त्रिपञ्चाशः सर्गः ५३
श्रीभगवानुवाच ।
अर्जुन त्वं न हन्ता त्वमभिमानमलं त्यज ।
जरामरणनिर्मुक्तः स्वयमात्मासि साश्वतः ॥ १ ॥
वर्ण्यतेऽहङ्कृतेस्त्यागः सङ्गत्यागादिलक्षणम् ।
उपास्यज्ञेयरूपे च दशाभेदव्यवस्थिते ॥
तत्रादौ स्वबन्धुहन्ताहमित्यादिरूपोऽहन्ताभिमानः एते मदीया बान्धवा
इत्यादिममताभिमानश्च तव सर्वदुःखनिदानमिति स एव त्याज्य इत्याह-अर्जुनेति ।
हे अर्जुन त्वं जरामरणादिषडूर्मिनिर्मुक्तः अतएव शाश्वतः स्वबन्ध्वादीनां
सर्वभूतानां स्वयं साक्षादात्मासि । अतस्त्वं कस्यापि न हन्ता । अहं
हन्तेत्यभिमानमलमत्यन्तं त्यजेत्यर्थः ॥ १ ॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाṁल्लोकान्न हन्ति न निबध्यते ॥ २ ॥
अभिमानत्यागफलमाह-यस्येति । यस्य वधादिप्रवृत्तिकाले
अहममुङ्घातयामीत्यहङ्कृतो भावो नास्ति उत्तरकालं च यस्य
बुद्धिस्तत्फलहर्षविषादादिना न लिप्यते स पुरुष इमान्सर्वान् लोक्यन्त इति
लोकाश्चतुर्विधभूतजातयस्तान्हत्वा प्राणैर्वियोज्यापि कमपि न हन्ति । सर्वत्र
शाश्वतैकात्मतत्त्वस्य वधादिविकारास्पर्शिनस्तथैव सत्त्वात् देहादीनां च
मायामात्रत्वेन नित्यमसत्त्वादेव वन्ध्यापुत्रस्येव वधाप्रसक्तेरिति भावः ।
अतस्तत्प्रयुक्तपापफलेनापि न निबध्यते यथेश्वर इत्यर्थः ॥ २ ॥
यैव सञ्जायते संविदन्तः सैवानुभूयते ।
अयं सोऽहमिदं तन्म इत्यन्तः संविदं त्यज ॥ ३ ॥
हन्तृलादिधर्मकदेहादितादात्म्यभ्रान्तिसंवेदनवशादेव
तद्धर्महन्तृत्वादेरात्मनि प्रतिभासो न स्वतः अतस्तदेव प्रथमं त्यजेत्याह##-
संविद्बुद्धिवृत्तिर्देहाद्यभिमानरूपा अन्यादृशी वा । अहं
कार्यकारणसङ्घातः । स हन्ता अहं । इदमेतद्देहादिसम्बन्धि तद्बन्ध्वादि मे
मम । इत्येवं संविदं भ्रान्तिवृत्तिं त्यजेत्यर्थः ॥ ३ ॥
अनयैव च युक्तोऽस्मि नष्टोऽस्मीति च भारत ।
अभितः सुखदुःखाभ्यामवशः परितप्यसे ॥ ४ ॥
अनया उक्तलक्षणया संविदा हन्तृत्वादिभिर्युक्तोऽस्मि । तत्प्रयुक्तपापैश्च नष्टः ।
बन्धुनाशाद्यैहिकानर्थैर्नरकपाताद्यामुष्मिकानर्थैश्च युक्तोऽस्मीति च भ्रान्त्या
सुखदुःखाभ्यां परितप्यसे ॥ ४ ॥
स्वात्मांशैः क्रियमाणानि गुणैः कर्माणि भागशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ५ ॥
स्वात्मनः अंशवत्परिच्छेदकत्वेनांशास्तैः सत्त्वादिगुणविकारैर्देहेन्द्रियादिभिः
क्रियमाणानि कर्माणि ॥ ५ ॥
चक्षुः पश्यतु कर्णश्च शृणोतु त्वक्स्पृशत्विदम् ।
रसना च रसं यातु कात्र कोऽहमिति स्थितिः ॥ ६ ॥
