०४३

त्रिचत्वारिंशः सर्गः ४३

श्रीवसिष्ठ उवाच ।

एतदुक्तं परं तेन स्वयमेव च वेद्म्यहम् ।
राम त्वमपि जानीषे यथेदं समवस्थितम् ॥ १ ॥

इह श्रुत्वा सवैराग्यं रामः स्वात्मशिवार्चनम् ।
प्रबुद्धः कृतकृत्यं स्वं तत्प्रतिष्ठमवर्णयत् ॥

ईऽस्वरोपदिष्टं तत्त्वदर्शनपर्यवसितं स्वात्मशिवार्चनं श्रीरामस्य
श्रद्धातिशयसिद्धये प्रशंसन्स्वयमपि तदेव पुनरुपदिशति-एतदित्यादिना ।
परं सर्वोत्कृष्टम् । इदं जगत्तत्त्वम् ॥ १ ॥

यत्रालीकमलीकेन किलालीके विलोक्यते ।
तस्यां संसारमायायां किं सत्यं किमसन्मयम् ॥ २ ॥

यत्र मायायां अलीके भ्रमे अलीकोपाधिघटितत्वादलीकेन जीवेन अलीकमसदेव
जगद्विलोक्यते ॥ २ ॥

यथा येन विकल्पेन यद्विकल्पेन कथ्यते ।
तथा तेनात्मकल्पेन नगताऽप्यनुभूयते ॥ ३ ॥

तत्र कविकल्पितेन मेरुत्वेन राजादेर्वर्णने तथानुभवो दृष्टान्त इत्याह-यथेति ।
विविधं कल्पयतीति विकल्पेन येन कविना यस्मिन् राजादौ मेर्वादिविविधभावकल्पनं
यद्विकल्पस्तेन काव्यरचनया यथा यथा कथ्यते तथा तथा श्रुत्वा आत्मानं
कल्पयतीत्यात्मकल्पो राजादिस्तेन स्वस्मिन्नगता मेरुता कल्पवृक्षता वाप्यनुभूयते ।
कथमन्यथा काव्यार्थानुभवचमत्कारास्वादस्तस्य बहुवित्तलाभमानादिकं च
कवेः स्यादिति भावः ॥ ३ ॥

यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति ।
यथा नभसि शून्यत्वं तथा सर्गत्वमात्मनि ॥ ४ ॥

विविधकल्पना चाज्ञातस्यात्मनः स्वभाव एवेत्याशयेन दृष्टान्तान्तराण्याह##-

ततः प्रभृति तेनैव क्रमेणार्चनमात्मनः ।
अद्य यावद्गतव्यग्रः कुर्वन्नहमवस्थितः ॥ ५ ॥

एवं स्वाभाविकस्यैव विकल्पाध्यारोपस्यार्चनत्वचिन्तनं
तदाप्रभृत्यद्यपर्यन्तं कुर्वन्नेव स्थित इत्याह-तत इति ॥ ५ ॥

अनेनार्चाविधानेन मयेमे राम वासराः ।
अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि ॥ ६ ॥

यथाप्राप्तैः क्रियाचारकुसुमैरात्मनोऽर्चनम् ।
व्युच्छिन्नमपि व्युच्छिन्नं न कदाचिदहर्निशम् ॥ ७ ॥

सुषुप्तिकाले व्युच्छिन्नमपि कदापि न व्युच्छिन्नम् । तदापि सुखमहमस्वाप्सं न
किञ्चिदवेदिषमित्युत्थितप्रतिसन्धानहेत्वविद्यावृत्तिपुष्पत्रयार्चनसद्भावादिति
भावः ॥ ७ ॥

ग्राह्यग्राहकसम्बन्धे सामान्ये सर्वदेहिनाम् ।
योगिनः सावधानत्वं यत्तदर्चनमात्मनः ॥ ८ ॥

