एकोनषष्टितमः सर्गः ५९
श्रीवसिष्ठ उवाच ।
एतां दृष्टिमवष्टभ्य राघवाऽघविनाशिनीम् ।
तिष्ठ निःसङ्गसन्न्यासब्रह्मार्पणमयात्मकः ॥ १ ॥
जीवन्मुक्तपदेऽस्पन्दा चेत्यमुक्ता चितः स्थितिः ।
सुस्थिरा स्याद्यया दृष्ट्या सा दृष्टिरिह वर्ण्यते ॥
अघविनाशिनीं सर्वपापक्षयकरीम् । निःसङ्गतालक्षणो यः सन्न्यासः
सर्वत्यागस्त्वम्पदार्थशोधः सर्वजगतो ब्रह्मणि वाधलक्षणं यद्ब्रह्मार्पणं
तत्पदार्थशोधस्तदुभयपरिशिष्टाखण्डमहावाक्यार्थसच्चिदानन्दैकरसभूमात्
मा तिष्ठेत्यर्थः ॥ १ ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यमात्मानं विद्धि तं परम् ॥ २ ॥
यस्मिन् सर्वं स्थितौ । यतः सर्वं सृष्टौ । यः सर्वं संहारे । सर्वतश्च यः
कालत्रयेऽपि । एवं सर्वानित्यप्रपञ्चमयोऽपि यो नित्यः परस्तमेवात्मानं विद्धि न
परिच्छिन्नस्वभावमित्यर्थः ॥ २ ॥
दूरस्थमप्यदूरस्थं सर्वगं तत्स्थमेव च ।
तत्स्थः सत्तामवाप्नोषि तदेवास्यस्तसंशयः ॥ ३ ॥
सर्वप्रपञ्चबहिर्भावाद्दूरस्थमपि सर्वान्तरत्वात्सर्वस्यादूरस्थम् ।
एवमाकाशवत्सर्वगमपि तत्स्थं जातिवत्तत्तद्वस्तुपर्याप्तमेव । इत्थं
सर्वप्रकारेणापि तदेवैकमस्ति नान्यदिति सिद्धे त्वं परिच्छिन्नरूपेणापि
तस्मिंस्तिष्ठसीति तत्स्थस्तत्सत्तयैव सत्तामवाप्नोषि न स्वातन्त्र्येण । एवं सति किं तव
परिच्छेदामिमानेन स एवापरिच्छिन्नसन्मात्रस्त्वमसि । अतोऽस्तपरिच्छेद्संशयो
भवेत्यर्थः ॥ ३ ॥
यत्संवेद्यविनिर्मुक्तं संवेदनमनिर्मितम् ।
चेत्यमुक्तं चिदाभासं तद्विद्धि परमं पदम् ॥ ४ ॥
द्विविधं हि चिदात्मनो रूपं विवेकिमिरनुभूयते । एकं चित्ततद्वृत्तिप्रतिबिम्बितं
चेत्यार्थप्रथारूपं चित्तनिर्मितम् । अपरं च
चित्ततद्वृत्तितद्विषयाणामागमापायादिसर्वावस्थासाक्षिसंविद्रूपमनिर्मितं
नित्यसिद्धम् । तदुभयमपि चेत्येन संवेद्यं त्रिपुट्या च विनिर्मुक्तं चेत्तत्परमं
पदं ब्रह्मैव सम्पन्नमिति विद्धीत्यर्थः ॥ ४ ॥
सा परा परमा काष्ठा सा दृशां दृगनुत्तमा ।
सा महिम्नां च महिमा गुरूणां सा तथा गुरुः ॥ ५ ॥
सा चेत्यसंवेद्यविनिर्मुक्तसंवित्स्थितिः । यतो वाचो निवर्तन्ते इत्यादिश्रुतिप्रोक्ता
आनन्दोत्कर्षपरम्परायाः परमा काष्ठा । महिम्नां महत्त्वानाम् । गुरूणां
मान्यानां परमा गुरुः । नातः परमस्तीत्यर्थः ॥ ५ ॥
