०४१

एकचत्वारिंशः सर्गः ४१

श्रीवसिष्ठ उवाच ।

शिवः किमुच्यते देव परम्ब्रह्म किमुच्यते ।
आत्मा किमुच्यते नाथ परमात्मा किमुच्यते ॥ १ ॥

शास्त्राचार्यादिसाफल्यं नामभेदप्रकल्पनम् ।
अध्यारोपक्रमः पश्चादपवादः प्रदर्श्यते ॥

यदुक्तं नेश्वरस्याकृतेर्ब्रह्मन्व्यपदेशो हि युज्यते इत्यादिना
पूज्यतत्त्वमरूपकमव्यपदेश्यं तस्य शिवादिशब्दैरपि कथं व्यपदेश
इत्याशयेन पृच्छति-शिव इति । यदि शिवादिशब्दप्रवृत्तिनिमित्तकं कञ्चिदपि
धर्मं तन्न स्पृशति तर्हि शिव इति किन्निमित्तमुच्यते । एवं परम्ब्रह्मेत्याद्यपि
किन्निमित्तमुच्यत इत्यर्थः ॥ १ ॥

तत्सत्किञ्चिन्न किञ्चिच्च शून्यं विज्ञानमेव च ।
इत्यादिभेदो भगवंस्त्रिलोकेश किमुच्यते ॥ २ ॥

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इत्यादिव्यपदेशेषु भिनत्तीति भेदः
परस्परव्यावर्तकप्रवृत्तिनिमित्तकनामविशेषः किन्निमित्तमुच्यत इत्यर्थः ॥ २ ॥

ईश्वर उवाच ।

अनाद्यन्तमनाभासं सत्किञ्चिदिह विद्यते ।
इन्द्रियाणामगम्यत्वाद्यन्न किञ्चिदिव स्थितम् ॥ ३ ॥

पृष्टेषु नामसुसदिति नाम्नस्तावत्प्रवृत्तिनिमित्तमन्यन्न वाच्यम् । तदर्थे
व्यावर्त्यस्याप्रसिद्ध्यैव व्यावृत्त्यनपेक्षणात् । स्वत एवासद्व्यावृत्तत्वेन
प्रवृत्तिनिमित्तताकृततद्व्यावृत्तिकत्वाभावाच्च । अन्यथा
तत्प्रवृत्तिनिमित्तस्याप्यसतः सद्व्यावर्तकत्वायोगात्सत्त्वेऽवश्यं वक्तव्ये
तुल्यन्यायेन तत्रापि सच्छब्दप्रवृत्तिनिमित्तमन्यदेव वाच्यमेवं तत्र
तत्रापीत्यनवस्थापातात् । एवं किञ्चिन्नकिञ्चिच्छब्दयोरपि इन्द्रियावेद्यत्वेन
तद्वेद्यधर्मैर्निर्देष्टुमशक्यत्वाद्व्यावृत्तिनिरपेक्षतयैव तत्र
प्रवृत्तिसम्भवः । न ह्यव्यावृत्तं व्यावर्तकधर्मशून्यं वा शब्दाः न
बोधयन्त्येवेति शक्यं वक्तुम् । अव्यावृत्तनिर्धर्मकादिशब्दानां बोधकत्वस्य
सर्वानुभवसिद्धत्वात् । न हि निर्धर्मकत्वं धर्मः अव्यावृत्तं च व्यावृत्तेभ्यो
व्यावृत्तमिति वक्तुं शक्यम् । स्वमाता वन्ध्येतिवद्व्याहतत्वात् । एवं च
शिवादिशब्दानामपि निर्दोषनिरतिशयानन्दस्वरूपमात्रे निमित्तनिरपेक्षैव
प्रवृत्तिस्तुल्य न्यायादुपपन्ना । तत्स्वरूपप्रयुक्तैव वा शिवे दुःखादिव्यावृत्तिपीति
न नामभेदानुपपत्तिरित्याशयेनोत्तरमाह-अनाद्यन्तमिति ।
अनाद्यन्तमाद्यन्तपरिच्छेदाभ्यां स्वतो व्यावृत्तम् ।
अनाभासमाभासान्तरनिरपेक्षं स्वयञ्ज्योतिः । ईदृशं सद्वस्तु इह स्वे महिम्नि
स्वत एव विद्यते न देशकालधर्मज्योतिरादिपरापेक्षसत्तया पराधीनव्यावृत्त्या
चेत्यर्थः । इवकारस्तत्र किञ्चित्त्वादेरपि मिथ्यात्वद्योतनार्थः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

