एकोनपञ्चाशः सर्गः ४९
श्रीराम उवाच ।
यदि नास्ति विकारादि ब्रह्मन्ब्रह्मणि बृंहिते ।
तदिदं कथमाभाति भावाभावमयं जगत् ॥ १ ॥
विकारेभ्यो विवर्तस्य वैलक्षण्यमिहोच्यते ।
अप्रबोधादविद्यास्ति प्रबोधे नास्ति सेति च ॥
विकारारम्भाभ्यां विवर्तस्य लक्षणतो भेदं जिज्ञासमानो रामः पृच्छति##-
त्रिविधपरिच्छेदशून्ये इति यावत् ॥ १ ॥
श्रीवसिष्ठ उवाच ।
अपुनःप्रागवस्थानं यत्स्वरूपविपर्ययः ।
तद्विकारादिकं तात यत्क्षीरादिषु वर्तते ॥ २ ॥
तत्र कारणे कार्योद्भवः पञ्चधा अतिरोहितप्रागवस्थः १ प्रतिबद्धप्रागवस्थः २
प्रच्छन्नप्रागवस्थः ३ अप्रच्छन्नप्रागवस्थः ४ विनष्टप्रागवस्थ ५ श्चेति । आद्यो
मृदादेर्घटादिभावः । द्वितीयो जलस्य हिमकरकाभावः । तृतीयो रज्ज्वाः
सर्पभावः । चतुर्थो जलस्य तरङ्गभावः । पञ्चमो दुग्धस्य दधिभावः ।
तत्रान्त्य एव जन्मादिभावविकारः परिणामश्च इतरे तु विवर्तभेदा एवेत्याशयेन
प्रथमं वसिष्ठो विकारलक्षणमाह-अपुनरिति । यत्क्षीरव्रीह्यादिषु
दधिवैतुष्यादिलक्षणं कार्य पुनः प्राक्तनक्षीरादिभावावस्थानशून्यं
क्षीरादिस्वरूपविपर्ययरूपं विद्यते तदेव
विकारसंस्कारपरिणामादिशब्दवाच्यमित्यर्थः ॥ २ ॥
पयस्तां पुनरभ्येति दधित्वान्न पुनः पयः ।
बुद्धमाद्यन्तमध्येषु ब्रह्म ब्रह्मैव निर्मलम् ॥ ३ ॥
ब्रह्मणि जगल्लक्षणं कार्यं तु न तथा तद्वैधर्म्यादित्याह-अबुद्धमिति ॥ ३ ॥
क्षीरादेरिव तेनास्ति ब्रह्मणो न विकारिता ।
अनाद्यन्तविभागस्य न चैषोऽवयविक्रमः ॥ ४ ॥
अस्तु तर्हि परमाणुभिर्द्व्यणुकादीनामिवावयव्यारम्भक्रमस्तत्राह-अनाद्यन्तेति ।
आद्यन्तलक्षणदैशिकपरिच्छेदवत्सु क्रियासंयोगादिविभागवत्सु
चावयवेष्ववयव्यारम्भक्रमः स्यान्न तद्विलक्षणस्य ब्रह्मणः स इत्यर्थः । एतेन
बहूनां संयुक्तानां समवेतानां वा स्वेषु स्वाश्रयसमवेते वा समवाये
नैककार्यजनकत्वमारम्भकत्वम् । यथा तन्तूनां पटं प्रति । यथा वा
कारणगुणानां कार्यगुणं प्रतीति वैशेषिकाद्यमिमतलक्षणं सूचितम् । तथा च
कणादसूत्रम् द्वव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् इति ॥ ४ ॥
समस्याद्यन्तयोर्येयं दृश्यते विकृतिः क्षणात् ।
संविदः सम्भ्रमं विद्धि नाविकारेऽस्ति विक्रिया ॥ ५ ॥
ब्रह्मणि जगतस्तु परिशेषाद्विवर्तत्वमेव सिद्धमिति तल्लक्षणेन दर्शयति##-
