०५६

षट्पञ्चाशः सर्गः ५६

श्रीभगवानुवाच ।

इति निर्वासनत्वेन जीवन्मुक्ततयार्जुन ।
अन्तः शीतलतामेत्य बन्धुदुःखमलं त्यज ॥ १ ॥

जीवन्मुक्तिप्रतिष्ठाऽस्मिन्नर्जुनायोपदिश्यते ।
चित्सत्तत्त्वं जगद्रूपं मनश्चित्रं च विस्तरात् ॥

बन्धुदुःखं बन्धुवधदुःखम् ॥ १ ॥

जरामरणनिःशङ्क आकाशविशदाशयः ।
त्यक्तेष्टानिष्टसङ्कल्पो वीतरागो भवानघ ॥ २ ॥

प्रवाहपतितं कार्यमिदं किञ्चिद्यथागतम् ।
कुरु कार्याणि कर्माणि न किञ्चिदिह नश्यति ॥ ३ ॥

प्रवाहपतितं शिष्टव्यवहारपरम्परागतं कार्यमवश्यकर्तव्यमिदं
युद्धमन्यानि चावश्यकानि यागदानादीनि कर्माणि कुरु न काचित्तेन तत्त्वबोधस्य
क्षतिरित्यर्थः ॥ ३ ॥

प्रवाहपतितं कर्म स्वमेव क्रियते तु यत् ।
जीवन्मुक्तस्वभावोऽयं सा जीवन्मुक्तता तथा ॥ ४ ॥

स्वं स्वधर्मरूपमेव । सा प्रसिद्धा जीवन्मुक्तता तथा तादृश्येव न
देहचेष्टामात्रत्यागरूपेत्यर्थः ॥ ४ ॥

इदं कर्म त्यजामीदमाश्रयामीति निर्णयः ।
मूढस्य मनसो रूपं ज्ञानिनस्तु समा स्थितिः ॥ ५ ॥

प्रवाहपतितं कर्म कुर्वन्तः शान्तचेतसः ।
जीवन्मुक्ताः सुषुप्तस्थाः स्फुरन्त्यत्र सुषुप्तवत् ॥ ६ ॥

सुषुप्ता इव स्वात्मनि निःसङ्कल्पास्तिष्ठन्तीति सुषुप्तस्थाः
सुषुप्तात्मवन्निर्विशेषस्वयञ्ज्योतिरात्ममात्रावशेषाः स्फुरन्ति ॥ ६ ॥

स्थिरां संस्थितिमायान्ति कूर्माङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यो हृदि यस्य स्वभावतः ॥ ७ ॥

अन्यदपि सुषुप्तिसाम्यं जीवन्मुक्तस्य लक्षणेस्तीऽत्याह-स्थिरामिति ।
ज्ञानबाधितत्वात्तुच्छेभ्य इन्द्रियार्थेभ्यो विषयेभ्यः स्वतः प्रयत्नं विनैव
व्यावृत्तानीन्द्रियाणि यस्य हृदि हृत्स्थे परमात्मनि मनसा सह स्थिरां निश्चलां
संस्थितिमैकरस्येन स्थैर्यमायान्ति । यथा कूर्मस्य शिरःपादाद्यङ्गानि अल्पेऽपि
विक्षेपे झटित्येवान्तः प्रविशन्ति तद्वत् । स तथाविधो जीवन्मुक्त इत्यर्थः ॥ ७ ॥

विश्वात्मनि तथा विश्वं कालत्रयमयोदितम् ।
अभित्ति त्रिजगच्चित्रं कुरुते चित्तचित्रकृत् ॥ ८ ॥