तर्ह्यज्ञानामपि तादृशशिवार्चनं सदैवास्तीति कस्तव तेभ्यो विशेषस्तत्राह##-

दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा ।
संसारविरलारण्ये विहरास्मिन्न खिद्यसे ॥ ९ ॥

सा च सावधानता आसङ्गत्याग एवेति दर्ऽसयन्नर्चने दृष्टफलबाहुल्यकीर्तनेन
रामं प्रवर्तयति-दृष्ट्येति ॥ ९ ॥

दुःखे महति सम्प्राप्ते धनबन्धुवियोगजे ।
एतां दृष्टिमवष्टभ्य विचारं कुरु सुव्रत ॥ १० ॥

त्यक्तस्यासङ्गस्य पुनरनुत्पादे विचारदार्ढ्यं हेतुरित्याह-दुःखे इति ॥ १० ॥

सुखदुःखे न कर्तव्ये धनबन्धूदयक्षये ।
एवम्प्राया एव सर्वा नित्यं संसारदृष्टयः ॥ ११ ॥

सुखदुःखे हर्षविषादौ । एवम्प्राया ईदृशा नश्वरा एव ॥ ११ ॥

जानास्येव गतिं चित्रां विषयाणां प्रमाथिनीम् ।
यथायान्ति यथा यान्ति यथा परिभवन्ति च ॥ १२ ॥

प्रथममायान्ति ततो यान्ति । स्वव्यसनासङ्गेन पुरुषं परिभवन्ति च ॥ १२ ॥

एवमेव प्रवर्तन्ते प्रेमाणि च धनानि च ।
एवमेवावहीयन्ते निमित्तैरविचारितैः ॥ १३ ॥

अविचारितैरतर्कितैः ॥ १३ ॥

न तास्तव न तासां त्वं निर्मलान्तर्जगत्क्रियाः ।
इदमित्थं जगत्किञ्चित्किं मुधा परितप्यसे ॥ १४ ॥

हे निर्मल ता जगत्क्रियास्तवान्तर्न तासां त्वमन्तर्न किञ्चित्तुच्छमेव ॥ १४ ॥

त्वमिहासि जगद्रूपं चिन्मात्रवितताकृते ।
निजावयवकावृत्तौ कः क्रमो हर्षशोकयोः ॥ १५ ॥

यदि तु जगतस्तुच्छतां नेच्छसि तर्ह्यात्मैव जगदिति पश्य । तथादर्शनेऽपि तव
बन्धादिवियोगे स्वावयवपरिवर्तन इव न हर्षशोकप्रसक्तिरित्याह-त्वमिति ॥ १५ ॥

तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।
अतस्तव कथं कुत्र हेयोपादेयकल्पना ॥ १६ ॥

इति चिच्चक्रचाञ्चल्ये चिन्मये जगदम्बुधौ ।
तरङ्गजाले चाम्भोधौ कः क्रमो हर्षशोकयोः ॥ १७ ॥

इति उक्तरीत्या चिद्रूपे जगच्चक्रचाञ्चल्ये ॥ १७ ॥

चिदेकतानतामेत्य सौषुप्तीमागतः स्थितिम् ।
अद्यप्रभृति राम त्वं तुर्यावस्थात्मको भव ॥ १८ ॥

उक्तार्चनस्य परमकाष्ठायां रामं स्थापयति-चिदेकतानतामिति ॥ १८ ॥

समः समसमाभासो भास्वद्वपुरुदारधीः ।
तिष्ठात्मार्चारतो नित्यं परिपूर्ण इवार्णवः ॥ १९ ॥

स्वयं समः सर्ववैषम्यनिर्मुक्तः । समेन ब्रह्मणा समा ऐकरस्यापन्ना
जगदाभासा यस्य ॥ १९ ॥

एतत्त्वं श्रुतवान्सर्वं स्थितस्त्वं परिपूर्णधीः ।
यदिच्छसीतरत्प्रष्टुं तत्पृच्छ रघुनन्दन ॥ २० ॥

