनेन च ।
जरसा च जरारूपे मरणे मरणेन च ॥ २० ॥
बाल्येनेत्यादयो भावप्रधाननिर्देशः ॥ २० ॥
इति सर्वपदार्थानामभिन्नः परमेश्वरः ।
कल्लोलसीकरोर्मीणामब्धाविव पयोभरः ॥ २१ ॥
पयोभरो जलसामान्यमिव ॥ २१ ॥
नानातैषां त्वसत्यैव सत्येनानेन चैव हि ।
कल्पिता चित्स्वभावेन वेतालः शिशुना यथा ॥ २२ ॥
कथमयमेवैको नानात्वेन स्थित इति चेत्स्वाज्ञानभ्रान्तिकल्पनयैव न वस्तुत
इत्याह-नानातेति ॥ २२ ॥
सर्वत्र संस्थितिमता विगतामयेन व्याप्तं मयेदमखिलं विविधैर्विलासैः ।
चिद्रूपिणैव कलना कलितात्मनेति मत्वोपशान्तमतिरास्स्व सुखं महात्मन् ॥ २३ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥
२४ ॥
हे महात्मन् सर्वत्र संस्थितिमता चिद्रूपिणा मया आत्मना स्वेनैवेयं जगत्कलना
कलिता कल्पिता । इदमखिलं मयैव विविधैर्विलाप्तैर्व्याप्तं ममैवेयं विभूतिर्न
मद्व्यतिरिक्तं किञ्चिदस्तीति मत्वा उपशान्ता मतिर्यस्य तथाभूत आस्स्व । स्वमहिन्नि
तिष्ठेत्यर्थः ॥ २३ ॥ २४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
विभूतियोगोपदेशो नाम षष्टितमः सर्गः ॥ ६० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
विभूतियोगोपदेशो नाम षष्टितमः सर्गः ॥ ६० ॥
षोडशो दिवसः ॥ १६ ॥