षट्चत्वारिंशः सर्गः ४६
श्रीराम उवाच ।
भगवन्सर्वसारज्ञ त्वयैषा बिल्वरूपिणी ।
महाचिद्धनसत्तेह कथितेति मतिर्मम ॥ १ ॥
इह शिल्पिमनोदृष्टपद्मिनीखण्डमण्डितम् ।
शिलोदरमिव ब्रह्म प्रपञ्चाभासमीर्यते ॥
श्रीरामः स्वस्य बिल्वाख्यानतात्पर्यबोधं दर्शयति-भगवन्निति द्वाभ्याम् ॥ १ ॥
चिन्मज्जारूपमखिलमहन्तादीदमाततम् ।
न मनागपि भेदोऽस्ति द्वैतैक्यकलनात्मकः ॥ २ ॥
श्रीवसिष्ठ उवाच ।
यथा ब्रह्माण्डकूश्माण्डमज्जामेर्वादिसंस्थितिः ।
तथा चिद्बिल्वमज्जेयं ब्रह्माण्डादिजगत्स्थितिः ॥ ३ ॥
नाहन्तादिमात्रं चिद्बिल्वमज्जा किन्तु ब्रह्माण्डादिसर्वमपीति निःसङ्कोचं
बोध्यमित्याशयेन वसिष्ठ उवाच-यथेत्यादिना ॥ ३ ॥
सृष्टिचिद्बिल्वमज्जा स्यात्स्वाधारान्यत्वसम्भवे ।
विनाशः सर्वगस्यास्य न चैतत्सम्भवत्यलम् ॥ ४ ॥
चिद्बिल्वस्य मज्जेत्युक्ते अन्तःप्रदेशस्थावयवानां रसघनः परिणामविशेष इति
कस्यचिद्भ्रान्तिं वारयति-सृष्टिरिति । यथा बिल्वखर्परं मज्जाया आधारस्तथा
सृष्टिलक्षणमज्जाया आधेयायाः स्वाधारस्य खर्परस्थानीयस्यान्यत्वसम्भवे
तदन्तःपरिणामरूपा मज्जा स्यात् । तत्र सर्वगस्यास्य चिदात्मनः कार्त्स्न्येनैकदेशेन
वा परिणामित्वे विनाशो दुर्वारः । न चैतन्निरवयवे मुख्योऽन्तःप्रदेशः परिणामो
वा सम्भवतीति न मज्जाशब्दः परिणामपर इत्यर्थः ॥ ४ ॥
चितेर्मरीचबीजस्य जगदाख्या चमत्कृतिः ।
स्थिता सौषुप्तसौम्यान्तः शिलान्तःसन्निवेशवत् ॥ ५ ॥
तर्हि किम्पर इति चेद्विवर्तलक्षणचमत्कारपर इत्याशयेनाह-चितेरिति । शिलान्तः
शिल्पिमनःकल्पितपद्मवनसन्निवेशवदित्यर्थः ॥ ५ ॥
अत्रेमामिन्दुवदन चित्रां विस्मयकारिणीम् ।
वर्ण्यमानां मया रम्यामन्यामाख्यायिकां शृणु ॥ ६ ॥
दृष्टान्तं विवरीतुं ब्रह्मशिलाख्यायिकां प्रस्तौति-अत्रेति ॥ ६ ॥
स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी ।
निबिडा नित्यमक्षुब्धा क्वचिदस्ति महाशिला ॥ ७ ॥
तस्यामन्तः प्रफुल्लानि पद्मानि सुबहून्यपि ।
सरस्यामिव रम्याणि तान्यनन्तानि सन्ति वै ॥ ८ ॥
मनःकल्पनानामानन्त्यादनन्तानि ॥ ८ ॥
अन्योन्यप्रोतपत्राणि मिथो विघटितानि च ।
मिथश्चोपनिगूढानि गूढानि प्रकटानि च ॥ ९ ॥
उपनिगूढानि संश्लिष्टानि ॥ ९ ॥
अधोमुखान्यूर्ध्वमुखान्यपि तिर्ङ्मुखानि च ।
मिथोमिलितमूलानि मिथःप्रोतमुखान्यपि ॥ १० ॥
कर्णिकाजालमूलानि मूलान्तःकर्णिकानि च ।
ऊर्ध्वमूलान्यधोमूलान्यमूलानीतराणि च ॥ ११ ॥
दृष्टवैपरीत्येनापि मनःकल्पनसम्भवादाह-कर्णिकेति । कर्णिकाजालेषु मूलानि
येषाम् । इतराणि कानिचिदमूलानि च ॥ ११ ॥
तेषां च निकटे सन्ति शङ्खाः शतसहस्रशः ।
