एकपञ्चाशः सर्गः ५१
श्रीवसिष्ठ उवाच ।
न पुनर्भवतः पूर्वं सम्पन्नाश्चक्षुरादयः ।
यथा कमलजस्यैतत्सर्वमेव त्वया श्रुतम् ॥ १ ॥
जीवः खानि मनो देहः पुर्यष्टकमिति भ्रमः ।
अबोधादेव बोधे तु ब्रह्मैवैकमितीर्यते ॥
फलनोन्मुखतां यातमित्यादिना वर्णितमहङ्कारदेहेन्द्रियादीनां प्रागसतां
कल्पनं जीवसमष्टेः पद्मजस्येव व्यष्टेस्तवापि तुल्यमिति तात्पर्यं त्वया
ज्ञातमेवेति वक्ष्यमाणोपोद्घाताय प्रथममनुवदति-न पुनरिति । अप्यर्थे पुनः
शब्दः । कमलजस्येव भवतोऽपि सृष्टेः
पूर्वमनाद्यन्तमित्यादिवर्णितब्रह्मस्वभावे स्थितस्य चक्षुरादयो न सम्पन्ना
इत्येतत्सर्वमेव त्वया मद्वचनतात्पर्यं श्रुतम् । अवधारितमित्यर्थः ॥ १ ॥
ब्रह्मपुर्यष्टकस्यादावर्थसंविद्यथोदिता ।
पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा ॥ २ ॥
एवं पुर्यष्टककल्पनोत्तरं व्यवहार्यार्थकल्पनमपि समष्टिवदेव
व्यष्टीनामित्याह-ब्रह्मेति । ब्रह्मा हिरण्यगर्भः समष्टिपुर्यष्टकं तस्य यथा
सर्गादौ व्यवहर्तव्यार्थसंविदुदिता तथा सर्वस्य व्यष्टिपुर्यष्टकस्याप्युदेति ॥ २ ॥
विद्धि पुर्यष्टकं जीवो यो गर्भस्थेन्द्रियोदयः ।
यद्यथा भावयत्याशु तत्तथा परिपश्यति ॥ ३ ॥
तदेव गर्भस्थितिमारभ्य दर्शयति-विद्धीति । यो व्यष्टिजीवो ग्र्भस्थ एव
चक्षुरादीन्द्रियोदयविशिष्टः पुर्यष्टकात्मा षष्ठे मासि सम्पद्यते स तदारभ्य
यद्यथा व्यवहर्तव्यं वस्तु भावयति तथा तत्स्ववासनया परिपश्यतीत्यर्थः ॥ ३ ॥
इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् ।
सम्पन्नं च यथा तत्ते प्रोक्तमाद्यमनःस्थितौ ॥ ४ ॥
एवं च आद्यमनःस्थितौ हिरण्यगर्भमनोव्यापारे यथा स्वकं संवेदनं
इन्द्रियाणि इन्द्रियार्थाख्यं च सम्पन्नं तथा तत्ते तवापि व्यष्टेः सम्पन्नमिति मया
प्रोक्तं फलतीत्यर्थः ॥ ४ ॥
शुद्धा संवित्सम्भवन्ती संवेदनमनिन्दितम् ।
ततोऽहंवेदनानन्तजीवपुर्यष्टकान्विता ॥ ५ ॥
सर्गात्पूर्वं सम्भवन्ती व्यष्टिसमष्ट्योरेकैव शुद्धा संवित् ततस्तदनन्तरं
अहंवेदनालक्षणानन्तजीवपुर्यष्टकान्विता सास्तु तथापि
संवेदनस्वरूपमनिन्दितमेवेत्यर्थः ॥ ५ ॥
न त्वेकत्वादनन्तत्वादवेद्यत्वादनामये ।
अभावत्वादनेकत्वादशून्यत्वात्परा स्थिता ॥ ६ ॥
वेद्यदोषात्संवेद्नं तत् कुतो न निन्द्यते इति चेद्वेद्यस्य परमार्थतोऽसत्त्वादित्याह##-
त्वित्यन्वयः । नास्तित्वे च अभावत्वादयस्रयो हेतवः ।
अभावत्वाद्देशकालकृतपरिच्छेदवत्त्वादनेकत्वाद्वस्तुकृतपरिच्छेदवत्त्वाद##-
चेत्यादिबुद्ध्या तत्किञ्चिन्न मनस्तां च गच्छति ।
न च जीवत्वमायाति न च पुर्यष्टकात्मिका ॥ ७ ॥
ननु संवेदनमेव मनस्तादिभावं गच्छतीत्युक्ते तत्रमनस्तादीनामसत्यत्वे
संवेदनमेवासत्यं किं न स्यात्तत्राह-चेत्यादीति ।
चेत्यमन्तव्यादिगोचरबुद्धिवृत्त्यध्यारोपमात्रं तन्न वास्तवमनस्ताप्राप्तिः
सेत्यर्थः ॥ ७ ॥
