पञ्चचत्वारिंशः सर्गः ४५
श्रीवसिष्ठ उवाच ।
अत्रेमामवबोधाय विस्मयोल्लासकारिणीम् ।
अपूर्वां सङ्क्षेपाद्राम रम्यां कथां शृणु ॥ १ ॥
स्वानन्दरससम्पूर्णं त्रिजगत्कल्पनास्पदम् ।
इह बिल्वफलत्वेन परं ब्रह्मोपवर्ण्यते ॥
कथां बिल्वाख्यानाख्याम् ॥ १ ॥
योजनानां सहस्राणि विपुलं विमलं स्फुटम् ।
युगैरप्यजरद्रूपमस्ति बिल्वफलं महत् ॥ २ ॥
न जीर्यत इत्यजरद्रूपं स्वभावो यस्य ॥ २ ॥
अविनाशरसाधारं सुधामधुरसारवत् ।
पुराणमपि बालेन्दुदलमार्दवसुन्दरम् ॥ ३ ॥
सुधेवसुधापेक्षया वा अतिमधुरसारवत् ।
बालेन्दोरङ्कुरप्रायात्प्रतिदिनमुपचीयमानानि दलानीव याः कलास्तानीव मार्दवेन
त्वङ्नयनसुखस्पर्शतया सुन्दरम् ॥ ३ ॥
व्यूहमध्यमहामेरुं मन्दराद्रिरिवाचलम् ।
महाकल्पान्तवात्याया अपि वेगैरचालितम् ॥ ४ ॥
भुवनव्यूहमध्यगतमहामेरुरिव मेढीभूतम् । मन्दराद्रिरिवाचलं दृढम् ॥
४ ॥
योजनायुतकोटीनां कोटिलक्षशतैरपि ।
वैपुल्येनापरिच्छेद्यं मूलमाद्यं जगत्स्थितेः ॥ ५ ॥
प्रागुक्तं सहस्रपदमसङ्ख्यपरमिति व्याचष्टे-योजनेति । जगतः
स्थितेर्विधारणस्य नियमनस्य च मूलम् ॥ ५ ॥
यस्य बिल्वफलस्योच्चैर्ब्रह्माण्डानि समीपतः ।
हरन्ति लीलां शैलाधो राजिकाकणपद्धतेः ॥ ६ ॥
हरन्ति वहन्ति । राजिका सूक्ष्मसर्षपास्तत्काणानां पद्धतेः पङ्क्तेः ॥ ६ ॥
स्पन्दमानरसापूरां स्वाद्वीं रसचमत्कृतिम् ।
यस्यातिशेते नो कश्चिदपि राघव षड्रसः ॥ ७ ॥
षड्रसः षडिन्द्रियभोग्यब्रह्मलोकान्तसुखलवः प्रसिद्धो वा ॥ ७ ॥
न कदाचन पाकेन पातं तेन समेति यत् ।
सदैव पक्वमप्यङ्ग जरसा यन्न बाध्यते ॥ ८ ॥
तेन तादृशरसयुक्तेनापि पाकेन यत् पातं पतनं न समेति । तर्हि किं स्वस्थान एव
जीर्यति नेत्याह-सदैवेति ॥ ८ ॥
ब्रह्मविष्ण्विन्द्ररुद्राद्या जरठाः केचिदेव न ।
यस्योत्पत्तिं विजानन्ति मूलं वा वृन्तमेव च ॥ ९ ॥
जरठाश्चिरायुषः ॥ ९ ॥
अदृष्टाङ्कुरवृक्षस्य त्वदृष्टकुसुमाकृतेः ।
अस्तम्भमूलशाखस्य फलस्यास्य महाकृतेः ॥ १० ॥
एकपिण्डघनाकारविततस्थौल्यशालिनः ।
यस्योत्पत्तिविकारादिपरिणामो न दृश्यते ॥ ११ ॥
विततमतिविस्तीर्णं यत्स्थौल्यं बृहत्ता तच्छालिनः ॥ ११ ॥
समस्तफलसारस्य फलस्यास्य महाकृतेः ।
न मज्जा नाष्ठि विततो निर्विकारो निरञ्जनः ॥ १२ ॥
समस्तेषु फलेषु पुरुषार्थेषु च सारस्य श्रेष्ठस्य । अष्ठि बीजं नास्ति ॥ १२ ॥