कथं तर्हि जीवन्मुक्ताः व्यवहारकाले जगत् पश्यन्तीति
चेन्मनोराज्यपरिकल्पितनिर्मित्तिकचित्रवैचित्र्यवदेवेति प्रदर्शनाय
जगत्सर्वमासर्गान्तं मनोरचितचित्ररूपेण वर्णयितुमुपक्रमते-विश्वात्मनीति ।
चित्तलक्षणश्चित्रकृत् शिल्पी विश्वाधिष्ठाने आत्मनि तथा तेन तेन
सर्वजनप्रसिद्धानन्तवैचित्र्येण विश्वं कृत्स्नं अभित्ति भित्तिरहितं त्रिजगच्चित्रं
कुरुते इत्यन्वयः ॥ ८ ॥

व्योम्नि व्योमात्मकमपि प्रस्फुटं वृत्तिवर्तिभिः ।
चित्तचित्रकरेणादौ चित्रं चित्रं वितानितम् ॥ ९ ॥

व्योम्नि अज्ञानाकाशे व्योमात्मकमज्ञानमात्रस्वरूपत्वात्प्रथितुमयोग्यमपि
साभासान्तःकरणवृत्तिलक्षणवर्तिकाभिः प्रस्फुटमभिव्यक्तं चित्रमद्भुतं
चित्रं वितानितं विस्तारितम् ॥ ९ ॥

पश्चाद्भित्तिः कृता व्योमरूपा चासावहो भ्रमः ।
अपूर्वैवातिमायेयं तृणकुड्यमयी शुभा ॥ १० ॥

अद्भुतत्वमेव प्रसिद्धचित्रवैधर्म्येण दर्शयति-पश्चादिति । समष्टिमनसा
सत्यसङ्कल्पत्वात्सङ्कल्पसमकालमेव जगच्चित्रं कृतं ततः
पश्चाद्भित्तिस्तदाधारः कृता व्योमरूपा अमूर्ताकाशरूपाचित्रधारणे
अयोग्यैवेत्याश्चर्यं अत एवायं भ्रम इत्यर्थः । अहो भ्रम इति पदयोरर्थं
क्रमात्प्रपञ्चयति-अपूर्वैवेत्यादिना । इयं विरचना अपूर्वैव अतिशयिता माया
अतिमाया । तृणकुड्यमिवात्यन्तमसारापि भ्रान्तदृशा शुभा ॥ १० ॥

न मनागपि भेदोऽस्ति स्फुटमप्युपलब्धयोः ।
इमा या उपलक्ष्यन्ते भित्तयश्चित्तचित्रजाः ॥ ११ ॥

आश्चर्यान्तरं दर्शयति-न मनागपीति । प्रसिद्धेषु चित्रेषु चित्रेभ्यो भिन्ना
भित्तयो भवन्ति । इमास्तु याश्चित्तचित्रजा व्योमादिभित्तय उपलक्ष्यन्ते तासां
स्फुटमप्युपलब्धयोराधाराधेययोश्चित्तत्वाविशेषान्मनागपि भेदो
नास्तीत्याश्चर्यमित्यर्थः ॥ ११ ॥

व्योम्नः शून्यतमा विद्धि तास्तामरसलोचन ।
क्षणेन चेतसि यथा भ्रान्तौ लोकक्षयोदयौ ॥ १२ ॥

अहो भ्रम इत्यत्राहो इत्यंशं प्रपञ्च्य भ्रम इत्यंशं प्रपञ्चयति-व्योम्न
इत्यादिना । ता मनश्चित्ररचनाः व्योम्नः शून्यतमाः अत्यन्तासत्या इति यावत् । हे
तामरसलोचन । तत्र क्षणिकस्वप्नजगत्त्रयं दृष्टान्तमाह-क्षणेनेति ।
घटिकायाः षष्ठो भागः क्षणः ॥ १२ ॥

आत्मा जगत्तथैवेदं सबाह्याभ्यन्तरं नभः ।
चिरन्तनमनोराज्यं यत्तस्मात्किल सत्यता ॥ १३ ॥

आत्मा मनस्तत्कार्यं जगच्च तथा स्वप्रवदेव नभः शून्यमसदेवेत्यर्थः ।
कुतस्तर्हि जनानां सत्यताप्रतीतिस्तत्राह-चिरन्तनेति । चिरानुवृत्तत्वादित्यर्थः ।
किलेति नेदं तत्त्वमिति सूचनाय ॥ १३ ॥