नविद्यादिविलासोऽस्ति सोस्ति नास्तीव यः सदा ।
परमात्मेति कथितो मनःषष्ठेन्द्रियातिगः ॥ ८ ॥
तर्हि विद्याविलासाविर्भूतस्वरूपत्वात्पूर्वं तदप्यसत्किं न स्यात्तत्राह-नेति ।
आदिपदाच्चरमप्रमाणमननादिपरिग्रहः । यो मूढैर्नास्तीवेति कल्प्यते स
परमात्मा सदास्ति ॥ ८ ॥
तस्मात्सम्पद्यते जीवश्चिन्मूर्तिर्मननात्मकः ।
भ्रमः केवलमित्याद्य उपदेशाय गीयते ॥ ९ ॥
यद्यद्वितीय एव सः तर्हि तस्मात्सर्व एत आत्मानो व्युच्चरन्ति इति श्रुत्या
अग्निविस्फुलिङ्गन्यायेन जीवसम्पत्तिः कथमुक्तेति चेदुपदेशाय कल्पनयेत्याह##-
यतः कुतश्चित्सम्पन्ने त्वविद्यामय आमये ।
उपदेश्योपदेशेन प्रविलीने विचारणात् ॥ १० ॥
अतएवाविद्यारोगस्य न मूलं चिन्त्यं किन्तु चिकित्सैव चिन्तनीयेति
मूलकल्पनादिश्चिकित्सोपाय एव न वास्तव इत्याह-यत इति । प्रविलीने सति
स्वरूपज्ञानमेवावशिष्यत इति परेणान्वयः ॥ १० ॥
प्रशान्तसकलाकारं ज्ञानं तत्रावशिष्यते ।
यत्राकाशमपि स्थूलमणाविव महाचलः ॥ ११ ॥
यत्रोद्यदाचारमपि सदप्यसदिव स्थितम् ।
जगज्जान्विषयांस्त्यक्त्वा काये त्वं तिष्ठ निर्मले ॥ १२ ॥
उद्यदाचारं निष्पद्यमानव्यवहारार्थ क्रियाशालीति
सद्व्यावहारिकसत्यमप्यसच्छून्यमिव यत्र स्थितं तत्र त्वं जगज्जान्
विषयांस्त्यक्त्वा निर्मले जीवन्मुक्तः काये स्त्येऽवतिष्ठ ॥ १२ ॥
असन्मयमविद्याया रूपमेव तदेव हि ।
यद्वीक्षिता सती नूनं नश्यत्येव न दृश्यते ॥ १३ ॥
इदानीमविद्यायाः स्वरूपमाह-असन्मयमिति ॥ १३ ॥
आलोकितं नाम कथमवस्तु किल लभ्यते ।
प्रयत्नेनापि सम्प्राप्तं मृगतृष्णाम्बुकैरिव ॥ १४ ॥
मृगतृष्णाम्बुकैरिव सम्प्राप्तं दृष्टान्तोऽप्यप्रसिद्ध इत्यर्थः ॥ १४ ॥
असदेव सदेवासदज्ञानादस्य सत्यता ।
ज्ञानाद्यथास्थितं वस्तु दृश्यते नश्यति भ्रमः ॥ १५ ॥
असदेव सद्भाति यतः असदज्ञानादेवास्य सत्यतेत्यन्वयः ॥ १५ ॥
अविद्याया विचारोऽयं जीवपुर्यष्टकादिका ।
अप्यत्यन्तमसत्यायाः कल्पना कल्पितात्मनः ॥ १६ ॥
सत्यात्मनः सन्निधानादत्यन्तमसत्याया अप्यविद्यायाः कल्पना कल्पितेत्यर्थः ॥ १६ ॥
तस्यास्त उपदेशाय सेयं जीवादिकल्पना ।
कृता शास्त्रैः प्रबोधाय तां त्वमेकमनाः शृणु ॥ १७ ॥
तस्य ते जीवस्योपदेशाय तस्याः अविद्याया हेतोर्जीवादिकल्पना कृता ॥ १७ ॥
जीवत्वमिव सम्प्राप्ता पुर्यष्टकपदस्थिता ।
कला कलङ्ककलिता चितिराबोधनोन्मुखी ॥ १८ ॥
आबोधनोन्मुखी बाह्यार्थदर्शनोत्सुका सती यद्यथा भावयतीति परेणान्वयः
बाह्यार्थदर्शनोत्सुका सती यद्यथा भावयतिति परेणान्वयः ॥ १८ ॥
यद्यथा भावयत्याशु तत्तथानुभवत्यलम् ।
सत्यो भवत्वसत्यो वा बालेन निशि यक्षकः ॥ १९ ॥
बालेन सम्भावितो यक्षक इव सत्यः असत्यो वा भवतु । अयं तु पञ्चतन्मात्रस्य
पञ्चीकरणात्मिकां देहकलनां सत्तया सत्यतया सम्भावयतीत्युत्तरेणान्वयः ॥ १९
॥
पञ्चतन्मात्रकलनां सम्भावयति सत्तया ।