विमर्शे तु चक्षुरादीनामेव रूपादिविषये प्रवृत्तिर्नात्मन इति न तत्कृतैरस्य
कर्तृत्वप्रसक्तिरित्याशयेनाह-चक्षुरिति ।
अत्रास्मिंश्चक्षुरादिकरणकार्यसङ्घाते अहं कः न कश्चिदिति । अहमिति स्थितिः का । न
युक्तेत्यर्थः ॥ ६ ॥
कलनाकर्मणि रते मनस्यपि महात्मनः ।
न कश्चिदत्राहमिति क्लेशभागे क एव ते ॥ ७ ॥
कलना सङ्कल्पादिस्तल्लक्षणे स्वकर्मणि रते प्रसक्ते सत्यपि अत्रास्मिन्मन##-
प्रविष्टो यदर्थं शोचसि स नास्त्येवेत्यर्थः ॥ ७ ॥
बहुभिः समवायेन यत्कृतं तत्र भारत ।
एकोऽभिमानदुःखेन हासायैव हि गृह्यते ॥ ८ ॥
यत्र सङ्घातकृते कार्ये तदन्तर्गतस्याप्येकैकस्य सङ्घाताभिमानदुःखेन शोके
उपहास्यता तत्र किं वाच्यं तद्बहिर्भूतस्य तदनुशोचने इत्याशयेनाह##-
दुःखमेकः शोचितुमर्हति इति ॥ ८ ॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ९ ॥
किं च निरहङ्कारस्य फलासङ्गरहितं कायिकादित्रि विधं शास्त्रीयं कर्म
चित्तशुद्धिद्वारा ज्ञानोद्दीपकत्वात्परमपुरुषार्थायैव भवतीति न ते
स्वधर्माद्युद्धादुःखप्रसक्तिरित्याह-कायेनेति । योगिनोऽत्रारुरुक्षवः [अत्र
मुमुक्षव इति पाठः ।] ॥ ९ ॥
अहन्त्वविषचूर्णेन येषां कायो न मारितः ।
कुर्वन्तोऽपि हरन्तोऽपि न च ते निर्विषूचिकाः ॥ १० ॥
न मारितो मरणाय व्यापारितः । पुनः पुनर्मृत्युहेतुभोगलाम्पट्येन प्रवर्तित
इत्यर्थः । निर्विषूचिकाः निरस्तरागाद्यामयाः । लौकिकं शास्त्रीयं कर्म
कुर्वन्तोऽप्यानुषङ्गिकं तत्फलं हरन्त उपभुञ्जाना अपि न च ते कुर्वन्तो
हरन्तश्चेत्यर्थः ॥ १० ॥
न क्वचिद्राजते कायो ममतामेध्यदूषितः ।
प्राज्ञोऽप्यतिबहुज्ञोऽपि दुःशील इव मानवः ॥ ११ ॥
क्वचिल्लौकिके शास्त्रीये वा व्यवहारे न राजते । अनर्थानास्कन्दितपुरुषार्थाय न कल्पत
इति यावत् ॥ ११ ॥
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ।
यः स कार्यमकार्यं वा कुर्वन्नपि न लिप्यते ॥ १२ ॥
कार्यमवश्यकर्तव्यं शास्त्रीयं कर्म । अकार्यमनावश्यकं लौकिकम् । नतु
निषिद्धमप्रसक्तेः ॥ १२ ॥
इदं च ते पाण्डुसुत स्वकर्म क्षात्रमुत्तमम् ।
अपि क्रूरमतिश्रेयः सुखायैवोदयाय च ॥ १३ ॥
क्षात्रं क्षत्रियाणां विहितं सङ्ग्रामेष्वपलायनं बन्धुवधरूपत्वात् क्रूरमपि
चित्तशुद्धिद्वारा ब्रह्मज्ञानादिसुखायैव । तथा
धर्मयशोराज्यस्वर्गाद्यभ्युदयाय चेत्यति श्रेय एवेत्यर्थः ॥ १३ ॥
अपि कुत्सितमप्यन्यदप्यधर्ममयक्रमम् ।
श्रेष्ठं ते स्वं यथा कर्म तथेहामृतवान्भव ॥ १४ ॥