किं त्वनालोकितेऽपि स्यात्सत्यं नास्त्येव विभ्रमे ।
क्रमेणालोकतः सत्यमालोकेन विलीयते ॥ १४ ॥

किं तर्हि तत्त्वं तदाह-किं त्विति । विभ्रमे भ्रान्तिकल्पितपदार्थजाते यत्
सत्यसङ्कल्पत्वं कालत्रयेऽपि नास्त्येव तत् अनालोकिते तत्त्वतः अदृष्टे तत्त्वज्ञानात्प्राक्
किं स्यादपि । न स्यादेवेत्यर्थः । यत्तु वसन्तादिकालक्रमेण बाल्याद्यवस्थाक्रमेण
षड्भावविकारक्रमेण वा आलोकनादर्थक्रियासामर्थ्यलक्षणमन्यद्वा
व्यावहारिकसत्यत्वं प्रसिद्धं तत्तत्त्वदर्शनलक्षणेनालोकेन विलीयते । यथा
सौरालोकेन दृश्यमानं शरदभ्रमण्डलं तेनैव शोष्यमाणं विलीयते
तद्वदिति परेणान्वयः ॥ १४ ॥

दृश्यमानमपि क्षामं शरदीवाभ्रमण्डलम् ।
चित्तचित्रकृतश्चित्रे संस्थिताश्चित्रपुत्रिकाः ॥ १५ ॥

एवं मनश्चित्रस्य भ्रान्तिमात्रत्वेन बन्धुवधादिक्लेशमालिन्यं युक्तमित्याह##-

भित्त्यभावादनाकारा बहिस्त्रिभुवनादिकाः ।
न ताः सन्ति न वासि त्वं किं केन परिरोध्यते ॥ १६ ॥

परिरोध्यते हन्यते ॥ १६ ॥

रोध्यरोधकसम्मोहं त्यक्त्वा खे विमलो भव ।
प्रवृत्तिरेव न व्योम्नः प्रवृत्तिश्चैव खात्मिका ॥ १७ ॥

रोध्यरोधकसम्मोहं वध्यघातकभ्रमं तत्प्रयुक्तशोकमालिन्यमिति यावत् । खे
ब्रह्माकाशे । यतो व्योम्नश्चिदाकाशस्य वधादिप्रवृत्तिरेव नास्ति । या तु प्रातिभासिकी
प्रवृत्तिः सा च खात्मिका ब्रह्माकाशरूपैव ॥ १७ ॥

अतः कालक्रियाकुड्यकलादिविमलं नभः ।
चित्तसंस्थं यथा चित्रं सरूपमखिलात्मकम् ॥ १८ ॥

कला चित्ररचनाकौशलं आदिपदात्तद्वैचित्र्यभेदाच्च विमलं नाभो ब्रह्मैव । यथा
चित्तसंस्थं मनोराज्यचित्रमखिलप्रपञ्चात्मकमपि शून्यत्वान्नभःस्वरूपं
तथा परिदृश्यमानमपि जगद्व्योम्नः शून्यतममित्युत्तरेणान्वयः ॥ १८ ॥

व्योम्नः शून्यतमं विद्धि तथेदमखिलं जगत् ।
चित्तभित्तौ कृतं चित्रं यच्चिच्चित्रकरेण तत् ॥ १९ ॥

इदानीमज्ञाता चिदेव चित्रकरश्चित्तं तु तद्भित्तिरित्युत्प्रेक्षणेऽपि शून्यत्वमेव
पर्यवस्यतीत्याह-चित्तेति ॥ १९ ॥

सर्वशून्यतया व्योम्नो मनागपि न भिद्यते ।
यथा प्रकचतश्चित्ते जगन्निर्माणसङ्क्षयौ ॥ २० ॥

