चतुःपञ्चाशः सर्गः ५४
श्रीभगवानुवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
सुखदुःखादिसम्बन्धे हेतुर्हानक्रमस्तथा ।
यदालम्ब्य च तद्धानं तत्सर्वमिह कीर्त्यते ॥
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैस्तत्पदं गच्छन्तीत्युक्तं तत्र
द्वन्द्वसम्बन्धे को हेतुः कश्च तद्विमोक्षोपायः किमालम्ब्य
चेत्याशङ्कापरिहारद्वारेणात्मतत्त्वमुपदेष्टुकामो भगवानुवाच-भूय एवेति
। प्रीयमाणाय प्रीत्या श्रोतुकामाय उपदिश्यमानार्थग्रहणेन सन्तुष्यते च ॥ १ ॥
मात्रास्पर्शा हि कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ॥ २ ॥
तत्रादौ विषया एव सुखदुःखरूपा इत्यभेदभ्रमं वारयन्नाह-मात्रास्पर्शा
इति । मीयन्ते विषया एभिरिति मात्रा इन्द्रियाणि तेषां विषयसंस्पर्शास्ते
शीतोष्णाद्यनुभावनप्रयुक्तसुखदुःखहेतवः । अथवा स्पृश्यन्त इति स्पर्शाः
शब्दादयः । शीतोष्णग्रहणमुदाहरणार्थम् । यथा शीतं ग्रीष्मे सुखदमुष्णं
दुःखदं ते पुनः शिशिरे विपरीते इति न विषयाः सुखदुःखरूपा इत्यर्थः । एवं
दुःखहेतून्प्रदर्श्य तन्निवारणोपायमाह-तांस्तितिक्षस्वेति ।
तितिक्षोक्तिर्वैराग्यस्याप्युपलक्षणम् । तथा च प्रियेषु विरज्यस्व अप्रियेषु
तितिक्षस्वेत्यर्थः ॥ २ ॥
ते तु नैकात्मनश्चान्ये क्वाऽतो दुःखं क्व वा सुखम् ।
अनाद्यन्तेऽनवयवे कुतः पूरणखण्डने ॥ ३ ॥
यया बुद्ध्या तद्विरागतितिक्षे सिध्यतस्तामाह-ते त्विति । ते मात्राः स्पर्शाश्च ते
सुखदुःखे वा । चकारादन्यदपि । एकात्मनः
अद्वयपूर्णानन्दस्वभावात्स्वात्मनोऽन्ये न अतः । एवम्बोधादित्यर्थः । किं च
प्रियतमधनपुत्रादिसम्पदा पूर्णोऽहमिति भ्रान्त्या आभिमानिकं सुखं
तद्वियोगाद्यप्रियसम्पत्त्या खण्डितोऽहमिति दुःखं च स्यात्ते अपि निरवयवे
पूरणखण्डनासम्भवदर्शने निवर्तेते इत्याह-अनाद्यन्ते इति ॥ ३ ॥
संस्थिता स्पर्शमात्राख्या मात्रास्पर्शभ्रमात्मकः ।
समदुःखसुखो धीरः सोऽमृतत्वाय कल्पते ॥ ४ ॥
यस्य स्पर्शानां विषयाणां मात्राणामिन्द्रियाणां चाख्यानमाख्या
सत्यताप्रतीतिः संस्थिता उपशान्ता भवति स मात्रास्पर्शभ्रमात्मको जीवो धीरस्यास्तीति
धीरस्तत्त्वदर्शी समदुःखसुखो भूत्वा अमृतत्वाय कल्पत इत्यर्थः ॥ ४ ॥
सर्वत्वादात्मनश्चैते सुभेदाः संस्थिता इव ।
असद्रूपास्त्वसद्रूपं कथं सोढुं न शक्यते ॥ ५ ॥
नन्वप्रिया दुःखादयः कथं स्वं प्रतिकूलवेदनीयतास्वभावं जह्युर्येन ते
सह्याः स्युस्तत्राह-सर्वत्वादिति । निरतिशयानन्दैकरसस्यात्मन एव सर्वत्वादेते
दुःखादिभेदाः शोभना भेदाः सुभेदाः प्रियतमधनपुत्रादिभेदा इव संस्थिता
न प्रतिकूलवेदनीयतां भजन्ते । प्राक्तनेन तु प्रातिकूल्यस्वभावेनासद्रूपा इत्यर्थः ॥
५ ॥
