०४७

सप्तचत्वारिंशः सर्गः ४७

श्रीवसिष्ठ उवाच ।

चित्तत्त्वस्य फलस्येव चितः स्वापापरक्रमात् ।
स्वसत्तासन्निवेशेन यः स सर्ग इति स्थितः ॥ १ ॥

इह बिल्वशिलाख्यानतात्पर्यमुपवर्ण्यते ।
मयूराण्डरसे बर्हवर्णसंस्थानभेदवत् ॥

बिल्वदृष्टान्तवशादचिद्रूपमेव तदन्तर्बीजमज्जादीनामिव स्वगतभेदेन तत्र
तत्समसत्ताकसर्गोद्भवश्चात्रोक्त इति तात्पर्यभ्रमो मा भूदिति तत्तात्पर्यं
वर्णयति-चित्तत्त्वस्येति । चिद्रूपं तत्त्वं यावत्स्वस्वरूपप्रतिसन्धानशून्यं
तावदेव सर्गगर्भमिति द्योतनायाचेतनफलदृष्टान्तः । सर्गश्च चितः
प्रसिद्धस्वापादपरः स्वापः स्वप्न एव
युगवत्सरादिक्रमात्स्वसत्ताकल्पितसन्निवेशेन प्रवृत्तो न चित्समसत्ताकः
स्वगतभेद इत्यर्थः ॥ १ ॥

देशकालक्रियादीनामपि तन्मयरूपतः ।
इदमन्यदिदं चान्यदिति नात्रोपपद्यते ॥ २ ॥

तर्हि किं चित्तत्त्वादन्य एव सर्गः एतदपि दुर्वचमित्याह-देशेति ॥ २ ॥

समस्तशब्दशब्दार्थवासनाकलनाविदः ।
एकात्मत्वादसच्चेदमिति सङ्कथ्यते कथम् ॥ ३ ॥

तर्हि किमसदेवेदं सर्गादि तदपि दुर्वचमित्याह-समस्तेति । समस्तानां
शब्दानां तदर्थानां तद्वासनानां तत्प्रयुक्तसङ्कल्पविकल्पादिकलनानां च
वेदितुरवस्थात्रयेऽप्येकात्मत्वात्सत्यत्वे अत्यन्तासतस्तेन वेदनादर्शनादित्यर्थः ॥ ३ ॥

फलस्यान्तःसन्निवेशो नामानुक्रमतो यथा ।
चितः स्वसत्ताघनताऽनाना नाना स्थिता तथा ॥ ४ ॥

तस्माच्चिदधीनप्रातिभासिकानुक्रमवैचित्र्याशयेनैव फलत्वेनोत्प्रेक्षणमित्याह##-

अनानैवापि नानैव क्षुब्धेवाक्षुभितैव च ।
यथा फलान्तः स्वासत्ता चिदन्तः सिद्धयस्तथा ॥ ५ ॥

तत्राऽनानात्वाद्यम्श एव प्राथम्याद्वास्तव इत्याह-अनानैवेति । क्षुब्धा
विकृतेव । सिद्धयः सन्निवेशनिष्पत्तयः ॥ ५ ॥

जगन्नगरमादर्शे चितः स्वं प्रतिबिम्बितम् ।
कचतीवाऽकचदपि शिलान्तःसन्निवेशवत् ॥ ६ ॥

शिलाख्यानस्य तात्पर्यं दर्शयति-जगदिति । शिलान्तःसन्निवेशवज्जगदिति
यदुक्तं तस्याप्यादर्शे प्रतिबिम्बितं नगरमिव चितः स्व स्वं रूपमेव अकचदपि
कचतीत्यर्थे तात्पर्यमित्यर्थः ॥ ६ ॥

परमे चिन्मणौ सन्ति जगत्कोटिशतान्यपि ।
चिन्तामणावनन्तानि फलानीवार्पितान्यलम् ॥ ७ ॥

मायिकानन्तशक्तिमत्त्वाद्वा चिन्तामणौ चिन्तकमनोरथफलानीव चिति सर्वं जगदस्तीति
तत्तात्पर्यं वर्णनीयमित्याह-परमे इति । अर्पितानीति श्रुतिषु
अरनाभिनिदर्शनोपन्यासादिति भावः ॥ ७ ॥

