०३९

एकोनचत्वारिंशः सर्गः ३९

ईश्वर उवाच ।

पावनं पावनानां यद्यत्सर्वतमसां क्षयः ।
तदिदानीं प्रवक्ष्येऽहमन्तःपूजनमात्मनः ॥ १ ॥

शब्दादिविषयैः प्राप्तैरङ्गप्रत्यङ्गभासितुः ।
प्रत्यगात्मशिवस्यात्र ह्यन्तः पूजोपवर्ण्यते ॥

सर्वेषां तमसामज्ञानानां क्षयहेतुत्वात्क्षयः ॥ १ ॥

गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतोऽपि च ।
सर्वाचारगता पूजा नित्यं ध्यानात्मिका त्वियम् ॥ २ ॥

सर्वेष्वाचारेषु व्यवहारेषु गता अनुगता ॥ २ ॥

नित्यमेव शरीरस्थमिमं ध्यायेत्परं शिवम् ।
सर्वप्रत्ययकर्तारं स्वयमात्मानमात्मना ॥ ३ ॥

सर्वेषां प्रत्ययानां कर्तारं सन्निधिमात्रेण जनयितारं बोधयितारं च ॥ ३ ॥

शयानमुत्थितं चैव व्रजन्तमथवा स्थितम् ।
स्पृशन्तमभितः स्पृश्यं त्यजन्तमथवाऽभितः ॥ ४ ॥

स्पृश्यं स्पर्शादिविषयं स्पृशन्तं भुञ्जानम् अथवा उद्वेगात्त्यजन्तम् ॥ ४ ॥

भुञ्जानं सन्त्यजन्तं च भोगानाभोगपीवरान् ।
बाह्यार्थपरिकर्तारं सर्वकार्यस्वरूपदम् ॥ ५ ॥

तदेव स्पष्टमाह-भुञ्जानमिति । बाह्यार्थानां जाग्रदादिविषयाणां
परिकर्तारं स्वाध्यारोपेण निर्मातारम् । सर्वेषां कार्याणां स्वरूपदं
स्वसत्ताप्रदम् ॥ ५ ॥

देहलिङ्गेषु शान्तस्थन्न् त्यक्तलिङ्गान्तरादिकम् ।
यथाप्राप्तार्थसंवित्त्या बोधलिङ्गं प्रपूजयेत् ॥ ६ ॥

स्वदेहलक्षणेषु लिङ्गेषु । तथाहि पद्माद्यासनस्थः पुरः
प्रसारितपाणिर्बद्धाञ्जलिर्देहः शिवलिङ्गाकारो भवतीति प्रसिद्धम् । अत एव त्यक्तं
मृद्दारुशिलादि लिङ्गान्तरं आदिपदात्प्रतिमान्तरं च यत्र । शान्ते
निर्विक्षेपस्वभावे स्थितं बोधलिङ्गम् ॥ ६ ॥

प्रवाहपतितार्थस्थः स्वबोधस्नानशुद्धिमान् ।
नित्यावबोधार्हणया बोधलिङ्गं प्रपूजयेत् ॥ ७ ॥

प्रारब्धप्रवाहपतितेष्वर्थेषु भोगेषु स्थितः । प्रसक्ताशुद्धिरपि
पुनःपुनरसङ्गविशुद्धात्मबोधलक्षणेन स्नानेन सदा शुद्धिमान् ॥ ७ ॥

आदित्यभावनाभोगभाविताम्बरभास्वरम् ।
शशाङ्कभावनाभोगभावितेन्दुतयोदितम् ॥ ८ ॥

तादृशपूजने यदि मनस्तमसि मज्जति तदान्तर्बहिश्च सर्वनभः
परिपूर्णमखण्डितमद्वयमादित्यमण्डलं स्वं भावयेत् यदि तु परितापेनिमज्जति
तदा तादृशचन्द्रमण्डलतया उदितं स्वं भावयेदित्याह-आदित्येति ।
आदित्यात्मना भावनात्कल्पितेनाभोगेन विस्तृतस्वसंस्थानेन भाविते पूर्णे
हार्दबाह्याम्बरे भास्वरम् ॥ ८ ॥

प्रतिभासपदार्थौघनित्यावगतसंविदम् ।
द्वारैर्वहन्तं शारीरैर्मुखे प्राणस्वरूपिणम् ॥ ९ ॥