यदिन्द्रियाणां बुद्ध्यादियुक्तानामप्यदृश्यताम् ।
गतं तत्कथमीशान त्वशङ्केनोपगम्यते ॥ ४ ॥

मनोबुद्ध्यहङ्कारचित्तानामिन्द्रियगृहीतार्थमात्रगोचरसङ्कल्प##-
बुद्ध्याद्यगम्यत्वमप्यर्थादुक्तमेव । न च बुद्ध्याप्यगम्यस्य बोधे
कश्चिदुपायः सम्भवतीति सतोऽपि तस्य बोधोपायासम्भवात् अशङ्केन
उपायासम्भवशङ्कारहितेनाधिकारिणा तद्ब्रह्म कथमुपगम्यते अधिगम्यते ।
साक्षात्क्रियत इत्यर्थः ॥ ४ ॥

ईश्वर उवाच ।

यो मुमुक्षुरविद्यांशः केवलो नाम सात्त्विकः ।
सात्त्विकैरेव सोऽविद्याभागैः शास्त्रादिनामभिः ॥ ५ ॥

प्रमाणजन्यया शुद्धसात्त्विकभागपरिणामरूपया ब्रह्माकारवृत्त्या
अविद्यावरणमपनीयते । आवरणापगमे तु ब्रह्म स्वप्रकाशत्वादेव तत्त्वतो भाति । स
एवास्य साक्षात्कारो न बुद्धिवृत्त्यभिव्यक्तचिद्व्याप्तिरूपो
मुमुक्षुर्मोक्षेच्छुर्मनोलक्षणः शमदमादिसाधनपरिशुद्धत्वात्केवलः
सात्त्विकोऽविद्यांशः स सच्छास्नसद्गुरुसत्सङ्गादिनामभिः
सात्त्विकैरेवाविद्याभागैः सम्पादितया श्रेष्ठया
श्रवणमनननिदिध्यासनसाक्षात्कारान्तस्ववृत्तिपरम्परया
बहुतरजन्मसञ्चितयज्ञदानादिसुकृतसम्भृतत्वाच्छ्रेष्ठां स्वकार्याविद्यां
क्षालयन्नेव चिरं तिष्ठति ॥ ५ ॥

अविद्यां श्रेष्ठया श्रेष्ठां क्षालयन्निह तिष्ठति ।
मलं मलेनापहरन्युक्तिज्ञो रजको यथा ॥ ६ ॥

काकतालीयवत्पश्चादविद्याक्षय आगते ।
प्रपश्यत्यात्मनैवात्मा स्वभावस्यैष निश्चयः ॥ ७ ॥

किं ततस्तत्राह-काकेति । ततश्चिराभ्यासात्काकतालीयन्यायेन
भाग्यपरिपाकादुत्थितया पूर्णब्रह्माकारवृत्त्या अविद्यायाः क्षये निःशेषोच्छेदे
आगते सति अनावरण आत्मा आत्मनैवात्मानं प्रपश्यति ।
वास्तवस्वप्रथास्वभावएवावतिष्ठत इत्यर्थः । आत्मस्वभावस्य एष
उक्तस्वप्रकाशस्वरूपपरिशेष एव निश्चयः असन्दिग्धाविपर्यस्तसाक्षात्कारो
नान्यादृश इत्यर्थः । अथवा अविद्यास्वभावस्यैव उक्तप्रकार एव क्षयनिश्चयो
नान्यादृश इत्यर्थः ॥ ७ ॥

