०४८

अष्टचत्वारिंशः सर्गः ४८

श्रीवसिष्ठ उवाच ।

यत्रानुदितरूपात्म सर्वमस्तीदमाततम् ।
मयूर इव बीजेऽन्तस्तदहन्तादिगादि च ॥ १ ॥

यत्सत्तास्फूर्तिसौख्यानि प्रतिबिम्बन्ति कल्पिते ।
तत्सच्चिदानन्दवनं ब्रह्म निष्कृष्य वर्ण्यते ॥

मयूररसदृष्टान्तात्तिरोभूतजगद्वैचित्र्यगर्भ चिदचित्संवलितं
बीजशक्तिमदव्याकृतमेव तत्त्वं न ततः परं शुद्धमस्तीति व्यामोहो मा भूदिति
तदधिष्ठानं निर्विशेषभूमानन्दरूपं निष्कृष्य परिचाययितुं श्रीवसिष्ठ
उवाच-यत्रेति । बीजे अण्डे अन्तर्मयूर इव वर्णितमन्तरहन्तादि बहिर्दिगादि वियदादि
च सर्वं जगद्यत्र शुद्धे कालत्रयेऽप्यनुदितरूपात्म अनुत्पन्नस्वरूपमेवास्ति
तदेवोक्तदृष्टान्ततात्पर्यविषयो न शबलमित्यर्थः ॥ १ ॥

यत्र नाभ्युदितं किञ्चित्तत्र सर्वं च विद्यते ।
तदत्राप्यङ्गिराः स्वर्गसुखसारेण बिम्बति ॥ २ ॥

यत्र परमार्थतः किञ्चिन्नाभ्युदितं तत्रैव सर्व जगदविद्यया विद्यते
तदेवात्रास्मिन्देहेऽपि अङ्गिराः अङ्गानां रसभूतः प्राणः सन्
स्वर्गादिवैषयिकसुखसारेण चित्तवृत्तिभेदेन विचित्रभोगाकारतया
स्फटिकमुकुरादौ चन्द्र इव् बिम्बति । तथा च
विषयसुखानुभवबलात्तद्बिम्बभूतनिरतिशयानन्दसद्भावोऽनुमेय इत्यर्थः ॥ २ ॥

तथा च मुनयो देवा गणाः सिद्धा महर्षयः ।
आस्वादयन्तः स्वं रूपं सदा तुर्यपदे स्थिताः ॥ ३ ॥

सर्वसाधारण्येन तत्सद्भावे अनुमानप्रमाणमुक्त्वा
विदुषामनुभवप्रमाणमप्याह-तथा चेति । स्वं रूपं
स्वात्मभूतभूमानन्दम् ॥ ३ ॥

एते ये स्तब्धनयनदृष्टयो निर्निमेषिणः ।
ते दृश्यदर्शनासङ्गस्पन्दत्यागे व्यवस्थिताः ॥ ४ ॥

सर्वैरपि कुतो नानुभूयत इति
चेद्दृश्यदर्शनासङ्गात्प्राणस्पन्दकृतविक्षेपाच्चेति गृहाण । अतएव
तदुभयपरिहाराय नासाग्रनिरुद्धदृष्टयः प्राणनिरोधपराश्च योगिनो
दृश्यन्त इत्याह-एते इति । स्तब्धे नयने गोलके दृष्टी तद्गतेन्द्रियं च येषाम् ॥ ४ ॥

नास्थिता भावना येषां स्थितानामपि कर्मसु ।
संवित्संवेद्यसम्बन्धस्पन्दत्यागे च ये स्थिताः ॥ ५ ॥