चित्समुद्गक एवेदं तदङ्गोत्कीर्णमाततम् ।
जगन्मौक्तिकमाभाति तदंशमयमन्यवत् ॥ ८ ॥

कल्पितविकारांशांशिभावेन मुक्ताशुक्तिसम्पुटके मुक्तानामिव वा चिति जगत्स्थितौ
तात्पर्यमित्याह-चित्समुद्गक इति । तदङ्गे तद्गर्भे उत्कीर्णमिव तदङ्गोत्कीर्णम् ।
तदेवाह-तदंशमयमिति ॥ ८ ॥

अहोरात्रं विकरयन्वेदनावेदनान्यलम् ।
चिदादित्यः स्थितो भास्वाञ्जगद्द्रव्याणि दर्शयन् ॥ ९ ॥

आदित्यः स्वस्वरूपाविर्भावतिरोभावात्मकमहोरात्रविभागमिव चिन्मणिशिलापि
स्ववेदनावेदनात्मकजगद्द्रव्यप्रकाशनाप्रकाशने स्वात्मनि करोतीत्यर्थे वा
तत्तात्पर्यमित्याह-अहोरात्रमिति । विकरयन्विकलयन् । विकुर्वन्निति यावत् ॥ ९ ॥

समुद्रकोटरावर्तपयःस्पन्दविलासवत् ।
अनानैव च नाना चिच्छिलान्तःसन्निवेशवत् ॥ १० ॥

समुद्रस्य कोटरे गर्भे आवर्ततरङ्गादिस्पन्दभेदानां
समुद्रमात्रत्ववज्जगद्भेदानां चिन्मात्ररूपत्वे वा तत्तात्पर्यमित्याह-समुद्रेति
॥ १० ॥

यदस्ति तच्चिति शिलाशरीरे शालभञ्जिका ।
यन्नास्ति तच्चिति शिलाशरीरे शालभञ्जिका ॥ ११ ॥

वर्तमानसर्गस्यातीतानागतसर्गस्य च तुल्यतया चिन्मात्रस्वरूपताप्रदर्शन वा
तत्तात्पर्यमित्याह-यदस्तीति । शालभञ्जिका उत्कीर्णा नुत्कीर्णा वा प्रतिमा ॥ ११ ॥

भावाभावेषु यत्सत्यं चिन्मज्जाकल्पमेव तत् ।
मज्जसारा पदार्थश्रीस्तन्मयं स्यात्तदेव हि ॥ १२ ॥

बिल्वाख्यानस्यापि जगतश्चित्सारत्वे तात्पर्यमित्याशयेनाह-भावेति । यत्सत्यं
तत्त्र्वं तत् चिद्रूपमज्जाकल्पमेव । पदार्थश्रीर्बिल्वादिफलपदार्थश्रीर्मज्जैव सारो
यस्यास्तथाविधा प्रसिद्धेत्यर्थः ॥ १२ ॥

पद्मनानादिशब्दार्थस्त्यक्त्वा यद्वच्छिलोदरम् ।
नाना तद्वदिदं नाना तदेतन्मयमद्वयम् ॥ १३ ॥

शिलोदरात्पृथक्करणे पद्मनानादिशब्दार्थासत्त्ववच्चितः पृथक्करणे
जगदसत्त्वे वा तत्तात्पर्यमित्याह-पद्मेति ॥ १३ ॥

नानाप्येकतयाऽनाना पद्मबिम्बं शिलोदरम् ।
यथा तदविभागात्म तथेदं चिद्घनान्तरम् ॥ १४ ॥

तदेतन्मयमद्वयमित्यंशं स्फुटयति-नानेति । यदि चितो न पृथक् क्रियते तर्हि
नानापि जगच्चिदात्मैकतया अनानैव भवति यथा तादृशं शिलोदरमित्यर्थः ॥ १४ ॥

यथाऽमलपयःकोशः स्थलधियां तु भानुभाः ।
सन्नेवासन्निवैवं चिन्नैव त्वं सदसद्वपुः ॥ १५ ॥