तर्हि यद्बन्धुवधादन्यद्द्रोणभीष्मकृपादिगुरुवधरूपं कुत्सितं कर्म
तन्मया कथं कार्यमित्यर्जुनस्य तत्राधर्मत्वशङ्कां सत्यशपथाशिषा
निवारयन्नाह-अपीति । पूजार्हेषु
तद्विपरीतशस्त्रोद्यमनप्रकरणाद्यधर्मबहुलक्रममपि ते स्वं युद्धकर्म यथा
येन सत्येन शास्त्रप्रामाण्येन श्रेष्ठं तथा तेन सत्येन इहास्मिन्युद्धे अमृतवान्
अमरणधर्मा विजयी भवेत्यर्थः ॥ १४ ॥
मूर्खस्यापि स्वकर्मैव श्रेयसे किमु सन्मतेः ।
मतिर्गलदहङ्कारा पतितापि न लिप्यते ॥ १५ ॥
यत्र अज्ञस्यापि स्वधर्मः श्रेयसे तत्र तत्त्वज्ञस्य
तस्मान्नरकादिप्रसक्तिर्दूरापास्तैव । पातित्यावहैर्महापातकादिकोटिभिरपि
निरहङ्कारमतेर्लेपाभावादित्याशयेनाह-मूर्खस्यापीति ॥ १५ ॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
निःसङ्गस्त्वं यथाप्राप्तकर्मवान्न निबध्यसे ॥ १६ ॥
किं च राज्यलाभादिलोभप्रयुक्ते युद्धे लोभगूलाअनि पापानि रसमूलास्तथाऽऽमयाः इति
न्यायेन कदाचिदधर्मप्रसक्तिः स्यात्फलात्सङ्गत्यागेन
सिद्ध्यसिद्धिसमतालक्षणयोगस्थस्य तु तत्प्रसक्तिरपि नास्तीति तां
योगस्थितिमुपदिशति-योगस्थ इति ॥ १६ ॥
शान्तब्रह्मवपुर्भूत्वा कर्म ब्रह्ममयं कुरु ।
ब्रह्मार्पणसमाचारो ब्रह्मैव भवसि क्षणात् ॥ १७ ॥
अथवा वक्ष्यमाणलक्षणब्रह्मार्पणबुद्ध्या कृतं शास्त्रीयमिदं कर्म न ते
बन्धायेत्याह-शान्तेति ॥ १७ ॥
ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः ।
ईश्वरः सर्वभूतात्मा भव भूषितभूतलः ॥ १८ ॥
निर्विशेषब्रह्मतत्त्वज्ञानेन तदसामर्थ्ये सगुणेश्वरार्पणबुद्ध्या वा कर्म कुरु
ततोऽपि न कर्मबन्ध इत्याह-ईश्वरेति ॥ १८ ॥
सन्न्यस्तसर्वसङ्कल्पः समः शान्तमना मुनिः ।
सन्न्यासयोगयुक्तात्मा कुर्वन्मुक्तमतिर्भव ॥ १९ ॥
अथवा सर्वसङ्कल्पत्यागलक्षणसन्न्यासयोगयुक्त्यापि न ते
कर्मबन्धप्रसक्तिरित्याह-सन्न्यस्तेति ॥ १९ ॥
अर्जुन उवाच ।
सङ्गत्यागस्य भगवंस्तथा ब्रह्मार्पणस्य च ।
ईश्वरार्पणरूपस्य सन्न्यासस्य च सर्वशः ॥ २० ॥
एवमुपदिष्टोऽर्जुनः सङ्गत्यागादीनां तल्लक्षणैर्विभागं जिज्ञासुः पृच्छति##-
तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो ।
क्रमेण कथयैतन्मे महामोहनिवृत्तये ॥ २१ ॥
श्रीभगवानुवाच ।
सर्वसङ्कल्पसंशान्तौ प्रशान्तघनवासनम् ।
न किञ्चिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥ २२ ॥
आअत्यन्तिकसङ्गत्यागस्य तत्त्वपरिज्ञानमन्तरेणायोगाद्ब्रह्मात्मतत्त्वमेव
भगवान् प्रथमं लक्षणेन निर्दिशति-सर्वेति । तथा च