यत्पृष्टं प्रथमे कल्पे तदद्य परिचोदय ।

श्रीराम उवाच ।

इदानीं संशयो ब्रह्मन्विनिवृत्तो विशेषतः ॥ २१ ॥

प्रथमे कल्पे विचारारम्भे वैराग्यप्रकरणे त्वया यत्पृष्टं ये प्रश्नाः
कृतास्तेषु अद्य किञ्चिदवशिष्टं चेदस्ति तर्हि तत्परिचोदय पृच्छ ॥ २१ ॥

ज्ञातं ज्ञातव्यमखिलं जाता तृप्तिरकृत्रिमा ।
न मुनेऽस्ति मलं द्वित्वं न चेत्यं न च कल्पनम् ॥ २२ ॥

मलमज्ञानम् । द्वित्वं जीवब्रह्मभेदः । कल्प्यते येन तत्कल्पनं मनः ॥ २२ ॥

तदा ममाभूदज्ञानं प्रशान्तमधुना तु तत् ।
कलङ्क आत्मनोऽस्तीति तदज्ञानवऽसेन या ॥ २३ ॥

भ्रान्तिरासीदिदानीं सा निवृत्ता त्वत्प्रसादतः ।
न जायते न म्रियते न चैवात्मा कलङ्कितः ॥ २४ ॥

सर्वं च खल्विदं ब्रह्ममयमित्युदितोऽस्म्यलम् ।
प्रश्नेभ्यः संशयेभ्यश्च वाञ्छितेभ्यश्च सर्वतः ॥ २५ ॥

ब्रह्मैव ब्रह्ममयं ब्रह्मविवर्तो वा । वाञ्छितेभ्यश्च निवृत्तमिति शेषः ॥ २५ ॥

शुद्धं मे निर्मलं चेतस्त्वष्ट्रा यन्त्रभ्रमादिव ।
सर्वाचारोपदेशेषु प्राप्तप्रोक्तेषु साधुभिः ॥ २६ ॥

त्वष्ट्रा यन्त्रे आरोप्य भ्रमणं भ्रमस्तल्लक्षितं तक्षणं [तक्षणं इति पदं
क्वचिन्न पठ्यते ।] तस्मात्सूर्यबिम्बमिव शुद्धं भास्वरम् । साधुभिः
प्राप्तेभ्य उपगतेभ्यः शिष्येभ्यः प्रोक्तेषु सर्वेषामाचाराणां
साधनानामुपदेशेषु निराकाङ्क्षी ॥ २६ ॥

निराकाङ्क्षी स्थितोऽस्म्यन्तः सुमेरुः कनकेष्विव ।
न तदस्त्यस्ति यत्राशा न तदस्ति यदीप्सितम् ॥ २७ ॥

चिरलभ्ये आशा । अनुपदलभ्ये ईप्सेति भेदः ॥ २७ ॥

न तदस्ति यदादेयं हेयं मध्यं चराचरे ।
इदं हेयमुपादेयमिदं सदिदमप्यसत् ॥ २८ ॥

मध्यमुपेक्ष्यम् ॥ २८ ॥

इति चिन्ताभ्रमः शान्तो निपुणं परमो मुने ।
न स्वर्गमभिवाञ्छामि द्वेष्मि वापि न रौरवम् ॥ २९ ॥

रौरवं नरकविशेषं चापि न द्वेष्मि ॥ २९ ॥

आत्मन्येव हि तिष्ठामि मन्दराद्रिरिवाभ्रमः ।
कणशः कीर्णत्रिजगत्क्षीरसागरसंसृतिः ॥ ३० ॥