यथा मरुमरीच्यादिर्मृगदृशा अमलः पयःकोशो जलराशिः । स्थलधियां
स्थलमेवेदमिति बुद्धिमताम् । विदुषां दृष्ट्या तु भानुभाः सूर्यातप एव । तत्र
सन्नेव आतपादिरसञ्जलदिरिवेति सदसद्वपुर्यथा भाति एवं चित्स्वभावस्त्वमपि भासि ।
वस्तुतस्तु त्वं नैव सदसद्वपुरित्यर्थः ॥ १५ ॥

यथा सम्यक् पयोराशिः कोटरे कलनोन्मुखम् ।
द्रवत्वात्स्पन्दतेऽस्पन्दं तथेदं चिद्घनान्तरम् ॥ १६ ॥

यथा पयोराशिः कोटरमध्ये द्रवत्वात्स्पन्दते तथा अस्पन्दमपि चिद्घनस्य आन्तरं
स्पन्दत इवेत्यर्थः ॥ १६ ॥

चिच्छिलाशङ्खपद्मौघस्तन्मयत्वेऽप्यतन्मयः ।
जगद्विद्धि सपद्मादिपदार्थं चिच्छिलान्तरम् ॥ १७ ॥

तर्हि तत्र पद्मादेः शिलामयत्वमिव जागतशङ्खपद्मादेश्चिन्मयता कुतो न
विभाव्यते तत्राह-चिच्छिलेति । अतन्मयस्तदबोधादिति शेषः । अतएव त्वं तथा
बुद्ध्यस्वेत्याह-जगदिति ॥ १७ ॥

महाशिलाघनोऽप्येष चिद्घनस्थं शिलोदरम् ।
अरन्ध्रो निर्द्वयोऽच्छोऽजः संशान्तः सन्निवेशवत् ॥ १८ ॥

दृष्टान्तीकृतशिलाघनोऽपि परमार्थदृष्ट्या चिच्छिलोदरमेव
सम्पन्नमित्याह-महाशिलेति । अतएव तत्र शिल्पियत्नसहस्रेणापि
रन्ध्रादिसम्भावनापि नास्तीत्याशयेन विशिनष्टि-अरन्ध्र इति ।
सन्निवेशवन्मिथ्यासनिवेशेन भासत इत्यर्थः ॥ १८ ॥

तपतीदं जगद्ब्रह्म शरत्काल इवामलम् ।
स्फुरतीदं जगद्ब्रह्म सौम्यः सोम इव द्रुतः ॥ १९ ॥

यथा शरत्कालस्तपति अमृतद्रुतः सोमः स्फुरतीति कालात्मकयोरेव
सूर्यसोमयोरवान्तरभेदकल्पनया क्रियाकारकभावेन व्यपदेशस्तथा ब्रह्म
जगत्प्रकाशयति जगदात्मना स्फुरतीति च व्यपदेश इत्याह-तपतीति । सौम्यो
नयनानन्दः ॥ १९ ॥

ब्रह्मणीदं सुषुप्ताभं नास्त्यनाशं शिलाब्जवत् ।
ब्रह्मत्वं ब्रह्मणि यथा तथैवेदं जगत्स्थितम् ॥ २० ॥

एवं च ब्रह्मात्मना जगन्नित्यनष्टं स्थितमिति वा उत्प्रेक्षितुं
शक्यमित्याशयेनाह-ब्रह्मणीति । वासनामात्ररूपत्वात्सुषुप्ताभम् । यथा
शिलाब्जमब्जात्मना नित्यमसच्छिलात्मना नित्यं सत्तद्वदित्यर्थः ॥ २० ॥

नानयोर्विद्यते भेदस्तरुपादपयोरिव ।
यानीमानि जगन्तीह नान्यत्तानि चिदाकृतेः ॥ २१ ॥

चिदात्मना सत्त्वे जगद्ब्रह्मशब्दार्थयोर्भेदो नास्तीत्याह-नानयोरिति ॥ २१ ॥

भावाभावादि नास्त्येषां तस्या इव कदाचन ।
ब्रह्मैव जगदाभासं मरुतापो यथा जलम् ॥ २२ ॥