बाह्यान्तरबुद्धिवृत्तिप्रतिभासेषु तद्भासितपदार्थौघेषु चानुस्यूता या
नित्यावगतरूपा संवित्तद्रूपम् । वहन्तं स्वाभासान् बहिर्विषयदेशे प्रापयन्तम् ॥ ९

रसीकृत्य रसं प्राणस्वान्तोदात्ततुरङ्गमम् ।
प्राणापानरथारूढं गूढमन्तर्गुहाशयम् ॥ १० ॥

रस्यत इति रसः शब्दादिविषयस्तं स्वानन्दरसेनैवं रसीकृत्य मधुरीकृत्य
आस्वादयन्तमिवेति शेषः । प्राणस्वान्तलक्षणौ उदात्तौ उत्कृष्टौ तुरङ्गमौ यस्य ॥
१० ॥

ज्ञातारं ज्ञेयदृष्टीनां कर्तारं सर्वकर्मणाम् ।
भोक्तारं सर्वभोज्यानां स्मर्तारं सर्वसंविदाम् ॥ ११ ॥

सम्यक्संविदिताङ्गौघं भावाभावनभावितम् ।
आभासभास्वरं भूरि सर्वगं चिन्तयेच्छिवम् ॥ १२ ॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं
प्रकाशयति इति भगवदुक्तरीत्या सम्यक्संविदितसर्वाङ्गौघम् ।
भावैर्विषयभावनैरभावनैश्च भावितं लक्षितम् । आसासेभ्यः
सर्वप्रकाशेभ्योऽपि भूरि भास्वरम् । विशेष्यस्य सापेक्षत्वे
सामर्थ्याविघातात्समासः ॥ १२ ॥

निष्कलं सकलं चैव देहस्थं व्योमचारिणम् ।
अरञ्जितं रञ्जितं च नित्यमङ्गाङ्गसंविदम् ॥ १३ ॥

निष्कर्षे निष्कलमन्यथा सकलम् । व्योम्नि हृदयाकाशे चरणशीलम् ।
अङ्गाङ्गसंविदं प्रत्यङ्गव्यापि बोधरूपम् ॥ १३ ॥

मनोमननशक्तिस्थं प्राणापानान्तरोदितम् ।
हृत्कण्ठतालुमध्यस्थं भ्रनासापुटपीठगम् ॥ १४ ॥

तदेव विवृणोति-मनोमननेति ॥ १४ ॥

षट्त्रिंशत्पदकोटिस्थमुन्मन्यन्तदशातिगम् ।
कुर्वन्तमन्तःशब्दादींश्चोदयन्तं मनःखगम् ॥ १५ ॥

षट्त्रिंशत्पदानि शैवशास्त्रप्रसिद्धषट्त्रिंशत्तत्त्वानि तेषां चरमस्थानस्थम् ।
कालीरौद्रीकलविकरणीत्यादिशक्तिविभागे उन्मन्या मनोन्मन्या अन्तदशामप्यतिगतम् ।
शिवयोगप्रसिद्धा वा उन्मन्यन्तदशा सबीजसमाधिरूपा तदतिगतम् । चोदयन्तं
प्रेरयन्तम् ॥ १५ ॥

विकल्पिन्यविकल्पे च द्विविधे वाक्पथे स्थितम् ।
तिले तैलमिवाङ्गेषु सर्वेष्वेवान्तरं स्थितम् ॥ १६ ॥

व्यवहारे विकल्पिनि निर्बीजसमाधिमोक्षयोरविकल्पे च वाच्यलक्षरूपे वाक्पथे ॥ १६ ॥

कलाकलङ्करहितं कठिनं च कलागणैः ।
एकदेशे सुहृत्पद्मे सर्वदेहे च संस्थितम् ॥ १७ ॥

कालगणैर्भूतमात्राभिः स्थूलदेहात्मना परिणतैः कठिनं मूर्तं च ॥ १७ ॥

चिन्मात्रममलाभासं कलाकलनकल्पनम् ।
प्रत्यक्षदृश्यं सर्वत्र स्वानुभूतिमयात्मकम् ॥ १८ ॥

कलाकलनानामध्यासविकल्पानां कल्पनमधिष्ठानम् । अधिकरणे ल्युट् ॥ १८ ॥

प्रत्यक्चेतनमात्मीयमर्थित्वेन पुनः स्थितम् ।
पदार्थानामुपेत्याशु क्षणाद्द्वित्वमिवागतम् ॥ १९ ॥

पुनः स्वस्वरूपविस्मरणाद्भोगार्थित्वेन स्थितम् । स्वातिरिक्तपदार्थानां वेषं
स्वयमेवोपेत्य आशु क्षणात्स्वसङ्केतादेव द्वित्वमागतमिव स्थितम् ॥ १९ ॥

