पञ्चाशः सर्गः ५०
श्रीराम उवाच ।
ज्ञातं ज्ञातव्यमखिलं दृष्टं द्रष्टव्यमक्षतम् ।
परेण परिपूर्णाः स्मो ब्रह्मज्ञानामृतेन ते ॥ १ ॥
इह कल्पनया जीवे लिङ्गपुर्यष्टकोद्भवः ।
वर्णितोऽक्षैस्तथा तस्य बाह्यार्थग्रहणक्रमः ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः इति श्रुतेस्तत्त्वसाक्षात्कारेण स्वयं
छिन्नसर्वसंशयोऽपि रामः परेषामुपकाराय तत्संशयपदं प्रष्टुकामः
प्रथमं स्वानुभवमभिलप्य दर्शयति-ज्ञातमित्यादिना । वयं ते
त्वत्सम्बन्धिना ब्रह्मज्ञानामृतेन परिपूर्णाः स्मः ॥ १ ॥
पूर्णात्पूर्णमिदं पूर्णं पूर्णात्पूर्णं प्रसूयते ।
पूर्णेनापूरितं पूर्णं स्थिता पूर्णे च पूर्णता ॥ २ ॥
स्वानुभवेन पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य
पूर्णमादाय पूर्णमेवावशिष्यते इति श्रुतिं संवादयति-पूर्णादिति ।
पूर्णाद्ब्रह्मणः सकाशादुपाधौ प्रविश्य आनखाग्रात्पूर्णमिदं जीवरूपं
परमार्थतः पूर्णं ब्रह्मैव । यतः पूर्णाद्यद्वियदादिक्रमेण प्रसूयते
व्यष्टिसमष्ट्युपाधिरूपं तदपि पूर्णमेव प्रसूयते । तद्यदा महावाक्योत्थेनाहं
ब्रह्मास्मीति ज्ञानेन समूलोपाधिपरिच्छेदापनयनात्पूर्णेन ब्रह्मणा पूर्णमेव
जीवतत्त्वमखण्न्डैक्येनापूरितं तदा कल्पिता पूर्णता भ्रमस्यापगमात्पूर्णस्य
पूर्णतैव प्राक्स्थितैवावस्थितेत्यर्थः ॥ २ ॥
लीलयेदं तु पृच्छामि भूयोबोधाभिवृद्धये ।
बालस्येव पिता ब्रह्मन्न कोपं कर्तुमर्हसि ॥ ३ ॥
भूयसां जनानां बोधाभिवृद्धये बालस्य लीलाप्रश्ने पित्वे कोपं कर्तुं नार्हसि
॥ ३ ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
विद्यमानमपि ब्रह्मन्दृश्यमानमपि स्फुटम् ॥ ४ ॥
सर्वेषां प्राणिनां
हृद्येवार्थानुभवोल्लेखदर्शनात्प्रियाप्रियदर्शनजन्यसुखदुःखयोर्हृद्यनुभ्
अवाच्चिरानुभूतानामपि बाह्यार्थानां हृद्येव स्मृतिदर्शनाच्च हृद्येव
बाह्यार्थानामप्यनुभवो वाच्यः । तत्र श्रोत्रचक्षुरादीन्द्रियाणां बाह्यार्थान्
हृद्यानेतुमशक्तेरचेतनत्वेन च स्वयं बहिर्गत्वानुभूयागत्याख्यातुमशक्तेश्च
श्रोत्रादिगोलकातिरिक्तेन्द्रियाभ्युपगमो व्यर्थः । नवान्तःकरणावच्छिन्नं
जीवचैतन्यमेवेन्द्रियप्रणाड्या निर्गत्य बाह्यघटादि व्याप्य तदनुभवतीति कल्पनापि
युक्ता । तथा सति बहिरेवानुभवोल्लेखापत्तेः ।
प्रियाप्रियदर्शनप्रयुक्तसुखदुःखानामपि बहिरुदयापत्तेः ।
कालान्तरेऽन्तःस्मृत्यनापत्तेश्च । अन्तर्विषयप्रवेशमन्तरेणान्तरनुभवयोगात् । न