तत्रात्मनि तथा रन्ध्रान्प्रपश्यति तथोदितान् ॥ २० ॥
तत्रात्मनि देहात्मनि रन्ध्रान् इन्द्रियद्वाराणि । छान्दसं पुंस्त्वम् ॥ २० ॥
एभ्य एव समुत्पन्नं बहिःस्थं भूतपञ्चकम् ।
पश्यत्यनन्यदन्याभं शाखाशतमिवाङ्कुरः ॥ २१ ॥
एभ्यः पञ्चतन्मात्रेभ्यः परमार्थतोऽन्यदेवान्याभमिन्द्रियद्वारैः पश्यति ॥ २१ ॥
इदमन्तरिदं बाह्यमिति निश्चयवांस्ततः ।
जीवो भावं यथादत्ते तत्तथा द्रढयत्यथ ॥ २२ ॥
तत्र इदमिन्द्रियमनःप्राणादि अन्तः । इदं घटादि बाह्यम् । भावं वासनाम् ॥ २२ ॥
रश्मिजालमिवेन्दोर्यदात्मनः प्रतिभासनम् ।
बाह्यस्पर्शतया तेन तदेवाशूररीकृतम् ॥ २३ ॥
तत्र विषयेन्द्रियसंयोगाभिव्यक्तं स्वात्मसुखमेव विषयसुखतया
सम्भावयतीत्याह-रश्मिजालमिति ॥ २३ ॥
मरिचस्येव यत्तैक्ष्ण्यं शून्यत्वमिव खस्य यत् ।
आत्मनो वेदनं यच्च तदेवान्यदिव स्थितम् ॥ २४ ॥
एवं स्वाभाविकं स्ववेदनमेव विषयसन्निकर्षाज्जातमहङ्कारात्मनो धर्म इति
सम्भावयतीत्याह-मरिचस्येति ॥ २४ ॥
अत्रैव निश्चयं बद्ध्वा नियमः सुदृढीकृतः ।
अनेनेत्थमनेनेत्थं भाव्यमित्यवखण्डितम् ॥ २५ ॥
अत्र सांसारिकविषयभोगेष्वेव पुरुषार्थपर्यवसाननिश्चयं बद्ध्वा
ऐहलौकिकपारलौकिककर्माचरणनियमः सुदृढीकृतः । अनेन लौकिककर्मणा ।
अनेन वैदिककर्मणा । अवखण्डितं नश्वरं सुखमुद्दिश्येत्यर्थः ॥ २५ ॥
स्वभावेतरनामासौ स्वसङ्कल्पमयात्मकः ।
कश्चित्कदाचिद्भवति स्वभावेनैव नान्यथा ॥ २६ ॥
तत्रैकः प्रवृत्तिनियमः स्वाभाविकरागादिकृतः इतरस्तु शास्त्रकृतः ।
द्विविधोऽप्ययं सङ्कल्पमयात्मकस्तयोः कदाचित्कश्चिदेव
स्वाभाविकपुरुषयत्नेनैवेतरं जित्वा भवति नान्यथेत्यर्थः ॥ २६ ॥
आत्मनैवेदमखिलं सम्पन्नं द्वैतमद्वयम् ।
खण्डो मधुरसेनेव मृदेव च महाघटः ॥ २७ ॥
तत्रोभयत्राप्यज्ञ आत्मैव स्वभावशास्त्रान्यतरानुसारी
तत्तद्व्यापारसाधनफलात्मना विवर्तत इत्याह-आत्मनैवेति । खण्डः
मधुसारशर्कराविशेषः ॥ २७ ॥
सन्निवेशविकारादिदेशकालादिसम्भवात् ।
सम्भवत्यत्र नत्वीशे देशकालाद्यसम्भवात् ॥ २८ ॥
यद्यपि खण्डघटौ पूर्वतनद्रवपिण्डावस्थयोर्विनाशाद्विकारौ तथापि
माधुर्यमृत्स्वरूपाविनाशात्तदंशे विवर्तदृष्टान्तौ । नहि तद्वद्ब्रह्मणि
विकारः सम्भवति तद्वैधर्म्यादित्याह-सन्निवेशेति । अत्र मधुमृदादौ । ईशे
ब्रह्मणि ॥ २८ ॥
इतः पुष्पमितः पत्रमहमित्युदितो यथा ।
खण्डे स्वात्मनि नः सत्तारसोऽद्वित्वे द्वितां वहन् ॥ २९ ॥
अथवा खण्डो मधुरसेनेवेति वाक्ये खण्डो वनखण्डः मधुरसेन
वसन्तद्रवेणेत्यर्थः तथा चाविकार एव वृक्षविकारहेतुर्जलभागो दृष्टान्त
इत्याशयेनाह-इत इति । यथा वृक्षप्रविष्टो रसो जलमितः पत्रमितः पुष्पमहमिति
वैचित्र्येणोदितः सन् अद्वित्वेऽपि द्वितां वहन् दृष्टस्तथा नः स्वात्मनि
प्रसिद्धसत्तारूपं ब्रह्मापि इतः पत इतः कुड्यमहमित्यादितो भेदात्
सर्वजगदात्मना आत्मनि द्वित्वमाहरद्विद्धीति परेणान्वयः ॥ २९ ॥
