द्विचत्वारिंशः सर्गः ४२
श्रीवसिष्ठ उवाच ।
ततः स जीवो भगवन्दृष्टवान्देहसम्भ्रमम् ।
आदिसर्गे नभःसंस्थः कामवस्थामुपैति हि ॥ १ ॥
समष्टिव्यष्टिसंसारकॢप्तिरीशादिपूर्विका ।
मायैवेत्युपदिश्यात्र शम्भुः स्वनिलयं ययौ ॥
जीवदेतदवस्थाकं स्थितं पश्यति देहकम् इत्यन्ते योऽध्यारोप उक्तस्तच्छेषं
जिज्ञासुर्वसिष्ठः पृच्छति-तत इति । आदिसर्गे कल्पाद्यध्यासक्रमे । उक्तानुवादः
पूर्वानुसन्धानार्थः ॥ १ ॥
ईश्वर उवाच ।
परस्मात्परमे व्योम्नि पूर्वोक्तक्रमतो वपुः ।
जीवः पश्यति सम्पन्नं स च स्वप्ननरो यथा ॥ २ ॥
स च जीवः स्वप्ननरो यथा सूक्ष्मतमनाडीषु विस्तृततमं ब्रह्माण्डं पश्यति
तद्वत्परमसूक्ष्मे चिदाकाशेऽपि पश्यतीत्यर्थः ॥ २ ॥
सर्वगत्वाच्चिद्धनस्य कार्यं स्वप्ननरोऽपि हि ।
यथा करोत्याशु तथा जीवोऽद्यापि शरीरधृक् ॥ ३ ॥
उक्तमेव दृष्टान्ताशयं विवृणोति-सर्वगत्वादिति । नाडीछिद्रान्तः प्रवेशेऽपि
सर्वशक्तिमतः सत्त्वादिति भावः । कार्यं ब्रह्माण्डं यथा करोति तथा अद्यापि
सर्वेषां प्रसिद्धमित्यर्थः ॥ ३ ॥
सनातनोऽहमव्यक्तः पुमानित्यभिधां ततः ।
करोत्यात्मनि तेनाशु प्रथमः प्रथितः पुमान् ॥ ४ ॥
स एवादिसर्गे समष्ठ्युपाधिको हिरण्यगर्भाख्यः स्वात्मनि बाह्यवस्तुषु च
नामभेदमपि कथयतीत्याह-सनातन इति ॥ ४ ॥
एवं स सर्गे कस्मिंऽस्चित्प्रथमोऽथ सदाशिवः ।
कस्मिंश्चिद्विष्णुरित्युक्तो नाभ्युत्पन्नः पितामहः ॥ ५ ॥
तस्यैव सात्त्विकराजसतामसकल्पेषु सदाशिवादिमूर्तिप्राथम्येनेतरकल्पकत्वं
नियतमित्याह-एवमिति ॥ ५ ॥
पितामहः स कस्मिंश्चित्कस्मिंश्चिदपि चेतरः ।
स च सङ्कल्पपुरुषः सङ्कल्पान्मूर्तिमास्थितः ॥ ६ ॥
आकाशप्रभवो ब्रह्मेति पूर्वरामायणोक्तेर्नाभ्युत्पत्तिनियमः पितामहस्य
नास्तीत्याशयेनाह-पितामह इति । इतरो दुर्गाभैरवविनायकादिः । तेषामपि
तत्तन्माहात्म्यप्रतिपादकपुराणादिभागेषु ब्रह्माद्युद्भवहेतुत्वप्रसिद्धेः । स
उक्तः सदाशिवादिपुरुषः सङ्कल्पमयः । सोऽकामयत बहु स्यां प्रजायेय इति
श्रुत्युक्तमायिकसङ्कल्परूपः ॥ ६ ॥
पुष्टः प्रथमसङ्कल्पस्तां मनोमूर्तिमास्थितः ।
यद्यथा कल्पयत्याशु तत्तथानुभवत्यलम् ॥ ७ ॥
प्रथमसङ्कल्प एव सूक्ष्मभूतसर्गद्वारा पुष्टः
संस्तत्कालसमष्टिव्यष्टिमनोरूपमास्थितो हिरण्यगर्भादिरूपः सन्
यद्भुवनप्रजासर्गादि यथा कल्पयति तत्तथा व्यवहारक्षममनुभवतीत्यर्थः ॥ ७ ॥
तत्त्वसद्रूपमखिलं शून्यवेतालको यथा ।
भ्रमदृष्ट्या तु सद्रूपमित्यहन्ता जगद्गतिः ॥ ८ ॥
तत्त्वदृष्ट्या असद्रूपं भ्रमदृष्ट्या तु सद्रूपं सत्यमिव भाति ॥ ८ ॥
द्रष्टादिपुरुषस्त्वेवं स्वयं सम्पद्यते हि यः ।