च बहिरन्तःकरणवृत्तिर्विषयालिङ्गनेन तदाकारलाञ्छनं संस्काराख्यं
गृहीत्वान्तः प्रविश्य नट इव तदाकारं विडम्बयन्ती तदनुभावयति स्मारयति
वेत्युच्यत इति कल्पनापि युक्ता । घटाद्याकारानुभवानां तल्लाञ्छनविषयत्वकल्पने
भ्रमप्रमयोरविऽसेषापत्तेः सर्वत्रैवानाश्वासप्रसङ्गात् ।
घटादेर्बाह्यत्वानुभवानापत्तेश्च । इत्थं चानुभव आन्तरो घटादिश्च बाह्य
इत्यनयोरसम्बन्धान्न कथञ्चिदपि बाह्यार्थस्यानुभवारोहणमुपपादयितुं
शक्यम् । अतएव नैयायिकादयोऽनुभवस्य विषयैः सह विषयविषयिभावलक्षणः
स्वरूपसम्बन्ध एव न संश्लेषादिलक्षण इत्याचक्षते-न च सोऽपि युक्तः ।
असम्बद्धस्व्रूपस्य सर्वान्विषयान्प्रत्यविशिष्टत्वेन विषयव्यवस्थाऽयोगात् । नचात्मा
मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति क्रमेण
स्वाश्रयसंयुक्तसंयुक्तसंयोगादिपरम्परासम्बन्धव्यवस्थया व्यवस्था ।
अननुगतस्य परम्परासम्बन्धस्य
स्मृत्यनुमित्याद्यनुगततत्तद्विषयव्यवस्थापकत्वायोगात् । परम्परासम्बन्धेन
बाह्यार्थापरोक्ष्यानिर्वाहात्तस्यैव व्यवस्थापकत्वे
स्वरूपसम्बन्धकल्पनवैयर्थ्याच्च । एतेन सन्निकर्षद्वारा योऽर्थो
यज्ज्ञानव्यक्तिजनकः स तद्विषय इति व्यवस्थापि प्रत्युक्ता । इन्द्रियादीनागपि
तद्विषयत्वप्रसङ्गात् ।
तस्मादघटितघटनासमर्थमायाशक्तिबलादेवान्तर्बाह्यार्थानुभवओ वाच्यः
तथा सति किं कर्णादिगोलकातिरिक्तेन्द्रियाभ्युपगमेनेति यथानुभवं तद्द्वारैव
चिदात्मा बाह्यार्थमनुभवतीति स्यात् । तथा सति मृतशरीरेऽपि कर्णादीनां
सर्वगतस्य सदात्मनश्च सत्त्वात्तत्रापि बाह्यार्थान्कुतो नानुभवतीति रामः
शङ्कते-श्रोत्रमित्यादिना । श्रोत्रादिशब्दा गोलकपराः । अतएव स्फुटं
दृश्यमानमपीति विशेषणम् ॥ ४ ॥
कथं मृतस्य वै जन्तोर्विषयं स्वं न पश्यति ।
जीवतश्च कथं सर्वं विषयं स्वं प्रपश्यति ॥ ५ ॥
कथं घटादिबाह्यत्वमिन्द्रियाणि जडान्यपि ।
शरीरेऽनुभवन्त्यन्तः पुनर्नानुभवन्त्यपि ॥ ६ ॥
यदि कश्चिद्ब्रूयाच्चक्षुरादीन्द्रियाणि स्वयं बहिर्निर्गत्य घटादीनां
बाह्यत्वमनुभूयान्तः प्रविश्य कथयन्तीति तत्राह-जडानीति । न तेषां
पृथक्चेतनत्वं कथनसामर्थय्ं वा अस्तीति भावः । यदि कश्चिद्ब्रूयादिन्द्रियाणि
बाह्यार्थं हृदि नीत्वा स्थापयन्तीति तत्राप्याह-पुनरिति । हृद्यर्थस्थापने
पुनःपुनर्हृदि तदनुभवः स्याद्घटादेर्हृदयाद्बहिर्निःसारणादर्शनादिति
भावः ॥ ६ ॥
अयःशलाकोपमयोर्घटादीन्द्रिययोः किल ।