चक्रौघाश्च महाकाराः पद्मवत्सन्निवेशिनः ॥ १२ ॥
शङ्खाः पद्ममुकुलवत्सन्निवेशिनः । चक्रौघास्तु विकसितपद्मवत्सन्निवेशिन
इत्यर्थाद्गम्यते ॥ १२ ॥
श्रीराम उवाच ।
सत्यमेतन्मया दृष्टा तादृशी सा महाशिला ।
शालग्रामे हरेर्धाम्नि विद्यते परिवारिणी ॥ १३ ॥
स्वयं तीर्थयात्रायां शालग्रामक्षेत्रे दृष्टां शिलां गुरुवाक्यात्स्मरन् रमः
सैवात्र भगवता जगत्कल्पनासहितब्रह्मदृष्टान्तत्वेनोदाहृतेति मन्यमान
आह-सत्यमेतदिति । परिवारिणी पद्मवनलाञ्छनपरिवृता ॥ १३ ॥
श्रीवसिष्ठ उवाच ।
एवमेतद्विजानासि दृष्टवानसि तां शिलाम् ।
यो यश्च तत्र वै प्राणः समस्तादृगनन्तरः ॥ १४ ॥
दृष्टान्तदार्ष्टान्तिकसम्बन्धस्त्वया सम्यग्बुद्ध इत्यनुमोदमानो वसिष्ठ आह##-
तादृग्दार्ष्टान्तिकभूतश्चिदात्मा यो यादृशस्वभावः । अनन्तरो
निरवकाशचिद्घनः । समः प्राणस्यापि प्राणो निरतिशयानन्दरूपस्तत्र तस्मिन्नपि
विषये दृष्टवानसीति विजानासि ॥ १४ ॥
मया त्वियमपूर्वैव शिलेह कथिता तव ।
यस्यामन्तर्महाकुक्षौ सर्वमस्ति च नास्ति च ॥ १५ ॥
मया तु न त्वद्दृष्टशिला दृष्टान्तत्वेनाभिप्रेता किन्त्वपूर्वा ब्रह्मैव शिलात्वेन
परिकल्प्य बिल्वमिवोपन्यस्तेति उपाये तात्पर्यविसंवादेऽपि नोपेये विसंवाद
इत्याशयेनाह-मया त्विति ॥ १५ ॥
चिच्छिलैषा मयोक्ता ते यस्यामन्तर्जगन्ति वै ।
घनत्वैकात्मकत्वादिवशादेषा शिलैव चित् ॥ १६ ॥
चिदात्मनि गौण्या शिलाशब्दप्रयोगनिमित्तान्गुणान्दर्शयति-घनत्वेति ।
आदिपदादभेद्यत्वैकरसत्वकूटस्थत्वादिपरिग्रहः ॥ १६ ॥
अप्यत्यन्तघनाङ्गायाः सुनीरन्ध्राकृतेरपि ।
विद्यतेऽन्तर्जगद्वृन्दं व्योम्नीव विपुलानिलः ॥ १७ ॥
अपिशब्दाभ्यां सूचितो विरोधो मायया परिहर्तव्यः ॥ १७ ॥
द्यौः क्षमा वायुराकाशं पर्वता सरितो दिशः ।
सन्ति तस्यां शिलायां च सुषिरं न मनागपि ॥ १८ ॥
अस्यामेव घनाङ्गात्म जगत्पद्मं विजृम्भते ।
एतस्माद्वस्तुतो नान्यदन्यच्छुद्धात्मकं च वा ॥ १९ ॥
जगदेव मया तत्र पद्मवनत्वेनोत्प्रेक्षितमित्याह-अस्यामेवेति । तच्च जगदन्यदिव
भातमपि वस्तुतो नान्यत् शुद्धचिदात्मकं च वा न किन्तु मायैवेत्यर्थः ॥ १९ ॥
शङ्खपद्मादिकं लोकं पाषाणे लिख्यते यथा ।
भूतं भवद्भविष्यच्च शिलायां शालभञ्जिका ॥ २० ॥
तेषां च निकटे सन्ति शङ्खाः शतसहस्रशः इति यदुक्तं तत्तात्पर्यमाह##-
भव्यं सर्वं जगत् । तत्र शालभञ्जिका वस्तुतो यथा वास्तवीव अस्तीति परेणान्वयः ॥
२० ॥
तथास्ति तत्र तत्सर्वं संस्थानं वस्तुतो यथा ।
उपलान्तः सन्निवेशो नानात्माप्येकपिण्डताम् ॥ २१ ॥
यथादत्ते तथैषा चित्पिण्डाकारैकिकां घनाम् ।
