०४४

चतुश्चत्वारिंशः सर्गः ४४

श्रीवसिष्ठ उवाच ।

केवलेनेन्द्रियैः सार्धं वर्तमानार्थवर्तिना ।
असङ्गमेन मनसा यत्करोषि न तत्कृतम् ॥ १ ॥

इहासङ्गक्षयोपाया वाञ्छात्यागादयः पुनः ।
मनःक्षयान्ता गुरुणा ज्ञानदार्ढ्यार्थमीरिताः ॥

रामेण स्वस्य तत्त्वबोधविश्रान्तौ वर्णितायामपि तत्परिपाकात्प्राक् प्रच्युतिर्मा भूदिति
शिलानिखातस्थूणादार्ढ्याय सन्धिकीलपरम्परामिव जीवन्मुक्तलक्षणभूतां
प्रागुक्तसाधनपरम्परामेव प्रतिष्ठापयिष्यन् श्रीवसिष्ठः प्रागुक्ते
यथाप्राप्तव्यवहारोपभोगादिलक्षणे शिवार्चनेऽपि सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः इति न्यायेन
प्रमादाद्धिंसापरानिष्टादिप्रसक्तेरवर्जनाद्भोगस्यानर्थहेतुत्वाच्च स्यादेव
पुनर्जननाद्यनर्थ इत्याशङ्कां वारयन्नाह-केवलेनेति । केवलेन रागादिरहितेन
अतएव असङ्गमेन कर्तृत्वाभिमानलक्षणक्रियासङ्गमशून्येन ॥ १ ॥

यथा प्राप्तिक्षणे वस्तु प्रथमे तुष्टये तथा ।
न प्राप्त्येकक्षणादूर्ध्वमिति को नानुभूतवान् ॥ २ ॥

ननु विषयाणां तुष्टिजनकत्वनियमात्कथं तेषु रागस्त्यक्तुं शक्य
इत्याशङ्क्याह-यथेति । प्राप्तिक्षणातिरिक्तपूर्वोत्तरकालयोस्तेषु
तुष्टिहेतुत्वव्यभिचारान्नायं नियम इति भावः ॥ २ ॥

वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा ।
तस्मात्क्षणसुखे सक्तिं बालो बध्नाति नेतरः ॥ ३ ॥

अतएव चिरानर्थे क्षणिकसुखे आसङ्गोऽपि न युक्त इत्याह-वाञ्छेति ।
वाञ्छापदेन लाभो लक्ष्यते ॥ ३ ॥

वाञ्छाकाले तुष्टये यत्तत्र वाञ्छैव कारणम् ।
तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ॥ ४ ॥

यदा वस्तुलाभकृतः क्षणिकोऽपि वाञ्छानिरोधः सुखहेतुस्तदा
आत्यन्तिकवाञ्छोच्छेदो निरतिशयानन्दहेतुरित्यर्थादागतम् तथा च
वाञ्छैवानर्थ इत्याशयेनाह-वाञ्छाकाले इति । तुष्टिरानन्दः ।
अतुष्टिस्तुष्टिविरोधिवाञ्छैव पर्यन्तो विच्छेदो यस्यास्तथाविधा ॥ ४ ॥

यदि तत्पदमाप्तोऽसि कदाचित्कालपर्ययात् ।
तदहम्भावनारूपे न मङ्क्तव्यं त्वया पुनः ॥ ५ ॥

ननु पूर्णानन्दं पदं प्राप्तोऽहं तस्मै मह्यं
पुनर्विषयवाञ्छात्यागोपदेशस्ते किमर्थस्तत्राह-यदीति । पुनः
कालान्तरेऽप्यहम्भावपङ्के निमज्जनं मा भूदिति तत्पदस्थितिदार्ढ्यार्थः
पुनरुपदेश इत्यर्थः ॥ ५ ॥

आत्मज्ञानाचलस्याग्रे राम विश्रान्तवानसि ।
अहम्भावमहाश्वभ्रे न पुनः पातमर्हसि ॥ ६ ॥