अश्लिष्टयोरन्तरसौ कथं तन्नोदिता मिथः ॥ ७ ॥
ननु घटादिविषयजातं कर्तृ प्रथमं चक्षुरादीन्द्रियजातं स्वदेशमाकर्षति ।
तच्चाकृष्टमिन्द्रियं विषयं संवेष्ट्यान्तर्हृदिस्थाय भोक्त्रे
केनचिदंशेनान्तर्नयति घ्राणमिव गन्धमिति कल्पनामाशङ्क्याह-अय इति ।
विषयाः संश्लिष्येन्द्रियाण्याकर्षयेयुर्नासंश्लिष्य असंश्लिष्टरज्ज्वादीनां
घटाद्याकर्षकत्वादर्शनात् । नच गोलकप्रदेशानुपसर्पिणां घटादीनां
तत्संश्लेषः सम्भवति । नापीन्द्रियाणां रज्जुवद्घटसंश्लेषस्तदाकर्षकत्वं वा
प्रसिद्धम् । भिन्नप्रदेशनिखातायःशलाकाद्वयवद्भिन्नदेशत्वादित्याह##-
परस्पराकर्षणशीलता तत्रापि नेत्राद्यल्पविवरान्तर्घटादिस्थूलप्रवेशकता कथं
सर्वानुभवविरुद्धेत्यर्थः ॥ ७ ॥
जानन्नपि यदेतान्वै विशेषाञ्छतधा पुनः ।
पृच्छामि तदशेषेण कथयस्वानुकम्पया ॥ ८ ॥
ननु तत्त्वबोधेन च्छिन्नसर्वसंशयस्य तव कथं मायामये
सर्वानुपपत्तिभाजनेऽस्मिन्व्यवहारे ईदृशः संशयस्तत्राह-जानन्नपीति ।
शतधा बहुधा पुनः पृच्छामि । अज्ञानग्रहार्थमित्यर्थः ॥ ८ ॥
श्रीवसिष्ठ उवाच ।
इन्द्रियाद्यपि चित्तादि घटाद्यपि न किञ्चन ।
पृथक् सम्भवतीहाङ्ग निर्मलाच्चेतनादृते ॥ ९ ॥
अत्यल्पमिदमुच्यते यद्गोलकातिरिक्तानीन्द्रियाणि न सन्तीति । यतः सम्यग्विमर्शे
चिद्व्यतिरेकेण प्रमातृप्रमाणप्रमेयविभागाः केऽपि न निरूपयितुं केनापि वादिना
शक्यन्त इत्याशयेन वसिष्ठः प्रथमं समाधत्ते-इन्द्रियादीति ॥ ९ ॥
गगनादपि याऽच्छा चित्तया रूपं स्वमात्मना ।
चित्त्वात्पुर्यष्टकत्वेन भाववृत्त्यैव भावितम् ॥ १० ॥
यदि तु कल्पनया द्रष्ष्तुर्दृश्यस्य चोपपत्तिं मन्यसे तर्हि
इन्द्रियादिघटितपुर्यष्टकत्वेनापि पूर्वपूर्ववासनानुसारेण कल्पनोपपत्तेर्न
किञ्चिदनुपपन्नमित्याशयेनाह-गगनादपीति । तथा चिता आत्मना
मायाशबलस्वभावेन पुर्यष्टकत्वेन स्वं रूपं भाववृत्त्या
पूर्वपूर्ववासनानुसारेण भावितं कल्पितमित्यर्थः ॥ १० ॥
तदेव च प्रकृतितां गतं जगदवस्थितेः ।
तस्या अवयवाज्जातमिन्द्रियादि घटादि च ॥ ११ ॥
उक्तोऽर्थे मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतैस्तु
व्याप्तं सर्वमिदं जगत् इति श्रुतिं प्रमाणयति-तदेव चेति ॥ ११ ॥
पुर्यष्टकत्वमायातं यच्चित्तं स्वस्वभावतः ।
स्व एवावयवस्तस्मिन्घटादि प्रतिबिम्बति ॥ १२ ॥
एवं चेन्द्रियद्वारा बहिर्निर्गतेन पुर्यष्टकघटकेन चित्तेन घटादिव्याप्त्या