तदसंस्पर्शिवैषम्यप्रतिभासो विवर्त इति तल्लक्षणमिति भावः ॥ ५ ॥
न संवेद्यं न संवित्तिस्तत्र ब्रह्मणि विद्यते ।
तद्ब्रह्मशब्दकथितं निःसम्बन्धचिदात्मवत् ॥ ६ ॥
तदसंस्पर्शं दर्शयति-न संवेद्यमिति ॥ ६ ॥
यादृगाद्यन्तयोर्वस्तु तादृगेव तदुच्यते ।
मध्ये यस्य यदन्यत्वं तदबोधाद्विजृम्भितम् ॥ ७ ॥
मध्ये विकारासंस्पर्शः कथं ज्ञायत इति
चेदाद्यन्तयोस्तदसंस्पर्शस्वभावावधारणादेव लिङ्गादित्याह-यादृगिति ॥ ७ ॥
आत्मा त्वाद्यन्तमध्येषु समः स्र्वत्र सर्वदा ।
स्वमप्यन्यत्वमायाति नात्मतत्त्वं कदाचन ॥ ८ ॥
आत्मवस्तु प्रकाशस्वाभाव्येन समता सर्वानुभवसिद्धा । अनात्मभावश्च
तस्यात्यन्तासम्भाव्य इत्याह-आत्मा त्विति ॥ ८ ॥
अरूपत्वात्तथैकत्वान्नित्यत्वादयमीश्वरः ।
वशं भावविकाराणां न कदाचन गच्छति ॥ ९ ॥
श्रीराम उवाच ।
विद्यमाने सदैकस्मिन्ब्रह्मण्येकान्तनिर्मले ।
संविद्भ्रमस्वरूपाया अविद्यायाः क आगमः ॥ १० ॥
चित्प्रकाशैकरसे ब्रह्मणि तद्विरुद्धस्वभावाया अविद्यायाः कथं प्रसक्तिर्येन तत्र
जगद्विवर्तः स्यादिति प्रबुद्धदृशा रामः शङ्कते-विद्यमाने इति ॥ १० ॥
श्रीवसिष्ठ उवाच ।
ब्रह्मतत्त्वमिदं सर्वमासीदस्ति भविष्यति ।
निर्विकारमनाद्यन्तं नाविद्यास्तीति निश्चयः ॥ ११ ॥
न प्रबुद्धदृशा अविद्यासद्भावं ब्रूमः किन्त्वबुद्धव्युत्पादनाय
कल्पनयेत्याशयेनोत्तरमाह-ब्रह्मतत्त्वमिति । सर्वं पूर्णम् ॥ ११ ॥
यस्तु ब्रह्मेति शब्देन वाच्यवाचकयोः क्रमः ।
तत्रापि नान्यताभावमुपदेष्टुं क्रमो ह्यसौ ॥ १२ ॥
न अन्यताया भावं सद्भावं वदामः किन्तूपदेष्टुमसौ क्रमः कल्पित इत्यर्थः ॥
१२ ॥
त्वमहं जगदाशाश्च द्यौर्भूश्चाप्यनलादि वा ।
ब्रह्ममात्रमनाद्यन्तं नाविद्यास्ति मनागपि ॥ १३ ॥
नामैवेदमविद्येति भ्रममात्रमसद्विदुः ।
न विद्यते या सा सत्या कीदृग्राम भवेत्किल ॥ १४ ॥
श्रीराम उवाच ।
उपशमप्रकरणे ह्यस्तने तु त्वयेरितम् ।
अविद्येयं तथेत्थं च विचार्यत इति प्रभो ॥ १५ ॥
यद्यविद्या नास्त्येव तर्ह्युपशमप्रकरणे यथा भ्रान्तिरविद्येयं तथेत्थं च
विचार्यते इति त्वयैवाविद्यासद्भावमङ्गीकृत्योक्तमिति रामः शङ्कते##-
श्रीवसिष्ठ उवाच ।
एतावन्तमबुद्धस्त्वमभूः कालं रघूद्वह ।
कल्पिताभिः किलैताभिर्बोधितोसि स्वयुक्तिभिः ॥ १६ ॥