निर्विकल्पसमाधिपरिपाकसाक्षात्कारानुभवसिद्धं निष्प्रपञ्चं
प्रत्यगात्मरूपमेव ब्रह्मेत्यर्थः ॥ २२ ॥
तदुद्योगं विदुर्ज्ञानं योगं च कृतबुद्धयः ।
ब्रह्म सर्वं जगदहं चेति ब्रह्मार्पणं विदुः ॥ २३ ॥
तदुद्योगं तदाकारावहितचित्तवृत्तिमज्ञाननिवृत्तिफलोपहितां
ज्ञानामाहुस्तदनुकूलधारामात्ररूपां तु योगमित्यर्थः । ब्रह्मण्यभिमन्तव्यस्य
जगतस्तदभिमन्तुरहङ्कारस्य च बाधो मुख्यं ब्रह्मार्पणमित्याह-ब्रह्मेति ॥
२३ ॥
अन्तःशून्यं बहिःशून्यं पाषाणहृदयोपमम् ।
शान्तमाकाशकोशाच्छं न दृश्यं न दृशः परम् ॥ २४ ॥
ब्रह्मणि जगदहङ्कारयोर्बाधोपपत्तये तत्राध्यस्तत्वं वक्तुं
ब्रह्मस्वरूपमाह-अन्तःशून्यमित्यादिना । न दृश्यमिति । सर्वदृश्यनिषेधे
दृशोऽपि दृश्यत्वान्निषेधः किं न स्यादित्याशङ्क्याह-न दृशः परमिति ।
दृशो दृश्यतानिषेधो वा तदा स्यादय्दि दृशः परं दृगन्तरं स्यात् नतु
तदस्तीत्यर्थः ॥ २४ ॥
तत ईषद्यदुत्थानमीषदन्यतयोदितम् ।
स जगत्प्रतिभासोऽयमाकाशमिव शून्यता ॥ २५ ॥
ततस्तादृशस्वभावादीषदन्यतयोदितं यत्समुत्थानं सोऽयं जगत्प्रतिभासः स
गन्धर्वनगराकाशमिव । शून्यतैवेत्यर्थः ॥ २५ ॥
भावोऽहमिति कोऽप्येष प्रत्येकमुदितश्चितेः ।
कोटिकोट्यंशकलितः क इत्रैनं प्रति ग्रहः ॥ २६ ॥
सन्न्यासोपवर्णनोपपत्त्यर्थं ब्रह्मणि जगदारोपवदेव तदंशेषु जीवेषु
प्रत्येकमहम्भावाध्यास इति न तत्राग्रहो युक्त इत्याह-भाव इति द्वाभ्याम् ॥ २६ ॥
अपृथग्भूत एवैष पृथग्भूत इव स्थितः ।
पृथक्त्वं हि न पर्यन्तो नाहमित्यवगच्छति ॥ २७ ॥
एषः अहमिति भावः स्वाधिष्ठानादपृथग्भूत एव । हि यस्माद्धेतोः पृथक्त्वं
पर्यन्तः परिच्छेदः स च ब्रह्मणि न । असंश्च नाहमिति कश्चिदवगच्छति ।
तथाचावगन्तृत्वेन पृथक्त्वोपपत्तिः पृथक्त्वेन
चावगन्तृत्वोपपत्तिरित्यवश्यमन्यतरस्मिन् हेये निरुपपत्तिकं पृथक्त्वमेव
हेयमिति भावः ॥ २७ ॥
यथेहाहं तथेहास्ति घटादीहापि मर्कटः ।
स्वमीहैवं तथाम्भोधिः किमहन्तां प्रति ग्रहः ॥ २८ ॥
अहन्तायामुक्तो न्यायो घटादिममतेहायामपि योज्य इति
दर्शयंस्तन्मूलाहन्ताग्रहत्यागमेव द्रढयति-यथेति । यथा अहमीहा
अहम्भावो न पृथगस्ति तथा इह प्रतीति घटादिममतेहालक्षणो मर्कटोपि पृथङ्
नास्तीति नञनुषङ्गेण योज्यम् । तथा च द्विविधापीहा अम्भोधिरिव पूर्णं
स्वमात्मैवेति नाहन्ताग्रहो युक्त इत्यर्थः ॥ २८ ॥
विकल्पभेदे स्फुरिते संवित्सारमयात्मनि ।
वैचित्र्येण विचित्रेपि किमेकत्वेऽपि नो ग्रहः ॥ २९ ॥
