पञ्चपञ्चाशः सर्गः ५५
श्रीभगवानुवाच ।
न कुर्याद्भोगसन्त्यागं न कुर्याद्भोगभावनम् ।
स्थातव्यं सुसमेनैव यथाप्राप्तानुवर्तिना ॥ १ ॥
देहनाशेऽप्यनाशात्मा मूढतत्त्वज्ञयोः समः ।
मूढो जन्मादिभाग् भ्रान्त्या ज्ञस्तु नेत्यत्र वर्ण्यते ॥
भुज्यन्त इति भोगा देहधारणहेतवोऽन्नपानादयस्तेषां सन्त्यागं न कुर्यात् ।
हितमितमेध्याशनाद्युपादद्यादित्यर्थः । भोगानां भावनं चिन्तां
तत्सौष्ठवसम्पादनव्यसनितां च न कुर्यात् । तल्लाभालाभादिषु सुसमेनैव
स्थातव्यमित्यर्थः ॥ १ ॥
अनात्मन्यात्मतां देहे मा भावय भवात्मनि ।
आत्मन्येवात्मतां सत्ये भावयाऽभवरूपिणि ॥ २ ॥
एवं देहात्मभावनापि न कार्येत्याह-अनात्मनीति । भवात्मनि
जन्मादिविक्रियास्वभावे ॥ २ ॥
देहनाशे महाबाहो न किञ्चिदपि नश्यति ।
आत्मनाशो हि नाशः स्यान्न चात्मा नश्यति ध्रुवः ॥ ३ ॥
न हि शीर्यत्यचित्तात्मा त्यक्तसर्वपरिग्रहः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४ ॥
उक्तेऽर्थे अशीर्यो न हि शीर्यते इति श्रुतिं प्रमाणयन्नाभिमानिकपरिग्रह एव
शीर्णतादिदेहधर्माणामात्मनि प्रसञ्जकः तत्त्यागे तु न शीर्णतादिप्रसक्तिरित्याह##-
युद्धादौ ॥ ४ ॥
आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।
मौर्ख्यस्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत् ॥ ५ ॥
मौर्ख्यस्थिते अज्ञतापन्ने ॥ ५ ॥
परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।
सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥ ६ ॥
तत्रोपायमाह-परमिति ॥ ६ ॥
अविनाशमनाद्यन्तमात्मानमजरं विदुः ।
नश्यत्यात्मेति दुर्बोधो मा तवास्त्विह [तवास्त्वतिदुःखद इति पाठः ।]
दुःखदः ॥ ७ ॥
न तथा परिपश्यन्ति विदितात्मान उत्तमाः ।
पश्यन्त्यनात्मनात्मानं स्वमात्मन्यात्ममानिनः ॥ ८ ॥
तथा आत्मा नश्यतीत्येवम्प्रकारेण न परिपश्यन्ति । कुतो न पश्यन्ति । यतस्ते
आत्मन्येवाअत्ममानिनः स्वमात्मानमनात्मदेहादिरूपं न पश्यन्तीत्यर्थः ॥ ८ ॥
अर्जुन उवाच ।
एवं चेत्त्रिजगन्नाथ मूढानामपि मानद ।
देहनाशे समुत्पन्ने इष्टं नष्टं न किञ्चन ॥ ९ ॥
नन्वेवं सति मूढा देहाद्यात्मबुद्ध्या पश्यन्तु नाम तथापि तेषां तन्नाशे
आत्मनाशो नास्त्येवेति मरणादिर्नानर्थः स्यादित्यर्जुनः शङ्कते-एवं चेदिति ।
इष्टं प्रियतमं वस्तु न किञ्चन नष्टम् । दृष्टं इति पाठे
यथार्थदृष्टिगम्यम् ॥ ९ ॥
श्रीभगवानुवाच ।
एवमेतन्महाबाहो न किञ्चिन्नश्यति क्वचित् ।
आत्मैवास्त्यविनाशात्मा किं तस्य क्व विनश्यति ॥ १० ॥
इष्टापत्त्या भगवान्परिहरति-एवमेतदित्यादिना ॥ १० ॥
इदं नष्टमिदं युक्तमिति मोहभ्रमाद्दते ।
अन्यत्तथा न पश्यामि वन्ध्यास्त्रीतनयं यथा ॥ ११ ॥
कथं तर्हि देहनाशपुत्रलाभादेरनर्थत्वमर्थत्वं वा तेषां तत्राह-इदमिति ।