मनागपि न विद्यन्ते सुखदुःखे तु सर्वशः ।
सर्वत्वादात्मतत्त्वस्य सत्ता कथमनात्मनः ॥ ६ ॥
तदेव स्फुटीकृत्य समर्थयति-मनागपीति ॥ ६ ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
नास्त्येव सुखदुःखादि परमात्मास्ति सर्वगः ॥ ७ ॥
नन्वसदपि दुःखाद्यात्मन्युत्पद्यते असत एव स्वकारणसमवायः स्वसत्तासम्बन्ध
आद्यक्षणसम्बन्धो वा उत्पत्तिरिति कणभक्षाक्षचरणाद्युक्तिं प्रतिक्षिपति-नासत
इति । असतो दुःखादेर्भावः सत्ता न विद्यते । सतः अभावः असत्ता च न विद्यते ।
स्वभाववैपरीत्यायोगात् । वाचारम्भणादिश्रुत्या विकारमात्रस्यासत्त्वनिश्चयात् । ननु
सर्वविकाराणामसत्त्वे
पिण्डाद्यन्यतमविकारानालिङ्गितप्रकृतिमृदाद्यदर्शनात्तस्याप्यसत्त्वे
शून्यतापरिशेषः किं न स्यादिति चेन्न । विकारेष्वनुगतसद्बुद्धेर्निर्विषयत्वायोगेन
विकारासत्त्वेऽपि शून्यपरिशेषानापत्तेः । यदि तदप्यसदेव स्यात्तर्हि घटः असन् पटः
असन्नित्येवान्ववर्त्स्यत् । सत्सदित्येव चानुवर्तते अतस्तन्मात्रमेव परिशिष्यते । यस्तु
विकारेषु सदिदमित्यमिमानः सोऽधिष्ठानसत्तानुवेधादेव न स्वत इति सुखदुःखादि
नास्त्येवेत्यर्थः ॥ ७ ॥
सत्त्वासत्त्वमती त्यक्त्वा चैतयोर्जगदात्मनोः ।
त्यक्त्वा न किञ्चिन्मध्ये च शेषे बद्धपदो भव ॥ ८ ॥
जगतः सत्त्वमतिं निरतिशयानन्दात्मनः असत्त्वमतिं च त्यक्त्वा
तयोर्जगदात्मनोर्मध्ये अन्तराले उभयसङ्घटनानिमित्तं मनस्तमश्चातितुच्छमिति
त्यक्त्वा शिष्यत इति शेषश्चिदात्मा तस्मिन् बद्धपदः प्रतिष्ठितो भव ॥ ८ ॥
न हृष्यति सुखैरात्मा दुःखैर्ग्लायति नोऽर्जुन [अत्र सन्धिरार्षः ।] ।
दृश्यदृक्चेतनात्मापि शरीरान्तर्गतोऽपि सन् ॥ ९ ॥
दृशयानि हर्षग्लान्यादीनि साक्षितया पश्यतीति दृश्यदृक् । नहि दृश्यास्ते
दृग्धर्मा भवितुमर्हन्तीति भावः ॥ ९ ॥
जडं चित्तादि दुःखस्य भाजनं देहतां गतम् ।
न चैतस्मिन्क्षते क्षीणे किञ्चिदेवात्मनः क्षतम् ॥ १० ॥
किं तर्हि दुःखहर्षादिभाजनं तत्राह-जडमिति । एतस्मिन् चित्तादौ ॥ १० ॥
जडं देहादि दुःखादेर्यदिदं भोक्तृसंस्थितम् ।
तन्मायाभ्रममेवाङ्ग विद्ध्यबोधवशोत्थितम् ॥ ११ ॥
इदं चित्तादिघटितं जीवरूपम् ॥ ११ ॥
न किञ्चिदेव देहादि न च दुःखादि विद्यते ।
आत्मनो यत्पृथग्भूतं किं केनातोऽनुभूयते ॥ १२ ॥
यदिदं कथयाम्यत्र तेनैवातो विनश्यति ।
भ्रान्तिर्दुःखमबोधोत्था सम्यग्बोधेन भारत ॥ १३ ॥
यदिदं दुःखं तदबोधोत्थभ्रान्तिरतस्तेन सम्यग्बोधेनैव विनश्यति । अत्र
दृष्टान्तं कथयामीत्यन्वयः ॥ १३ ॥
यथा रज्ज्वामहिभयं बोधान्नश्यत्यबोधजम् ।
तथा देहादिदुःखादि बोधान्नश्यत्यबोधजम् ॥ १४ ॥
विष्वग्विश्वमजं ब्रह्म न नश्यति न जायते ।
इति सत्यं परं विद्धि बोधः परम एष सः ॥ १५ ॥