यथाकथञ्चिदङ्गारे निघृष्य क्षालयञ्छिशुः ।
करनैर्मल्यमाप्नोति कार्ष्ण्याङ्गारक्षये यथा ॥ ८ ॥

अविद्यांशेनैवाविद्याक्षये आत्मनैवात्मनैर्मल्यसिद्धौ च दृष्टान्तमाह##-
अङ्गारयोः क्षयात्प्रक्षालितेऽपि हस्ते पुनःपुनस्तन्निघर्षणेन करनैर्मल्यं
प्राप्नोति । निघर्षणोपजनितरेणुपरम्परालक्षणकार्ष्ण्येनाङ्गारयोः क्षये तु
क्षालयन्पुनरङ्गारालाभात्करस्य स्वतःसिद्धमेव नैर्मल्यं सौन्दर्यं स्वत एव
प्राप्नोति यथा तथा सात्त्विकस्तामसश्चाविद्याभागः शास्त्राद्यैः स्वभागान्तरैः
सहायैर्यथाकथञ्चिदात्मानं विचारयेच्चेद्द्वयोरपि भागयोर्नाशो
निर्मलात्मोदयश्च सिद्ध्यतीत्यर्थः ॥ ८ ॥

यथाकथञ्चिच्छास्त्राद्यैर्भागैर्भागं विचारयेत् ।
सात्त्विकस्तामसो भागो द्वयोरात्मोदयस्तथा ॥ ९ ॥

पश्यत्यात्मानमात्मैव विचारयति चात्मना ।
आत्मैवेहास्ति नाविद्या इत्यविद्याक्षयं विदुः ॥ १० ॥

ननु बुद्ध्या आत्मा विचार्य निर्धार्यते तत्कुतो न बुद्धिदृश्यतात्मन इति चेन्न ।
बुद्धेर्जडाया विचारादौ स्वातन्त्र्यं किन्त्वात्मैव
बुद्ध्याद्युपायैर्विचारादिनाऽविद्यां बाधित्वा स्वयं प्रथत इत्याह-पश्यतीति ॥ १०

यावत्किञ्चिदिदं वस्तु नाना नात्मावगम्यताम् ।
क्रमा गुरूपदेशाद्या नात्मज्ञानस्य कारणम् ॥ ११ ॥

अत एव गुरुशास्त्रादिनानाभेदा न आत्मा नाप्यात्मज्ञानहेतवः आत्मस्वरूपस्य
तज्ज्ञानस्य साधनानपेक्षत्वादित्याशयेनाह-यावदिति ॥ ११ ॥

गुरुर्हीन्द्रियवृत्तात्मा ब्रह्म सर्वेन्द्रियक्षयात् ।
यद्वस्तु यत्क्षये प्राप्यं तत्तस्मिन्सति नाप्यते ॥ १२ ॥

तत्रोपपत्त्यन्तरमाह-गुरुरिति इन्द्रियैर्वृत्तं घटितं यत्पुर्यष्टकं तदात्मा ॥
१२ ॥

अकारणान्यपि प्राप्ता भृशं कारणतां द्विज ।
क्रमा गुरूपदेशाद्या आत्मज्ञानस्य सिद्धये ॥ १३ ॥

तर्हि किं गुर्वादयो व्यर्था नेत्याह-अकारणानीति । सिद्धये
विस्मृतकण्ठचामीकरवल्लाभाय ॥ १३ ॥

क्रमे गुरूपदेशानां प्रवृत्ते शिष्यबोधतः ।
अनिर्देश्योऽप्यदृश्योऽपि स्वयमात्मा प्रसीदति ॥ १४ ॥