किञ्चाहम्ममतादिसर्वविकल्पभेदे तत्तद्विषयवैचित्र्येण विचित्रे स्फुरितेऽपि
तत्सत्तास्फूर्तिनिमित्ते अवस्थात्रयानुगते संवित्सारमात्रस्वभावे
सर्वविकल्पागमापायसाक्षिणि प्रत्यगात्मन्येकत्वमपि स्फुरत्येव । एवं सति
तत्राप्याग्रहो युक्तः स कुतो नो न क्रियत इत्यर्थः ॥ २९ ॥
इति ज्ञातविभागस्य बुद्धौ तस्य परिक्षयः ।
कर्मणां यः फलत्यागस्तं सन्न्यासं विदुर्बुधाः ॥ ३० ॥
इति उक्तरीत्या विमृश्य ज्ञातसारासारविभागस्य पुरुषस्य बुद्धौ
तस्याहम्ममताग्रहस्य यः परिक्षयस्तेन चार्थसिद्धः
सर्वकर्मफलेष्वस्पृहालक्षणस्त्यागः ॥ ३० ॥
त्यागः सङ्कल्पजालानामसंसङ्गः स कथ्यते ।
समस्तकलनाजालस्येश्वरत्वैकभावना ॥ ३१ ॥
तेन च सर्वसङ्कल्पत्यागलक्षणः असंसङ्गः सिद्ध्यतीति प्रथमप्रश्नोप्युत्तरित
इत्याह-त्याग इति । चतुर्थप्रश्नस्योत्तरमाह-समस्तेति । सर्वस्य द्वैतजालस्य
वाचारम्भणश्रुत्युक्तन्यायेन तदुपादानेश्वरमात्रात्वभावनेत्यर्थः ॥ ३१ ॥
गलितद्वैतनिर्भासमेतदेवेश्वरार्पणम् ।
अबोधवशतो भेदो नाम्नैवैषां चिदात्मनि ॥ ३२ ॥
तत्रोपपत्तिमाह-अबोधवशत इति ॥ ३२ ॥
बोधात्मा किल शब्दार्थो जगदेकं न संशयः ।
अहमाशा जगदहं स्वमहं कर्म चाप्यहम् ॥ ३३ ॥
तद्दृढीकाराय भगवान् स्वस्य सार्वात्म्यलक्षणां विभूतिमाह-अहमाशा
इत्यादिना । गच्छतीति जगत् चरम् । स्वं कर्माश्रयः ॥ ३३ ॥
कालोऽहमहमद्वैतं द्वैतं चाहमहं जगत् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामिवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥
अद्वैतं परं द्वैतमपरं रूपं तन्नियम्यं जगच्चाहमेवेत्यर्थः । एवं द्विरूपे
मयि अधिकारतारतम्येन मनो यस्य स मन्मनाः भव । तादृशे मयि तथैव
भक्तः श्रवणकीर्तनादिनवविधभक्तिमान्भव । तादृशस्य मे ज्ञानयज्ञेन
कर्मयज्ञेन वा यजनशीलो भवेत्यर्थः । एवमुक्तप्रकारद्वयेनापि युक्त्वा मयि
चित्तं निवेश्य मामेवात्मानं स्वात्मभूतमेष्यसि साक्षात्परम्परया च
प्राप्स्यसीत्यर्थः ॥ ३४ ॥
अर्जुन उवाच ।
द्वे रूपे तव देवेश परं चापरमेव च ।
कीदृशं तत्कदा रूपं तिष्ठाम्याश्रित्य सिद्धये ॥ ३५ ॥
एवमुक्तोऽर्जुनस्ते द्वे रूपे तद्युक्तियोग्यमधिकारं कालविभागं च जिज्ञासमानः
पृच्छति-द्वे इति ॥ ३५ ॥
श्रीभगवानुवाच ।
सामान्यं परमं चैव द्वे रूपे विद्धि मेऽनघ ।
पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम् ॥ ३६ ॥
सामान्यं सर्वजनसाधारणं सुबोधमित्यर्थः ॥ ३६ ॥
परं रूपमनाद्यन्तं यन्ममैकमनामयम् ।
ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते ॥ ३७ ॥
परं अशुद्धचित्तैर्दुरधिगमम् ॥ ३७ ॥
यावदप्रतिबुद्धस्त्वमनात्मज्ञतया स्थितः ।
तावच्चतुर्भुजाकारदेवपूजापरो भव ॥ ३८ ॥
तत्क्रमात्सम्प्रबुद्धस्त्वं ततो ज्ञास्यसि तत्परम् ।
मम रूपमनाद्यन्तं येन भूयो न जायते ॥ ३९ ॥
ततश्चित्तशुद्धिक्रमत् ॥ ३९ ॥
यदि वा वेद्यविज्ञातो भावस्तदरिमर्दन ।
तन्ममात्मानमात्मानमात्मनश्चाशु संश्रय ॥ ४० ॥
तुशब्दार्थे वाशब्दः । इदं च सगुणभजनं मया तुभ्यं चित्तशुद्ध्यभावं
सम्भाव्योक्तं यदि तु तव भावश्चित्तं वेद्यं वेदनार्हं विज्ञातम् । भावे क्तः ।
विज्ञानैकस्वभावं ब्रह्म यस्य तथाविधः शुद्ध इति मन्यसे तत्तर्हि मम
ईश्वरस्य आत्मानं पारमार्थिकस्वरूपभूतं शोधिततत्पदार्थं आत्मनः स्वस्य
च आत्मानं शोधितत्वम्पदार्थरूपं चैकरसीकृत्याखण्डपरिपूर्णात्मानं
संश्रय । बुद्ध्वा तन्निष्ठो भवेत्यर्थः ॥ ४० ॥
इदं चाहमिदं चाहमिति यत्प्रवदाम्यहम् ।
तदेतदात्मतत्त्वं तु तुभ्यं ह्युपदिशाम्यहम् ॥ ४१ ॥
अहमाशा जगदहमित्यादिविभूत्युपदेशस्यापि तत्तदधिष्ठानस्वतत्त्वपरिशोधन
एव तात्पर्यमित्याह-इदं चाहमिति ॥ ४१ ॥
मन्ये साधुविबुद्धोसि पदे विश्रान्तवानसि ।
सङ्कल्पैरवमुक्तोऽसि सत्यैकात्ममयो भव ॥ ४२ ॥
मदुपदेशावबोधेन तव सद्य एव स्वरूपे विश्रान्तिः सेत्स्यतीत्युत्साहजननाय
सिद्धवत्कृत्याह-मन्ये इति ॥ ४२ ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
पश्य त्वं योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ४३ ॥
आत्मानमधिष्ठानत्वेनानुगतम् । आत्मन्यध्यस्तानि ॥ ४३ ॥
सर्वभूतस्थमात्मानं भजत्येकत्वमात्मनः ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ ४४ ॥
सर्वथा सर्वप्रकारेण समाधिवृत्त्य व्यवहारवृत्त्या वा वर्तमानोऽपि ॥ ४४ ॥
एकत्वं सर्वशब्दार्थ एकशब्दार्थ आत्मनः ।
आत्मापि च न सन्नासद्गतो यस्याशु तस्य तत् ॥ ४५ ॥
सर्वभूतस्थमात्मानं इति श्लोकस्य तात्पर्यं स्वयमेव वर्णयति-एकत्वमिति ।
सर्वभूतेष्वधिष्ठानतया स्थितमात्मानं पश्यति तदा स
सर्वशब्दस्यार्थोऽधिष्ठानव्यतिरिक्तस्यालाभादेकत्वं भजते स च एकशब्दार्थ
आत्मनः प्रतीचः स्वभावे पर्यवसन्नः स आत्मापि च न सत् मूर्तभूतत्रयस्वभावः
नाप्यसत् सूक्ष्मभूतद्वयस्वभावः किन्तु भूमानन्दचिदेकस्वभावो
यस्यानुभवं गतस्तस्याशु तदवगमसमकालमेव तज्जन्मादिसर्वविक्रियारहितं
भूमानन्दात्मकं कैवल्यं पर्यवस्यतीति तत्तात्पर्यमित्यर्थः ॥ ४५ ॥