स आत्मा तच्च विज्ञानं स शून्यं ब्रह्म तत्परम् ।
तच्छ्रेयः स शिव शान्तः सा विद्या सा परा स्थितिः ॥ ६ ॥
योऽयमन्तश्चितेरात्मा सर्वानुभवरूपकः ।
यत्र स्वदन्ते सर्वाणि स्वात्मद्रव्याणि सत्तया ॥ ७ ॥
स जगत्तिलतैलात्मा स जगद्गृहदीपकः ।
स जगत्पादपरसः स जगत्पशुपालकः ॥ ८ ॥
सैव सर्वजगत्सार इत्याह-स इत्यादिना ॥ ८ ॥
स तन्तुर्भूतमुक्तानां परिप्रोतहृदम्बरः ।
स भूतमरिचौघानां परमा तीक्ष्णता तथा ॥ ९ ॥
स पदार्थे पदार्थत्वं स तत्त्वं यदनुत्तमम् ।
स सतो वस्तुनः सत्त्वमसत्त्वं वा सतः स्वतः ॥ १० ॥
स एव सर्वपदार्थानामसाधारणं स्वरूपमित्याह-स इति । सत्त्वं सम्यक्त्वम् ॥
१० ॥
यः स्ववित्तिविचित्रेण स्वयमात्मैव लभ्यते ।
सर्व एव जगद्भावा अविचारेण चारवः ॥ ११ ॥
स कः । यः स्वस्य वित्तिस्तात्त्विकरूपेण बोधस्तद्रूपेण विचित्रेणालौकिकेनोपायेन सर्वं
स्वयमात्मैव नान्यदिति लभ्यत इत्यर्थः ॥ ११ ॥
अविद्यमानाः सद्भावा विचारविशरारवः ।
अहमादौ जगज्जाले मिथ्याभ्रमभरात्मनि ॥ १२ ॥
सतः परमात्मनो भावा विकल्पा विचारविशरारव इत्युक्तं तत्र कीदृशेन विचारेण
जगद्भावा विशीर्यन्ते तं दर्शयति-अहमित्यादिना ॥ १२ ॥
को नु भूत्वाऽनुबध्नामि वृत्तिं कथमवाप धीः ।
आद्यमध्यान्तमानानि सङ्कल्पकलनान्यहम् ॥ १३ ॥
वृत्तिमास्थाम् । ननु धीरेव शुद्धस्यापि तव आस्थाबन्धे निमित्तं भविष्यति ।
तत्राह-कथमिति । धीर्बुद्धिरप्यसङ्गाद्वयं मां कथमवाप । तत्प्राप्तौ नास्ति
हेतुरित्यर्थः । प्राप्नोति वा सा तथापि तत्कृता आदिमध्यान्तादिपरिच्छेदाः
सङ्कल्पकलनानि चाहमेव न मद्व्यतिरेकेण सन्तीति विचारे ब्रह्मणो मे
नेयत्ताप्रसक्तिरित्याशयेनाह-आद्येति ॥ १३ ॥
ब्रह्माकाशमनाद्यन्तं केवेयत्ता ममात्मनः ।
इति निश्चयवानन्तः सम्यग्व्यवहृतिर्बहिः ॥ १४ ॥
एवं विचारवतो लोकशास्त्राविरुद्धव्यवहारकालेऽपि सा स्थितिर्नापैतीयाशयेनाह##-
उदयास्तमयोन्मुक्तस्थितिरन्तः स सर्वदा ।
नास्तमेति न चोदेति मनः समसमस्थितम् ॥ १५ ॥
यस्य मनः समेभ्योपि समे ब्रह्मणि स्थितं स महात्मा सर्वदा
अन्तरुदयास्तमयोन्मुक्तस्थितिरिति परेणान्वयः ॥ १५ ॥
यस्य खस्येव शून्यत्वं स महात्मेह तद्वपुः ।
भावाद्वैतपदारूढः सुषुप्तपरया धिया ॥ १६ ॥
व्यवहारकाले तादृशस्थित्यप्रच्युतावुपपत्तिमाह-भावेति । यतोऽयं
भावनयैत्राद्वयपदारूढो न व्यवहारत इत्यर्थः । तथाचाहुः भावाद्वैतं सदा
