सप्तपञ्चाशः सर्गः ५७
श्रीभगवानुवाच ।
इदं विद्धि महाश्चर्यमर्जुनेह हि यत्किल ।
पूर्वं सञ्जायते चित्रं पश्चाद्भित्तिरुदेति हि ॥ १ ॥
जायतेऽत्र यया दृष्ट्या सद्यो निर्वासनं मनः ।
सुखाद्वयात्मशेषश्च सा दृष्टिरुपदिश्यते ॥
तत्र प्राग्दर्शितां जगत्याश्चर्यतादृष्टिमेव प्रथमं वासनाशैथिल्योपयोगितया
वर्णयति-इदमिति । अभित्तौ निराश्रय एव मनसा जगदाकारकलनात्पूर्वं
जगच्चित्रं जायते पश्चात्तदन्तर्गता भूतभुवनात्मकविराड्भित्तिस्तदाधारतया
कल्प्यमाना उदेति । व्यष्टिसमूहस्य समष्टेर्विराजो व्यष्ट्यधीनकल्पनत्वाद्वा
पश्चादुदयः ॥ १ ॥
अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।
अहो विचित्रा मायेयं मग्नं तुम्बं शिला प्लुता ॥ २ ॥
अत्यन्तमसम्भावितरूपत्वादियं माया असम्भावितत्वं च विरुद्धत्वादित्याशयेन
प्रसिद्धां तादृशमायामुदाहरति-मग्नमिति । तुम्ब्याः फलं तुम्बम् । फले
लुक् । तत्किल जले मग्नं शिला तु प्लुता इति यथा स्वप्नेन्द्रजालादावेवोपपद्यते
तद्वदित्यर्थः ॥ २ ॥
चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये ।
व्योमात्मनस्ते किमियमहन्ताव्योमतोदिता ॥ ३ ॥
आस्तां जगच्चित्रस्याश्चर्यता तस्मिन् शून्यात्मनि
चिद्व्योमात्मनस्तवाहन्तोदयस्ततोऽप्याश्चर्यभूत इत्याह-चित्तस्थेति ॥ ३ ॥
सर्वं व्योमकृतं व्योम्ना व्योम्नि व्योम विलीयते ।
भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम् ॥ ४ ॥
यदि तु जगत्यपि चिद्व्योमतामेव पश्यसि तर्हि सा दृष्टिरेवं
पर्यवसन्नेत्याश्चर्यमेवेत्याह-सर्वमिति ॥ ४ ॥
वेष्टितं वासनारज्ज्वा दीर्घसंसृति दामवत् ।
वासनोद्वेष्टनेनैव तदिहोद्वेष्ट्यतेऽर्जुन ॥ ५ ॥
दीर्घं संसृति भ्रमणं यत्र तथाविधं तज्जगच्चित्रं दामवत् प्रसृतया
वासनारज्ज्वा वेष्टितं तच्चिद्व्योमापीह जगति वासनोद्वेष्टनादेवोद्वेष्ट्यत इत्यर्थः ॥
५ ॥
प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् ।
अगम्यं छेदभेदादेराधारानन्यतावशात् ॥ ६ ॥
अस्य ज्ञानातिरिक्तोपायदुरुच्छेद्यताप्यधिष्ठानदार्ढ्यबलादेव न स्वत इत्याह##-
अनन्यच्छेदभेदादि ब्रह्मणि ब्रह्मणाम्बरम् ।
किं कथं कस्य केनैव च्छिद्यते वा क्व भिद्यते ॥ ७ ॥
अतएव ब्रह्मानन्यतादर्शनबलादेव जगतः
सर्वच्छेदभेदादिव्यवहारायोग्यतादर्शनेन सर्ववासनाः समूलमुच्छेद्या
इत्याशयेनाह-अनन्यदिति । यदा ब्रह्मणि प्रतिभातं छेदभेदादिव्यवहारजातं
तद्विषयीभूतं जगच्च ब्रह्मणा अनन्यत्सच्चिदम्बरमेव तदा केन कर्त्रा करणेन वा
केन प्रकारेण कस्य फलस्यार्थे क्व देशे काले वा किं छिद्यते भिद्यते वा ।
छेदादिव्यवहारवादानां ब्रह्मातिरिक्तविषयदर्शनादित्यर्थः ॥ ७ ॥
तेनेह वासनाभावो बोधात्सम्पन्न एव ते ।
यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सन् ॥ ८ ॥
तेनानेनोपायेन बोधात्ते वासनानामपि ब्रह्मातिरेकेणाभावः सम्पन्न एव ।
ईदृग्ज्ञानाभावे तु वासनाबन्धो दुरुच्छेद एवेति प्रागुक्तं स्मारयति-य इति ॥ ८
॥
सर्वज्ञोऽप्यतिबद्धात्मा पञ्जरस्थो यथा हरिः ।
यस्यास्ति वासनाबीजमत्यल्पं चितिभूमिगम् ॥ ९ ॥
हरिः सिंहो हरितवर्णः शुको वा । अणुमात्रमपि वासना न स्थाप्या ।
अनर्थसहस्रबीजत्वादित्याशयेनाह-यस्येति ॥ ९ ॥
बृहत्सञ्जायते तस्य पुनः संसृतिकाननम् ।
अभ्यासाद्धृदि रूढेन सत्यसम्बोधवह्निना ।
निर्दग्धं वासनाबीजं न भूयः परिरोहति ॥ १० ॥
निःशेषं दग्धम् ॥ १० ॥
दग्धं [व्याख्यानुसारादत्र निर्दग्धवासनाबीजमिति पाठोऽपेक्षितः ।]
तु वासनाबीजं न निमज्जति वस्तुषु ।
सुखदुःखादिषु स्वच्छं पद्मपत्रमिवाम्भसि ॥ ११ ॥
निर्दग्धानि वासनाबीजानि यस्य तथाविधं मनः ॥ ११ ॥
शान्तात्मा विगतभयोज्झितामिताशो निर्वाणो गलितमहामनोविमोहः ।
सम्यक्त्वं श्रुतमवगम्य पावनं तत्तिष्ठात्मन्यपहतिरेकशान्तिरूपः ॥ १२
॥
उक्तोपदेशक्रममुपसंहरन्नर्जुनं निर्वासनस्थितौ प्रतिष्ठापयति-शान्तात्मेति
। हे अर्जुन त्वं उज्झिताः अमिता आशा येन तथाविधः सन् पावनं तत् प्रसिद्धं
भगवद्गीतारूपं श्रुतं मदुपदेशं सम्यगवगम्य गलितमहामनोविमोहः सन्
अपहतिरपगतबन्धुवधादिक्लेशो भूत्वा निर्वासनात्मनि शान्तात्मा गलितचित्त
एकशान्तब्रह्मरूपः अतएव विगतभयो निर्वाणः परमनिर्वृतस्तिष्ठेत्यर्थः ॥ १२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने
अर्जुनविश्रान्तिवर्णनं नाम सप्तपञ्चाशः सर्गः ॥ ५७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अर्जुनविऽस्रान्तिवर्णनं नाम सप्तपञ्चाशः सर्गः ॥ ५७ ॥