शिलान्तरिव नीरन्ध्रः स्पन्दमानेन्दुबिम्बवत् ।
रसं स्वसंविदास्वाद्यं स्पन्दमान इवामृतम् ॥ १३ ॥
शिलाया अन्तःप्रदेश इव नीरन्ध्रो घनः । विज्ञानघम एव इति श्रुतेः ।
स्यन्दमानेन्दुबिम्बवत् स्वसंविदामृतमिवास्वाद्यं निरतिशयानन्दरसं
स्यन्दमानः ॥ १३ ॥
कोशः सकलसौख्यानां शीतलालोककारकः ।
शैलाभोऽमृतपिण्डाभो मज्जा आत्मफलस्थितेः ॥ १४ ॥
कोश इति । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः । आत्मनो
मानुषानन्दादिहैरण्यगर्भानन्दान्तकर्मफलस्थितेर्मज्जा सारः ॥ १४ ॥
तस्मात्परममज्जा तु यासौ स्वात्मचमत्कृतिः ।
अनन्तरक्षितो नित्यमनन्यः श्रीफलं गतः ॥ १५ ॥
तस्माद्धैरण्यगर्भानन्दफलादपि परमस्याव्यक्तस्य मज्जा । अनन्तेन
त्रिविधपरिच्छेदशून्यस्वभावेनैव रक्षितः । स्वात्मकमेव श्रीफलं बिल्वं गतः
स चानन्यः । अद्वय एवेत्यर्थः ॥ १५ ॥
स्वसन्निवेशवैचित्र्यमन्यत्वफलतां गताम् ।
अत्यजन्त्या तया तन्व्या स्थूलयाप्यतिबालया ॥ १६ ॥
अनन्यत्वमेवोपपादयितुं चमत्कृतिपदस्वारस्यं प्रकटयति##-
भेदजातस्य फलतां परमप्रयोजनतां गतः चिदेकरसमज्जारूपं पारमार्थिकं
स्वसन्निवेशत्रैलक्षण्यमत्यजन्त्यैव इदं भेदादि स्वयमुत्पाद्य भावितमिति
परेणान्वयः । प्रकारान्तरैरपि तस्याश्चमत्कृतित्वोपपादनाय
तन्व्येत्यादिविरुद्धविशेषणानि । अणोरणीयस्त्वात्तन्व्या । महतो महीयस्त्वात्स्थूलया ।
चिरन्तनत्वेऽपि वृद्ध्यादिविकाराभावादतिबालया ॥ १६ ॥
इयमस्मीति कलनादसदप्यन्यतामलम् ।
भेदाद्यसम्भवदिदं स्वयमुत्पाद्य भावितम् ॥ १७ ॥
असतोऽपि भेदस्योत्पादने को हेतुस्तमाह-इयमिति । इयमहमस्मीति अनिदमि
इदन्ताध्यास एव तद्धेतुरित्यर्थः । अन्यथा पृथक्त्वं
तदापादकमलमविद्यामेवम्भूतभुवनभेदादिरूपेणोत्पाद्येत्यर्थः ।
असम्भवदित्यनेन स्वप्रकाशचिदेकरसे मलस्यैव सम्भवो नास्ति सुतरां
तत्कार्यभेदस्येति द्योत्यते ॥ १७ ॥
अहङ्कलासमुदयसमनन्तरमेव सा ।
वलिताकाशशब्दाङ्गत्रैलोक्यपरमाणुभिः ॥ १८ ॥
स्वोत्पादितैर्भूतभुवनादिभेदैरहन्तोत्पादनद्वारा आभिमानिकं संवलनं सा
लभत इत्याह-अहमिति । अहङ्कला अहङ्कारस्तस्याः समुदयो
व्यष्टिसमष्टिरूपेणोद्भवस्तत्समनन्तरम् । आकाशस्तद्गुणः शब्दश्चाङ्गे
द्रव्यगुणैकदेशौ येषां
तथाविधैस्त्रैलोक्योपलक्षितव्यष्टिसमष्टिशरीरपरमाणुभिः ॥ १८ ॥