एषां जगताम् । तस्याश्चिदाकृतेरिव ॥ २२ ॥

ब्रह्मैवालोकनाच्छुद्धं भवत्यम्बु यथातपः ।
मेर्वादेस्तृणगुल्मादेश्चित्तादेर्जगतोऽपि च ॥ २३ ॥

मेर्वादिस्थूलतमोपि पदार्थस्तत्त्वदृशा आलोकनाच्छुद्धमस्थौल्यादिधर्मकं
ब्रह्मैव भवति । यथा करकाद्यम्बु केवलं पयो भवति तद्वत् । अतो
बहिस्तृणगुल्मादेर्ब्रह्माण्डान्तस्य अन्तश्चित्तादेर्हिरण्यगर्भान्तस्यापि च जगतः
परमं यदम्ब्विवोत्तरोत्तरं सूक्ष्मतमं भूतसूक्ष्माव्याकृताक्षरान्तं
तद्विभागेनान्ते यद्रूपं परिशिष्यते तदेव परं विदुर्ब्रह्मविद इति परेणान्वयः ॥
२३ ॥

परमाम्बुविभागेन यद्रूपं तत्परं विदुः ।
तत्समूहस्तदेवोच्चैश्चित्तं मेरुतृणादिकम् ॥ २४ ॥

स्थूलस्य विमर्शे सूक्ष्ममात्रत्वे युक्तिमाह-तत्समूह इति । पञ्चीकृतं
ह्यपञ्चीकृतसमूहः । अपञ्चीकृतभूतानि तु चित्तमेवेत्येवं क्रमेण
बोध्यमित्यर्थः ॥ २४ ॥

यत्सौक्ष्म्येऽपि हि सारात्म स्थौल्ये सारतरं हि तत् ।
यथा रसात्मिका शक्तिः परमाणुतयाऽनघ ॥ २५ ॥

सौक्ष्म्ये सत्सारत्वादेव तत्ल्स्थौयेऽपि सत्यतरत्वलक्षणसारतरताप्रपञ्चे
पामरैरनुभूयत इत्याह-यत्सौक्ष्म्येऽपीति । अतएवाप्परमाणुगतरसशक्तेः
स्थूलजले इन्द्रियगोचरतेव घटादौ ब्रह्मसत्तायास्तद्गोचरतेत्याह-यथेति । पायसी
स्थूलजलनिष्ठा सती योग्येति शेषः ॥ २५ ॥

स्थिता जगत्पदार्थेषु पायसी ब्रह्मता तथा ।
रसशक्तिर्यथा नानातृणगुल्मलताम्भसाम् ॥ २६ ॥

स्थूलवैचित्र्येण सत्तावान्तरसामान्यात्मना सत्तावैचित्र्येत्येतादृशा दृष्टान्ताः
कल्प्या इत्याशयेनाह-रसशक्तिरित्यादिना ॥ २६ ॥

तथा नानातयोदेति सैवासैवेव ब्रह्मता ।
यैषा रूपविलासानामालोकपरमाणुता ॥ २७ ॥

रूपविलासानां नीलपीतादिरूपवैचित्र्याणामालोकपरमाणुता सूक्ष्मतमरूपं
सामान्यं यथा तथेत्यनुषज्यते ॥ २७ ॥

गुणगुण्यर्थसत्तात्मरूपिण्यासां परात्मता ।
चिति चित्तेऽस्ति मेर्वादि तदभिव्यञ्जनात्मनि ॥ २८ ॥

पिच्छपक्षौघकाठिन्यं मयूराण्डरसे यथा।
चिति तत्त्वेऽस्ति नानाता तदभिव्यञ्जनात्मनि ॥ २९ ॥

परात्मता ब्रह्मसत्तापि आसां घटादिव्यक्तीनां गुणिगुणरूपावान्तरवैजात्यार्थं
सत्तात्मरूपिणी भवतीति शेषः । आविर्भावदशायां कार्यात्मना
कारणमेवास्तीतिवत्तिरोभावदशायामपि कारणात्मना कार्यमप्यस्त्येवेत्येतदपि
दृष्टान्तेनोपपादयति-चितीति । सर्वथा तिरोभावे मायाशबलचिति अर्धतिरोभावे
चित्ते मेर्वादिस्थूलकार्यजातमस्ति । यथा पिच्छानि पक्षौघाः काठिन्यं च
मयूरोपादानभूते तदण्डरसे सन्ति तद्वदित्यर्थः ॥ २८ ॥ २९ ॥