सहस्तपादावयवः सकेशनखदन्तकः ।
स्वदेहसंविदाभासो देवोऽयमिति भावयेत् ॥ २० ॥

स्वदेहसंविद आभासाः परिचायिका यस्य ॥ २० ॥

विचित्राः शक्तयो बह्व्यो नानाचारा मनोदशाम् ।
उपासते मामनिशं पत्न्यः कान्तमिवोत्तमम् ॥ २१ ॥

मनो मे द्वारपालोऽयं निवेदितजगत्त्रयः ।
चिन्तेयं मे प्रतीहारी द्वारस्था शुद्धरूपिणी ॥ २२ ॥

सन्मात्रगोचरत्वाच्छुद्धरूपिणी ॥ २२ ॥

शक्तिर्ममात्मिका बुद्धिः क्रिया चैव वराङ्गना ।
ज्ञानानि च विचित्राणि भूषणान्यङ्गगानि मे ॥ २३ ॥

आत्मिका आत्मवत्परप्रीतिविषयीकृता बुद्धिर्ज्ञानशक्तिः । क्रिया प्राणशक्तिः ।
विचित्राणि शास्त्रीयाणि लौकिकानि च ज्ञानानि भूषणानि ॥ २३ ॥

कर्मेन्द्रियाणि द्वाराणि बुद्धीन्द्रियगणैः सह ।
अयं सोऽहमनन्तात्मा व्यवच्छेदोज्झिताकृतिः ॥ २४ ॥

तिष्ठामि भरितैकात्मा पूर्णः सर्वावपूरकः ।
इति दैवीमुपाश्रित्य स्वच्छामात्मचमत्कृतिम् ॥ २५ ॥

दैवीमलौकिकीमात्मचमत्कृतिं प्रत्यक्तत्त्वपरिचयम् ॥ २५ ॥

दैवत्वपरिपूर्णोऽन्तरदीनात्मावतिष्ठते ।
नास्तमेति न चोदेति न तुष्यति न कुप्यति ॥ २६ ॥

तादृशपूजापरिपाकफलान्याह-नास्तमेतीत्यादिना ॥ २६ ॥

न तृप्तिं न क्षुधं याति नाभिवाञ्छति नोज्झति ।
समः समसमाचारः समाभासः समाकृतिः ॥ २७ ॥

अन्तः समः बहिश्च समेर्जीवन्मुक्तैः सम आचारो यस्य ॥ २७ ॥

सौम्यतामलमायातः समन्तात्सुन्दराशयः ।
आदेहमेक एवासावव्युच्छिन्नमहामतिः [अव्युत्पन्न इत्यपि पाठः ।] ॥ २८

देवार्चनं करोत्येव दीर्घदीर्घमहर्निशम् ।
चित्तत्त्वचलितो देहो देवोऽस्य समुदाहृतः ॥ २९ ॥

कोऽस्य देवः कथमादेहमर्चयतीति तत्राह-चित्तत्वेत्यादिना ॥ २९ ॥

यथाप्राप्तेन सर्वेण तमर्चयति वस्तुना ।
समया सर्वया बुद्ध्या चिन्मात्रं देवचित्परम् ॥ ३० ॥

वस्तुना त्रिपुटीरूपेण । देवचिद्भ्य ऐन्द्रियकवृत्तिप्रतिबिम्बचिद्भ्यः परं
तद्बिम्बभूतम् ॥ ३० ॥

यथाप्राप्तक्रमोत्थेन सर्वार्थेन समर्चयेत् ।
मनागपि न कर्तव्यो यत्नोऽत्रापूर्ववस्तुनि ॥ ३१ ॥

सर्वेणार्थेन बाह्याभ्यन्तरवस्तुना । अपूर्ववस्तुनि गन्धपुष्पाद्युपचारवस्तुनि ॥ ३१ ॥

प्राप्तदेहतया नित्यं तथार्थक्रिययाऽनया ।
कामसंसेवनेनाऽथ पूजयेच्छोभनं विभुम् ॥ ३२ ॥

प्राप्तदेहतया प्राप्तब्राह्मणक्षत्रियादिस्वशरीरोचितया यथाशास्त्रमर्थक्रियया
व्यवहारेण । काम्यन्त इति कामा देहधारणमात्रनिमित्तान्नपानादयस्तेषां
संसेवनेन ॥ ३२ ॥