यत्स्मृतानन्तसद्दृष्टेर्ज्ञत्वमेरुशिरःस्थितेः ।
पुनर्गर्भानुकारान्तःपाताले पतनं कुतः ॥ ७ ॥

सत्यपि दार्ढ्ये पुनर्मज्जनं किं नाशङ्क्यते तत्राह-यदिति । यद्यस्माद्धेतोः
गर्भो मातृकुक्षिगतः पिण्डस्तमनुसृत्य करोति जन्माद्यनर्थमिति
गर्भानुकारोऽहम्भावस्तल्लक्षणेऽन्तःपाताले ।
दृढीभूतज्ञानस्यावश्यमविद्यानर्थबीजोच्छेदित्वादिति भावः ॥ ७ ॥

दृश्यते ते स्वभावोऽयं समतासत्यतामयः ।
मन्ये क्षीणविकल्पोऽसि जातोऽसि हतकालिकः ॥ ८ ॥

अन्येषामुपकाराय वा मयेदमुक्तं तव त्वज्ञानं नष्टमिति मया
समतादिलिङ्गैर्लक्षितमेवेत्याशयेनाह-दृश्यत इति । कालिका अविद्या ॥ ८ ॥

स्वभावे संस्थितो राम इत्यावेदयतीव मे ।
सौम्य पूर्णार्णवप्रख्या समता निर्मला तव ॥ ९ ॥

आशा यातु निराशत्वमभावं यातु भावनम् ।
अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥ १० ॥

न सञ्जनमसङ्गस्तेन जीवतः । अनुमोदने आशिषि वा लोट् ॥ १० ॥

यां यां वस्तुदृशं यासि तस्यां तस्यामवस्थितम् ।
सत्तासामान्यरूपेण ब्रह्म बृंहितचिद्धनम् ॥ ११ ॥

न मनोरथभङ्गान्निराशत्वाद्याशासे किन्तु सर्वतो
निरतिशयानन्दब्रह्मलाभादित्याशयेनाह-यां यामिति ॥ ११ ॥

अज्ञातात्मा निबद्धोऽसि विज्ञातात्मा न बध्यसे ।
राम त्वं स्वात्मनात्मानं बोधयस्व बलादतः ॥ १२ ॥

बलात् मननादिदार्ढ्यात् ॥ १२ ॥

यत्र न स्वदते वस्तु स्वदते च यथागतम् ।
अवासनत्वं तद्विद्धि साम्यमाकाशकोमलम् ॥ १३ ॥

इदानीं निर्वासनत्वस्य स्वानुभवगम्यं लक्षणमाह-यत्रेति । वस्तु भोगसुखम् ।
यथागतं प्रारब्धोपनीतं दुःखमपि ॥ १३ ॥

वासनारहितैरन्तरिन्द्रियैराहर क्रियाः ।
न विक्रियामवाप्नोषि खवत्क्षोभशतैरपि ॥ १४ ॥

खवत् आकाशवत् ॥ १४ ॥

ज्ञाता ज्ञानं तथा ज्ञेयं त्रयमेकतयात्मनि ।
शान्तात्मानुभवाऽभव्यं न भूयो भवभागसि ॥ १५ ॥

अभव्यं दुःखाद्यपि त्रिपुट्येकीकारेणात्मतया अनुभव । तेन तस्य प्रतिकूलता
शाम्यतीति भावः ॥ १५ ॥

चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।
वासनाप्राणसंरोधादनिमेषं मनः कुरु ॥ १६ ॥

दुःखादौ प्रातिकूल्यविकल्पनं मनःकृतमिति तदेव वा भुशुण्डोक्तयुक्त्या
निरोद्धव्यमित्याशयेनाह-चित्तेति ॥ १६ ॥

प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।
तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ॥ १७ ॥

मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।
तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंयमैः ॥ १८ ॥

अज्ञानमेव वा प्रवृत्तिद्वारानर्थनिदानमिति तदेव ज्ञानदार्ढ्येन
निरसनीयमित्याह-मौर्ख्येति ॥ १८ ॥