स निमेषं प्रति व्योम समुदेत्यथ नीयते ॥ ९ ॥
एवमुक्तरीत्या य आदिपुरुषः स्वसृष्टस्य द्रष्टा सम्पद्यते स निमेषं प्रति
निमेषलक्ष्यकालेऽपि स्वरूपपर्यालोचनमात्रेण व्योम चिदाकाशमात्रं समुदेति । अथ
स्वरूपविस्मरणे निमेषमात्रेणैव अनन्तमपारं च संसारं प्रति नीयते ॥ ९ ॥
निमेष एव कल्पो यो महाकल्पपरम्पराम् ।
प्रतिभासविपर्यासमात्रेणानुभवत्यलम् ॥ १० ॥
कल्पः कल्पनासमर्थः । प्रतिभासस्य विपर्यासः पराक्प्रवणता तन्मात्रेण ॥ १० ॥
परमाणौ परमाणौ व्योम्नि व्योम्नि क्षणे क्षणे ।
सर्गकल्पमहाकल्पभावाभावा भवन्ति ते ॥ ११ ॥
व्योम्नि सूचीछिद्राद्याकाशेऽपि ॥ ११ ॥
दृश्यन्ते केचिदन्योन्यं साधर्म्याद्वासनागतेः ।
मिथः केचिन्न दृश्यन्ते दृष्टेनाथ सदात्मना ॥ १२ ॥
ते च सर्गभेदा यावतां जीवानां तुल्यकालं तुल्यगोचरवासनोद्भवस्तावतां मिथो
दर्शनादिव्यवहारसंवादिनः । अन्येषां तच्छून्या
इत्यैन्दवोपाख्यानन्यायमाश्रित्याह-दृश्यन्त इति । अदर्शनं च
कल्पितरूपांशे । अधिष्टानांशे तु सर्वेषां नित्यापरोक्षतैवेत्याह-दृष्टेनेति ॥
१२ ॥
सर्गाः सर्गेण सर्वत्र सम्भवन्ति न ते शिवे ।
भवन्ति परमे व्योम्नि व्योमरूपा इति स्वयम् ॥ १३ ॥
तत्र युक्तिमाह-सर्गा इति । यतः सर्गेण सर्गात्मना स्थितेन जीवेन सम्भाव्यमानाः
सन्त एव सर्गाः सम्भवन्ति न तु ते शिवे परमार्थस्वभावे परमे व्योम्नि । तत्र
तेषां व्योमरूपत्वस्यैव पर्यवसानादित्यर्थः ॥ १३ ॥
स्वयं च सदसद्रूपा लीयन्ते स्वप्नशैलवत् ।
सर्गैर्न देश आक्रान्तो न च कालो न कर्तृता ॥ १४ ॥
ननु सर्गा ब्रह्मसत्तानिरपेक्षाः स्वसत्तया वा देशकालसम्बन्धबललब्धसत्तया वा
सन्तु तत्राह-स्वयं चेति । सदसद्रूपा नैकतरनियतस्वभावाः । एवं देशः
कालश्च सर्गैः प्राङ् नाक्रान्तः । तयोरपि सर्गान्तर्गतत्वात्सर्गसापेक्षरूपत्वेन
सर्गाधीनकल्पनत्वाच्चेत्यर्थः । तर्हि सर्ग एव स्वस्य
कालादिसम्बन्धरूपमन्यादृशं वा सत्त्वं करोतु तत्राह-न कर्तृतेति ।
सर्गाणामिति विपरिणामेनानुषङ्गः ॥ १४ ॥
न चैते सत्स्वरूपा वा न कल्प्यं नापि च क्षणः ।
न चेदं जायते किञ्चिन्न च किञ्चन नश्यति ॥ १५ ॥
तर्हि सर्गाः स्वयमेव यावत्प्रलयं सत्स्वरूपाः सन्तु तत्राह-न चैते इति ।
सर्गसत्पदयोः पर्यायत्वापत्तेर्नाशानापत्तेः । नाभावो विद्यते सतः इति
भगवत्सिद्धान्तादिति भावः । तर्हि सर्गे सत्त्वमध्यस्तमेवास्तु तत्राह-न
कल्प्यमिति । असतः सत्त्वाध्यासाधिष्ठानत्वासम्भवादिति भावः । तर्हि
वैनाशिकमतवत्तत्तत्क्षणरूपमेव सत्त्वं धारयानुगतमस्तु तत्राह-नापीति ।
क्षणरूपस्य सत्त्वस्य प्रतीतिकालपर्यन्तमनवस्थितेरत्यन्ताप्रतीतस्य सत्त्वं अलीकस्यापि