स्ववृत्तिप्रतिबिम्बितघटादेर्बाह्यत्वाकारेणैव हृदये नीत्वा प्रदर्शनं तथैव
कालान्तरे स्मृतिः स्वप्ने चान्तर्गतस्यैव बाह्यत्वेनानुभवश्चेति
सर्वमुपपन्नमित्याशयेनाह-पुर्यष्टकत्वमिति । एवंरीत्या
पुर्यष्टकत्वमायातं चिद्रूपं तत्त्वमेव पुर्यष्टकस्य चित्तादिघटितस्वभावतः
स्वयमेव स्वः चित्तवृत्त्याख्योऽवयवो भवति । तस्मिन्नवयवे घटादि बाह्यं
बाह्याकारेणैव प्रतिबिम्बति । मृतदेहे तु पुर्यष्टकघटितस्य लिङ्गात्मनो जीवस्य
स्वकल्पनयैव लीलोपाख्यानोपदर्शितरीत्या निर्गमनान्न दर्शनादिसामर्थ्यमिति
सर्वदोषपरिहार इति भावः ॥ १२ ॥
श्रीराम उवाच ।
जगत्सहस्रनिर्माणमहिम्नो दर्पणस्य च ।
पुर्यष्टकस्य भगवन्रूपं कथय कीदृशम् ॥ १३ ॥
यद्येवं तर्हि पञ्चीकृतभूतभागेन जगदाकारेण
परिणमतोऽपञ्चीकृतभूतकार्यलिङ्गभागेन तत्प्रतिबिम्बग्रहदर्पणभूतस्य च
पुर्यष्टकस्यैव किं रूपं तदेव कथयेति रामः पृच्छति-जगदिति ॥ १३ ॥
श्रीवसिष्ठ उवाच ।
अनाद्यन्तं जगद्बीजं यद्ब्रह्मास्ति निरामयम् ।
भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम् ॥ १४ ॥
तत्स्वरूपं वक्तुं वसिष्ठस्तन्मूलमज्ञातं ब्रह्मतत्त्वं निर्दिशति##-
कलनोन्मुखतां यातमन्तर्जीव इति स्मृतः ।
स जीवः खलु देहेऽस्मिंश्चिनोति स्पन्दते स्फुटम् ॥ १५ ॥
तद्ब्रह्म वियदादिभूतसूक्ष्मं सृष्ट्वा तेनापञ्चीकृतेन लिङ्गं पञ्चीकृतेन
ब्रह्माण्डं च सृष्ट्वा तदन्तःप्रतिबिम्बलक्षणकलनोन्मुखतां यातं सत्
सूत्रप्राणानामभिमानेन धारणाज्जीव इति स्मृतोऽभूदित्यर्थः । चिनोति
वासनोपचयनाङ्गोपचयेन चोपचितो भवति । उपचितश्च बाह्यान्तर्व्यापारात्मना
स्पन्दते चेत्यर्थः ॥ १५ ॥
अहम्भावादहङ्कारो मननान्मन उच्यते ।
बोधनिश्चयतो बुद्धिरिन्द्रदृष्टेस्तथेन्द्रियम् ॥ १६ ॥
तस्यैवाभिमानादिव्यापारभेदेन नामभेदानाह-अहम्भावादित्यादिना ॥ १६ ॥
देहभावनया देहो घटभावनया घटः ।
एष एव स्वभावात्मा जनैः पुर्यष्टकं स्मृतः ॥ १७ ॥
सर्वव्यापारसाधारणस्वभावात्मा पुर्यष्टकमिति नाम्ना स्मृतः ॥ १७ ॥
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिपातिनी ।
या संविज्जीव इत्युक्ता तद्धि पुर्यष्टकं विदुः ॥ १८ ॥
ज्ञानेन्द्रियव्यापारेण ज्ञत्वं कर्मेन्द्रियव्यापारेण कर्तृत्वं
तत्फलसुखदुःखाश्रयत्वेन भोक्तृत्वं सर्वस्यौदासीन्येन प्रकाशेन साक्षित्वम् ।
आदिपदाद्भोगकरणत्वायतनत्वादिपरिग्रहः । एतदभिपातिनी अध्यासेनैतद्धर्मिका या