तत्रापि मनोराज्यक्षणिकजगदेव दृष्टान्त इत्याह-यथेति ॥ २० ॥

क्षणेनैव तथैवेमौ भुविस्थाविति विद्धि हे ।
अद्य क्षीणा मनोराज्ये नानानुभवनात्मनि ॥ २१ ॥

तव नानानुभवनात्मनि मनोराज्ये क्षणभावितमोहेन परिकल्पिता
वध्यघातकभावादिकल्पना अद्य मदुपदेशात्क्षीणा ॥ २१ ॥

क्षणभावितमोहेन कल्पना परिकल्पिता ।
असदेव मनोराज्यं कर्तुं शक्तं यथा मनः ॥ २२ ॥

ननु क्षणभावितमोहेन कथमनाद्यनन्तकल्पविस्तीर्णसंसारलक्षणं मनोराज्यं
कृतं तत्राह-असदेवेति । यथा असतोऽपि जन्मादिकरणे मनः शक्तं तथा
क्षणस्य कल्पीकरणेपि बलवत् समर्थमित्यर्थः ॥ २२ ॥

क्षणस्य कल्पीकरणे तथैव बलवन्मनः ।
क्षणं कल्पीकरोत्येतत्तच्चाल्पं कुरुते बहु ॥ २३ ॥

क्षणं कल्पीकरोत्येतत् तत् असदुत्पादयतीत्येतच्चाश्चर्यमल्पमेव । यस्मात्ततोपि बहु
आश्चर्यं यदसदपि जगत्सत्कुरुते इतीदृशमनःसामर्थ्यादेवेयं
जगद्भ्रान्तिरुत्थितेत्यन्वयः ॥ २३ ॥

असत्सत्कुरुते क्षिप्रमितीयं भ्रान्तिरुत्थिता ।
क्षणेनैव मनोराज्यं प्रतिभातं स्वभावतः ॥ २४ ॥

तदेवाह-क्षणेनैवेति ॥ २४ ॥

यद्विचित्रात्म तदिदं जगज्जालमिति स्थितम् ।
सर्गे निर्वाणनिष्ठत्वान्निमेषमयमुत्थितम् ॥ २५ ॥

एवं निर्वाणे नित्यमुक्ते आत्मन्यध्यस्तत्वात्प्रतिभामात्रतो जातत्वात्तुच्छं
निमेषमयं क्षणिकमप्युत्थितं जगदजानद्भिः अत्र ईदृश एव सर्गे
भ्रान्तैर्वज्रसारता दुरुच्छेदता कल्पिता ॥ २५ ॥

प्रतिभामात्रतोऽत्रैव [प्रतिभासात्ततोऽत्रैव इति पाठः ।] कल्पिता
वज्रसारता ।
प्रतिभासविपर्यासमात्रं ह्यविदिताकृतेः ॥ २६ ॥

सा च न युक्तेत्याह-प्रतिभासेति । अविदिताकृतेः अज्ञाततत्त्वस्यात्मनः इदं
जगत्प्रतिभासविपर्यासोऽन्यथाप्रतिभासस्तावन्मात्रम् । ईदृशस्यास्य
प्रवृत्तावध्यारोपे निवृत्तौ बाधे वा का वज्रसारता । न काचिदित्यर्थः ॥ २६ ॥

प्रवृत्तौ वा निवृत्तौ वा कैव सा वज्रसारता ।
चित्तचित्रकृतश्चित्स्थं जगच्चित्रं कदा स्थितम् ॥ २७ ॥

स्थितस्य हि निरासे प्रयत्नापेक्षा इदं तु कदापि क्वापि न स्थितमेवेत्याह##-

अकुड्यमप्यरङ्गाढ्यमिदं स्फारमिवाग्रतः ।
अहो नु चित्रं निर्भित्ति चित्रमुज्ज्वलमुत्थितम् ॥ २८ ॥