प्रसीदति अभिव्यक्तो भवति ॥ १४ ॥

शास्त्रार्थैर्बुध्यते नात्मा गुरोर्वचनतो न च ।
बुध्यते स्वयमेवैष स्वबोधवशतस्ततः ॥ १५ ॥

एवमावश्यकत्वे कथमकारणत्वोक्तिस्तत्राह-शास्त्रार्थैरिति ॥ १५ ॥

गुरूपदेशशास्त्रार्थैर्विना चात्मा न बुध्यते ।
एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी ॥ १६ ॥

प्रकाशिनी अभिव्यञ्जिका ॥ १६ ॥

गुरुशास्त्रार्थशिष्याणां चिरसंयोगसत्तया ।
अहनीव जनाचार आत्मज्ञानं प्रवर्तते ॥ १७ ॥

कर्मबुद्धीन्द्रियाद्यन्तसुखदुःखादिस।क्षये ।
शिव आत्मेति कथितस्तत्सदित्यादिनामभिः ॥ १८ ॥

अत एव बोधनिरस्तसर्वामङ्गलः परमानन्दात्मा स्वत एव शिवशब्दार्हो न
प्रवृत्तिनिमित्तसापेक्ष इत्युक्तमित्याह-कर्मेति ॥ १८ ॥

यत्रेदमखिलं नास्ति तद्रूपेणैव चास्ति वा ।
तदाकाशादच्छतरमनन्तं सदिवास्ति हि ॥ १९ ॥

जगत् बाधे नास्ति । आरोपे चास्ति । तदधिष्ठानतत्त्वं अस्ति हि अस्त्येव ।
व्यावहारिकराद्वैलक्षण्यात्सदिव ॥ १९ ॥

अविश्रान्ततया यत्र तनुविद्यैर्मुमुक्षिभिः ।
विचित्रशुद्धमननकलङ्ककलितात्मभिः ॥ २० ॥

शिवब्रह्मसदादिनामकल्पनापि जीवन्मुक्तानामधिकारिप्रबोधनायैवेत्याह##-
तत्त्वस्य च मननं तल्लक्षणो यः शुद्धात्मनि कलङ्कस्तद्युक्त आत्मा मनो येषाम् ॥
२० ॥

अदूर एव तिष्ठद्भिर्जीवन्मुक्तस्य दृक्पथे ।
मोक्षोपासकबोधाय शास्त्रार्थरचनाय च ॥ २१ ॥

परमार्थस्य अदूरे सन्निहिते जीवन्मुक्तस्य दृक्पथे तिष्ठद्भिः । मोक्षाय
[मोक्षस्योपासका इति पाठः ।] स्वोपासका ये भक्तास्तेषां बोधाय
शास्त्रार्थस्य तत्त्वतज्ज्ञानतदुपायानां रचनाय सम्यगुपपादनाय ॥ २१ ॥

ब्रह्मेन्द्ररुद्रप्रमुखैर्लोकपालैः सुपण्डितैः ।
पुराणवेदसिद्धान्तसिद्धये भावितात्मभिः ॥ २२ ॥

पुराणानां वेदानां सिद्धान्तानां बादरायणसूत्रादीनां सिद्धये सार्थक्याय ॥
२२ ॥

चिद्ब्रह्म शिव आत्मेशपरमात्मेश्वरादिका ।
एतस्मिन्कल्पिता सञ्ज्ञा निःसञ्ज्ञे पृथगीश्वरे ॥ २३ ॥

पृथक् सञ्ज्ञा कल्पिता ॥ २३ ॥

एवमेतज्जगत्तत्त्वं स्वं तत्त्वं शिवनामकम् ।
सर्वथा सर्वदा सर्वसर्वं यत्सुखमास्व भो ॥ २४ ॥

भो वसिष्ठ वियदादिजगदारोपाधिष्ठानत्वाज्जगत्तत्त्वम्
अवस्थात्रयारोपाधिष्ठानत्वात्स्वं तत्त्वं च यत्सर्वदा सर्वप्रकारैः सर्ववस्तूनां
सर्वभावनिर्वाहकं तत्केवलं ब्रह्मसुखमेव नाणुमात्रमप्यन्यदस्तीति निश्चित्य
त्वमास्व ॥ २४ ॥