यथा वातरजःसङ्गस्पन्दात्खं भाववेदनम् ।
तथा चितश्चेत्यतया स्पन्दादिदमुपस्थितम् ॥ १९ ॥

चित्तोन्मेषनिमेषाभ्यामिति यदुक्तं तद्दृष्टान्तेन स्फुटयति-यथेत्यादिना ।
यथा खमाकाशं वातस्य रजसां च सङ्गात्स्पन्दाच्च
मलिनचलनादिस्वभाववेदनं सम्पन्नं तथा चितश्चित्तलक्षणात्स्पन्दाच्चेत्यतया
इदमनर्थजातमुपस्थितमित्यर्थः ॥ १९ ॥

दृश्यदर्शनसम्बन्धस्पन्देनेयं जगद्गतिः ।
स्फुरत्यालोककुड्यादिसङ्गजा वर्णधीरिव ॥ २० ॥

उक्तेऽर्थे अन्वयव्यतिरेकौ द्र्शयति-दृश्येति द्वाभ्याम् ।
नानाच्छिद्रप्रविष्टसौरालोककुड्यसम्बन्धजा चित्रवर्णधीरिव ॥ २० ॥

दृश्यदर्शनसम्बन्धस्पन्दाभावे न जायते ।
वेदना भवदाभासा चित्रपुंसाभिवाशये ॥ २१ ॥

भवतीति भवज्जगत्तदाभासा । यथा चित्रलिखितपुंसामाशये हृदि भावनैव न
जायते तद्वत् ॥ २१ ॥

चित्तस्पन्दोत्थिता माया तदभावे विलीयते ।
पयःस्पन्दोत्थिता वीचिस्तदभावे विनश्यति ॥ २२ ॥

त्यागेन वासनांशस्य बोधाद्वा प्राणरोधनात् ।
चित्ते निस्पन्दतां याते कुतः स्पन्दस्य सम्भवः ॥ २३ ॥

स्पन्दस्य कौटस्थ्यच्युतिरूपस्य ॥ २३ ॥

असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् ।
प्राणानां वा निरोधेन तदेव च परं पदम् ॥ २४ ॥

ह्यर्थे चशब्दः ॥ २४ ॥

दृश्यदर्शनसम्बन्धे यत्सुखं पारमार्थिकम् ।
तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः ॥ २५ ॥

बोधाद्वा इति मध्यमोपायमुक्तं विवृणोति-दृश्येति । विषयेन्द्रियसम्बन्धे
यत्सुखं प्रसिद्धं तत्परमार्थतो ब्रह्मसुखमेव । एतस्यैवानन्दस्यान्यानि भूतानि
मात्रामुपजीवन्ति इति श्रुतेः । अतस्तस्यान्तः
परमावधिर्मानुषानन्दमारभ्योत्तरोत्तरं शतगुणोत्कर्षेण श्रुत्या दर्शितः यतो
वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचन इति ।
तदेकान्तं तन्मात्रपूर्णतातत्संवित्तिरूपया ब्रह्मदृष्ट्या मनःक्षयः
सिद्ध्यतीत्यर्थः ॥ २५ ॥

यत्र नाभ्युदितं चित्तं तत्तत्सुखमकृत्रिमम् ।
न स्वर्गादौ सम्भवति मरौ हिमगृहं यथा ॥ २६ ॥

तत्तत्सुखं ब्रह्मसुखं तच्च स्वर्गादिभोगभूमौ न सम्भवति । तत्र चित्तस्य
कामासूयादिकलुषत्वादित्यर्थः । हिमं शिशिरजलं तस्य गृहं सरः ॥ २६ ॥

चित्तोपशमजं स्फारमवाच्यं वचसा सुखम् ।
क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥ २७ ॥

न वाच्यं वक्तुमशक्यम् । स्वानुभवैकगम्यमित्यर्थः ॥ २७ ॥

बोधाद्भवति चित्तान्तो दुर्बोधाच्चित्तवेदिता ।
बालवेतालवत्तेन मोहश्रीर्घनतां गता ॥ २८ ॥