विना स्वकारणसामग्रीतः स्वतश्चासदप्यग्रतः स्फुरतीत्याश्चर्यमित्याह##-

सुरञ्जनं जगदिति स्फुटं दृष्टिविलोभनम् ।
नानातमोमषीलेखं नानातेज्ॐशुरञ्जनम् ॥ २९ ॥

कथं पुरःस्थितं तदाह-सुरञ्जनमित्यादिना । सुष्ठु रञ्जयत्यासञ्जयतीति
सुरञ्जनम् । दृष्टिग्रहणमिन्द्रियमन-आद्युपलक्षणम् ॥ २९ ॥

नानाकल्पाङ्गावयवं नानारागानुरञ्जितम् ।
नानादृष्टिविलासाढ्यं नानानुभवलोचनम् ॥ ३० ॥

कल्पास्तदङ्गयुगादीनि चावयवा यस्य ॥ ३० ॥

नानाग्रहोग्रकचनं नानाकाराग्रपश्चिमम् ।
व्योमनीलसरः फुल्लताराचन्द्रार्कपङ्कजम् ॥ ३१ ॥

सूर्योदयास्तादिकालेषु नानाकारे अग्रपश्चिमे प्राचीप्रतीच्यौ यस्मिन् । तत्र
चित्रपद्मवनादि वर्णयति-व्योमेत्यादिना ॥ ३१ ॥

विचित्ररचनोद्युक्तमेघालीपत्रमञ्जरि ।
प्रकोष्ठकाभिलिखितसुरासुरनृपुत्रिकम् ।
परमालोकमङ्कोलयुवताकाशकुड्यकम् ॥ ३२ ॥

शरदादिकालभेदेन विचित्ररचनाभिः उत् ऊर्ध्वं युक्ता मेघालीलक्षणाः पत्राणि
मञ्जर्यश्च यस्मिन् । लोकत्रयलक्षणेषु प्रकोष्ठकेषु चित्रकोष्ठमेदेषु अभितो
लिखिताः सुरासुरमनुष्यलक्षणाः पुत्रिका यस्मिन् । परम उत्कृष्टो
यश्चन्द्रसूर्याद्यालोकस्तल्लक्षणेन मङ्कोलेन सुधालेपेन युवतेव विराजमानता
यस्य तथाविधमाकाशलक्षणं कुड्यं भित्तिर्यस्मिन् ॥ ३२ ॥

आकाश एव रचिता प्रतिभैकरङ्गा मुग्धा जगत्त्रयमनोहरपुत्रिकेयम् ।
चिन्मात्रचक्रपरिरञ्जितसर्वलोका लीलाकुला चपलचित्तकचित्रकर्त्रा ॥ ३३ ॥

इदानीं त्रिलोकीमेव देवनटीरूपां चित्रपुत्रिकां परिकल्प्य वर्णयति-आकाश
एवेत्यादिपञ्चभिः । चपलेन कामुकेन चित्तकलक्षणेन चित्रकर्त्रा
स्वाधिष्ठानब्रह्माकाशे एव इयं वर्ण्यमाना जगत्त्रयलक्षणा मनोहरा नटी
पुत्रिका रचिता । प्रतिभा नवनवोन्मेषशालिनी बुद्धिरेव एको मुख्यो रङ्गो
नृत्यशाला यस्याः । नृत्यशालाप्रदीपस्थानीयस्य साक्षिचतन्यस्य चक्रैरिव स्फुरत्
प्रतिबिम्बग्राहिभिर्बुद्धिवृत्त्याभरणैः परितो रञ्जिताः प्रकाशिता लोका यया ।
नृत्यहावभावविलासादिलीलाभिराकुला ॥ ३३ ॥

हेमाचलाङ्गलतिका घनकेशपाशा चन्द्रार्कलोचनविचालनदृष्टलोका ।
धर्मार्थकामविनियन्त्रितशास्त्रवस्त्रा पातालजालचरणोन्नतभूनितम्बा ॥ ३४ ॥