शिव आत्मा परं ब्रह्मेत्यादिशब्दैस्तु भिन्नता ।
पुरातनैर्विरचिता तस्य भेदो न वस्तुतः ॥ २५ ॥

एवं देवार्चनं नित्यं ज्ञः कुर्वन्मुनिनायक ।
यत्रास्मदादयो बृत्यास्तत्प्रयान्ति परं पदम् ॥ २६ ॥

एवमुक्तस्थितिरूपं देवार्चनम् । यत्र यस्मिन्परमशिवपदे अस्मदादय
एकैकगुणाभिमानिनो भृत्या इव सृष्ट्यादिकर्मनियताः ॥ २६ ॥

श्रीवसिष्ठ उवाच ।

अविद्यमानमेवेदं विद्यमानमिव स्थितम् ।
यथा तन्मे समासेन भगवन्वक्तुमर्हसि ॥ २७ ॥

इदानीं वसिष्ठः शुद्धचिति जीवभावतत्संसरणारोपक्रमं जिज्ञासुः पृच्छति##-

ईश्वर उवाच ।

योऽसौ ब्रह्मादिशब्दार्थः संविदं विद्धि केवलम् ।
स्वच्छमाकाशमप्यस्य [आकाशमपि मध्यस्थं इति पाठः ।] स्थूलं
मेरुरणोरिव ॥ २८ ॥

उत्तरोत्तरारोपे स्थौल्योपचयं वक्तुं परमसूक्ष्मरूपं मूलं दर्शयति##-
भावः ॥ २८ ॥

सा वेद्यमिह गच्छन्ती याति चिन्नामयोग्यताम् ।
अप्यवेद्यवती नूनमुन्मन्यन्तपदस्थिता ॥ २९ ॥

सा चिद्वेद्यगोचरसंस्कारोद्बोधाद्वेद्यकल्पनोन्मुखी यदा भवति तदा चेतनाच्चिदिति
क्रिया नामयोग्या भवतीत्यर्थः । उन्मन्यन्तपदे
निर्विकल्पसमाधिप्रसिद्धचिदानन्दैकरसस्वभावे स्थितापि ॥ २९ ॥

क्षणाद्भावितवेद्यत्वादहन्तामनुगच्छति ।
पुरुषत्वात्पुमान्स्वप्ने वनवारणतामिव ॥ ३० ॥

अस्याहन्तादिरूपाया देशतां कालतां गताः ।
सम्पद्यन्ते ततः शून्यरूपिण्यः सख्य एव ताः ॥ ३१ ॥

इयत्तापौर्वापर्यावगाहनाद्देशतां कालतां च गताः कल्पनाः सम्पद्यन्ते
ताश्चाहन्तायाः सख्य इत्युत्प्रेक्षा ॥ ३१ ॥

ताभिः संवलिता सैव सत्ता जीवाभिधानिका ।
भवति स्पन्दविज्ञाना पवनस्येव लेखिका ॥ ३२ ॥

ताभिर्देशकालकल्पनाभिः संवलिता सा
अहन्तास्पदगोचरसंस्कारोद्बोधात्स्पन्दविज्ञाना सती पवनस्य लेखिकेवान्तः
प्राणस्पन्दा सती जीवाभिधानिका भवति । जीव प्राणधारणे इति
धात्वर्थानुगमादित्यर्थः ॥ ३२ ॥

जीवशक्तिस्तथाभूता निश्चयैकविलासिनी ।
बुद्धितामनुयाता सा भवत्यज्ञपदे स्थिता ॥ ३३ ॥