कीदृशः स बोधस्तमाह-विष्वगिति । विश्वं विष्वक् पूर्णं ब्रह्मैव ॥ १५ ॥
ब्रह्माम्बुधौ तरङ्गत्वं किञ्चिद्भूत्वा विलीयते ।
ब्रह्मावर्ते स्फुरस्यद्य ब्रह्मैवासि निरामयम् ॥ १६ ॥
अद्य बोधोदयकाले ॥ १६ ॥
यावत्कालक्रियादेशास्त्वमहंसैनिका इव ।
ब्रह्मणीव परिस्पन्दा नात्र स्तः सदसद्भ्रमौ ॥ १७ ॥
कृत्स्नवाची यावच्छब्दः । कालदीनां द्वन्द्वसमासः । सदसद्भ्रमौ
भावाभावविकल्पौ ॥ १७ ॥
जहि मानं मदं शोकं भयमीहां सुखासुखे ।
द्वैतमेतदसद्रूपमेकः सद्रूपवान्भव ॥ १८ ॥
पुरुषाक्षौहिणीनां च क्षयेणानुभवात्मना ।
ब्रह्मणा बृंहितं शुद्धं ब्रह्म ब्रह्ममयं कुरु ॥ १९ ॥
त्वत्करिष्यमाणपुरुषाक्षौहिणीक्षयात्मनापि ब्रह्मणैव बृंहितं अतः
अनुभवात्मना शुद्धं ब्रह्मैव ब्रह्ममयं कुर्वित्यर्थः ॥ १९ ॥
असंविदन्सुखं दुःखं लाभालाभौ जयाजयौ ।
शुद्धं [युद्ध्यन्ब्रह्मैकतां गच्छ ब्रह्माब्धिं स्पन्द भारत इति
पाठान्तरम् ।] ब्रह्मैकतां गच्छ ब्रह्माब्धिस्त्वं हि भारत ॥ २० ॥
लाभालाभसमो भूत्वा भूत्वा नूनं न किञ्चन ।
खण्डवात इवास्पन्दी प्रकृतं कार्यमाचर ॥ २१ ॥
नूनं तत्त्वनिश्चयेन न किञ्चन जागतं देहादिरूपं भूत्वा । खण्डवातो
गुहापरिच्छिन्नो वायुरिव ॥ २१ ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्करिष्यसि कौन्तेय तदात्मेति स्थिरो भव ॥ २२ ॥
सर्वक्रियाणां ब्रह्मैवेति निश्चयस्थैर्यमेव मदर्पणमित्याशयेनाह-यदिति ॥
२२ ॥
यन्मयो यो भवत्यन्तः स तदाप्नोत्यसंशयम् ।
ब्रह्मसत्यमवाप्तुं त्वं ब्रह्मस्त्यमयो भव ॥ २३ ॥
यन्मयः यदाकारचित्तः ॥ २३ ॥
अनपेक्षफलं ब्रह्म भूत्वा ब्रह्मेति भावितम् ।
क्रियते केवलं कर्म ब्रह्मज्ञेन यथागतम् ॥ २४ ॥
अपेक्षाया अभावः अनपेक्षम् । अर्थाभावेऽव्ययीभावः सर्वकामोपरमस्तद्रूपं
फलं परमपुरुषार्थः स्वयं भूत्वा केवलं वृथा चेष्टारूपं ब्रह्मेति
भावनाबाधितं कर्म क्रियते ॥ २४ ॥
कर्मण्यकर्म यः पश्यत्यकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् ॥ २५ ॥
यः पुमान्कर्मण्युक्तरीत्या अकर्म निष्क्रियं ब्रह्म पश्यत्यकर्मणि ब्रह्मणि
चाविच्युतप्रतिष्ठारूपं कर्म अवश्यं कर्तव्यं पश्यति स बुद्धिमान्विवेकी स एव
च स्वरूपतः फलतश्च कृत्स्नं पूर्णं कर्म करोतीति कृत्स्नकर्मकृदुक्तो
विद्वद्भिरित्यर्थः ॥ २५ ॥
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ॥ २६ ॥
कर्मफलानि लाभादीनि हेतवः प्रवृत्तिनिमित्तानि यस्य तथाविधो मा भूः । अकर्मणि
प्राप्तकर्माकरणेऽपि ते सङ्ग आसक्तिर्माभूत् । योगस्थः
प्रागुक्तसिद्ध्यसिद्धिसमदृष्टिप्रतिष्ठितः ॥ २६ ॥
कर्मासक्तिमनाश्रित्य तथा नाश्रित्य मूढताम् ।
नैष्कर्म्यमप्यनाश्रित्य समस्तिष्ठ यथास्थितम् ॥ २७ ॥