कुर्यात्क्रियाद्वैतं न कर्हिचित् । अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ इति ॥ १६ ॥
व्यवहार्यपि सङ्क्षोभं नैत्यादर्शनरो यथा ।
आदर्शपुरुषस्येव व्यवहारवतोऽपि च ॥ १७ ॥
न यस्य हृदयोल्लेखो मनागपि स मुक्तिभाक् ।
अविभागमिवादर्शे चिन्मणौ प्रतिबिम्बति ॥ १८ ॥
हृदयोल्लेखो मानापमानादिदुःखम् । कथं तस्मिंश्चिन्मणौ जीवन्मुक्ते
व्यवहारः प्रसरति तत्रादर्श एव दृष्टान्त इत्याह-अविभागमिति । इवकारो
भिन्नक्रमः । यथा आदर्शं दृश्यमानो जनव्यवहारः अविभागमादर्शस्य
वैचित्र्यविभागविकारमकृत्वैव प्रतिबिम्बति तद्वच्चिन्मणावपीत्यर्थः ॥ १८ ॥
चितेः परमनैर्मल्याद्व्यवहारो यथा गतः ।
चिच्चमत्कृतिरेवेयं जगदित्यवभासते ॥ १९ ॥
नेहास्त्यैक्यं न च द्वित्वं ममादेशोऽपि तन्मयः ।
वाच्यवाचकशिष्येहागुरुवाक्यैश्चमत्कृतैः ॥ २० ॥
वाच्यवाचकशिष्यतदीहागुरुतद्वाक्याद्याख्यानकल्पनाचमत्कारैर्मम
आदेशस्त्वदुपदेशोऽपि तन्मयश्चिन्मय एव ॥ २० ॥
आत्मनात्मनि शान्तैव चिच्चमत्कुरुते चिति ।
चित्प्रस्पन्दो हि संसारस्तदस्पन्दः परं पदम् ॥ २१ ॥
चमत्कुरुते विवर्तते । प्रस्पन्दो विवर्त एव ॥ २१ ॥
चित्स्पन्दशमनेनेयन्न् परिशाम्यति संसृतिः ।
महाचित्ते नतेऽर्थ्ॐऽशभावा यो भावनाक्षयः ॥ २२ ॥
ते तव महति अपरिच्छिन्ने ब्रह्माकारे चित्ते नते परिणते सति यः अंशभावस्य
जीवजगल्लक्षणैकदेशभावस्य योऽपगमः सोऽर्थः परमपुरुषार्थः स एव
भावनाक्षयो वासनाक्षयश्चेत्यर्थः ॥ २२ ॥
असन्नपि स्वभावं तत्संवित्स्पन्द उदाहृतम् ।
शून्यत्वमजडं यत्तत्परमाहुश्चितेर्वपुः ॥ २३ ॥
यद्यस्माद्धेतोः असन्नपि संवित्स्पन्द उदाहृतं जडस्वभावमापादयति
तत्तस्माद्धेतोः स्पन्दशून्यत्वमेव अजडं तत्परमं चितेर्वपुः
स्वरूपमित्यनुभवनिष्ठा आहुः ॥ २३ ॥
तत्त्वेन भावनायत्ता संसृतिः सानुभूयते ।
अभावनामात्रलयात्सा च निःसाररूपिणी ॥ २४ ॥
अनात्मदर्शनरूपा या संसृतिःइ सा अनात्मजगदाकारस्य तत्त्वेन याथार्थ्येन या
भावना तदायत्ता तथैवानुभूयते । तदभावनामात्रेण भावनालयात्सा
जीवन्मुक्तसंसृतिर्दग्धपटवन्निःसाररूपिणी न बन्धक्षमेत्यर्थः ॥ २४ ॥
केवलं केवलीभावात्तद्रूपा सैव शिष्यते ।
चित्स्पन्दमेव संसारचक्रप्रवहणं विदुः ॥ २५ ॥
कथं तर्हि जीवन्मुक्तौ सा शिष्यते तदाह-केवलमिति ।