एवं निश्चयसंस्कारोद्बोधाद्बुद्ध्यादिशब्दवाच्यापि भवतीत्याह-जीवेति ॥ ३३ ॥

शब्दशक्त्या क्रियाशक्त्या ज्ञानशक्त्यानुगम्यते ।
प्रत्येकं प्रस्फुरत्यन्तरप्रदर्शितरूपया ॥ ३४ ॥

ततः कायिकवाचिकमानसिकव्यवहारसंस्कारोद्बोधाच्छब्दादिशक्त्या
अहन्तानुगम्यते । न प्रदर्शितमत्यन्तपिहितं तात्त्विकमात्मरूपं यया ॥ ३४ ॥

मिलित्वैष गणः क्षिप्रं स्मृतिं समनुकूलयन् ।
मनो भवति भूतात्मबीजं सङ्कल्पशाखिनः ॥ ३५ ॥

आतिवाहिकदेहोक्तिभाजनं तद्विदुर्बुधाः ।
अन्तस्थया ब्रह्मशक्त्या ज्ञरूपं स्वात्मनात्मदृक् ॥ ३६ ॥

अन्तस्थया अनावृतसाक्षिरूपया ब्रह्मशक्त्या व्याप्तं जानातीति ज्ञ इति
प्रमातृरूपं सम्पद्यते । तच्चात्मनः स्वप्रकाशताबलादेवेत्याह##-

सम्पद्यमाना एवास्मिंश्चेतसीमा हि शक्तयः ।
पश्चादिह बहिष्ठास्ता उद्यन्त्यनुदिता अपि ॥ ३७ ॥

एवमन्तःकल्पना बाह्यदृश्यसत्ताकल्पनायां हेतुरित्याह-सम्पद्यमाना इति ।
ताः वक्ष्यमाणाः ॥ ३७ ॥

वातसत्ता स्पन्दसत्ता स्पर्शसत्ता तथैव च ।
त्वक्सत्ता तेजसां सत्ता तथा सत्ताप्रकाशिनी ॥ ३८ ॥

तेजःसत्तायाः प्रकाशिनी चक्षुःसत्ता ॥ ३८ ॥

रूपसत्ता जलसत्ता स्वादुसत्ता तथैव च ।
तथैव रससत्ता च गन्धसत्ता तथैव च ॥ ३९ ॥

रसयतीति रसो रसनेन्द्रियं तत्सत्ता ॥ ३९ ॥

भूसत्ता हेमसत्ता च पिण्डसत्ता च पीवरी ।
देशसत्ता कालसत्ता सर्वाढ्याकारवर्जिता ॥ ४० ॥

हेमशब्देन रजतस्वर्णमये ब्रह्माण्डखर्परे ग्राह्ये । पीवरी अतिमहती
ब्रह्माण्डपिण्डसत्ता ॥ ४० ॥

सर्वसत्तागणं चैतत्क्रोडीकृत्य स्वरूपवत् ।
स्फुरत्याश्रित्य पत्रादि बीजं बीजादितां गतम् ॥ ४१ ॥

स्व्रूपवत्तादात्म्येन क्रोडीकृत्य सङ्गृह्य । यथा बीजमुत्तरोत्तरपरिणामेन
बीजादितां गतमङ्कुरकाण्डशाखापत्रादि क्रोडीकृत्य स्फुरति तद्वत् ।
बीजाद्बीजादितां इति पाठे बीजन्ति उत्तरोत्तरबीजानि
येभ्यस्तादृशानामङ्कुरकाण्डादिपरम्पराणामादितां निदानतां गतम् ॥ ४१ ॥

एतत्पुर्यष्टकं विद्धि देहोऽयं चातिवाहिकः ।
अपारबोधमेतत्तु स्फुरत्यङ्ग विभागवत् ॥ ४२ ॥

एतदुक्तं सर्वसत्ताक्रोडीकृतस्व्रूपं पुर्यष्टकं स्थूलादिदेहत्रयात्मकम् ।
अयमेव वासनात्मना आतिवाहिको देहः । अपारोऽपरिच्छिन्नो बोधश्चित्स्वरूपं यस्य
तथाविधं ब्रह्मैव एतत् उक्तविभागवत्स्फुरति नान्यदित्यर्थः ॥ ४२ ॥