भक्ष्यभोज्यान्नपानेन नानाविभवशालिना ।
शयनासनयानेन यथाप्तेनार्चयेच्छिवम् ॥ ३३ ॥

तदेव स्पष्टमाह-भक्ष्येति ॥ ३३ ॥

कान्तान्नपानसम्भोगसम्भारादिविलासिना ।
सुखेन सर्वरूपेण सम्बुद्ध्याऽऽत्मानमर्चयेत् ॥ ३४ ॥

सम्बुद्ध्य तत्त्वतो ज्ञात्वा । तथा च यावत्तदज्ञानं तावद्विषयसुखोपभोगेन
प्रसञ्जितव्यमिति भावः ॥ ३४ ॥

आधिव्याधिपरीतेन मोहसंरम्भशालिना ।
सर्वोपद्रवदुःखेन प्राप्तेनात्मानमर्चयेत् ॥ ३५ ॥

एवं यथाप्राप्तदुःखभोगेऽपि पूजाबुद्धिरेव कार्या नोद्वेग इत्याह-आधीति ॥ ३५ ॥

समस्तैश्च समस्तानां चेष्टानां जगतः स्थितेः ।
मृतिजीवितस्वप्नाद्यैः प्राप्तैरात्मानमर्चयेत् ॥ ३६ ॥

जगतः स्थितेः सम्बन्धिनां समस्तानां चेष्टानां फलैरिति शेषः ॥ ३६ ॥

दारिद्र्येणाथ राज्येन प्रवाहपतितात्मना ।
विचित्रचेष्टापुष्पेण शुद्धात्मानं समर्चयेत् ॥ ३७ ॥

नानाकलहकल्लोलललनोल्लासशालिना ।
रागद्वेषविलासेन सौम्यमात्मानमर्चयेत् ॥ ३८ ॥

सतां हृदयगामिन्या रूढया शशिशीतया ।
मैत्र्या माधुर्यधर्मिण्या हृत्स्थमात्मानमर्चयेत् ॥ ३९ ॥

तर्हि किं कलहादिपरेणापि भाव्यं नेत्याह-सतामिति ॥ ३९ ॥

उपेक्षया करुणया सदा मुदितया हृदि ।
शुद्धया शक्तिपद्धत्या बोधेनात्मानमर्चयेत् ॥ ४० ॥

कलहाद्यप्रसक्तावुपायमाह-उपेक्षयेति । शक्तिः क्रोधादिनिग्रहसामर्थ्यं
तत्पद्धत्या ॥ ४० ॥

आकस्मिकोपयातेन स्थितेनानियतेन च ।
भोगाभोगैकभोगेन प्राप्तेनात्मानमर्चयेत् ॥ ४१ ॥

एवं भोगलम्पटेनापि न भाव्यमित्याशयेनाह-आकस्मिकेति । भोगाभोगेषु
भोगसमूहेष्वेकस्य कस्यचित्कदाचिद्भोगेन ॥ ४१ ॥

भोगानामनिषिद्धानां निषिद्धानां च सर्वदा ।
त्यागेन वातिरागेण स्वात्मानं शुद्धमर्चयेत् ॥ ४२ ॥

अनिषिद्धानां निषिद्धानां च सर्वदा त्यागेनेति मुख्यः कल्पः । अथवा
क्वचिदनिषिद्धानां रागेणेति गौणः ॥ ४२ ॥

ईहितानीहितौघेन युक्तायुक्तमयात्मना ।
त्यक्तेनात्तेन चार्थेन ह्यर्थानामीशमर्चयेत् ॥ ४३ ॥

अयुक्तमयात्मना त्यक्तेन युक्तमयात्मना आत्तेनेति व्युत्क्रमेणान्वयः ।
अर्थानामीशं भोक्तारम् ॥ ४३ ॥

नष्टं नष्टमुपेक्षेत प्राप्तं प्राप्तमुपाहरेत् ।
निर्विकारतयैतद्धि परमार्चनमात्मनः ॥ ४४ ॥

इदानीं मुख्यार्चनसारमाह-नष्टमित्यादिना । उपेक्षेत नानुशोचेत् ॥ ४४ ॥

सर्वदैव समग्रासु चेष्टानिष्टासु दृष्टिषु ।
परमं साम्यमाधाय नित्यात्मार्चाव्रतं चरेत् ॥ ४५ ॥

सर्वं विन्देत सुशुभं सर्वं विद्याच्छुभाशुभम् ।
सर्वमात्ममयं कुर्यान्नित्यात्मार्चाव्रतं चरेत् ॥ ४६ ॥