केवलीभावान्निःस्पन्दचिन्मात्रीभावात्सा संसृतिस्तद्रूपा चिद्रूपैव शिष्यते
अतश्चित्स्पन्दमेव मातृमानादिरूपं संसारमाहुरित्यर्थः ॥ २५ ॥
मातृमानप्रमेयादि कटकादीव हेमनि ।
पृथगस्ति न च स्पन्दश्चितेर्या संसृतिर्भवेत् ॥ २६ ॥
स च न चितः पृथगस्तीत्यबोध एव संसृतिः पर्यवस्यति ॥ २६ ॥
चित्तमेव चितिस्पन्दस्तदबोधो हि संसृतिः ।
अबोधमात्रे चित्स्पन्दः कटकत्वमिवोत्थितम् ॥ २७ ॥
बोधमात्रविलीनेऽस्मिञ्छुद्धा चिद्राम शिष्यते ।
स्वभावबोधमात्रेण क्षीयते भोगवासना ॥ २८ ॥
स्वभावः स्वात्मतत्त्वं तद्बोधमात्रेण ॥ २८ ॥
भोगाभावनमेवेह परमं ज्ञत्वलक्षणम् ।
इतो नाभिमताः सर्वे ज्ञस्य भोगाः स्वभावतः ॥ २९ ॥
भोगवासनाक्षयात्सहजसिद्धभोगानामचिन्तनमेव ज्ञत्वस्य जीवन्मुक्तताया
लक्षणम् । कुतोऽसौ भोगान्न भावयति तत्राह-इत इति ॥ २९ ॥
भवन्ति कोऽतितृप्तो हि दुरन्नं किल वाञ्छति ।
एतदेव परं विद्धि ज्ञत्वस्यापरलक्षणम् ॥ ३० ॥
भवन्तीति पूर्वान्वयि । को न भूत्वेत्यादिना वर्णितेभ्यो विवेकादिलक्षणेभ्यः अपरं
लक्षणम् ॥ ३० ॥
स्वभावेनैव भोगानां यत्किलानमिवाञ्छनम् ।
चित्तत्स्पन्दैव सर्वात्मरूपिण्यस्तीति निश्चयः ॥ ३१ ॥
इदानीं लक्षणान्तरमाह-चिदिति । मदीयात्मचिदेव तेन भोक्तृभोग्यभोगाकारेण
स्पन्दते इति तत्स्पन्दा भूत्वा सर्वात्मरूपिणी अस्तीति योऽन्तर्निश्चयः स्वभ्यासः सन्
प्ररूढः स एव ज्ञत्वलक्षणमित्यर्थः ॥ ३१ ॥
योऽन्तः प्ररूढः स्वभ्यासो ज्ञत्वशब्देन स स्मृतः ।
यो न भुङ्क्ते भुज्यमानानपि भोगान्स बुद्धिमान् ।
लोकानुरोधसिद्ध्यर्थं स हन्ति लगुडैर्नभः ॥ ३२ ॥
या तु तस्य सर्वजनवद्देहधारणनिमित्ते भोगे प्रवृत्तिः सा वृथा चेष्टैवेत्याह##-
बुद्धिमांस्तत्त्ववित् भ्रान्त्या नभोहननप्रसक्तलोकानुरोधसिद्ध्यर्थं स्वयमपि
लगुडैर्नभो हन्ति तद्वत्तस्य वृथा चेष्टैव सेत्यर्थः ॥ ३२ ॥
विना कृत्रिमया बुद्ध्या न सिद्धिरवगम्यते ॥ ३३ ॥
ननु सा यदि वृथा चेष्टा तर्हि सर्वजनभोक्तृभोग्यभोगाकारपरिणतात्मचिदेव
सर्वात्मरूपेति प्रागुक्तबुद्धिरपि सर्वजननभोलगुडहननं
मदीयमेवेतिवद्भ्रान्तिबुद्धिन्वात्कृत्रिमैवेति सा कथं लक्षणन्वेनोक्ता तत्राह##-
सर्वात्मभावदर्शनं परिच्छिन्नात्मदृष्टिनिरासद्वारा तत्त्वावगमोपयुक्तमिति
तल्लक्षणमुक्तमित्यर्थ ॥ ३३ ॥
क्वचिदात्मावलोके च स्वाङ्गावदलनैरपि ।