युक्तं लब्धम् । स्वप्नेपि पुत्रमरणजन्मभ्रमादनर्थादिव्यवहारदर्शनादिति
भावः ॥ ११ ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १२ ॥
अतएव सतोऽसत्त्वविरोधान्न देहादेः सत्त्वमिति प्रागुक्तमित्याह-नासत इति । उभयो
सदसतोः । सत्सदेव असदसदेव न स्वभावविपर्यय इति अन्तो
निर्णयस्तत्त्वदर्शिभिर्दृष्टो न मूढैरित्यर्थः ॥ १२ ॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १३ ॥
एवं यत्सत्तदविनाशि यद्विनाशितदसदेवेति नासतो बन्धुदेहादेर्युद्धे नाशे
कश्चिदनर्थ इत्याशयेनाह-अविनाशीति द्वाभ्याम् ॥ १३ ॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १४ ॥
आत्मा चैकोऽस्ति न द्वित्वमसतः सम्भवः कुतः ।
अविनाशस्त्वनन्तोऽसौ सतो नाशो न विद्यते ॥ १५ ॥
अद्वयत्वाद्विनाशकाप्रसिद्धेरपि नात्मनाशप्रसक्तिरित्याह-आत्मेति ॥ १५ ॥
द्वित्वैकत्वपरित्यागे शेषं यत्परिशिष्यते [यदवशिष्यते इति पाठः ।] ।
शान्तं सदसतोर्मध्यं तदस्तीह परं पदम् ॥ १६ ॥
एकत्वं कारणं सच्छब्दवाच्यं द्वित्वं कार्यमसदनृतं
तयोर्मध्यमान्तरमधिष्ठानसन्मात्रम् ॥ १६ ॥
अर्जुन उवाच ।
तन्मृतोऽस्मीति भगवन्किङ्कृता तु नृणां स्थितिः ।
कथं स्थितौ च लोकानां तौ स्वर्गनरकौ प्रभो ॥ १७ ॥
एवमपरिच्छिन्नस्यात्मनो मरणादिपरिच्छेददुःखादिभ्रमे को हेतुरित्यर्जुनः
पृच्छति-तदिति । तत्तर्हि । किङ्कृता केन हेतुना प्राप्ता । स्थितिर्नियतिः । तस्यां च
स्थितौ स्वर्गः सुखं नरको दुःखं च किङ्कृतौ ॥ १७ ॥
श्रीभगवानुवाच ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एतत्तन्मात्रजालात्मा जीवो देहेषु तिष्ठति ॥ १८ ॥
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति इति श्रुतितात्पर्येण
भगवान्समाधत्ते-भूमिरिति ।
पञ्चभूतमात्रानिर्मितमनोबुद्ध्यादिघटितव्यष्टिसमष्टिस्थूल##-
जन्ममरणसुखदुःखादिभ्रमनियतिनिमित्तमित्यर्थः ॥ १८ ॥
स कृष्यते वासनया रज्ज्वेव पशुपोतकः ।
स तिष्ठति शरीरान्तः पञ्जरे विहगो यथा ॥ १९ ॥
तस्य विचित्रदेहपरिग्रहे तत्तदनुरूपचेष्टावैचित्र्ये च निमित्तमाह-स इति ॥ १९ ॥
स कालदेशतो देहाज्जर्जरत्वमुपागतात् ।
वासनावशतो याति प्लक्षपर्णाद्रसो यथा ॥ २० ॥
पूर्वदेहाद्देहान्तरगमनेऽपि वासनैव निमित्तमित्याह-स इति ॥ २० ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ २१ ॥
आशेते अस्मिन्नित्याशयः पूर्वशरीरं पुष्पादि च तस्मात् ॥ २१ ॥
वासनावत्त्वमेवास्य देहो नेतरयुक्तिजः ।
क्षीयते वासनात्यागे क्षीणे भवति तत्पदम् ॥ २२ ॥
अतएवास्य स्थूलदेहोऽपि वासनात्मक एव चिरानुवृत्त्या स्थौल्यभ्रम इत्याशयेनाह##-
वासनावान्परापुष्टो भूत्वा भ्राम्यति योनिषु ।
जीवो भ्रमभराभारो मायापुरुषको यथा ॥ २३ ॥
परेणात्मभूतेनैवान्नपानादिना आपुष्टः अथवा वासनावाṁल्लिङ्गदेहः परेण