कणशः परमाणुशो विभज्य कीर्णानि विक्षिप्तानि विनाशितानीति यावत् त्रिजगन्ति येन
तथाविधस्य क्षीरसागरस्य संसृतिः सर्वतो व्याप्तिरिव व्याप्तिर्यस्य । औत्प्रेक्षिकमेतत् ।
अथवा कणशः प्रसृतैर्यशःक्षीरलवैः कीर्णानि सिक्तानि त्रिजगन्ति यया
तथाविधामनुवंशक्षीरसागरे संसृतिर्व्यवहारो यस्य तथाविधश्चिरसम्भ्रान्तो
रामलक्षणो मन्दराचलो बोधामृतोत्पत्त्या कृतार्थः । साम्प्रतं विश्रान्त
उपरतभ्रमो वृत्त इति परेणान्वयः ॥ ३० ॥

विश्रान्तश्चिरसम्भ्रान्तो निर्भ्रमो राम मन्दरः ।
अवस्त्विदमिदं वस्तु पश्येति कलनास्त्यलम् ॥ ३१ ॥

इदं जगत् इत्थं यथा दृष्टप्रकारमेव नान्यत्तत्त्वमस्तीति येन मूढेन ज्ञातं
तस्य हृदि कुसन्देहजालेन ज्वलितेव अधिकं सन्तापिनी इदं वस्तु इदमवस्तु इति कलना
अलमस्ति हे मुनीश्वर त्वमिति मदुक्तार्थं स्वानुभवसंवादाय पश्येति
परेणान्वयः ॥ ३१ ॥

हृदि तस्य कुसन्देहजालेन ज्वलिताधिकम् ।
इदमित्थं जगदिति ज्ञातं येन मुनीश्वर ॥ ३२ ॥

स यत्र याति कार्पण्यं जगतस्तन्न लभ्यते ।
विचित्राकुलकल्लोलाज्जडाद्वृत्तिविवर्जितात् ॥ ३३ ॥

स तादृशमूढपुरुषो यत्र यस्मिन् धनादिविषये कार्पण्यं याति जगतः सम्बन्धि
तद्वस्तु तत्त्वदृशा न लभ्यतेऽस्माभिरिति शेषः । यतो वयं विचित्रा
अशनायादिलक्षणा आकुलाः कल्लोलाः षडूर्मयो
यस्मिंस्तथाविधाच्छुद्धचिदाकारवृत्तिविवर्जिताज्जडाद्भवसागरात्त्वत्प्रसादेन
तीर्णाः स्म इति परेणान्वयः ॥ ३३ ॥

त्वत्प्रसादेन भगवंस्तीर्णाः स्मो भवसागरात् ।
सम्पदामवधिर्ज्ञातो दृष्टः सीमान्त आपदाम् ॥ ३४ ॥

सर्वसारेऽप्यदीनाः स्मः पूर्णाः स्मः परमेश्वर ।
ययावभेद्यामपरैर्दलिताशामतङ्गजम् ।
संसारसागरे सम्यग्वीरतामागतं मनः ॥ ३५ ॥

सर्वसारे भूमानन्दविषयेऽपि नित्यलब्धत्वाददीनाः स्मः ।
अस्मन्मनःसंसारलक्षणे समरे दलितः आशामतङ्गजो येन तथाविधं सत्
परैरभेद्यां सम्यग्वीरतां ययौ ॥ ३५ ॥

परिगलितविकल्पतामुपेतं प्रगलितवाञ्छमदीनसारसत्त्वम् ।
त्रिजगति यदतिप्रसन्नरूपं प्रमुदितमन्तरनुत्तमं मनो मे ॥ ३६ ॥

पूर्णां मनःस्थितिमेव वर्णयन्नुपसंहरति-परिगलितेति ।
अदीनसारमकार्पण्यदृढं सत्त्वं स्थैर्यं यस्य । त्रिजगति प्रसिद्धानि
पूर्णचन्द्रक्षीरसागरशरदाकाशादीनि यानि प्रसन्नरूपाणि
तान्यतिक्रान्तमतिप्रसन्नरूपम् । सापेक्षसमासश्छान्दसः । अन्तःप्रमुदितमत
एवानुत्तमं मे मनः स्थितमित्यर्थः ॥ ३६ ॥

इत्र्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
विश्रान्तिवर्णनं नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
विश्रान्तिवर्णनं नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