एवमाद्यङ्गसम्पन्नं सम्पन्नं न च किञ्चन ।
न ज्ञानं न च तद्रूपं न विदाचितचेतनम् ॥ ४३ ॥

एवमारोपक्रमं प्रपञ्च्यापवादं दर्शयति-एवमादीति ।
सम्पन्नमज्ञदृशा । तत्त्वदृशा तु न किञ्चन सम्पन्नम् । तत् पुर्यष्टकरूपम् ।
विदा तत्र तत्र चिदाभासेनाचितं चेतनमपि न ॥ ४३ ॥

परं परे प्रस्फुरितं केवलं केवलात्म सत् ।
जलपीठस्य जठरे जलद्रवविलासवत् ॥ ४४ ॥

जलपीठस्य जलाधारस्य । समुद्रस्येति यावत् ॥ ४४ ॥

संवित्संवेदनैकात्म पृथगेतदचेतनम् ।
सम्पद्यते परिज्ञातं सङ्कल्पनगरोपमम् ॥ ४५ ॥

कथमिदं विज्ञातं तत्राह-संविदः पृथक्कृतं तु अचेतनं
भासकशून्यमित्युभयथापि न जीवतीत्यर्थः ॥ ४५ ॥

संवेदनात्परिज्ञानाच्छिवतामेव गच्छति ।
अज्ञातमेव वा यत्तत्कथं गच्छति वस्तुताम् ॥ ४६ ॥

किञ्चेदं ज्ञातं सद्वास्तवं स्यादज्ञातं वा नोभयथापीत्याह-संवेदनादिति
। संवेदनादित्यस्य व्याख्या-परिज्ञानादिति ॥ ४६ ॥

अथैतद्विन्दते स्वान्तःसङ्कल्पादंशतां स्वतः ।
तन्मात्रसत्ता तस्याणोरेतां पश्यति देहके ॥ ४७ ॥

अथ यदि कश्चिद्ब्रूयात्स्वतश्चिन्मात्रस्वभावमपि एतद्वस्तु बहु स्यां प्रजायेयेति
सङ्कल्पात्स्वान्तरेव दृश्यांशतां विन्दते इति तर्हि सङ्कल्पकल्पितस्य
मिथ्यात्वात्तस्याणोः परमसूक्ष्मस्यात्मनस्तन्मात्रस्वभावेन सत्ता प्रथमकल्पिते
देहके सूक्ष्मदेहे एव चिराभ्यासात्स्थूलतां पश्यति ॥ ४७ ॥

सर्वं स्थूलत्वमापन्नं तदेवाशु प्रपश्यति ।
तस्य तन्मात्ररन्ध्राणि यथादेशं प्रपश्यति ॥ ४८ ॥

स्थूलदेहसम्बन्धाच्च सर्वमान्तरं कोशचतुष्टयं बाह्यविषयजातं च
स्थूलत्वमापन्नं तद्ब्रह्मैव स्वकल्पनया पश्यति । बाह्यरूपादिदर्शने च तस्य
देहस्य चक्षुरादिलक्षणानि तन्मात्रद्वाराणि यथाविषयं व्यवस्थितानि प्रपश्यति ॥ ४८

ततः पुरुषरूपैकभावनात्पुरुषाकृतिम् ।
काकतालीयवद्दृष्ट्वा तुष्टं पुष्टं भवत्यलम् ॥ ४९ ॥

ततो हस्तपादाद्यवयवसङ्घाते आन्तरकोशेषु च
पुरुषाकारेणैकत्वभावनात्पुरुषाकृतिं पश्यति । तेन
चाकस्माद्व्यवहारक्षमतां दृष्ट्वा तुष्टं पुष्टं च भवति ॥ ४९ ॥