परमात्मना अवच्छेदप्रतिबिम्बभावाभ्यां द्वैगुण्येन प्रवेशादापुष्टः ।
अभिव्यक्तो भूत्वेत्यर्थः । मायया ऐन्द्रजालिकपुरुषो यथा खे भ्राम्यति तद्वत् ।
भ्रमभरमाविभर्तीति कर्मण्यण् ॥ २३ ॥
अक्षस्वभावानखिलाञ्छरीराद्वासनावशः ।
जीवो गृहीत्वा संयाति पुष्पाद्गन्धमिवानिलः ॥ २४ ॥
श्रोत्रं चक्षुः स्पर्शनं चेति यदुक्तं तद्विवृणोति-अक्षस्वभावानिति ।
स्वभावान् शब्दादिग्रहणशक्तीः ॥ २४ ॥
देहो निस्पन्दतामेति जीवे कौन्तेय निर्गते ।
निस्पन्दावयवाभोगः शान्तवात इव द्रुमः ॥ २५ ॥
तदेव लोके मरणं प्रसिद्धमित्याह-देह इति ॥ २५ ॥
अचेष्टं छेदभेदादिदोषैरायात्यदृश्यताम् ।
मृत इत्युच्यते तेन देहो विगतजीवितः ॥ २६ ॥
स जीवः प्राणमूर्तिः खे यत्र यत्रावतिष्ठते ।
तं तं स्ववासनाभ्यासात्पश्यत्याकारमाततम् ॥ २७ ॥
खे चिदाकाशे भूताकाशे वा यत्र यत्र यस्मिन् यस्मिन् देहदेशकालभोग्याद्याकारे
अवतिष्ठते भोजकादृष्टोद्भावितवारानो भवति तं तमाकारं पश्यति ॥ २७ ॥
अयं देहो हि जीवेन त्वसन्नेवावलोकितः ।
अस्य नाशे त्वमप्येवं पश्य मा वा सुषुप्तवत् ॥ २८ ॥
अस्य देहस्य नाशेऽप्येवमसत्त्वं पश्य । अथवा सुषुप्तवद्देहं तन्नाशं
तदसत्त्वं च मा पश्य । यथा सुषुप्तो न किञ्चित्पश्यति तद्वदित्यर्थः ॥ २८ ॥
यथैव पश्यत्याकारांस्तेषां नाशांस्तथैव सः ।
आदिसर्गे भावनया किलैष्वेवं विभावतः ॥ २९ ॥
प्रतियोगिनां वासनाकल्पितत्वे तन्नाशानामपि तादृशत्वमेवादिसर्गादारभ्य
कॢप्तमित्याह-यथैवेति । आदिसर्गे हि चतुर्मुखेन एषु सर्गेषु गवाश्वाद्याकारेषु
भावनया पूर्वसर्गानुभववासनयैव विभावतो विभावनाया वशादेवंरूपं
कल्पितं नतु मृद्दण्डाद्यादाय कुलालवत्किञ्चिन्निर्मितम् । किलेतु
श्रुतिपुराणप्रसिद्धौ ॥ २९ ॥
झटित्युद्भवकाले हि यद्यथा दृश्यते पुरः ।
आनिपातं तदेवास्या अविनाभाविसंविदः ॥ ३० ॥
ननु उत्पत्तिकाले जगद्वासनामयं मिथ्याभूतमस्तु स्थितिकाले
त्वर्थक्रियासमर्थत्वात्सर्वजनीनरात्यतानुभवाच्च वास्तवमेवेत्याशङ्क्याह##-
सत्यं वा पुरो दृऽस्यते आविनाशं तदेव तथास्वभावमेव भवति न
स्वभावान्तरं भजते । अस्यास्तदधिष्ठानभूतायास्तदविनाभाविसंविदो
यथोत्पन्नरूपस्थितिहेतुत्वात्संविद्विनाभावेन तेषां सत्ताया अदर्शनाच्चेति भावः ॥
३० ॥
प्राक्तनं वासनामूलं पुरुषार्थेन जीयते ।
यत्नेनाद्यतनेनाशु ह्यस्तनायतनं यथा ॥ ३१ ॥
देहाद्याकाराणां वासनामयत्वमस्तु किं ततस्तत्राह-प्राक्तनमिति ।
अशुभवासनाकल्पितदेहाद्याकारस्य शुभवासनाभ्यासप्रसूतब्रह्माकारवृत्त्या
समूलनाशस्तत्फलमिति भावः । पुरुषार्थेन
श्रवणमननादिपुरुषप्रयत्नजनितेनाखण्डाकारज्ञानेन जीयते बाध्यते ।
अद्यतनेन प्रायश्चित्तादियत्नेन ह्यस्तनमायतनमधर्मानुष्ठानं यथा जीयते
तद्वत् । अद्यतनेन दाहयत्नेन ह्यस्तनमायतनं तृणगृहं यथा नाश्यते