इतः पट इतः कुड्यमहमित्यादितस्तथा ।
सर्वात्मनात्मनि ब्रह्म विद्धि त्वं द्वित्वमाहरत् ॥ ३० ॥
अद्याङ्कुरोऽहमद्यार्करुगहं त्वद्य वारिदः ।
यथेति तिष्ठत्यम्भोदस्तथात्मा सदसद्वपुः ॥ ३१ ॥
यथा वा अम्भोदो मेघः अद्य ग्रीष्मे अर्करुगेवाहमिति ताद्रूप्येण तिष्ठति । तत
आद्यवर्षारम्भे वारिदानावसरे वारिदोऽहमिति तिष्ठति । ततो
भूमिप्रवेशेनाङ्कुरान्तर्जलात्मना प्रवेशे अद्याङ्कुरोहमिति तिष्ठति । तथा आत्मापि
कालभेदेन भावाभावाकारो भूत्वा तिष्ठतीत्यर्थः ॥ ३१ ॥
इति भाव्यमनेनेदमित्थं सर्वेश्वरे ततम् ।
क्रमं खण्डयितुं लोके कस्य नामास्ति शक्तता ॥ ३२ ॥
अयं च जगद्विवर्तनियमक्रमः कल्पितोऽपि न केनचिदन्यथा कर्तु शक्य इत्याह-इतीति
। सर्वेश्वरे ब्रह्मणि । ततं प्रसिद्धम् ॥ ३२ ॥
आदर्शस्वच्छ आकाशे नैव स्वः प्रतिबिम्बति ।
व्यतिरेकासम्भवतः कचत्येव हि केवलम् ॥ ३३ ॥
एवं वस्तुस्वभावनियतिरपि वस्तुभेदभिन्ना नान्यथा कर्तुं
शक्येत्याशयेनाकाशादिस्वभावस्याज्ञातब्रह्मस्वभावस्य च वैलक्षण्यमाह##-
प्रतिबिम्बति । कुतः । व्यतिरेकासम्भवतः आकाशे आकाशकार्ये भूतान्तरे वा
आकाशभेदाभावात् । किन्तु केवलमाकाशं निष्प्रतिबिम्बदर्पणोदरवत्स्वच्छतया
कचति । दीप्यत एवेत्यर्थः ॥ ३३ ॥
ब्रह्मणि त्वात्मनात्मैव स्थितः कचति बिम्बति ।
द्वैतीभवत्यदेहोऽपि चिन्मयत्वात्स्वभावतः ॥ ३४ ॥
साविद्यं ब्रह्म तु न तथेत्याह-ब्रह्मणीति । कचति सर्ववस्तुशक्त्यादिरूपेण
दीप्यते । जीवरूपेण प्रतिबिम्बति । भेदकल्पनया च द्वैतीभवति ॥ ३४ ॥
यद्यथैवात्मकचनं वेत्ति तं भवतात्मना ।
असत्यमपि तन्नेह व्यभिचारी कदाचन ॥ ३५ ॥
अस्त्वेवं किं ततस्तत्राह-यदिति । तत्र सर्गादौ यद्वस्तु स्वभावेनात्मकचनं
वृत्तं तं स्वभावमसत्यमपि भवता सत्येनात्मनाअ स्त्यं वेत्ति स च नियमो न
कदाचन व्यभिचारीति सर्वापि नियतिः सिद्धेत्यर्थः ॥ ३५ ॥
हेमत्वकटकत्वे द्वे सत्यासत्यस्वरूपिणी ।
हेम्नि भाण्डगते यद्वच्चित्त्वाचित्त्वे तथात्मनि [हमेभाण्डगते इति पाठः ।
] ॥ ३६ ॥
सत्यानृतमिथुनीभावे वाचारम्भणश्रुतिदर्शितन्यायेन दृष्टान्तमाह##-
सर्वगत्वाच्चितेश्चित्त्वं नित्यं मनसि विद्यते [वेद्यते इति पाठः ।] ।
हेमत्वं कटकस्येव जडभावः स्थितोऽन्यदा ॥ ३७ ॥
अतएव प्रथमकार्ये मनसि चिज्जडोभयरूपता दृश्यते तत्र यन्नित्यं
तत्सत्यमित्याह-सर्वगत्वादिति । अन्यदा कदाचिदित्यर्थः ॥ ३७ ॥
चित्त्वजाड्यात्मकं चित्तं दृढं भावयति स्वयम् ।
यथा यदैव यद्भावं तथा भवति तत्तदा ॥ ३८ ॥
चित्तजाड्येति पाठे चित्तस्य जाड्यं जडदेहविषयाकारस्तदात्मकं चित्तं
दृढभावनया यदैव यथा देवनरस्थावरादिना येन प्रकारेण यदा यद्भावं
भवति तदा तथैव तद्भावं भवति । अनुभवतीत्यर्थः ॥ ३८ ॥
काले काले चिता जीवस्त्वन्योन्यो भवति स्वयम् ।
भाविताकारवानन्तर्वासनाकलिकोदयात् ॥ ३९ ॥