संवित्सैव चित्प्राधान्येन जीव इत्युक्ता जडांशप्राधान्येन तदेव पुर्यष्टकं
विदुरित्यर्थः ॥ १८ ॥
काले काले ततो जीवस्त्वन्योन्यो भवति स्वतः ।
भाविताकारयानन्तवासनाकणिकोदयम् ॥ १९ ॥
अतएव स्वतादात्म्यभावितबुद्ध्याकाराणां कालभेदेन भेदाज्जीवोऽपि
कामक्रोधहर्षविषादाद्यनुरञ्जितो नानेव भवतीत्याह-काले काले इति ।
अनन्तवासनाकणिकोदयमाकारमृच्छतीति परेणान्वयः ॥ १९ ॥
पुर्यष्टकस्वभावेन कालेनाकारमृच्छति ।
यथावासनतः सेकाद्बीजं पल्लवतामिव ॥ २० ॥
तस्यैव समष्टिव्यष्टिजीवस्य बीजस्याङ्कुरकाण्डपल्लवादीव सर्वं जगदाकार
इत्याशयेनाह-यथेति ॥ २० ॥
आकारोऽहं शरीरादि स्थावरादि चरादि च ।
नाहमाद्यश्चिदात्मेति मिथ्या ज्ञानेन चेतति ॥ २१ ॥
अतएवाद्याश्चिदात्मा नाहं किन्तु शरीराद्याकार एवाहमिति मिथ्याज्ञानेन चेतति
पश्यति ॥ २१ ॥
भ्रमत्येव जगज्जीवो वासनावलितश्चिरम् ।
ऊर्ध्वाधोगमनैरब्धौ काष्ठं वीचिहतं यथा ॥ २२ ॥
कश्चिद्विशुद्धजातित्वाद्भवबन्धादनन्तरम् ।
बुद्ध्वात्मानं समभ्येति पदमाद्यन्तवर्जितम् ॥२३ ॥
कश्चित्सनकादितुल्यः कल्पादावेव प्राक्कल्पीयभवबन्धादनन्तरमाद्ये
जन्मन्येवेत्यर्थः । अयं च सर्वो विभागः सात्त्विकराजसादिजीवभेदवर्णने
उत्पत्तिप्रकरणे व्याख्यातः ॥ २३ ॥
कश्चित्कालेन बहुना भुक्तयोनिगणातुरः ।
आत्मज्ञानवशादेति परमं पदमात्मनः ॥ २४ ॥
एवंरूपश्च सुमते जीवो यातः शरीरताम् ।
नेत्रादिना घटाद्यन्तर्यथा वेत्ति तथा शृणु ॥ २५ ॥
कथं घटादिबाह्यत्वमिन्द्रियाणि जडान्यपीति यत्पृष्टं तत्सामान्यतः
समाहितमपि विशेषेण समाधत्ते-एवंरूप इत्यादिना ॥ २५ ॥
चित्त्वस्य कलनान्तस्य सम्प्रयातस्य जीवताम् ।
मनःषष्ठेन्द्रियग्रामो देहोऽयमवतिष्ठते ॥ २६ ॥
चित्त्वस्य चैतन्यस्य कलनान्तस्य पुर्यष्टके प्रतिबिम्बतया परिच्छेद्यस्यानखाग्रेभ्यो
व्याप्तौ परिमातृतयावतिष्ठते । तेन सदा जीवचैतन्यं देहपरिमितं
देहान्तर्गतमेव सुखदुःखादिसम्बन्धादनुभवति ना बाह्यम् ॥ २६ ॥
यदान्यः सर्वदेहेभ्यः खे पतत्यक्षरूपिणा ।
तदा तज्जीवसंस्पर्शाज्जीवात्मैकत्वमृच्छति ॥ २७ ॥
यदा तु अन्यो बाह्यघटादिर्द्रष्टव्यो भवति तदा तडागादुद्रिक्तं जलं
कुल्याद्वारेणेव सर्वदेहेभ्य उद्रिक्तं चक्षुराद्यक्षरूपिणा द्वारेण बाह्ये
घटादिपर्यन्ते खे बाह्याकाशे पतति निर्गच्छतीत्यर्थः । किं ततस्तत्राह-तदेति ।
तदा तद्घटादिनयनादिद्वारनिर्गतजीवेन स्वाकारवृत्तिव्याप्तिद्वारा
संस्पर्शाद्व्यापनाज्जीवचैतन्येन सहैकत्वमाध्यासिकचित्तादात्म्यलक्षणं