त्रैलोक्यचेतसामन्तरालोको यः प्रकाशकः ।
अनुभूतिमुपारूढः सोऽहमात्मेति निश्चयः ॥ ४६ ॥
तस्य केनाप्यननुभवादत्यन्तपरोक्षतां प्रसक्तां वारयति-त्रैलोक्येत्यादिना ॥ ४६
॥
त्रैलोक्यपयसामन्तर्यो रसानुभवः स्थितः ।
गव्यानामब्धिजानां च सोऽयमात्मेति भारत ॥ ४७ ॥
त्रैलोक्यस्थानां पयसां जलानाम् । गोर्विकारा गव्यानि तेषां दुग्धादीनाम् ।
अब्धिजानां लवणादीनां चकारादिक्षुमध्वादीनां च जिह्वाग्रसन्निकृष्टानां यो
रसानुभवः सोऽयमात्मैवेति न पारोक्ष्यप्रसक्तिरित्यर्थः ॥ ४७ ॥
अन्तः सर्वशरीराणां यः सूक्ष्मोनुभवः स्थितः ।
मुक्तोऽनुभवनीयेन सोऽयमात्मास्ति सर्वगः ॥ ४८ ॥
अनुभवनीयेन विषयजातेन मुक्तो रहितः अतएव दुर्लक्ष्यत्वात्सूक्ष्मः ॥ ४८ ॥
समग्रपयसामन्तर्यथा घृतमिव स्थितम् ।
तथा सर्वपदार्थानां देहानां संस्थितः परः ॥ ४९ ॥
सर्वपदार्थानामन्तरधिष्ठानतया देहानामन्तस्तु प्रकाशकतया च संस्थितः ॥
४९ ॥
सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा ।
तेजस्तथास्मि देहानामसंस्थित इव स्थितः ॥ ५० ॥
देहान्तःस्थितिं दृष्टान्तेन विशदयति-सर्वेति । यथा सर्वरत्नानामन्तर्गतं
तेजो बहिरपि प्रकाशयति तद्वदित्यर्थः ॥ ५० ॥
यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः ।
जगत्त्रयशरीराणां तथात्माहमवस्थितः ॥ ५१ ॥
असंस्थित इवेत्युक्तितात्पर्यविषयमलेपकत्वं दृष्टान्तान्तरेण विशदयति-यथेति
॥ ५१ ॥
मुक्ताफलशतौघानां तन्तुः प्रोतवपुर्यथा ।
तथायं देहलक्षाणां स्थित आत्मास्त्यलक्षितः ॥ ५२ ॥
सर्वदेहेष्वन्तः स्थित्वान्तर्यामितया विधारकत्वेऽप्यलक्ष्यत्वे दृष्टान्तमाह##-
ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरम्बके ।
सत्तासामान्यमेतद्यत्तमात्मानमजं विदुः ॥ ५३ ॥
तत्राधिष्ठानात्मना निर्विकारस्थितिर्ब्रह्मता सैव वास्तवी । या तु मुक्तासु
तन्तुवदन्तर्यामितया स्थितिर्या च रत्नेषु प्रभावत्प्रकटजीवतया स्थितिस्ते उभे
अध्यस्तसापेक्षे जगद्व्यवहारार्थे कल्पिते इति न वास्तवं हन्तव्यं हन्ता
तत्प्रयुक्तपापं तत्फलप्रदो वा स्वात्मातिरिक्त इत्याशयेनाह-ब्रह्मादाविति त्रिभिः
॥ ५३ ॥
तदीषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति ।
अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा ॥ ५४ ॥
आत्मैवेदं जगद्रूपं हन्यते हन्ति वात्र किम् ।
शुभाशुभैर्जगद्दुःखैः किमस्यार्जुन लिप्यते ॥ ५५ ॥
प्रतिबिम्बेष्विवादर्शसमं साक्षिवदास्थितम् ।
नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति ॥ ५६ ॥
अध्यस्तैर्वधादिदोषैरलेपे दृष्टान्तान्तरमाह-प्रतिबिम्बेष्विति ॥ ५६ ॥
इदं चाहमिदं नेति इतीदं कथ्यते मया ।
एवमात्मास्मि सर्वात्मा मामेवं विद्धि पाण्डव ॥ ५७ ॥
सर्वदेहेषु अहमहमिति प्रथमानश्चिदम्श एवाहं जडदेहेन्द्रियविषयांशो
नाहमिति विभागोक्तिरपि दर्पणप्रतिबिम्बितेष्वनेकदर्पणान्तरेषु घटादिषु
व्यावृत्तदर्पणस्वरूपपरिचयाय दर्पणादर्पणविभागोक्तिवदेवेत्याह-इदं
चाहमिति । इतिशब्द आद्योऽर्थविभागप्रकारपरः द्वितीयस्तूक्तिविभागप्रकारपर
इत्यपौनरुक्त्यम् । एवं दर्प।ङ्वदेवालेपकोऽद्वय एवात्मा एवात्मा सन्नहं
सर्वात्मास्मि ॥ ५७ ॥
इमाः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
आत्मन्यहन्ताचित्तस्थाः पयःस्पन्दा इवाम्बुधौ ॥ ५८ ॥
अहन्ता अभिमानवृत्तिस्तद्वति चित्ते तिष्ठन्तीति तत्स्थाः ॥ ५८ ॥
यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् ।
तरङ्गाणां जलत्वं च पदार्थानां तथात्मता ॥ ५९ ॥
आत्मता पारमार्थिकीत्यर्थः ॥ ५९ ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ ६० ॥
अकर्तारं प्रतिबिम्बचेष्टासु दर्पणवदेवाव्यापृतमित्यर्थः ॥ ६० ॥
नानाकारविकारेषु तरङ्गेषु यथा पयः ।
कटकादिषु वा हेम भूतेष्वात्मा तथाऽर्जुन ॥ ६१ ॥
नानातरङ्गवृन्दानि यथा लोलानि वारिणि ।
कटकादीनि वा हेम्नि भूतान्येवं परात्मनि ॥ ६२ ॥
पदार्थजातं भूतानि बृहद्ब्रह्म च भारत ।
एकमेवाखिलं विद्धि पृथक्त्वं न मनागपि ॥ ६३ ॥
दर्पणतत्प्रतिबिम्बवदेकमेव ॥ ६३ ॥
किं तद्भावविकाराणां गम्यमस्ति जगत्त्रये ।
क्व ते वापि जगत्किं वा किं मुधा परिमुह्यसि ॥ ६४ ॥
यदा निर्विकारं ब्रह्मैवैकं तदा जन्मादिभावविकाराणां
गम्यमात्माश्रयभूतं किमन्यदस्ति । ते बन्धुवधादिभावविकारा वा क्व सन्ति ।
जगदपि किं वान्यदस्ति । न किञ्चिदित्यर्थः ॥ ६४ ॥
इति श्रुत्वाऽभयं त्वन्तर्भावयित्वा सुनिश्चितम् ।
जीवन्मुक्ताश्चरन्तीह सन्तः समरसाशयाः ॥ ६५ ॥
अन्तः अभयं ब्रह्म भावयित्वा सम्यगनुभूय ॥ ६५ ॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥
६६ ॥
तेषामेवोक्तलक्षणविशिष्टानां विदेहकैवल्यावाप्तिरपीत्याशयेनाह##-
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू०
अर्जुनोपाख्याने अर्जुनोपदेशो नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे
पूर्वार्धेऽर्जुनोपदेशो नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