अतएव कालभेदेन जीवस्याहमाकारभेदानुभव इत्याह-काल इति । चिता
अन्तर्वासनाकलिकानामुदयाद्विकासाद्वैचित्र्येण भाविताकारवान्सन् अन्योऽन्यो भवति ॥
३९ ॥
स्वप्ने दृष्टो यथा ग्रामो याति सत्तान्यतेक्षणात् ।
देहाद्देहं तथा याति देहोऽयं प्रतिभात्मकः ॥ ४० ॥
यथा स्वप्ने दृष्टो ग्रामो वनादिसत्तान्यतेक्षणाद्वनादिभावं याति तथा
देहभूतोऽयं जीवोऽपि देहाद्देहान्तरभावं याति । यतः स्वप्नवदेव प्रतिभासात्मक
इत्यर्थः ॥ ४० ॥
प्रतिभासो यथा स्वप्ने नरः कुड्यं पटो भवेत् ।
भवत्यसत्यमेवेदं देहान्तरमिदं स्वतः ॥ ४१ ॥
यथा स्वप्ने प्रतिभासत इति प्रतिभासो दृश्यमानो नरो झटिति कुड्यं भूत्वा पटो
भवेत्तथा मरणमूर्च्छायामपि प्रतिभासमानमिदं देहान्तरं भवतीत्यर्थः ॥
४१ ॥
असत्यमेव म्रियते त्वसत्यं जायते पुनः ।
जीवः स्वप्रतिभासेन स्वप्नवत्स्वान्यरूपवत् ॥ ४२ ॥
नन्व्यं देहः प्रत्यक्षं म्रियते दह्यते च स कथं देहान्तरं भवेत्तत्राह##-
दाहादिदर्शनं स्वाविद्याकल्पितस्यैव न तद्वासनामयस्येति भावः ।
स्वस्यान्यरूपवद्देहान्तरवदित्यर्थः ॥ ४२ ॥
कालेनैतादृशं रूपमिदं नान्यत्वमेति वै ।
प्रकृतं निश्चयारूढं भ्रमन्त्येते भवः स्वतः ॥ ४३ ॥
तर्हि किं यौवनवार्धक्यवद्देहान्तरमप्येतद्देहस्य कालिकः परिणामः नेत्याह##-
प्रकृतमिदं शरीरं बाल्याद्यवस्थामेदेपि तदेवेदमिति
प्रत्यभिज्ञानिश्चयारूढम् । एते भूतभाविदेहास्तु न ।
प्रत्यभिज्ञानाभावादन्येनान्ये सन्ति न सन्तीत्यादिभ्रान्तिं गच्छन्ति अतस्तेषां स्व्तो
जीवत एव भवः वासनया समुद्भव इत्यर्थः ॥ ४३ ॥
वस्तु दृष्टमदृष्टं च स्वप्ने समनुभूयते ।
जीवस्वप्ने जगद्रूपं विद्धि वेद्यविदां वर ॥ ४४ ॥
ननु कदापि प्रागदृष्टे देवादिशरीरभावे क्वास्य वासना तत्राह-वस्त्विति । इदं
तु जगद्रूपं जीवस्वप्नेऽन्तर्गतं विद्धि । तस्य तत्र आवसथास्त्रयः स्वप्नाः इति
श्रुतेरित्यर्थः । इदं तु स्वप्ने अननुभूतस्यापि दर्शनमिह
जन्मन्यननुभूतामिप्रायेण । दृष्टं चादृष्टं च श्रुतं चाश्रुतं
चानुभूतं चाननुभूतं च सर्वं पश्यति इति श्रुतिमवलम्ब्योक्तम् । वस्तुतस्त्वनादौ
संसारे नाननुभूतं किञ्चिदस्तीति मरणकाले
भाविदेहारम्भककर्मोद्बोधितवासनानुसारेणैव देहान्तरोद्भव इति बोध्यम् ॥ ४४ ॥
अजाग्रद्दृष्टिदृष्टो यः स्वाभिधानादिनेरितः ।
न स्वप्नो विद्यते तस्मादच्छात्मा चितिमात्रकम् ॥ ४५ ॥
तर्हि वाक्यजन्यब्रह्मसाक्षात्कारलभ्यब्रह्मभावोपि देहान्तरवद्वासनामयः
स्वप्न एव किं न स्यात्तत्राह-अजाग्रदिति । यः शिवमद्वैतं चतुर्थं मन्यन्ते इति
स्वाभिधानादिना ईरितः अजाग्रद्दृष्ट्या तुरीयया दृष्टः परमात्मा तस्य
उक्तलक्षणस्त्रिविधः स्वप्न एव न विद्यते जाग्रति कदापि तदनुभवाभावेन
तद्वासनाऽप्रसिद्धेस्तस्य वासनामयत्वायोगात्तस्मादसावच्छात्मा
चैतन्यमात्रमित्यर्थः ॥ ४५ ॥
अद्यापूर्वाभिधं स्वप्ने यथा पश्यति नान्यथा ।