जीवदेतदवस्थाकं स्थितं पश्यति देहकम् ।
असन्तमेव गन्धर्वपुरं स्वप्ननरं यथा ॥ ५० ॥

श्रीवसिष्ठ उवाच ।

गन्धर्वनगराकारमपि स्वप्ननरोपमम् ।
जगद्दुःखाय दुःखस्य कात्र युक्तिः परिक्षये ॥ ५१ ॥

मिथ्येति ज्ञातमपि जगद्दुःखं जनयत्येव अतो दुःखचिकित्सा
मिथ्यात्वज्ञानादन्यैव वाच्येति मन्यमानो वसिष्ठः पृच्छति-गन्धर्वेति ॥ ५१

ईश्वर उवाच ।

वासनावशतो दुःखं विद्यमाने च सा भवेत् ।
अविद्यमानं च जगन्मृगतृष्णाम्बुभङ्गवत् ॥ ५२ ॥

वासनाक्षयपर्यन्तं दृढतरमिथ्यात्वनिश्चय एव दुःखनिवृत्त्युपायो नापातत
इत्याशयेनोत्तरमाह-वासनेति ॥ ५२ ॥

अतः किं वास्यते केन कस्य वा वासना कुतः ।
कथं स्वप्ननरेणाङ्ग मृगतृष्णाम्बु पीयते ॥ ५३ ॥

अत्यन्तासत्त्वदृढनिश्चये आश्रयविषयाद्यभावादेव वासनानुदयसिद्धिरित्याह##-

सद्रष्टरि तु साहान्ते समनोमननादिके ।
अविद्यमाने जगति यत्सत्तत्परिदृश्यते ॥ ५४ ॥

द्रष्ट्रादिसहिते जगत्यविद्यमाने सति यद्दृङ्मात्रं सत्तदेव वा शिष्यते ॥ ५४ ॥

यत्र नो वासना नैव वासको नैव वास्यता ।
केवलं केवलीभावः संशान्तकलनभ्रमः ॥ ५५ ॥

यस्य सत्योऽप्यसत्यो वा शून्य एव हि यक्षकः ।
विलीनस्तस्य कैवल्यात्किमन्यदवशिष्यते ॥ ५६ ॥

सत्यो व्यावहारिकः असत्यः प्रातिभासिको वा यक्षको यस्य प्रौढस्य दृशा
शून्यत्वान्नित्यविलीनः ॥ ५६ ॥

शून्य एव हि वेताल इवेत्थं चित्तवासना ।
उदितेयं जगन्नाम्नीं तच्छान्तौ शान्तिरक्षता ॥ ५७ ॥

अहन्तायां जगति च मृगतृष्णाजले च यः ।
सास्थस्तं धिग्घतनरं नोपदेश्यस्त्वसाविति ॥ ५८ ॥

जीवं विवेकिनमिहोपदिशन्ति तज्ज्ञा नो बालमुद्भ्रममसन्मयमार्यमुक्तम् ।
अज्ञं प्रशास्ति किल यः कनकावदातां स स्वप्नदृष्टपुरुषाय सुतां ददाति
॥ ५९ ॥

कुतो नोपदेश्यस्तत्राह-जीवमिति । तज्ज्ञा आत्मज्ञा विवेकिनं
प्राप्ताधिकारिविशेषणमुपदिशन्ति न त्वप्राप्ताधिकारत्वादुद्भ्रमं
बहुतरभ्रान्तिशालिनमार्यैर्मुक्तमुपेक्षितमसद्देहाद्यभिमानित्वादसन्मयं
बालं यः अज्ञं प्रशास्ति उपदिशति स कनकवदवदातां सुन्दरीं स्वसुतां
स्वप्नदृष्टपुरुषाय ददाति । सोऽपि मूर्ख एवेति यावत् ॥ ५९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
जगन्मिथ्यात्वप्रतिपादनं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
जगन्मिथ्यात्वप्रतिपादनं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