मूढतां तत्त्वदृष्टौ प्रमादम् ॥ २७ ॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २८ ॥
आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।
मौर्ख्ये स्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत् ॥ २९ ॥
मौर्ख्ये उक्तप्रमादे स्थिते सत्यवश्यमासक्तिर्भवेदेव ततोऽनर्थपरम्परेत्यर्थः ॥
२९ ॥
परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।
सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥ ३० ॥
तत्त्वदर्शनाप्रमादे तु निरासक्तेः स्वत एवाकर्तृता सिद्ध्यतीत्याह-परमिति ॥ ३० ॥
अकर्तृत्वादभोक्तृत्वमभोक्तृत्वात्समैकता ।
समैकत्वादनन्तत्वं ततो ब्रह्मत्वमाततम् [ब्रह्मत्वमागतम् इति पाठः
।] ॥ ३१ ॥
तेन च भूमिकाक्रमाद्विदेहकैवल्यान्तं सिद्ध्यतीत्याह-अकर्तृत्वादिति ॥ ३१ ॥
नानातामलमुत्सृज्य परमात्मैकतां गतः ।
कुर्वन्कार्यमकार्यं च नैव कर्ता त्वमर्जुन ॥ ३२ ॥
अकार्यं प्रमादान्निषिद्धं च कुर्वन् ॥ ३२ ॥
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ३३ ॥
समः सौम्यः स्थिरः स्वस्थः शान्तः सर्वार्थनिस्पृहः ।
यस्तिष्ठति स सव्यग्रोऽप्यलमव्यग्रतां गतः ॥ ३४ ॥
सव्यग्रः सक्रियोऽपि सः । अव्यग्रतामक्रियताम् ॥ ३४ ॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
यथाप्राप्तानुवर्ती त्वं भव भूषितभूतलः ॥ ३५ ॥
अलब्धस्य लाभो योगः लब्धस्य पालनं क्षेमस्तदुभयचिन्ताशून्यः ॥ ३५ ॥
कर्मेन्द्रियाणि संयम्यय आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३६ ॥
त्यक्तसर्वकर्मणो मानसविषयासङ्गसत्त्वे दाम्भिक एव स सन्न्यास इत्याह##-
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३७ ॥
समनस्केन्द्रियनिग्रहवतो यथाशास्त्रं व्यवहरतोऽपि
फलासङ्गत्यागात्सन्न्यासफलमस्त्येवेत्याशयेन तं प्रशंसन्नाह-यस्त्विति ॥
३७ ॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ३८ ॥
तस्मान्निगृहीतसर्वेन्द्रियस्य सन्न्यासिन एव सर्वकामोपरमात्परमपुरुषार्थो
नान्यस्येत्युपसंहरति-आपूर्यमाणमिति । यद्वत् आपो नद्य आपूर्यमाणं
समुद्रं प्रविशन्ति तद्भावमापन्ना विलीयन्ते तद्वदचले ब्रह्मणि प्रतिष्ठा यस्यतं
सन्न्यासिनं सर्वे कामा मिथ्यात्वबुद्धिबाधितविषयाः सन्तः प्रविशन्त्यात्मन्येव
विलीयात्ममात्रतामापद्यन्ते स एव सर्वानर्थशान्तिलक्षणं मोक्षमाप्नोति न तु
काम्यन्त इति कामा विषयास्तत्कामनाशील इत्यर्थः ॥ ३८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू०
अर्जुनोपाख्याने आत्मज्ञानोपदेशो नाम चतुष्पञ्चाशः सर्गः ॥ ५४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
आत्मज्ञानोपदेशो नाम चतुष्पञ्चाशः सर्गः ॥ ५४ ॥