अग्रदृष्टं तथैवार्थं चेतनं चित्प्रपश्यति ॥ ४६ ॥
स एव चिदात्मा चेतनं जीवो भूत्वा अद्य अपूर्वाभिधममिनवं वर्तमानमर्थं
यथा चित्स्वभावादेव पश्यति नान्यथा तथैवाग्रे दृष्टमप्यर्थं
प्रपश्यतीत्यर्थः ॥ ४६ ॥
प्राक्तनी वासनाद्यापि पौरुषेणावजीयते ।
ह्यःकुकर्माद्य यत्नेन प्रयाति हि सुकर्मताम् ॥ ४७ ॥
अत एवादृष्टविषयेऽपि भावनाप्रचयेन दृढीकृतवासना पूर्वदृष्टविषयां
वासनां जयतीति पुरुषप्रयत्नप्राबल्यं प्रदर्शितमित्याह-प्राक्तनीति ॥ ४७ ॥
मोक्षादृते न शाम्यन्ति जीवतां चक्षुरादयः ।
उन्मज्जन्ति निमज्जन्ति केवलं देशकालतः ॥ ४८ ॥
एवं जीवस्य वासनापरिणतिलक्षणो देहादिबन्दो वर्णितः । इदानीं कदा तच्छान्तिरिति
वाञ्छायामाह-मोक्षादिति ॥ ४८ ॥
चितः स्वकलनात्तस्य देहोग्र इव तिष्ठति ।
पञ्चात्माभावितोऽसत्यो महायक्षः शिशोरिव ॥ ४९ ॥
मोक्षं विनैव देहादिनिवृत्तिः किं न स्यात्तत्राह-चित इति । यतश्चितो यावन्मोक्षं
देहाकारकलना वासना तिष्ठत्येव । स्वकलनैवैतस्य जीवस्य पञ्चात्मा देहोऽग्रे
तिष्ठतीव । यथा शिशोर्भावितो महायक्षोऽग्रे तिष्ठति तद्वद्दुर्निवार इत्यर्थः ॥ ४९ ॥
मनोबुद्धिरहङ्कारस्तथा तन्मात्रपञ्चकम् ।
इति पुर्यष्टकं प्रोक्तं देहोऽसावातिवाहिकः ॥ ५० ॥
इदानीं कथञ्चित् स्थूलदेहनिवारणेपि मोक्षं विना लिङ्गदेहलक्षणं पुर्यष्टकं
दुर्निवारमित्याशयेन तद्दर्शयति-मन इति ॥ ५० ॥
अमूर्त एव चित्तात्मा खत्वमस्यातिपीनता ।
वाततास्य महागुल्मो देहतास्य सुमेरुता ॥ ५१ ॥
ननु शास्त्रे ज्ञानेन्द्रियं कर्मेन्द्रियं प्राणा भूतानि
अन्तःकरणमविद्याकामकर्माणि पुर्यष्टकमित्युक्तं तत्तु
पञ्चीकृताकाशवाय्वादिलिङ्गघटितस्थूलान्तं मूर्तरूपमपि
स्यात्तत्कथममूर्तमनोबुद्ध्याद्यष्टकमएव पुर्यष्टकमुक्तं तत्राह-अमूर्त
एवेति । त्वदुक्तं मूर्तपुर्यष्टकं तदा स्याद्यदि पञ्चीकरणेनामूर्तानां
तन्मात्राणां स्थौल्यं स्यात् । अयं तु तन्मात्ररूपो लिङ्गात्मा अमूर्त एव । अस्य
खत्वं पञ्चीकृताकाशत्वमतिपीनतानिरवधिकं स्थौल्यं तच्च न सम्भवति ।
नह्यमूर्तवासनाकोटीनामपि मेलने स्थौल्यं दृष्टं यदास्य खत्वमेव
दुर्लभं तदा स्थूलवातता महान् गुल्मो वृक्ष इवात्यन्तमसम्भाविता । एवं
स्थूलतेजोजलपृथ्वीतापि । एवं च स्थूलभूतानामेवासम्भवे अस्य
परमाणोरप्यतिसूक्ष्मस्य देहता सुमेरुतेवात्यन्तासम्भावितेति न भौतिकदेहान्तं
पुर्यष्टकं वर्ण्यत इत्यर्थः ॥ ५१ ॥
विरजस्त्वक्रमेणैव निरवस्थस्तु मुक्तिभाक् ।
सुषुप्ततैकावस्थास्य जडाः क्रोडीकृता यया ॥ ५२ ॥
मुक्त्यनुपयोगादपि न मोक्षशास्त्रेऽत्र स्थूलसद्भावकल्पना युक्तेत्याशयेनाह##-
विरजस्त्वे शमादिसाधनसम्पत्तौ वाक्याज्ज्ञानोदयक्रमेण
मनःकल्पितस्वप्नप्रायप्रपञ्चस्य तन्मूलाज्ञानस्य च बाधे
स्वकार्यकारणावस्थाबन्धद्वयशून्यस्य मुक्तिरुपपद्यते ।
स्थूलभूतभौतिकमूर्तप्रपञ्चाभ्युपगमे तु तादृशस्य ज्ञानेन