तद्वदिति वा ॥ ३१ ॥
य एव पुरुषार्थेन दृष्टो बलवता क्षणात् ।
पूर्वोत्तरविशेषांशः स एव जयति स्फुटम् ॥ ३२ ॥
ननु बहूनां ज्ञानाय यतमानानां प्रयत्नः प्रबलाभिः
पूर्वतनकामक्रोधादिवासनाभिर्विनाश्यमानो दृश्यत इति नोत्तरत्वं प्राबल्ये
हेतुरिति चेत्तत्राह-य एवेति । धर्मार्थकाममोक्षेषु मध्ये य एव ममायं
पुरुषार्थ आवश्यक इत्यभिनिवेशेन दृष्टः स एव पूर्वोत्तरप्रयत्नयोर्विशेषांशो
जये प्रयोजकः । तहा च तेषां मोक्षाभिनिवेशमान्द्याद्भोगाभिनिवेशदार्ढ्याच्च
पराभव इति भावः ॥ ३२ ॥
अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले ।
पौरुषं हि यथाशास्त्रमतस्त्याज्यं न धीमता ॥ ३३ ॥
अतएव शास्त्रीये प्रयत्ने दृढाभिनिवेशः कार्य इत्याह-अपीति ॥ ३३ ॥
नरकस्वर्गसर्गादिवासनावशतोऽभितः ।
प्रपश्यति चिराभ्यस्तं जीवो जरठमोहधीः ॥ ३४ ॥
तन्मान्द्ये पूर्ववासनावैचित्र्यात्सुखदुःखानर्थपरम्परा सर्वतो
दुर्वारैवेत्याशयेनाह-नरकेति । जरठमोहधीः अनाद्यज्ञानमूढबुद्धिः ॥ ३४
॥
अर्जुन उवाच ।
नरकस्वर्गसर्गादिसम्भ्रमेषु जगत्पते ।
किमस्य कारणं ब्रूहि जीवस्य जगतः स्थितेः ॥ ३५ ॥
तमेवाशयं अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो
गच्छेत्स्वर्गं वा नरकं तु वा ॥ इति
व्यासवाक्यादिप्रसिद्धकारणान्तरसन्देहनिरासेन स्फुटं जिज्ञासुरर्जुनः
पृच्छति-नरकेति । जगतः स्थितेः स्थितिनिमित्तस्यास्य जीवस्य ॥ ३५ ॥
श्रीभगवानुवाच ।
स्वप्नोपमाना तेनेह श्रेयसे वासना क्षयः ।
चिराभ्यासवशात्प्रौढा संसारभ्रमकारिणी ॥ ३६ ॥
न हेत्वन्तरं सम्भावनीयमीश्वरकामकर्मादीनामपि वासनानुसारेणैव
सुखदुःखप्रापकत्वाद्वासनैवासाधारणी चिराभ्यासनिरूढा संसृतिहेतुरिति
तत्क्षय एव परमपुरुषार्थार्थिना सर्वप्रयत्नैः कार्य इत्याशयं
स्फुटीकुर्वन्भगवानाह-स्वप्नेति । शास्त्रीयप्रयत्नं विना
चिराभ्यासवशात्प्रौढा स्वप्नोपमाना वासनैव येन हेतुना संसारभ्रमदायिनी
तेन हेतुना तत्त्वज्ञानाभ्यासेन समूलवासनाक्षयः श्रेयस इत्यन्वयः ॥ ३६ ॥
अर्जुन उवाच ।
किमुत्था देवदेवेश क्षीयते वासना कथम् ।
श्रीभगवानुवाच ।
मौर्ख्यमोहसमुत्थाना त्वनात्मन्यात्मभावना ।
आत्मज्ञानान्महाबोधाद्विलयं याति वासना ॥ ३७ ॥
वासनामूलं ज्ञातुकामोऽर्जुनः पृच्छति-किमुत्थेति । अज्ञानमेव तन्मूलं
ज्ञानादेव समूलतन्नाश इति भगवानाह-मौर्ख्येति ॥ ३७ ॥
भावितात्मासि कौन्तेय सत्यं विज्ञातवानसि ।
अयं सोहं जना एते मयेति त्यज वासनाम् ॥ ३८ ॥
तत्र विचारादात्मस्वरूपपरिचयस्ते वृत्तस्तदार्ढ्येन
देहतत्सम्बन्धिबन्ध्वादिष्वहम्ममेति । वासनाक्षयमात्रं कर्तव्यं परिशिष्यत
इत्याह-भावितेति ॥ ३८ ॥
अर्जुन उवाच ।
वासनाविलये जीवो विलीनो भवति स्वयम् ।
यो हि यत्सत्तयोच्छूनस्तन्नाशात्स विलीयते ॥ ३९ ॥