यथा पद्मः शिलाकोशादभिन्नस्तद्वपुर्मयः ॥ २२ ॥
आदत्ते स्वीकरोति तथा एषा चिदपि घनां एकिकां एकपिण्डतां स्वीकरोतीत्यर्थः ॥ २२ ॥
तथा सर्गश्चितो रूपादभिन्नोऽपि वपुर्मयः ।
सुषुप्तावस्थया चक्रपद्मलेखाः शिलोदरे ॥ २३ ॥
तत्स्वरूपादभिन्नोऽपि वपुर्मयः परिच्छिन्नाकार इव भातीत्यर्थः । सुषुप्तावस्थया
टङ्कच्छेदात्प्रागनभिव्यक्तयेत्यर्थः ॥ २३ ॥
यथा स्थिताश्चितेरन्तस्तथेयं जगदावली ।
शिलान्तः पद्मलेखाली मरिचान्तश्चमत्कृतिः ॥ २४ ॥
नोदेति नास्तमायाति यथा सर्गस्तथा चितौ ।
यथा पुरन्ध्र्यां मर्त्योऽन्तर्मज्जा वा बिल्वगा यथा ॥ २५ ॥
सतोः शिलामरिचयोर्नोदेति नास्तमायाति तथेत्यर्थः । पुरन्ध्र्यां सुचरित्रायां
स्त्रियामन्तर्मनसि मर्त्यस्तत्कान्तः सदैवास्ति ॥ २५ ॥
तथाऽनन्तविकाराढ्या चितौ ब्रह्माण्डमण्डली ।
विकारादि तदेवेति मुधैवोक्तिरनर्थिका ॥ २६ ॥
यदा विकारिणां ब्रह्माण्डानां चिन्मात्रत्वं तदा
तद्विकारभुवनशरीरादिभेदानां चिन्मात्रत्वमर्थसिद्धमिति
तदुक्तिरर्थशून्यत्वान्मुधा निष्फलैव ॥ २६ ॥
तत्तां समुपयात्याशु जलबिन्दुरिवाम्भसि ।
अनन्तत्वाच्चितेरेतद्विकारादि चितेरिति ॥ २७ ॥
कुतोऽर्थशून्या तत्राह-तत्तामिति । यत एतद्विकारादि आशु ब्रह्माण्डानां
चिन्मात्रतादर्शनक्षण एव तत्तां चिन्मात्रतां समुपयाति न
पृथगणुमात्रमप्यवशिष्यत इति हेतोः ॥ २७ ॥
उक्त्या सम्पद्यते यच्च तल्लयेन विलीयते ।
ब्रह्मैवेदं विकारादि विकाराद्यर्थवर्जितम् ॥ २८ ॥
कविवर्णितगन्धर्वनगरवैचित्र्यवदुक्तिमात्रसिद्धत्वादपि तस्य
प्रत्येतृचिन्मात्रत्वमित्याह-उक्त्येति । स भूरिति व्याहरन् भुवमसृजत । एत इति वै
प्रजापतिर्देवानसृजत असृग्रमिति मनुष्यानिन्दव इति पितॄन् इत्यादिश्रुत्या
भुवनादिसर्गस्य नामपूर्वकत्वोक्तेरेव नामलयन लयोऽप्यूह्यः ॥ २८ ॥
वर्जनावर्जनेऽर्थस्य ब्रह्मैवानन्ततावशात् ।
ब्रह्म स्थितं विकारादि ब्रह्मैवोत्पादितं क्रमात् ॥ २९ ॥
विकाराद्यर्थवर्जनमपि न वस्त्वन्तरमित्याह-वर्जनेति ॥ २९ ॥
अत्रान्यार्थमिदं विद्धि मृगतृष्णाम्भसा समम् ।
बीजं पुष्पफलान्तस्थं बीजान्तर्नान्यदात्मकम् ॥ ३० ॥
पुष्पफलपर्यन्ते स्वकार्ये बीजवत्सर्वत्र चित्सत्तानुवृत्तिदर्शनादपि सर्वं
चिदेवेत्याह-बीजेत्यादिना ॥ ३० ॥
यादृशी बीजसत्ता सा भवन्ती यात्यथोत्तरम् ।
चिद्धने चिद्धनत्वं यत्स एव त्रिजगत्क्रमः ॥ ३१ ॥
अङ्कुरादिपूर्वपूर्वविकारेषु भवन्ती विद्यमानैव अथ उत्तरकालं
काण्डशाखापल्लवादि याति ॥ ३१ ॥
एकत्वमेतयोर्द्वित्वमेकाभावे द्वयोः क्षतिः ।
जगदन्यभवोद्भूतिर्न कदाचित्तदीदृशम् ॥ ३२ ॥