पुनस्तामेव विशिनष्टि-हेमेति । तदण्डमभवद्धैमं सहस्रार्कसमप्रभम् इति
पुराणोक्तेर्हेममयं ब्रह्माण्डमेवाचला दृढा अङ्गलतिका यस्याः । घना
मेघा एव केशपाशा यस्याः । धर्मार्थकामार्थानि विनियन्त्रितानि व्यावर्तनानि
ययोस्तथाविधे प्रवृत्तिनिवृत्तिशास्त्रे द्वे वस्त्रे यस्याः । पातालजालानि सप्तपातालानि
ऊरुजानुजङ्घागुल्फपादपार्ष्ण्यङ्गुलिरूपसप्तावयवकौ चरणौ यस्याः । उन्नता
भूर्नितम्बो यस्याः ॥ ३४ ॥

ब्रह्मेन्द्ररुद्रहरिबाहुचतुष्टयोग्रा सत्त्वावृतोन्नतकुचस्फुरदङ्गयष्टिः ।
सुव्यालवेष्टितमहीतलपद्मपीठा पत्रीकृताचलमहाभुवनोदरी च ॥ ३५ ॥

ब्रह्मादिबाहुचतुष्टयेन उग्रा समर्था ।
सत्त्वगुणलक्षणकञ्चुकावृताभ्यामुन्नताभ्यां विवेकवैराग्यकुचाभ्यां
स्फुरन्ती अङ्गयष्टिर्यस्याम् । सुव्यालैः शेषादिभिर्वेष्टितं महीतलमेव पद्माकारं
पीठमासनं यस्याः । गोरोचनाकस्तूर्यादिनानावर्णपत्ररचनास्थानीयाः कृता
अचला मेर्वञ्जनहिमवदादिनानावर्णपर्वता यस्मिंस्तथाविधं महाभुवनं
मध्यलोक एव उदरं यस्याः ॥ ३५ ॥

रात्र्यन्धकारचपलत्वहराक्षिचेष्टा ताराकरालपुलका पविदन्तपङ्क्तिः ।
चञ्चच्चतुर्दशविधातुलभूतजातरोमाञ्चना प्रलयवादकदम्बपुष्पा ॥ ३६ ॥

रात्र्यन्धकारस्य मेरुप्रदक्षिणीकरणलक्षणं यच्चपलत्वं तद्धरति
अनुहरत्यपनयति च चन्द्रार्कलक्षणाक्षिचेष्टा यस्याः । पविर्विद्युदेव
दन्तपाङ्क्तिर्यस्याः । भुवनभेदाच्चतुर्दशविधमतुलं परस्परविसदृशं
भूतजातमेवाविर्भवद्रोमाञ्चनं यस्याः । तेषु भूतेषु प्रसिद्धा
भूतभुवनाद्रिप्रलयवाता एव सर्वतः प्रसारितसद्बुद्धिकेसरत्वाच्छ्रोतॄणां
वैराग्यसद्वासनासौगन्ध्याधायकत्वाच्चापादलम्बिकदम्बमालापुष्पाणि यस्याः ॥
३६ ॥

जीवान्विता गगन एव कृता विचित्रा व्योमात्मिका चिरविलक्षणचित्रकर्त्रा ।
चित्तेन चित्रपरिकर्मविदा त्रिलोकी नानाविलासवलिता वरपुत्रिकेति ॥ ३७ ॥

जीवेन व्यष्टिसमष्ट्यात्मना अन्विता । चित्रस्य परिकर्माणि उपकरणभूतानि
विचित्रवासनाकामकर्माणि विन्दति प्राप्नोति तथाविधेन अतएवाचिरादेव विलक्षणानां
चित्राणां कर्त्रा निर्माणसमर्थेन चित्तेन इति एवं वर्णितरूपा त्रिलोकीलक्षणा
वरपुत्रिका स्वाधिष्ठानचिद्गगन एव कृतेत्युपसंहारः ॥ ३७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू०
अर्जुनोपाख्याने चित्तवर्णनं नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चित्तवर्णनं नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