चिच्चेत्यं चेत्यकोटिस्था तावत्पश्यति विभ्रमम् ॥ ३४ ॥
तर्हि देहात्मबुद्धिनिरासद्वारा तत्त्वदर्शनोपयोगित्वात्
हस्तगदादिस्वाङ्गानामवदलनादिसाहसक्रियापि तल्लक्षणं किं न स्यात्तत्राह##-
सर्वात्मतादर्शनवत्स्वात्मावलोके उपयोगः प्रसिद्ध स्यात्तदा तदपि लक्षणं
स्यान्नतु तदस्तीत्यर्थः । अथवा अकृत्रिमयेति च्छेदः । आत्मावलोके स्वरूपाविर्भावे
अकृत्रिमयाऽपरिच्छिन्नाकारशून्यया अखण्डब्रह्माकारबुद्ध्या विना
स्वाङ्गावदलनैः स्वाङ्गावदलनसदृशसाहसकोटिभिरपि सिद्धिरूपयोगो
नावगम्यत इत्यर्थः । तत्कुतस्तत्राह-चिदिति त्रिभिः । इयं चित् यावदबोधात्मा
अज्ञानच्छन्ना भवति तावच्चेत्यकोटिस्था स्वप्रकाशबुद्ध्यादिकोट्यनुप्रविष्टा सती
स्वयमपि स्पन्दरूपिणीव भूत्वा चेत्यं बाह्यविषयं प्रतिस्पन्दते तेन विभ्रमं
पश्यति ॥ ३४ ॥
इदं यावदबोधात्मा स्पन्दते स्पन्दरूपिणी ।
सम्यग्बोधोदयोन्तः स्यात्स्पन्दास्पन्ददशाक्रमः ॥ ३५ ॥
यदा अन्तः सम्यग्बोधोदयः स्यात्तदा स्पदास्पन्ददशाक्रमः साभिधानकः
स्वनाम्ना सह क्वापि याति बाध्यत इत्यर्थः ॥ ३५ ॥
क्वापि याति च संशान्तदीपवत्साभिधानकः ।
चितः प्रशान्तरूपाया दीपिकायाः स्वभावतः ॥ ३६ ॥
स्पन्दास्पन्दमयी नेह कथैवास्ति मनागपि ।
यदस्पन्दस्य मरुतो न सन्नासन्न मध्यगम् ॥ ३७ ॥
आत्यन्तिकप्राणचेष्टोपरमोऽपि स एवेत्याह-यदिति । मध्यगमनिर्वचनीयमपि रूपं
यन्न ॥ ३७ ॥
रूपं तदेवासंवित्तिस्पन्दायाः प्रशमं चितेः ।
अभिन्नः स्याच्चितः स्पन्दः शुद्धचित्स्फाररूपधृक् ॥ ३८ ॥
न विद्यते असंवित्तिरज्ञानं स्पन्दश्च यस्याश्चितेः । प्रथमं मोक्षाख्यं
विदुरित्यर्थः । यदा चित्तात्मा चितः स्पन्दः शुद्धचितः स्फाररूपं ब्रह्माकार स्तस्य
धृग्भवति तदा न वन्धाय न माक्षाय ॥ ३८ ॥
न बन्धाय न मोक्षाय स्थित आत्मनि केवलम् ।
चिच्चेन्निरर्थसंवित्तिनिर्वाणे न च विन्दते ॥ ३९ ॥
चित् निरर्थे व्यर्थे संवित्तिश्चित्ताकारो निर्वाणं तदुपरमश्च ते द्वे दशे न विन्दते चेत्
॥ ३९ ॥
तद्बन्धमोक्षपक्षादेर्नामापीह न विद्यते ।
मोक्षोऽस्त्वित्येव बोधोऽन्तः पूर्णता क्षयकारणम् ॥ ४० ॥
तत्तर्हि ॥ ४० ॥
समास्त्वित्यपि बन्धस्ते श्रेयोऽसंवेदनं परम् ।
यदनाभासमजडं तद्विद्धि परमं पदम् ॥ ४१ ॥
स मोक्षो मास्तु समा निर्विक्षेपा चिदस्त्विति वा इच्छापि बन्धः । किं तर्हि