विचित्रपिच्छिकापुञ्जो मयूराण्डरसे यथा ।
यथा नानात्मिके ह्येव बर्ह्यण्डरसबर्हिते ॥ ३० ॥

विवेकदृष्ट्या भेददृष्ट्या ॥ ३० ॥

विवेकदृष्ट्या दृष्टे ते तथा ब्रह्म जगत्स्थितम् ।
सनानातोऽप्यनानातो यथाऽण्डरसबर्हिणः ॥ ३१ ॥

तथा च तत्र कल्पितभेदो यथा न वास्तवाभेदविरोधी तद्वदत्रापीत्याह-सनानात
इति । अण्डे रसरूपो बर्हिणो मयूरः ॥ ३१ ॥

अद्वैतद्वैतसत्तात्मा तथा ब्रह्मजगद्भ्रमः ।
यथा सदसतोः सत्ता समतायामवस्थितिः ॥ ३२ ॥

तर्हि किं द्वैताद्वैतात्मकमेव ब्रह्म अस्तु यथा ब्रह्म वास्तवं जगदिति च
भ्रमस्तथा द्वैताद्वैतात्मकम् । नैतावता वैषम्यप्रसक्तिः । यथा सदसतोः
सत्तासमतायामवस्थितिस्तथा तन्निरूपणादित्यर्थः ॥ ३२ ॥

यतः सदसतो रूपं भावस्थं बिद्धि तं परम् ।
नानाऽनानात्मकमिदं त्वनुभूतं नसम्भवम् ॥ ३३ ॥

ननु वैषम्यपरिहाराय सत्तासमतायामेवावस्थानमिति कुतः ।
अभावमात्रतापत्तिलक्षणशून्यत्वेऽपि वैषम्यपरिहारादित्याशङ्क्याह-यत इति ।
रूपं तत्त्वं भावस्थं सद्वस्तु पर्यवसन्नं न शून्यनिष्ठम् । अभावस्यापि
सदधीननिरूपणत्वात् । तं भावं च परं ब्रह्मैव विद्धि । तस्य
चाद्वयत्वान्नानाऽनानात्मकं भिन्नाभिन्नस्वभावमिदं जगद्रूपं न सम्भवो
यस्य तन्नसम्भवमनुपपन्नम् । नञर्थस्य नशब्दस्य बहुव्रीहिः ॥ ३३ ॥

चिज्जगद्वलनं पश्य बर्ह्यण्डे रसबर्हिणम् ।
यथा जगति चित्तत्त्वं चित्तत्त्वे यज्जगत्तथा ।
नानाऽनानात्मकैकं च मयूराण्डरसो यथा ॥ ३४ ॥

एवमनुपपन्नस्यापि बर्ह्यण्डरसदृष्टान्तेनैवैकरस्यं नेयमित्याशयेनाह##-
चित्तत्त्वे जगदन्तर्लीनं तथा रसे बर्हीति पश्येत्यर्थः ॥ ३४ ॥

नानापदार्थभ्रमपिच्छपूर्णा जगन्मयूराण्डरसश्चिदाद्या ।
मयूररूपं त्वमयूरमन्तः सत्तापदं विद्धि कुतोऽस्ति भेदः ॥ ३५ ॥

उपमोक्तमर्थं रूपकेणैकीकृत्य दर्शयन्भेदं निरस्यति-नानेति ।
नानाविधपदार्थभ्रमलक्षणैः पिच्छैः पूर्णा आद्या ब्रह्मचिदेव
जगल्लक्षणमयूराण्डस्य रसः । तत्र भासमानं जगन्मयूररूपं तु
अमयूररूपं सत्तालक्षणं पदं परमार्थवस्तु विद्धि । तत्र च भेदः
कुतोऽस्तीत्यर्थः ॥ ३५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षो० निर्वाणप्रकरणे
पूर्वार्धे चिद्घनोपदेशो नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पू० चिद्घनोपदेशो
नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