इत्यनुक्रमतो याता संविच्छक्तिस्वरूपताम् ।
मज्जा प्राक् सन्निवेशं स्वं तमेवाप्य समुज्झती ॥ १९ ॥
स्वस्वरूपापरित्यागेनैवंरूपापत्तिरेवास्या महती आत्मचमत्कृतिरित्थं मया
वर्णितेत्युपसंहरति-इतीति । शक्तिर्व्यबहारसमर्थता तत्स्वरूपताम् ॥ १९ ॥
संविच्छक्त्या तया तत्र ततस्तरलरूपया ।
निज एव समे रूपे दृगित्थं सम्प्रसारिता ॥ २० ॥
समे निर्विकारे निजे रूपे एव इत्थं जगदाकारा दृक् सम्प्रसारिता ॥ २० ॥
इदं व्योम महानन्तमियं कालमयी कला ।
इयं नियतिरित्युक्ता क्रियेयं स्पन्दरूपिणी ॥ २१ ॥
इत्थं च वियदादिसर्वमियमेव नान्यदस्याः किञ्चिदिति द्रष्टव्यमित्याह##-
अयं सङ्कल्पविस्तारस्त्वयमाशान्तरभ्रमः ।
रागद्वेषस्थितिरियं हेयोपादेयधीरियम् ॥ २२ ॥
आध्यात्मिकार्था अपीयमेवेत्याह-अयमिति ॥ २२ ॥
इयं त्वत्ता त्वियं मत्ता तत्तेयं संस्थिता स्वयम् ।
ब्रह्माण्डौघोऽयमूर्ध्वस्थः स्वयमङ्गोर्ध्वमप्यधः ॥ २३ ॥
अयं पुरः पार्श्वतोऽयं पश्चादाराहवीयसी ।
इदं भूतं वर्तमानं भविष्यत्त्विदमित्यपि ॥ २४ ॥
लिङ्गभेदः आत्मा ब्रह्मेत्यादिविशेष्यपदमध्याहृत्य योज्यः । दवीयसी दूरतरा ॥
२४ ॥
इदमन्तःस्थितानल्पकल्पनाम्भोरुहालयम् ।
ब्रह्माण्डमण्डपापीडक्रीडामण्डपमण्डलम् ॥ २५ ॥
अन्तःस्थिता अनन्ताः कल्पनाम्भोरुहाणामालया जीवा यस्मिंस्तथाविधम् ॥ २५ ॥
अनन्तकलनातत्त्वपरिपल्लविता हरेः ।
हृदब्जकर्णिका चेयं लोकपद्माक्षमालिका ॥ २६ ॥
अनन्तैः कलनातत्त्वैः रचनरहस्यैः परितः पल्लविता ॥ २६ ॥
इयं कीर्णमहारुद्रगणापूरितकोटरा ।
दीर्घाभ्रसरणिर्भ्रान्तध्वंसनेभ्यः प्रभाविनी ॥ २७ ॥
कीर्णैः सर्वतोव्याप्तैर्महारुद्रगणैः पूरितकोटरा । अभ्रसरणिराकाशपदवी ।
अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि । नीलग्रीवाः शितिकण्ठाः शर्वाः इति श्रुतेरिति
भावः । भ्रान्ता विषयलम्पटाः स्वर्तिणस्तेषां ध्वंसनेभ्यः अधःपतनेभ्यो
निमित्तेभ्यः प्रभाविनी प्रतापवती प्रकाशवती वा । नक्षत्रपात्रे नभःपथे
प्रभानुवृत्तिदर्शनादित्यर्थः ॥ २७ ॥
इयं मेरुः ककुभ्यत्र जगत्पङ्कजकर्णिका ।
स्फुरदिन्दुमधूल्लासलम्पटामरषट्पदा ॥ २८ ॥
अत्र अस्यामुत्तरस्यां ककुभि दिशि । इन्दुलक्षणस्य मधुन उल्लासे अमृतमकरन्दे
लम्पटाः अमरलक्षणाः षट्पदा यस्माम् ॥ २८ ॥
इयमुद्दामसौगन्ध्यस्वर्गश्रीपुष्पमञ्जरी ।