तत्तु तवाबोधदशायां त्वद्बुद्ध्यनुसारिकल्पनयोक्तमिदानीं तु त्वं प्रबुद्ध इति न
तत्कल्पनावसर इत्यविरोध इत्याह-एतावन्तमिति ॥ १६ ॥
अविद्येयमयं जीव इत्यादिकलनाक्रमः ।
अप्रबुद्धप्रबोधाय कल्पितो वाग्विदां वरैः ॥ १७ ॥
अप्रबुद्धं मनो यावत्तावदेव भ्रमं विना ।
न प्रबोधमुपायाति तदाक्रोशशतैरपि ॥ १८ ॥
भ्रममविद्यादिशास्त्रीयव्यवहारकल्पनाम् । तत् मनः ॥ १८ ॥
युक्त्यैव बोधयित्वैष जीव आत्मनि योज्यते ।
यद्युक्त्यासाद्यते कार्यं न तद्यत्नशतैरपि ॥ १९ ॥
युक्तीनामसम्भावनादिपुरुषदोषनिरासकत्वादिति भावः ॥ १९ ॥
सर्वं ब्रह्मेति यो ब्रूयादप्रबुद्धस्य दुर्मतेः ।
स करोति सुहृद्वृत्त्या स्थाणोर्दुःखनिवेदनम् ॥ २० ॥
सत्सु तु दोषेषु तत्त्वोपदेशो व्यर्थ इत्याशयेनाह-सर्वमिति ॥ २० ॥
युक्त्या प्रबोध्यते मूढः प्राज्ञस्तत्त्वेन बोध्यते ।
मूढः प्राज्ञत्वमायाति न युक्त्या बोधनं विना ॥ २१ ॥
एतावन्तमबुद्धस्त्वं कालं युक्त्या प्रबोधितः ।
इदानीं सम्प्रबुद्धस्त्वं मया येनावबोध्यसे ॥ २२ ॥
येन यादृशोपदेशेनावबोध्यरो तं शृण्विति शेषः ॥ २२ ॥
ब्रह्माहं त्रिजगद्ब्रह्म त्वं [ब्रह्मत्वं ब्रह्मदृश्यभूरित्यपि
पाठः ।] ब्रह्म खलु दृश्यभूः ।
द्वितीया कलना नास्ति यथेच्छसि तथा कुरु ॥ २३ ॥
तमेवाह-ब्रह्मेति । यथेच्छसीति । ऐच्छिकेन व्यवहारेण न
वास्तवब्रह्मत्वहानिरिति भावः ॥ २३ ॥
असंवेद्यमहासंवित्कोटिमात्रं जगत्त्रयम् ।
एकप्रत्ययवानन्तः कुर्वन्नपि न लिप्यसे ॥ २४ ॥
कोटिः सर्वभ्रान्तिबाधावधिस्तन्मात्रम् । एकेति । तत्र को मोहः कः शोक
एकत्वमनुपश्यतः इत्यादिश्रुतेरिति भावः ॥ २४ ॥
भारूपश्चेतनो व्यापी परमात्माहमित्ययम् ।
राघवानुभवान्तस्त्वं तिष्ठन्गच्छञ्छ्वसन्स्वपन् ॥ २५ ॥
हे राघव त्वं तिष्ठन् गच्छन् श्वसन् स्वपंश्च अन्तः अहम्भावरूप
आत्मेत्यनुभव ॥ २५ ॥
निर्ममो निरहङ्कारो बुद्धिमानसि साधु चेत् ।
तद्ब्रह्म [तद्ब्रह्मावेदनं इति पाठः ।] वेदनं शान्तं
सर्वभूतस्थितं भव ॥ २६ ॥
वेदनं चिदेकरसं ब्रह्म भव ॥ २६ ॥
तदनाद्यन्तमाभासं सत्त्वमेव परं पदम् ।
स्थितोऽसि सर्वगैकात्मशुद्धसंविन्मयात्मकः ॥ २७ ॥
सर्वगैकात्मशुद्धसंविन्मयात्मकः स त्वमेव । तच्छ्रुतिप्रसिद्धमनाद्यन्तं
परं पदं सन् स्थितोऽसि ॥ २७ ॥
यद्ब्रह्मात्मापि तुर्यश्च याऽविद्या प्रकृतिश्च या ।