विषयत्वमृच्छति गच्छति ॥ २७ ॥
बाह्यार्थवेदने नित्यं सम्बन्धोऽक्षस्य कारकः ।
समन्वितस्य चित्तेन न मुक्तस्य कदाचन ॥ २८ ॥
स चाक्षस्य सम्बन्धश्चित्तेन समन्वितस्य जीवत एव बाह्यार्थवेदने कारको भवति न
मृतस्य मुक्तस्य वेत्यर्थः ॥ २८ ॥
यद्यदच्छतरं तस्मिन्नभःस्थं प्रतिबिम्बति ।
जीवेन भवति श्लिष्टो बहिर्जीवोऽप्यजीवति ॥ २९ ॥
अस्तु बहिरेवं तथापि कथमन्तस्तदनुभवस्तत्राह-यद्यदित्यादिना ।
यद्यदन्तःकरणवृत्तिरूपं नयनरश्मिरूपं वा स्वच्छतरं वस्तु
तस्मिन्बाह्यनभःस्थं घटादि प्रतिबिम्बति स च प्रतिबिम्बो वृत्त्यन्तर्गतेन जीवेन
श्लिष्टो भवति । तर्हि बहिष्ठ एवाहं घटमनुभवामीति कुतो नानुभूयते तत्राह##-
नलोपश्छान्दसः । अनुव्यचलदितिवत्तिङन्तोत्तरपदः समासो वा । यत्र
प्राणव्याप्तिस्तत्रैवाहन्तावमर्शो न बहिरित्यर्थः ॥ २९ ॥
निघृष्टनवरत्नाभे यदा नयनतारके ।
तदा तयोर्बाह्यगतः पदार्थः प्रतिबिम्बति ॥ ३० ॥
अस्त्वेवं तर्हि घटे प्रथाफलोपपत्तिस्तथापि कथमन्तर्हृदि
घटाकारानुप्रवेशस्तत्राह-निघृष्टेति । यदा नयनतारके
पटलादिदोषराहित्याच्छाणनिघृष्टनूतनेन्द्रनीलाभे भवतस्तदा
तयोस्तारकयोर्घटप्रतिबिम्बसहिता चित्तावृत्तिः प्रविशतीति बाह्यगतो
घटादिपदार्थः प्रतिबिम्बतीत्युच्यते ॥ ३० ॥
जीवेन भवति श्लिष्टः प्रतिबिम्बतया ततः ।
जीवज्ञेयत्वमायाति बाह्यं वस्त्विति राघव ॥ ३१ ॥
स चैवं नयनतारकानुप्रविष्टः पदार्थो हार्देनाहमभिमानवता जीवेन हृदि
प्रतिबिम्बतया श्लिष्टो भवतीत्यर्थः । इति अनया रीत्या घटादि बाह्यं वस्तु
बहिरवभासमानमेवान्तर्हृदि अहङ्कारसंवलितजीवज्ञेयत्वमायातीत्यर्थः ॥ ३१ ॥
यत्संश्लेषमुपायाति तद्बालोऽपि हि विन्दति ।
पशुर्वा स्थावरो वापि जीवः कस्मान्न वेत्स्यति ॥ ३२ ॥
चेतनस्यार्थसंस्पर्शे वेदननियमो बालपश्वादिष्वपि प्रसिद्ध इत्याह-यदिति ।
स्थावरेष्वपि गुल्मविशेषे स्पर्शमात्रेण पत्रसम्पुटीकरणदर्शनात्तद्वेदनं
सर्वत्रानुमीयत इति भावः ॥ ३२ ॥
अच्छस्य नयनस्याथो रश्मयो जीववेष्टिताः ।
क्रोडीकुर्वन्त्यलं दृश्यं जीवस्तत्त्वेन विन्दति ॥ ३३ ॥
दूरस्थविषयस्य कथं गोलकसंस्पर्श इति पामरशङ्कामपाकुर्वन्नाह##-
जीववेष्टिताः सन्तः पुरोवर्तिविषयं क्रोडीकुर्वन्त्यालिङ्गन्ति ॥ ३३ ॥
एष एव क्रमः स्पर्शे सम्बन्धः प्रत्ययोद्भवः ।
रसे गन्धे च कथितो जीवसंस्पर्शसम्भवः ॥ ३४ ॥
चक्षुष्युक्तं क्रमं स्पर्शादावप्यतिदिशति-एष एवेति ॥ ३४ ॥
