०५८

अष्टपञ्चाशः सर्गः ५८

अर्जुन उवाच ।

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १ ॥

तत्त्वबोधेन साविद्यवासनाक्षयसम्भवः ।
इहोपपाद्यते तेनाप्यर्जुनस्य कृतार्थता ॥

हे अच्युत त्वत्प्रसादात् अनुग्रहप्रयुक्तत्वदुपदेशान्मोहः सवासनाज्ञानं नष्टः ।
विस्मृतकण्ठचामीकरस्येव स्वतःसिद्धात्मतत्त्वस्य स्मृतिरिव स्मृतिः
साक्षात्कारो लब्धा तया च सर्वसन्देहबीजनाशाद्गतबन्धुवधादिकर्तृतासन्देहः
स्थितोस्मि अतस्तत्त्वावस्थितिविषयं यथाप्राप्तव्यवहारकर्तव्यताविषयं च तव
वचनं करिष्ये पालयिष्यामीत्यर्थः ॥ १ ॥

श्रीभगवानुवाच ।

वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् ।
तच्चित्तं शान्तमेवान्तर्विद्धि सत्त्वमुपागतम् ॥ २ ॥

एवमर्जुनेन कृतार्थत्वे दर्शितेपि स्वोपदिष्टतत्त्वबोधेन
समूलसर्ववासनाक्षयमुपपत्तिभिर्द्रढयिष्यन् श्रीभगवानुवाच-वृत्तय
इत्यादिना । तत्त्वबोधेन हृदये रागादिवृत्तयो यदि सर्वात्मना शान्तास्तत्तर्हि
सवासनात्मकं चित्तं शान्तं तत् सत्त्वं निर्वासनत्वमुपगतमिति विद्धि । तथा च
श्रुतिः-यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो
भवत्यत्र ब्रह्म समश्नुते इति ॥ २ ॥

अत्र तच्चेत्यरहितं प्रत्यक्चेतननामक्रम् ।
यत्त्वशेषविनिर्मुक्तं यत्सर्वं सर्वतश्च यत् ॥ ३ ॥

अत्र अस्यां सत्त्वावस्थायां प्रत्यक्चेतनात्मकं यद्व्यवहारे सर्वं
तत्त्वतस्त्वशेषविनिर्मुक्तं तद्ब्रह्म चेत्यरहितं भवतीति शेषः ॥ ३ ॥

न केचन विदन्त्येते तत्पदं जागतादयः ।
भूतलाद्गगनोड्डीनं विहङ्गममिवोन्नतम् ॥ ४ ॥

जागताश्चक्षुरादयोऽज्ञजनाश्च [अयमादिशब्दार्थः ।] केचन तत्पदं न
विदन्ति । उन्नतमूर्ध्वदेशगतम् ॥ ४ ॥

प्रत्यक्चेतनमाभासं शुद्धं सङ्कल्पवर्जितम् ।
अगम्यमेनमात्मानं विद्धि दूरं दृशामिव ॥ ५ ॥

आभासं महाभूतादित्रयोदशबिघक्षेत्रावभासकम् । अगम्यमविषयम् । दृशां
दूरमसन्निकृष्टमिव ॥ ५ ॥

सर्वातीतं यदत्यच्छं विना शुद्धं स्ववासना ।
न शक्नोति पदं द्रष्टुं जनदृष्टिरणूनिव ॥ ६ ॥

तद्दर्शने च श्रवणाद्यवधृततद्भावनास्वभ्यस्ता निदिध्यासनाख्या
आवश्यकीत्याह-सर्वातीतमिति । चित्स्वभावादत्यच्छम् । असङ्गत्वाच्छुद्धम् ॥ ६ ॥

यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः ।
वराकी वासना तत्र किं करोतु परे पदे ॥ ७ ॥

यत्र घटादिस्थूलानामपि बाधस्तत्र परमसूक्ष्मवासनानां
स्थितिरसम्भावितैवेत्याह-यत्प्राप्ताविति ॥ ७ ॥