बाधादर्शनान्न मुक्तिरुपपद्यत इत्यर्थः एवं च निष्कर्षे स्वप्नसुषुप्ती द्वे
एवावस्थे न जाग्रन्नाम्नी स्थूलविषया अन्या अवस्था केनचिदुपपादयितुं
शक्येत्याशयेन ते विभज्य दर्शयति-सुषुप्ततेति सार्धेन । यया जडाः
सर्वदेहादिप्रपञ्चा वासनात्मनोपसंहृत्य क्रोडीकृताः ॥ ५२ ॥
स्वप्ननाम्नी तथावस्था देहप्रत्ययशालिनी ।
आमोक्षं भ्रमतीहायमिति स्थावरजङ्गमैः ॥ ५३ ॥
इति एवं परिदृश्यमानप्रकारेण स्थावरजङ्गमैराकारैरातिवाहिकदेह एव
आमोक्षाद्भ्रमतीत्यर्थः ॥ ५३ ॥
कदाचिद्धि सुषुप्तस्थः कदाचित्स्वप्नवत्स्थितः ।
आतिवाहिकदेहोऽयं सर्वस्यैवावतिष्ठते ॥ ५४ ॥
यदा सुषुप्तभावस्थो भाविदुःस्वप्नवेधितः ।
तदा कालानलसमस्तिष्ठत्यनुदिताकृतिः ॥ ५५ ॥
भाविभिर्दुःस्वप्नैर्वासनात्मनान्तःप्रविष्टैर्वेधितो विद्ध इव गतस्मृतिरत
एवानुदिताकृतिश्चित्प्रतिबिम्बखचितत्वादुपसंहृतजगत्त्वाच्च कालानलसमो
दीप्तस्तिष्ठति । अनेनान्तर्ज्ञानशून्यनैयायिकादिषुषुप्तिः प्रयुक्ता ॥ ५५ ॥
स्थावराद्यास्ववस्थासु कल्पवृक्षदशासु च ।
भवत्येव सुषुप्तस्थो घनमोहशिलाघनः ॥ ५६ ॥
तत्र स्थावरादिनिकृष्टावस्थासु जाड्याधिक्यात्सुषुप्तिप्राचुर्यमित्याह##-
पुण्याधिक्यात्कृमिकीटक्षुत्तृषादिदुःखाभावादानन्दाधिक्येपि न
मनुष्यादिवत्प्रबोधोऽस्तीति तमस्वितैवेत्यर्थः ॥ ५६ ॥
सुषुप्ततास्य जडता स्वप्नोत्थेयं हि संसृतिः ।
यः प्रबोधोऽस्य सा मुक्तिस्तज्जाग्रद्या तु तुर्यता ॥ ५७ ॥
तथा च चित्तजाड्यप्रकर्ष एव सुषुप्तिश्चित्तश्रमणमेव संसृतिश्चित्तस्य तत्त्वबोध
एव बन्धमुक्तिस्तुर्यतैवास्य जाग्रदिति पर्यवसन्नमित्याह-सुषुप्ततेत्यादिना ॥ ५७ ॥
जीवप्रबोधान्मुक्तिर्हि प्रबोधात्परमात्मताम् ।
सोऽभ्येति क्षालितमलं ताम्रं कनकतामिव ॥ ५८ ॥
जीवप्रबोधान्मुक्तिर्या सा चेह द्विविधोच्यते ।
एका जीवन्मुक्ततेति द्वितीया देहमुक्तता ॥ ५९ ॥
जीवन्मुक्तिर्हि तुर्यत्वं तुर्यातीतं पदं ततः ।
बोधो जीवः प्रबोधोऽयं स च बुद्धिप्रयत्नतः ॥ ६० ॥
प्रबोधः उत्कृष्टचिन्मात्रब्रह्मरूपो भवति । स च बोधो बुद्धेः पुरुषप्रयत्नतः ॥
६० ॥
ज्ञातप्रमाणो जीवोन्तर्यो जानातीह तन्मयः ।
पश्यतीमं भयं चैव सुदीर्घस्वप्नविभ्रमम् ॥ ६१ ॥
तत्त्वतो यावान्यश्चेति ज्ञातप्रमाणो जीवः सर्वान्तर्यो जानाति भासयति साक्षी तन्मय
एव भवतीत्यर्थः । यस्त्वज्ञातप्रमाणः सोऽपि परमार्थतः स्वस्थ
एवाज्ञानाच्छिलावद्दृढीकृते स्वहृदये सुदीर्घस्वप्नविभ्रमं तीव्रं भयं
पश्यतीति परेणान्वयः ॥ ६१ ॥
मिथ्योदितः स्वहृदये स्वस्थ एव शिलीकृते ।
जीवानामन्तरे त्वन्यन्न किञ्चिच्चित्कलां विना ॥ ६२ ॥
तर्हि किं जीवानां हृदये वास्तवं भयमस्ति नेत्याह-जीवानामित्यादिना ॥ ६२ ॥
तामेवान्यतया पश्यन्मुधैव परिशोचति ।
जीवाणोरन्तरे त्वन्यन्न किञ्चित्परमादृते ॥ ६३ ॥
यत्र तत्र जगद्दृष्टमहो मायाविजृम्भितम् ।
