०४०

चत्वारिंशः सर्गः ४०

ईश्वर उवाच ।

यथाकालं यथारम्भं न करोषि करोषि यत् ।
चिन्मात्रस्य शिवस्यान्तस्तदेवार्चनमात्मनः ॥ १ ॥

पूज्यपूजकपूजादिविकल्परहितः शिवः ।
परिशुद्धचिदात्मैव देवतातत्त्वमीर्यते ॥

आत्मविदः कृताकृतं सर्वमपि कर्म शिवार्चनमेवेत्याह-यथाकालमिति ।
यथारम्भं यथाशक्ति ॥ १ ॥

तेनैवाह्लादमायाति याति प्रकटतां तथा ।
तथा स्थितेन रूपेण स्वेनैव स्वयमीश्वरः ॥ २ ॥

तत्कुतस्तत्राह-तेनैवेति ।तेन तादृशपूजनेनैव तथा स्थितेन पारमार्थिकेन
स्वरूपेण आह्लादं निरतिशयानन्दस्वरूपाभिव्यक्तिम् ।
प्रकटतामावरणभङ्गमायाति ॥ २ ॥

रागद्वेषादिशब्दार्थानात्मन्यन्यतयामले ।
सम्भवन्ति पृथग्रूपावह्नौ वह्निकणा इव ॥ ३ ॥

ननु खाभाविकचेष्टा सर्वापि रागद्वेषमूलतयानर्थहेतुः सा कथं पूजनं
स्यादिति चेत्स्वात्मव्यतिरेकेण रागद्वेषविकल्पादर्शनादेवेत्याह-रागेति ॥ ३ ॥

यद्यद्राजत्वदीनत्व सुखदुःखादिवेदनम् ।
आत्मीयं परकीयं च तत्तदर्चनमात्मनः ॥ ४ ॥

राजत्वं सम्पत् । दीनत्वं दारिद्र्यम् । आदिपदादशनायापिपासादयो गृह्यन्ते । तेषां
वेदनमध्यारोपणम् । देवे पुष्पपत्राद्यारोपणस्यैव पूजात्वप्रसिद्धेरिति भावः ॥ ४

विश्वसंवित्तिरेवार्चा नित्यस्यात्मन एव च ।
घटाद्यात्मतया ब्रह्म स्वयमात्मा तथैव च ॥ ५ ॥

तथा च नित्यस्य शिवस्य आत्मनः प्रतीचश्च वियदादिलक्षणस्य जाग्रदादिलक्षणस्य च
विश्वस्य संवित्तिरारोप एवार्चा । यथा वियदादिक्रमेण ब्रह्म
घटाद्यात्मतयालङ्क्रियते स्वयं प्रत्यगात्मा च तथैव जाग्रदादिक्रमेण
घटाद्यात्मतयैवालङ्क्रियत इत्यर्थः ॥ ५ ॥

शिवं शान्तमनाभासमेकं भास्वरमागतम् ।
जगत्प्रत्ययवत्सर्वमात्मरूपमिदं स्थितम् ॥ ६ ॥

एवं चैकं शिवरूपं प्रत्यगात्मरूपं वा जगत्प्रत्ययवदागतमिदं सर्वं
तद्भासाभास्वरं तत्स्थित्या स्थितमियर्थः ॥ ६ ॥

अहो नु चित्रमात्मैव घटाद्यन्यद्व्यवस्थितम् ।
जीवादिस्वस्वभावोऽन्तर्नूनन्न् विस्मृतिमानिव ॥ ७ ॥

एवं विमर्शे प्रत्यगात्मैव स्वान्तर्विस्मृतिमानिव भूत्वा जीवादिस्वस्वभावः
अन्यद्घटादिजगद्रूपं च स्थितं नान्यत्किञ्चिदित्यर्थः ॥ ७ ॥

सर्वात्मकस्यानन्तस्य शिवस्यान्तः किलात्मनः ।
पूज्यपूजकपूजाख्यो विभ्रमः प्रोदितः कुतः ॥ ८ ॥

एवं तत्त्वतो दर्शने पूज्यपूजकादित्रिपुटी सर्वापि बाधिता भवतीत्याह##-

नियताकारता शान्ते न च सम्भवतीश्वरे ।
यत्र सङ्कल्प्यते ब्रह्मन्पूज्यपूजामयः क्रमः ॥ ९ ॥

यत्र यस्यां नियताकारतायां पूज्यपूजादिमयः क्रमः सङ्कल्प्यते सा नियताकारता
परिच्छिन्नसंस्थानता न सम्भवति ॥ ९ ॥

पूज्यपूजाद्यवच्छिन्नो देवो नित्यामलात्मनः ।
सर्वशक्तेरनन्तस्य नेश्वरत्वस्य भाजनम् ॥ १० ॥

नित्यामलात्मन इति हेतुगर्भमीश्वरत्वविशेषणम् ॥ १० ॥

त्रिजगत्प्रसृताच्छाच्छसंविद्रूपस्य [प्रसृतात्यच्छेति पाठः ।]
चात्मनः ।
नेश्वरस्याकृतेर्ब्रह्मन्व्यपदेशो हि युज्यते ॥ ११ ॥

ईश्वरस्य आकृतेरिति व्यधिकरणे षष्ठ्यौ । व्यपदेशो वाचाभिलापोऽपि न युज्यते ॥ ११ ॥

देशकालपरिच्छिन्नो येषां स्यात्परमेश्वरः ।
अस्माकमुपदेश्यास्ते न विपश्चिद्विपश्चिताम् ॥ १२ ॥

हे विपश्चिदिति सम्बोधनम् । विपश्चिद्भ्योऽपि विपश्चितामिति वा ॥ १२ ॥

तदीयां दृष्टिमुत्सृज्य तथेमामवलम्ब्य च ।
समः स्वच्छमनाः शान्तो वीतरागो निरामयः ॥ १३ ॥

इमां मदुक्तामपरिच्छिन्नदृष्टिमवलम्ब्य कामोपभोगैरर्चयंस्तिष्ठेति
परेणान्वयः ॥ १३ ॥

कामोपहारैरभितो यथाप्राप्तैरखिन्नधीः ।
आत्मानमर्चयंस्तिष्ठ सुखदुःखशुभाशुभैः ॥ १४ ॥

अधिगतवसि साधौ चैकमेवानुरूपं त्वयि तरलितजीवे जन्मदुःखादि किञ्चित् ।
न लगति परिशून्ये सर्वतः स्फाटिकाङ्गे नवसदन इवाङ्के निष्कलङ्के
कलङ्कः ॥ १५ ॥

तरलितः शोधनेन देहात्पृथक्कृतो जीवो येन तथाविधे साधौ अमानित्वादिगुणवति
अत एवानुरूपमेकं स्वतत्त्वमुक्तपूज्यपूजकादितत्त्वविमर्शेनाधिगतवति । अत एव
निरस्तमायाकलङ्के परितस्तत्कार्यप्रपञ्चशून्ये च त्वयि जन्मदुःखादि किञ्चिन्न
लगति । यथा स्फाटिकशिला सर्वावयवके अङ्के समीपे परितो
नीलरक्तादिवस्त्वन्तरशून्ये नवसदने लेपतः प्रतिबिम्बतो वा नैल्यादिरञ्जनकलङ्को
न लगति तद्वदित्यर्थः ॥ १५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे बाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
देवतातत्त्वविचारो नाम चत्वारिंशः सर्गः ॥ ४० ॥