श्रेयस्तदाह-श्रेय इति सपादेनार्धद्वयेन ॥ ४१ ॥
चितः स्वरूपं संस्थानमचेत्योन्मुखतात्मकम् ।
यः सङ्कल्पनशब्दार्थरूपः स्पन्दो महाचितः ॥ ४२ ॥
कस्तर्हि बन्धमोक्षादिकव्यवहारार्हः पदार्थस्तमाह-य इति ॥ ४२ ॥
बन्धमोक्षादिकार्होऽसौ प्रेक्ष्यमाणः प्रणश्यति ।
प्रेक्षणादेव संशान्ते त्वहम्भावे निरास्पदे ॥ ४३ ॥
न विद्मः केन किं कस्य बध्यते वाथ मुच्यते ।
सङ्कल्प एव रचिते बुधश्चेदविभागवान् ॥ ४४ ॥
कस्तर्हि चितः सङ्कल्पस्पन्दत्यागे उपायस्तमाह-सङ्कल्प एवेति । बुधो विवेकी
स्वरचिते सङ्कल्प एव चेदिदं मया सङ्कल्पितमिदं नेति पूर्वापरविमर्शेन
विभागं जहाति तत्तर्हि जातोपि सङ्कल्पो बहिःस्पन्दजननाक्षमो वृथा
नश्यतीत्यर्थादेव सर्वमवारितमसङ्कल्पमस्पन्दं च जातमेवेत्यर्थः ॥ ४४ ॥
तदसङ्कल्पमस्पन्दं सर्वं जातमवारितम् ।
स्पन्दे स्पन्दमये वाते तन्मयत्वात्सदा चिता ॥ ४५ ॥
एवं चिता प्रबुद्धचैतन्येन स्पन्दे सङ्क्षीणे स्पन्दमये वाते च सङ्क्षीणे सति
तन्मूलः संसारोऽपि क्षीण एवेत्याह-स्पन्दे इति ॥ ४५ ॥
सङ्क्षीणे न च संसारो निस्पन्दे चिद्घने स्थिते ।
चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम् ॥ ४६ ॥
अथवा चित्प्रकाशव्यतिरेकेण स्पन्दोऽन्यो नास्तीति दर्शनादपि तन्निवृत्तिरित्याह-चिदिति
॥ ४६ ॥
व्यतिरिक्तश्चितः स्पन्दो न किञ्चिदवशिष्यते ।
न ज्ञो मोहमुपादत्ते सर्वगत्वात्स्वसंविदः ॥ ४७ ॥
मोहं स्वचलनादिभ्रमम् ॥ ४७ ॥
यत्रोदेति प्रसभमनिशं सर्गसंवित्तिसत्ता यस्मिन्नेते सकलकलनाकारपङ्का
गलन्ति ।
उद्यन्त्येते स्वदनसुभगं यत्र सर्वोपलम्भा ध्यानेनैवं तमवगमय
प्रत्यगात्मानमन्तः ॥ ४८ ॥
अनिशं यस्मिन् प्रसभं वार्यमाणा अपि बलात् सर्वजगदाकारोपलम्भाः स्वदनं
तत्प्रयुक्तानन्दास्वादस्तेन सुभगं यथा स्यात्तथा उद्यन्ति उत्पद्यन्ते । तथा
उक्तसर्वसंवित्तीनां सत्तास्थितिरपि यत्रोदेति । एते उक्तसंवित्तिरूपाः
सकलकलनाकारपङ्का यस्मिन्गलन्ति लीयन्ते च तं प्रत्यगात्मानमेवमुक्तप्रकारेण
ध्यानेन विचारेणावगमय पश्येत्यर्थः ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
प्रत्यगात्मावबोधो नामैकोनषष्टितमः सर्गः ॥ ५९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
प्रत्यगात्मावबोधो नामैकोनषष्टितमः सर्गः ॥ ५९ ॥