यथाऽनलगिरिं प्राप्य हिमलेशो विलीयते ।
शुद्धमासाद्य चित्तत्त्वमविद्या लीयते तथा ॥ ८ ॥

क्व वराकी रजस्तुच्छा वासना भोगबन्धनम् ।
क्व पूरितजगज्जालश्चित्तत्त्वविपुलानिलः ॥ ९ ॥

रजो रेणुरिव तुच्छा क्षुद्रा ॥ ९ ॥

तावत्स्फुरत्यविद्येयं नानाकारविकारिणी ।
यावन्न सम्परिज्ञातः शुद्धः स्वात्माऽयमात्मना ॥ १० ॥

सर्वा दृश्यदृशः क्षीणाः स्वच्छतैवोदिता तथा ।
नभसीव पदे तस्मिन्स्वात्मन्यखिलपूरणे ॥ ११ ॥

स्वात्मनि स्वोदरे अखिलं पूरयति ग्रसति तथाविधे ॥ ११ ॥

समग्राकाररूपं तत्समग्राकारवर्जितम् ।
वागतीतं परं वस्तु केन नामोपमीयते ॥ १२ ॥

समग्राकारः पूर्णता तद्रूपम् । समस्तैर्जगदाकारैर्वर्जितम् ॥ १२ ॥

विषयविषविषूचिकामतस्त्वं निपुणमहंस्थितिवासनामपास्य ।
अभिमतपरिहारमन्त्रयुक्त्या भव विभवो भगवान्भियामभूमिः ॥ १३ ॥

हे अर्जुन त्वमतः पूर्णात्मदर्शनादेवाभिमतानां कामानां परिहारो
निवृत्तिस्तल्लक्षणाया मन्त्रयुक्त्या विषयविषप्रयुक्तविषूचिकारूपां
सदाप्रवृत्तिहेतुमहंस्थितिमन्तःकरणस्थां वासनां निपुणमपास्य विभवः
विगतसंसारबन्धो भियां सर्वानर्थानामभूमिरभयस्वभावो भगवानहमेव
भवेति सर्वभगवद्गीतार्थस्यान्ते सङ्ग्रहेणोपदेशः ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

इति गदितवति त्रिलोकनाथे क्षणमिव मौनमुपस्थिते पुरस्तात् ।
अथ मधुप इवाऽसिताब्जखण्डे वचनमुपैष्यति तत्र पाण्डुपुत्रः ॥ १४ ॥

मौनमुपगम्य पुरस्तात्स्थिते सति ॥ १४ ॥

अर्जुन उवाच ।

परिगलितसमस्तशोकभारा परमुदयं भगवन्मतिर्गतेयम् ।
मम तव वचनेन लोकभर्तुर्दिनपतिना परिबोधिताब्जिनीव ॥ १५ ॥

इत्युक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः ।
अर्जुनो गतसन्देहो रणलीलां करिष्यति ॥ १६ ॥

गाण्डीवं धनुर्यस्य सोऽर्जुनः । गाण्ड्यजगात्सञ्ज्ञायाम् इति मत्वर्थे वः ।
धनुषश्च इत्यनङ् ॥ १६ ॥

करिष्यति क्षतगजवाजिसारथिद्रुतक्षरद्रुधिरमहानदीं भुवम् ।
शरोत्करप्रसरमहारजःस्थलीतिरोहितद्युमणिविलोचनां दिवम् ॥ १७ ॥

सोऽर्जुनो भुवं क्षताः गजवाजिसारथयो द्रुताः शीघ्रं प्रवाहिता यासु तथाविधाः
क्षरद्रुधिरमहानद्यो यस्यां तथाविधां करिष्यति । दिवं च
शरोत्करप्रसरैर्महारजोनिर्मितस्थल्या च तिरोहितं द्युमणिः सूर्यस्तल्लक्षणं
विलोचनं यस्यास्तथाविधां करिष्यतीत्यर्थः ॥ १७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
अर्जुनोपाख्याने अर्जुनकृतार्थता नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अर्जुनकृतार्थता नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥

अर्जुनोपाख्यानं समाप्तम् ।