द्वैतस्यैकत्वकल्पनाधीनकल्पनत्वादप्यकल्पितचिन्मात्रं तत्त्वमित्याह-एकत्वमिति
। एतयोर्बीजतत्कार्ययोः अन्यभवश्चिद्व्यतिरिक्तजाड्यकल्पना तदधीनोद्भूतिः ।
तच्चिद्रूपं तु कदाचिदपि ईदृशं जाड्यस्वभावं न सम्भवतीत्यर्थः ॥ ३२ ॥
चिदचिन्न कदाचिच्च द्वयमन्तर्मिथोऽद्वयम् ।
महाशिलान्तरे भेदो लेखात्मास्ति यथा [यतो बहु इति पाठः ।] बहुः ।
तदन्यानन्यमज्जादि चिद्धने त्रिजगत्तथा ॥ ३३ ॥
तदेव स्फुटयन् प्रकृते योजयति-चिदिति । मज्जादिबिल्वे इति शेषः ॥ ३३ ॥
रेखोपरेखावलिता यथैका पीवरी शिला ।
तथा त्रैलोक्यवलितं ब्रह्मैकमिति दृश्यते ॥ ३४ ॥
एकं ब्रह्म इति प्रसिद्धजगद्रूपेण दृश्यते ॥ ३४ ॥
एतच्छिलान्तरब्जादि यथा नित्यं सुषुप्तकम् ।
नास्तमेति न चोदेति तथाऽहन्ता जगद्गतिः ॥ ३५ ॥
सुषुप्तकं शिल्पिवासनामात्रम् ॥ ३५ ॥
यथा शिलान्तर्लेखादि भिद्यते न शिलान्तरात् ।
तत्सारत्वाज्जगत्कर्तृ कर्तृत्वादिजगच्चितिः ॥ ३६ ॥
यथा शिलान्तरब्जानां स्पन्दास्पन्दभवाभवाः ।
विषयत्वं न गच्छन्ति कर्तारो जगतस्तथा ॥ ३७ ॥
जगत्कर्तृ जीवेश्वररूपं तदीयं कर्तृत्वादिजगच्च चितिश्चिदेव । भवाभवा
आविर्भावतिरोभावाः ॥ ३७ ॥
नेदं कदाचित्क्रियते न कदाचन नश्यति ।
अद्रिवत्प्रभवोल्लासविलासावेदनात्मकम् ॥ ३८ ॥
शिला यथा तत्त्वदर्शने विषयत्वं न गच्छन्ति तथा आत्मतत्त्वदर्शनेऽपि कर्तार
इत्यर्थः ॥ ३८ ॥
यथा यत्र यदाकारं तथा तत्र तदेव हि ।
ब्रह्मसत्तात्मकं सर्वं सुषुप्तस्थमिव स्थितम् ॥ ३९ ॥
अद्रिवद्गिरिकूटवदविकारित्वादित्यर्थः । अतएव शिला नानाशिल्पिनां
विरुद्धमानसकल्पनाभेद इव ब्रह्मापि नानाजीवविरुद्धकल्पनाभेदेऽपि
तत्तद्रूपमेवावतिष्ठत इत्याह-यथेति । यदाकारं कल्प्यत इति शेषः ॥ ३९ ॥
भूरिभावविकाराढ्यो योऽयं जगदुरुभ्रमः ।
सुषुप्तमेव तद्विद्धि शिलान्तः पङ्कजादिवत् ॥ ४० ॥
सुषुप्तस्थं यथा प्रतिजीवं विचित्रस्वाप्नार्थकल्पनाभेदमविरोधेन सहते
तद्वदित्यर्थः । सुषुप्तमनुन्मिषितवासनमात्रमेव ॥ ४० ॥
नित्यं सुषुप्तपदमेव जगद्विलासः सम्यक्प्रशान्तसमचिद्धनखात्मकत्वात् ।
पद्माः शिलान्तरिव सर्गदशास्त्वसारा दृष्टा न देहमुपयान्ति कदाचिदेव ॥ ४१
॥
आख्यायिकातात्पर्यं सङ्क्षिप्योपसंहरति-नित्यमिति । चिद्धनं यद्ब्रह्म खं
तदात्मकत्वात् । असारास्तुच्छाः शिलान्तः पद्मा इव सर्गादिदशा आत्मनि दृष्टा अपि
कदाचिदपि देहं स्वरूपस्थितिं नोपयान्त्येवेत्यर्थः ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
शिलाकोशोपदेशो नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
शिलाकोशोपदेशो नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