चित्तस्यान्तो नाशः । यतो दुर्बोधाद्भ्रान्तिवशादेव चित्तवेदिता चित्तसद्भावप्रतीतिः
बोधेन तु भ्रान्तिर्नश्यतीति युक्तश्चित्तनाश इति भावः । बालकल्पितवेतालवत् । तेन
दुर्बोधेन ॥ २८ ॥

विद्यमानमपि ह्येतच्चित्तं बोधाद्विलीयते ।
सदप्यसदिवाभाति ताम्रं हेमीकृतं यथा ॥ २९ ॥

ननु ज्ञानिनामपि व्यवहारदर्शनाच्चित्तमस्त्येव तत्कथं ज्ञानेन नष्टम्
सत्त्वनष्टत्वयोर्युगपदेकत्र विरोधात्तत्राह-विद्यमानमपीति ॥ २९ ॥

ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्त्वमुच्यते ।
नामार्थान्यत्वभाक्चित्तं बोधात्ताम्रसुवर्णवत् ॥ ३० ॥

नामतोऽर्थतश्चान्यत्वं भजत इत्यन्यत्वभाक् ॥ ३० ॥

न सम्भवति चित्तत्वं तेन तत्प्रविलीयते ।
भ्रमः शाम्यति बोधेन नाभावो विद्यते सतः ॥ ३१ ॥

भ्रान्तिबीजत्वमेव चित्तस्य चित्तता सा बोधेन प्रविलीयत इत्यर्थः । घटादिनाशेऽपि
कपालाद्यात्मना परिशेषद्र्शनात्सतः स्वरूपेण नाशः क्वाप्यप्रसिद्ध एवेत्याह##-

अवस्त्वेव विकल्पात्म चित्तादि शशशृङ्गवत् ।
सर्वं तदात्मनस्तस्मात्तद्धि बोधाद्विलीयते ॥ ३२ ॥

वस्तुबोधस्यावस्तुकल्पितांशमात्रबाधकत्वप्रसिद्धेरपि न
सत्त्वांशबाधकत्वप्रसक्तिरित्याह-अवस्त्वेवेति । चित्तादि सर्वं तत्
पारमार्थिकस्यात्मनो विवर्त इति शेषः ॥ ३२ ॥

चित्तं सत्त्वं समायातं किञ्चित्कालं जगत्स्थितौ ।
विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्यतः ॥ ३३ ॥

तर्हि किं जीवन्मुक्तचित्तस्य व्यवहारक्षमावस्था वास्तव्येव नेत्याह-चित्तमिति ।
विहारसमाधिसाक्षात्कारपर्यन्ता तदवस्था न वास्तवी किन्तु
प्रारब्धप्रतिबद्धाविद्यालेशकृतबाधितानुवृत्तिः ।
विदेहकैवल्याविर्भूततुर्यातीतावस्थैव तस्य वास्तवीति भावः ॥ ३३ ॥

ब्रह्मैव भूरिभवनभ्रमविभ्रमौघैरित्थं स्थितं
सममनेकतयैकमेव ।
सर्वात्म सम्भवति नेतरदङ्ग किञ्चिच्चित्तादिकं च न हृदीव हि सन्निवेशः ॥
३४ ॥

तत्तुर्यातीतं ब्रह्म यावन्न ज्ञातं तावच्चित्तजगदादि मिथ्यावेषेण स्थितं
सर्वात्मकं भवति न चित्तादिकं नाम किञ्चिदितरद्वस्त्वन्तरमस्तीति ज्ञानमात्रेण
तन्मात्रस्वभावपरिशेषश्चित्तादेर्युक्त एवेत्याशयेनाह-ब्रह्मैवेति । यथा हृदि
मनोरथपरिकल्पितप्रासादोपवनवाप्यादिसन्निवेशस्तत्रासमावेशादेव नास्ति
तद्वत्परमसूक्ष्मे अच्छिद्रचिदेकरसघने ब्रह्मण्यपि जगदसमावेशादेव
नास्तीत्यर्थः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पूर्वार्धे
चित्तसत्तासूचनं नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चित्तसत्तासूचनं नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