स्थाल्यन्तः क्वथदम्बूनां यथा नाना भ्रमोदयः ॥ ६४ ॥
जीवाणूनां तथैवान्तर्मिथ्यासंसरणोदयः ।
बन्धोस्य वासनाबन्धो मोक्षः स्याद्वासनालयः ॥ ६५ ॥
वासनान्तोऽस्य सौषुप्ती स्वप्ने विस्फुरति स्थितिः ।
घनवासनमोहोऽयं जीवः स्थावरतादिभाक् ॥ ६६ ॥
अस्य जीवाणोः सौषुप्ती स्थितिर्वासनानामन्तोऽवधिः । तुर्यतुर्यातीतयोर्निर्वासनत्वात् । स च
स्वप्ने स्फुरति वैचित्र्येण स्फुटीभवतीत्यर्थः । कथं स्फुटीभवति तदाह-घनेति
॥ ६६ ॥
मध्यस्थवासनस्तिर्यक्पुरुषस्तनुवासनः ।
यदान्तर्जीवितेनान्तो बहिर्जाता घटादयः ॥ ६७ ॥
तस्य वासनाक्षुधोत्कर्षादुत्तरोत्तरं शुभयोनिप्राप्तिरित्याह-मध्यस्थेति । पुरुषो
मनुष्यगन्धर्वदेवगन्धर्वादिः । वासनानां क्षयतारतम्येन
वैचित्र्यस्फुटीभावमुक्त्वा ग्राह्यग्रहणादिवैचित्र्येणापि तमाह-यदेत्यादिना ।
यदा यस्मिन् सुषुप्तिविच्युतिकाले देहान्तः आनखाग्रव्याप्तप्राणाहम्भावलक्षणेन
जीवितेन एतावान् देहपरिमित एवाहमित्यन्तः परिच्छेदो भवति तदा घटादयः
पदार्था बहिर्जाताः सम्पन्नाः ॥ ६७ ॥
जीवैक्यादुभयोः सत्ता ग्राह्यग्राहकयोस्तदा ।
आत्मानात्मसमालीढो बहिरन्तर्यदा चिता ॥ ६८ ॥
सन्तु बहिः किं ततस्तत्राह-जीवैक्यादिति । तदा
चक्षुरादिद्वारनिर्गतान्तःकरणद्वारा निर्गतेन वृत्त्यवच्छिन्नजीवेन घटादीनां
व्याप्तौ घटमहं जानामीति ग्राह्यग्राहकयोर्वासनात्मिका सत्ता तत्तद्वैचित्र्येण
स्फुटीभवतीत्यर्थः । एतदेव स्पष्टमाह-आत्मेति । अन्तः स्थित आत्मा जीवो यदा
बहिरनात्मसमालीढो भवति तदा चिता ग्राह्यग्राहकवासना
मृगतृष्णेवाध्यस्तविभागेन सोदया उदेतीत्यर्थः ॥ ६८ ॥
तदा ग्राह्यग्रहणधीर्मृगतृष्णेव सोदया ।
नेह सन्त्यज्यते किञ्चिन्नेह किञ्चिन्न गृह्यते ॥ ६९ ॥
एवं हेयोपादेयवैचित्र्यमपि वासनाध्यस्तमेव न वास्तवमित्याह-नेहेति ॥ ६९ ॥
बाह्यान्तरकलाकारश्चिदात्मैकः प्रकाशते ।
त्रिजगच्चिच्चमत्कारस्त्वलं भेदविकल्पनैः ।
शोभिताः स्मश्चिति चिरात्सबाह्यान्तर्न [सबाह्याद्यं न इति पाठः ।]
विद्यते ॥ ७० ॥
शोभितास्तत्त्वबोधेन विराजमानाः । सबाह्याभ्यन्तरं जगच्चिद्व्यतिरिक्तं न विद्यते
कालत्रयेऽपीत्यर्थः ॥ ७० ॥
अब्धिर्यथा जलमपास्त समस्तभेदः खादच्छमेव सकलं
द्रवमेकशुद्धम् ।
सर्वं तथेदमपहस्तितभेदजातमाद्यं परं पदमनामयमेव बुद्धम् ॥
७१ ॥
यथा अब्धिः समुद्रस्तत्त्वतो विमृष्टः अपास्तसमस्ततरङ्गबुद्बुदादिभेदः
खादाकाशादप्यच्छं सकलमेकं शुद्धं जलमेव तथा इदं सर्व जगत्तत्त्वतो
बुद्धं सत् अपहस्तितं निरस्तं वासनावस्थावैचित्र्यभेदजातं यस्य
तथाविधमनामयं परं पदमेवेत्यर्थः ॥ ७१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पू० इन्द्रियार्थोपलम्भविचारो नामैकपञ्चाशः सर्गः ॥ ५१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
इन्द्रियार्थोपलम्भविचारो नामैकपञ्चाशः सर्गः ॥ ५१ ॥