तदापत्तेरिति भावः । एतेन आद्यन्तक्षणसम्बन्धलक्षणौ जन्मनाशावपि सर्गस्य
निरस्तावित्याशयेनाह-न चेदमिति ॥ १५ ॥
सर्वं सङ्कल्परूपेण चिच्चमत्कुरुते चिति ।
स्वप्नपत्तननिर्माणपातोत्पातनवज्जगत् ॥ १६ ॥
एवं चास्मत्सिद्धान्त एव शरणमित्याशयेन प्रागुक्तं स्मारयति-सर्वमिति ॥ १६ ॥
न देशकालक्रमणं करोति च मनागपि ।
यथा सङ्कल्पशैलेन देशकालाद्यनन्तकम् ॥ १७ ॥
कथं तर्हि देशकालाक्रान्तताप्रत्ययस्तत्राह-यथेत्यादिना ॥ १७ ॥
आक्रान्तमपि नाक्रान्तं तथैव जगता सता ।
अथ [अप्यनाक्रान्तमिति पाठः ।] नाक्रान्तमाक्रान्तमिव
सङ्कल्पमेरुणा ॥ १८ ॥
यथा उच्चैः स्थितेन सङ्कल्पमेरुणा नाक्रान्तमेव अथापि सङ्कल्पकाले आक्रान्तमिव
प्रतिभासते तद्वदिति परेणान्वयः ॥ १८ ॥
यथोच्चैर्देशकालादि तथैव जगता सता ।
सम्पद्यते यथा योऽसौ पुरुषः सर्वकारकः ॥ १९ ॥
अत एव सङ्कल्पानुसारेणैव पुरुषकीटस्थावरादिजन्मवैचित्र्यमित्याह-सम्पद्यत
इति । सर्वकारकः ऐहिकामुष्मिकसर्वक्रियासमर्थः ॥ १९ ॥
अनेनैव क्रमेणेह कीटः सम्पद्यते क्षणात् ।
तस्थुषामेवमेवेह जातयो हि चतुर्विधाः ॥ २० ॥
तस्थुषां स्थावराणां योनिरपि सम्पद्यते । एवमेव अण्डजादिचतुर्विधजातयः
सम्पद्यन्त इत्यर्थः ॥ २० ॥
रुद्राद्यास्तृणपर्यन्ताः सम्पद्यन्ते क्षणं प्रति ।
परमाणूपमाः सन्ति तथा केचिदणूपमः ॥ २१ ॥
क्षणं प्रति मायाधिष्ठातुः सङ्कल्पक्षणे एव । वासनासौक्ष्म्यात्परमाणूपमा
ईषद्विकासे त्रसरेणूपमाः सर्गाः साम्प्रतं सन्ति ॥ २१ ॥
एष एव क्रमस्तेषां सति वाऽसति सर्गके ।
अस्याः संसारमायाया एवम्भूतार्थभावनात् ॥ २२ ॥
वर्तमानसर्गवदेवातीतानागतानामपि क्रमो बोध्य इत्याह-एष एवेति । तेषां
रुद्रादितृणान्तानाम् । कथं तर्हि सर्गोपरमस्तत्राह-अस्या इति । एवम्भूतस्य
परमार्थतत्त्वस्य भावनात्साक्षात्कारात् ॥ २२ ॥
भेदोपशान्तावभ्यासाद्भवत्युपगतः शिवः ।
निमेषशतभागार्धमात्रमेव परा चितिः ॥ २३ ॥
क्षणलेशमात्रमपि चिदात्मनो बहिर्मुखत्वे कल्पकोटिविस्तृतानर्थोदय इत्याह##-
स्वरूपतश्चेल्लुठिता सैषोदेत्यनवस्थितिः ।
सा ज्ञरूपा शिलाकाश इव चित्स्वात्मनि स्थिता ॥ २४ ॥
लुठिता प्रच्युता । चितः स्वरूपप्रतिष्ठैव ब्रह्मतेत्याह-सेति । ज्ञस्तत्त्ववित् तेन
रूप्यते अनुभूयत इति ज्ञरूपा ॥ २४ ॥
तदनाद्यवभासात्म ब्रह्मशब्देन गीयते ।
अस्मिन्प्रौढिं गते सर्गे महाचिद्द्योतनं न च ॥ २५ ॥
अभिमानवृद्ध्या यथा यथा सर्गः प्रौढिं गच्छति तथा तथा
चिदात्मविद्योतनह्रासः परिच्छेदाधिक्यप्रयुक्ता आत्मनः क्षुद्रता चेत्याह##-
सङ्गतासत्यदिग्देशकालांशपरमाणुता ।