शब्दस्त्वाकाशनिष्ठत्वात्कर्णाकाशगतः क्षणात् ।
जीवाकाशं विशत्यन्तरित्थमिन्द्रियसंविदः ॥ ३५ ॥
शब्दे विशेषमाह-शब्दस्त्विति । शब्दस्य वृत्तिप्रतिबिम्बनं विनापि
साक्षाच्छ्रोत्रद्वारान्तःप्रवेशोऽपि सम्भवतीति भावः । इत्थं गन्धस्यापि
पवनद्वारान्तःप्रवेशसम्भवोऽस्तु नामेत्याशयेन
यथासम्भवमुक्तन्यायमुपसंहरति-इत्थमिति ॥ ३५ ॥
श्रीराम उवाच ।
दृश्यते मानसादर्शे यन्त्रदार्वौदरेषु तत् ।
प्रतिबिम्बितमेतन्मे ब्रूहि ब्रह्मन्किमात्मकम् ॥ ३६ ॥
इदानीं रामः प्रसङ्गात्सर्वेषां प्रतिबिम्बानां स्वरूपं जिज्ञासुः पृच्छति##-
काचकांस्यमणिजलादियन्त्रदारूणामौदरेषु उदरान्निर्गतेषु नवपल्लवादिषु
यत्प्रतिबिम्बितघटमुखप्रभादि एतत् किमात्मकं तन्मे ब्रूहीत्यर्थः ॥ ३६ ॥
श्रीवसिष्ठ उवाच ।
अत्यन्तजडयोरेव जीवयोरिव तन्मिथः ।
प्रतिबिम्बं दृशो भ्रान्तिं विद्धि वेद्यविदां वर ॥ ३७ ॥
यत्र बिम्बस्य सत्यत्वेऽपि चित्प्रतिबिम्बभूतयोर्व्यष्टिसमष्टिजीवयोर्बिम्बातिरिक्तं रूपं
भ्रान्तिमात्रसिद्धं न निर्वक्तुं शक्यं
तत्रात्यन्तजडयोर्मुखदर्पणयोर्घटचित्तवृत्त्योर्वा परस्परसापेक्षं
प्रतिबिम्बस्वरूपं दुर्वचमिति किं वाच्यमित्याशयेनोत्तरमाह-अत्यन्तेति ।
दृशश्चैतन्यात्मनो भ्रान्तिं विद्धि ॥ ३७ ॥
तावन्मात्रं जगत्त्वेतद्विश्वासो मा तवास्त्विह ।
अहमित्यादिस्तरङ्गो वर्तमानं सदा जलम् ॥ ३८ ॥
न केवलं प्रतिबिम्बमात्रं भ्रान्तिरपि तु जगदपीत्याह-तावदिति । अप्यर्थे
तुशब्दः । तावन्मात्रं भ्रान्तिमात्रम् । अतएव तव इह जगति विश्वासो मास्तु ।
अहमित्यादिः प्रपञ्चस्तरङ्गस्थानीयश्चिज्जलात्पृथगसन्नित्यर्थः । वर्तमानं तु
सदा चिज्जलमेवेत्यर्थः ॥ ३८ ॥
पराम्भोधौ तु नास्त्येव देशकालक्रियादिकम् ।
तन्मयैकतया नित्यमात्मा सर्वत्र सर्वगः ॥ ३९ ॥
नित्यमसक्तमतिर्मुदितात्मा शान्तमृषासुखदुःखविदन्तः ।
तिष्ठ निविष्टमतिः समतायामस्तसमस्तभवामयमायः ॥ ४० ॥
हे राम त्वं नित्यमसक्तमतिः सन् शान्ता मृषाभूतसुखदुःखे वेत्तीति
मृषासुखदुःखविद्बुद्धिर्यस्य तथाविधश्च भूत्वा अस्ता समस्ता
भवलक्षणामयरुपा माया यस्य तथाविधः सन् समतायां ब्रह्मस्वभावे
निविष्टमतिस्तिष्ठेत्यर्थःइ ॥ ४० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पूर्वा०
अक्षसंवेदनविचारयोगोपदेशो नाम पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पू०
अक्षसंवेदनविचारयोगोपदेशो नाम पञ्चाशः सर्गः ॥ ५० ॥