इदं त्वनारूढषष्ठादिभूमिकानाम् । आरूढषष्ठसप्तमभूमिकास्तु
व्यवहरन्तोऽपि समाहितैः पूर्वभूमिकागतैस्तुल्यमात्मसुखं
सदैवास्वादयन्तीत्याह-नास्थिता इति । कर्मसु व्यवहारेषु स्थितानामपि येषां
षष्ठादिभूमिकागतानां बाह्यार्थसत्यताभावना न आस्थिता ईषदपि स्थिता । ये च
पूर्वभूमिकागताः संवित्संवेद्यसम्बन्धत्यागलक्षणसमाधौ स्थिताः येषां
प्राणो मनश्च न स्पन्दते ते च चित्तचेत्यसमासङ्गयोस्त्यागो यस्मिंस्तथाविधे
भूमानन्दपदे तुल्यतया स्थिता इति सार्धद्वयस्यार्थः ॥ ५

प्राणो न स्पन्दते येषां चित्रस्थवपुषामिव ।
मनो न स्पन्दते येषां चित्रस्थवपुषामिव ॥ ६ ॥

चित्तचेत्यसमासङ्गत्यागे ते स्वपदे स्थिताः ।
स्पन्दात्संसाधयन्त्यर्थं तेनांशेनेश्वरो यथा ॥ ७ ॥

षष्ठादिभूमिकागता अन्तर्ब्रह्माकाराखण्न्डवृत्तिधारास्पन्दात्तेनांशेन
निरतिशयानन्दास्वादनलक्षणं परमपुरुषार्थं यथा संसाधयन्ति तथैव
बहिश्चित्तचेत्यादिस्पन्दाद्व्यवहारसंस्थितिमपि कुर्वन्ति । यथा जगदीश्वरोऽन्तः सदैव
स्वरूपानन्दप्रतिष्ठोऽपि बहिर्मायया जगद्व्यवस्थां पालयति तद्वदित्यर्थः ॥ ७ ॥

तथैव चित्तचेत्यादिस्पन्दात्कुर्वन्ति संस्थितिम् ।
यथा ह्लादयति स्वच्छः [स्वस्थ इति पाठः ।] पल्लवं रश्मिरैन्दवः ॥
८ ॥

तेषां व्यवहारे दृश्येषु बाह्यविषयेषु दर्शनानां बुद्धिवृत्तीनां सङ्गमे
त्रिपुट्यामप्यभिव्यक्तो निरतिशयानन्दात्मान्तर्ह्लादयत्येवेति सर्वोऽपि व्यवहारः
सुखरूप एव । यथा ऐन्दवो रश्मिस्तरुपल्लवमन्तः प्रविश्य ह्लादयति तद्वदित्यर्थः
॥ ८ ॥

तथात्मा ह्लादयत्यन्तर्दृश्यदर्शनसङ्गमे ।
बिम्बाद्दूरं प्रयातस्य भित्तावपतितस्य च ॥ ९ ॥

अन्तःस्वरूपसुखं तु तेषां सुतरां निर्विक्षेपमित्यत्रापि दृष्टान्तमाह##-
यद्रूपं तदेव परमात्मनो निर्विक्षेपाह्लादरूपं तैरनुभूयत इत्यर्थः ॥ ९ ॥

यदिन्दोस्तेजसो रूपं तद्रूपं शुद्धसंविदः ।
न दृश्यं नोपदेशार्हं नात्यासन्नं न दूरगम् ॥ १० ॥

केवलानुभवप्राप्यं चिद्रूपं शुद्धमात्मनः ।
न देहो नेन्द्रियप्राणौ न चित्तं न च वासना ॥ ११ ॥

तदेव देहादिसर्वोपाधिनिर्मुक्तमात्मनस्तत्त्वमित्याह-न देह इत्यादिना ॥ ११ ॥

न जीवो नापि च स्पन्दो न संवित्तिर्न वै जगत् ।
न सन्नासन्न मध्यं च शून्याशून्यं न चैव हि ॥ १२ ॥

न देशकालवस्त्वादि तदेवास्ति न चेतरत् ।
एतैः सर्वैर्विनिर्मुक्तं हृदि कोशशतेन च ॥ १३ ॥