ननु वासनामयमेव लिङ्गं तत्प्रतिबिम्बो जीवस्तदुत्थस्तस्य वासनाक्षये क्षय एव
स्यादित्यनर्थायैव तत्त्वज्ञानं वासनाक्षयश्चेत्याशयेनार्जुनः शङ्कते##-
जीवे विलयमायाते देशकालान्यथाकृतौ ।
कोऽसौ भाजनतामेति जन्मनो मरणस्य च ॥ ४० ॥
जन्मनः परमानन्दाविर्भावलक्षणपरमपुरुषार्थस्य मरणस्य
आत्यन्तिकानर्थनाशस्य च को भाजनतामेति न कश्चिदिति लक्षणया व्याख्येयम् ।
प्रसिद्धजन्ममरणे तु न ग्राह्ये । तत्त्वज्ञस्य समूलवासनानाशे
तत्प्रसक्त्यभावात्पूर्वापरग्रन्थाननुगुणत्वाच्च ॥ ४० ॥
श्रीभगवानुवाच ।
स्वयं कल्पितसङ्कल्पमात्मरूपं यदविलम् ।
तदेव वासनाकारं जीवं विद्धि महामते ॥ ४१ ॥
भवेदयं दोषो यदि प्रतिबिम्बमात्रसंसारी जीवः स च बिम्बादन्यो
भूतमात्राधीनजन्मादिदेशकालभेदभिन्न इत्यभ्युपगतं स्यात् । नत्वेवं किन्तु
ब्रह्मैव परमार्थतः शुद्धमनृतया स्वाविद्यया पिहितं स्वतत्त्वमजानत्
स्वात्मन्येव जीवजगद्भेदकल्पनया संसरतीव तदेव शास्त्रीयश्रवणादिप्रयत्नेन
स्वतत्त्वं बुद्धा सवासनाविद्यां विधूय स्वस्वभावेऽवतिष्ठते सैवास्य मुक्तिरिवेति
श्रौतः सिद्धान्तः । तत्र तु न कश्चित्वदुद्भावितो दोष इत्याशयेन
भगवान्समाधत्ते-स्वयमित्यादिना ॥ ४१ ॥
अनायत्तमसङ्कल्पमात्मरूपं यदव्ययम् ।
प्रबोधाद्वासनामुक्तं तन्मोक्षं विद्धि भारत ॥ ४२ ॥
अनायत्तमनन्याधीनम् ॥ ४२ ॥
जीवन्नेव महाबाहो तत्त्वं प्रेक्ष यथास्थितम् ।
वासनावागुरोन्मुक्तो मुक्त इत्यभिधीयते ॥ ४३ ॥
सा च समूलवासनामुक्तिर्यावद्देहधारणं जीवन्मुक्तिरिति प्रसिद्धा इहैव
त्वयाप्यनुभवितुं शक्येति न मुक्तिफलभाजि संशयः कार्य इत्याशयेनाह##-
यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सः ।
सर्वज्ञोऽप्यभितो बद्धः पञ्जरस्थो यथा खगः ॥ ४४ ॥
स च मोक्षो न कर्मभिर्न बाह्यविषयगोचरपाण्डित्यैर्वा लभ्यः किं
त्वात्मज्ञानेनैवेत्याशयेनाह-य इति ॥ ४४ ॥
दुर्दर्शनस्य गगने शिखिपिच्छिकेव सूक्ष्मा परिस्फुरति यस्य तु वासनान्तः ।
मुक्तः स एव भवतीह हि वासनैव बन्धो न यस्य ननु तत्क्षय एव मोक्षः ॥ ४५ ॥
उक्तसमाधानं सङ्क्षिप्योपसंहरति-दुर्दर्शनस्येति ।
स्वमायापिहितत्वाद्दुर्दर्शनस्य अनयस्य अप्राप्तवेदान्तप्रमाणस्य यस्य
परमात्मनो गगने ऐन्द्रजालिकशिखिपिच्छिकेव नाना भ्रमदायिनी सूक्ष्मवासना
अन्तः परिस्फुरति जीवजगदाकारेण प्रथते स एव तु अधिकारिशरीरे वेदान्तनयं
प्राप्योत्पन्नतत्त्वज्ञानः समूलवासनाबन्धान्मुक्तो भवति । इहास्मिन्परमात्मनि ।
ननु [इहं हेत्वर्थकम् ।] यतः समूला वासनैव बन्धस्तत्क्षय एव
मोक्षश्चेत्यर्थः ॥ ४५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने
जीवतत्त्वनिर्णयो नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
जीवतत्त्वनिर्णयो नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