जीवतामागता भूततन्मात्रवलनाक्रमात् ॥ २६ ॥
सङ्गतैरसत्यैर्दिग्देशकालकृतैरंशैः परिच्छेदैः परमा मशकपुत्तिकाद्यन्ता
अणुता क्षुद्रता च । आत्मन इति शेषः । परमाणुना इति पाठे तु परमेणाणुना
लिङ्गोपाधिना ब्रह्मचिज्जीवतामागता सती
भूततन्मात्रशब्दितदेहेन्द्रियादिवलनाक्रमात् हे अङ्ग मृगी वीरुल्लता वा
कीटदेवासुरादिकं वा भवतीति परेणान्वयः ॥ २६ ॥
भवत्यङ्ग मृगीवीरुत्कीटदेवासुरादिकम् ।
यस्मिन्नित्ये ततेऽनन्ते दृढे स्रगिव तिष्ठति ॥ २७ ॥
अत एव दृढसूत्रे स्रगिव विश्वं सदसद्ग्रथितं तिष्ठतीत्याह-यस्मिन्निति ॥ २७ ॥
सदसद्ग्रथितं विश्वं विश्वगे विश्वकर्मणि ।
न तद्दूरे न निकटे नोर्ध्वे नाधो न तेन मे ।
न पूर्वं नाद्य न प्रातर्न सन्नासन्न मध्यमम् ॥ २८ ॥
विवेके तु तत्सर्वदिक्कालादिपरिच्छेदनिर्मुक्तमेवेत्याह-न तदिति । ते त्वदीयं न । मे
मदीयं च न । माध्यमं सदसत्पक्षान्तरालिकमनिर्वचनीयम् ॥ २८ ॥
अनुभवकलनामृतेऽस्य माता भवति न सर्वविकल्पनेष्वसत्सु ।
फलदुरुविभवा प्रमाणमाला स्थितिमुपयाति न वारिणीव वह्निः ॥ २९ ॥
अत एव स्वानुभवमात्रमेव तत्र मानं न तु लौकिकं मातृमानादि तत्र क्रमत
इत्याह-अनुभवेति । एवं सर्वविकल्पनेष्वसत्सु अस्य स्वानुभवरूपां कलनां
स्वप्रकाशचैतन्यमृते विना अन्यो माता अनुभविता न भवति । या तु लौकिकी
फलन्त्युरवो व्यवहारविभवा यस्याः सकाशात्तथाविधा प्रमाणमाला सा वारिणि
वह्निरिव तत्र स्थितिं नोपयाति । तत्र त्रिपुटीमात्रस्य बाधादित्यर्थः ॥ २९ ॥
यथापृष्टं मुने प्रोक्तं त्वयि कल्याणमस्तु ते ।
दिशं प्रयामोऽभिमतामागच्छोत्तिष्ठ पार्वति ॥ ३० ॥
उपदेश्यान्तरापरिशेषं दर्शयन्नीश्वरः स्वोपदिष्टार्थमाशिषापि
वसिष्ठमनुगृह्योपदेशमुपसंहृत्योत्तस्थावित्याह-यथेति ॥ ३० ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा नीलकण्ठोऽसौ त्यक्तपुष्पाञ्जलौ मयि ।
ततार परिवारेण सममम्बरकोटरम् ॥ ३१ ॥
ततार पुप्लुवे ॥ ३१ ॥
तस्मिन्गते त्रिभुवनाधिपतावुमेशे स्थित्वा क्षणं तदनु संस्मृतिपूर्वमेव ।
अङ्गीकृतं नवपवित्रधिया मयात्मदेवार्चनं शमवतैव जिहासितं तत् ॥ ३२
॥
पूर्वमेव शमवता मया तस्य श्रीगुरोरीश्वरस्यानुस्मृतिपूर्वकमेव तदुपदिष्टं
नित्यापरोक्षदेवार्चनं नवया परिष्कृतया श्रद्धादिपवित्रया च धिया
मयानुष्ठेयत्वेनाङ्गीकृतं तत्प्राक्तनं जडदेवार्चनं जिहासितं चेत्यर्थः ॥ ३२
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
परमात्माभिधानं नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
परमात्माभिधानं नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