देशकालवस्तु निरूप्य त्रिविधपरिच्छेदादिना ब्रह्मैवास्ति । एतैर्देहादिभिः । शतशब्द
आनन्त्यपरः । भूतभाविदेहकोशानां हृदि वासनात्मना स्थितनामानन्त्यात् ॥ १३ ॥

यत्रैतत्स्पन्दते दृश्यं तत्तदात्मपदं भवेत् ।
यच्च नाद्यं न कल्पान्तं न वस्त्वाद्यनिलादिभिः ॥ १४ ॥

एवं कोशशतेन हृदि चित्ते यत्र यस्मिन्सति एतद्दृश्यमाविर्भावतिरोभावादिना
स्पन्दते तत्सन्मात्रमेवात्मपदं भवेत् सम्भावितमित्यर्थः । एवं
कार्यकारणविलक्षणं तत्सम्भावनीयमित्याह-यच्चेति । यद्ब्रह्म आद्यं
महाकल्पादिकाले भवमव्याकृताख्यं कारणम् । तथ कल्पान्तं
प्राकृतादिप्रलयरूपं च न । सर्गकालेऽपि इह एतस्मिन् लोके अमुत्र परलोके वा
अनिलादिभिः शोषणदहनक्लेदनभेदनादिविकारैः क्वचित्सद्रूपादन्यच्चा न भवतीति
सविकारवस्तु आदिपदात्तद्विकाराश्च यन्न भवतीत्यर्थः ॥ १४ ॥

इह चामुत्र सद्रूपादन्यथा भवति क्वचित् ।
जायन्ते च म्रियन्ते च देहकुम्भाः सहस्रशः ॥ १५ ॥

ननु देहादिविकारैस्तदनुगतसद्रूपस्यापि विकारः किं न स्यात्तत्राह-जायन्ते चेति ॥
१५ ॥

सबाह्याभ्यन्तरस्यास्य नात्माकाशस्य खण्डना ।
तच्च देहादि सकलमात्मैवात्मविदां वर ॥ १६ ॥

तर्हि किं देहादि पृथगस्ति नेत्याह-तच्चेति ॥ १६ ॥

केवलं बोधवैरूप्यादीषत्पृथगिव स्थितम् ।
विष्वगात्ममयं विश्वं ज्ञातं बुद्ध्या सुसिद्धया ॥ १७ ॥

विष्वक् सर्वतः सुसिद्धया श्रवणाद्युपायपरिष्कृतया ॥ १७ ॥

प्रज्वलन्नपि कार्येषु निर्वाणो निर्ममो भव ।
यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ॥ १८ ॥

अतएव व्यवहरन्नपि निर्विकारात्मदर्शनान्नित्यमुक्तात्मस्वरूपस्तिष्ठेत्याह##-

तत्सर्वं ब्रह्म निर्धर्म निर्गुणं निर्मलात्मकम् ।
निर्विकारमनाद्यन्तं नित्यं शान्तं समात्मकम् ॥ १९ ॥

कालक्रियाकरणकर्तृनिदानकार्यजन्मस्थितिप्रलयसंस्मरणादि सर्वम् ।
ब्रह्मेति दृष्टवत एव तवात्मदृष्ट्या भूयोऽपि किं भ्रमणमङ्ग
समङ्ग एव ॥ २० ॥

हे अङ्ग कालादि सर्व जगद्ब्रह्मेत्यात्मदृष्ट्या दृष्टवतस्तव किं भूयोपि
ब्रमणं सम्भवति नैवं सम्भवतीत्यर्थः । यतस्त्वं वस्तुतः सममविषमं
स्वरूपं गच्छति [गच्छसीति पाठः ।] सदैव प्राप्तवानसीति समङ्ग एव ।
ब्रह्मैव सन् ब्रह्माप्येति इति श्रुतेरिति भावः ॥ २० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे पूर्वा०
ब्रह्मैकात्मप्रतिपादनं नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
ब्रह्मैकात्मप्रतिपादनं नामाष्टाचत्वारिंशः सर्गः ॥ ४८ ॥