तदभिन्नसदैकात्म यथा कुम्भशतेषु मृत् ॥ २८ ॥
यद्ब्रह्मेति । आत्मेति तुर्य इत्यपि च प्रसिद्धम् । या च अविद्या प्रकृतिश्चकाराज्जगदिति च
प्रसिद्धा तत्सर्वमभिन्नसन्मात्रैकात्मकमित्यर्थः ॥ २८ ॥
नात्मनः प्रकृतिर्भिन्ना घटान्मृन्मयता यथा ।
सन्मृन्मात्रं यथा चान्तरात्मैवं प्रकृतिः स्थिता ॥ २९ ॥
यथा घटस्य मृन्मयता सद्वास्तवं मृन्मात्रं तथा प्रकृतिरित्यर्थः ॥ २९ ॥
आवर्तः सलिलस्येव यः स्पन्दस्त्वयमात्मनः ।
प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि ॥ ३० ॥
स्पन्दो विवर्तनम् । तेन सन्मात्रस्वभावेनेह स्वविवर्ते स आत्मैवास्ति
नाणुमात्रमप्यन्यदित्यर्थः ॥ ३० ॥
यथैकः स्पन्दपवनौ नाम्ना भिन्नौ न सत्तया ।
तथैकमात्मप्रकृती नाम्ना भिन्ने न सत्तया ॥ ३१ ॥
सत्तया वस्तुवृत्तेन ॥ ३१ ॥
अबोधादेतयोर्भेदो बोधेनैव विलीयते ।
अबोधात्सन्मयो याति रज्वां सर्पभ्रमो यथा ॥ ३२ ॥
सन्मयः सन्मात्रः । याति । रूपान्तरमिति शेषः ॥ ३२ ॥
चित्क्षेत्रे कलनाबीजं यदेतत्पतति स्फुरन् ।
चित्ताङ्कुरं तदेतस्माद्भाविसंसारखण्डकः ॥ ३३ ॥
तदेव चित्ताङ्कुरं तस्मात्स्फुरन् भाविसंसारवनखण्डकः सम्पद्यत इत्यर्थः ॥
३३ ॥
एतदेवात्मविज्ञानाद्दग्धं सद्वासनाजलैः ।
संसिक्तमपि यत्नेन न भवत्यङ्कुरक्षमम् ॥ ३४ ॥
एतत्कलनाबीजमेव ॥ ३४ ॥
नो चेत्पतति चित्क्षेत्रे कलनाबीजकं ततः ।
चित्ताङ्कुरा न जायन्ते सुखदुःखलवद्रुमाः ॥ ३५ ॥
नो पतति चेत् सुखदुःखफलाः शरीरद्रुमा येभ्यस्तथाविधाश्चित्ताङ्कुरा न जायन्ते
॥ ३५ ॥
द्वित्वं जगत्यसदुपात्तमबोधजातं बोधक्षयं जहिहि बोधमुपागतोऽसि ।
आत्मैकभावविभवेन भवाभयात्मा नास्त्येव दुःखमिति नः परमार्थसारः
॥ ३६ ॥
उपक्रान्तमुपदेशरहस्यमुपसंहरति-द्वित्वमिति । हे राम जगति असत्
भ्रान्त्युपात्तं द्वित्वं जहिहि त्यज । आ च हौ इति चकाराज्जहातेरिः । यतस्त्वं
बोधमुपागतोऽसि आत्मैकभावलक्षणेन निरतिशयानन्दविभवेन अभ्यात्मा भव ।
दुःखं तु कालत्रयेऽपि नास्त्येवेति नः परमार्थसार उपदेश इत्यर्थः ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पूर्वा० संसृतिविचारयोगो नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
संसृतिविचारयोगो नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