जगज्जरठवृक्षस्य रजोनरकमूलिनः ॥ २९ ॥
रजोगुणकार्यरागादिना नरकैर्दुःखैश्च मूलिनो मूलवतो जगज्जरठवृक्षस्य
उद्दामसौगन्ध्या स्वर्गश्रीलक्षणा पुष्पमञ्जरी इयमेवेत्यर्थः ॥ २९ ॥
इयं च ताराकिञ्जल्का ब्रह्मार्णवतटस्थिता ।
अपारापारपर्यन्ताव्योमलीलासरोजिनी ॥ ३० ॥
ऊर्ध्वमपारा परितश्चापारपर्यन्ता । व्योमलीला व्योमाकारा सरोजिनी कमलिनी सरसी वा
इयमेवेत्यर्थः ॥ ३० ॥
इयं क्रियापरिग्राहा तरङ्गतरलावली ।
सर्गावर्तविधानस्थभूरिभूतपरम्परा ॥ ३१ ॥
क्रियाः कर्माण्येव परितो ग्राहा यस्याम् । तरङ्गा इव तरला मासर्त्वावली यस्याम् ।
सर्गः प्रजोत्पादनं तल्लक्षणे आवर्तानां विधाने कार्ये तिष्ठतीति तत्स्था
भूरिभूतपरम्परा यस्याम् ॥ ३१ ॥
इयत्तया प्रसरिणी क्षणकल्पादिपल्लवा ।
तेजःकेसरिणी कालनलिनी व्योमपङ्कजा ॥ ३२ ॥
इयत्तया प्राण्यायुःपरिमाणेन प्रसरिणी विस्तृता । तेजोभिरग्न्यादित्यचन्द्रादिभिः
केसरिणी । व्योमैव पङ्कजं यस्यास्तथाविधा कालनलिनी इयमेव ॥ ३२ ॥
इमा भावविकाराढ्या जरामृतिविषूचिकाः ।
विद्याविद्याविलासाढ्या इमाः शास्त्रार्थदृष्टयः ॥ ३३ ॥
इति सा तस्य बिल्वस्य निजमज्जाचमत्कृतिः ।
सङ्कल्पसन्निवेशान्तरेवैव कृतसंस्थितिः ॥ ३४ ॥
इति वर्णितप्रकाराः सर्वे सा निजमज्जाचमत्कृतिरेव ।
एवम्प्रकारैर्व्यष्टिसमष्टिसङ्कल्पसन्निवेशस्यान्तःकृतसंस्थितिः ॥ ३४ ॥
शान्ता स्वस्था निराबाधा सौम्या भावनयोज्झिता ।
कर्तृत्वमप्यकर्तृत्वं कृत्वाऽकृत्वेव संस्थिता ॥ ३५ ॥
एषैकिकैव विविधेव विभाव्यमाना नैकात्मिका न विविधा ननु सैव सैव ।
सत्यास्थिता सकलशान्तिसमैकरूपा सर्वात्मिकातिमहती [महतीति
निरूपशक्तिः इति मुद्रितपुस्तके पाठः ।] चितिरूपशक्तिः ॥ ३६ ॥
बिल्वाख्यायिकां समाप्य स्वरूपेणैव चितं वर्णयन्नुपसंहरति-एषेति ।
एकत्वसङ्ख्याया अपि द्वैतापादकत्वान्नैकात्मिका नापि विविधा किन्तु सैव एकत्वं
सैवैका । वीप्सया सजातीयविजातीयनिवृत्तिर्वा । सकलस्य द्वैतविकल्पस्य शान्त्या
समैकरूपा । अनेन स्वगतभेदस्यापि व्यावृत्तिः । अतिमहती ब्रह्मशब्दलक्ष्या
चितिरूपा शक्तिरेवेत्थं व्युत्पादितेत्यर्थः ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
बिल्वोपाख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
बिल्वोपाख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