ब्रह्मैवेति दृष्ट्या सर्वं शुभमेवेति विन्देत गृह्णीयात् ।
ब्रह्मसंवलितमायामयत्वदृष्ट्या तु सर्वं शुभाशुभं सम्मिश्रमिति विद्यात् ।
उभयथापि साम्येन वैषम्यदर्शननिमित्ताभावादात्मैवात्ममयमिति वा
आत्मप्रचुरमात्ममयमिति वा कुर्यात्पश्येत् ॥ ४६ ॥

आपातरमणीयं यद्यच्चापातसुदुःसहम् ।
तत्सर्वं सुसमं बुद्ध्वा नित्यात्मार्चाव्रतं चरेत् ॥ ४७ ॥

उक्तरीत्या सुसमं बुद्ध्वा ॥ ४७ ॥

अयं सोहमयं नाहं विभागमिति सन्त्यजेत् ।
सर्वं ब्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेत् ॥ ४८ ॥

इति विभागं भेदम् ॥ ४८ ॥

सर्वदा सर्वरूपेण सर्वाकारविकारिणा ।
सर्वं सर्वप्रकारेण प्राप्तेनात्मानमर्चयेत् ॥ ४९ ॥

सर्वदा प्राप्तेन सर्वाकारविकारिणा सर्वप्रकारेण सर्वरूपेण नाम्ना च सर्वं
सर्वात्मकमात्मानमर्चयेत् ॥ ४९ ॥

अनीहितं परित्यज्य परित्यज्य तथेहितम् ।
उभयाश्रयणेनापि नित्यमात्मानमर्चयेत् ॥ ५० ॥

मिथ्यात्वबुद्ध्या परित्यज्य स्वात्ममात्रताबुद्ध्या उभयोराश्रयणेन स्वीकारेणापि ॥
५० ॥

न वाञ्छता न त्यजता दैवप्राप्ताः स्वभावतः ।
सरितः सागरेणेव भोक्तव्या भोगभूमयः ॥ ५१ ॥

भोगभूमयः सुखदुःखहेतवो विषयाः ॥ ५१ ॥

उद्वेगो नानुगन्तव्यस्तुच्छाऽतुच्छासु दृष्टिषु ।
व्योम्ना चित्रपदार्थेषु पतितो ह्याततेष्विव ॥ ५२ ॥

तुच्छातु अपमानादिदृष्टिषु अतुच्छासु वधबन्धसर्वस्वनाशादिदृष्टिषु पतित
आपतितः प्रसक्त उद्वेगो नानुगन्तव्यः । पतितेषु इति पाठे आपतितेषु
चिरमाततेष्वनुवृत्तेषु ऋजुवक्रशीतदाहादिचित्रपदार्थेषु व्योम्नेवेति दृष्टान्ते
योज्यम् ॥ ५२ ॥

देशकालक्रियायोगाद्यदुपैति शुभाशुभम् ।
अविकारं गृहीतेन तेनैवात्मानमर्चयेत् ॥ ५३ ॥

आत्मार्चनविधानेऽस्मिन्प्रोक्ता द्रव्यश्रियस्तु याः ।
एकेनैव समेनैता रसेन परिभाविताः ॥ ५४ ॥

ननु विचित्रदुःखरागद्वेषादिविकारहेतवः शुद्ध्यशुद्धिकटुतिक्तादिविषमरसा
भोग्यद्रव्यश्रियः कथमविकारं ग्रहीतुं शक्या इति चेदेकेन समरसेन सर्वेषां
वैषम्यनिरासेन मधुरीकरणादित्याशयेनाह-आत्मार्चनेति । परिभाविता
आप्लाविताः सत्यो न अम्लानकट्व्यः किन्तु मधुरैकरसा भवन्तीति परेणान्वयः ॥ ५४ ॥

नाम्लानकट्व्यो नो तिक्ता न कषायाश्च काश्चन ।
चित्रैरपि रसैर्दिग्धा मधुरा एव ताः किल ॥ ५५ ॥

समता मधुरा यस्या [रम्येति पाठः ।] रसशक्तिरतीन्द्रिया ।
तया यद्भावितं चेत्यममृतं तत्क्षणाद्भवेत् ॥ ५६ ॥

आनन्दैकरसविवर्तत्वेन समतादर्शनाद्वा तासामविकारेण
ग्रहणसिद्धिरित्याशयेनाह-समतेति । रसशक्तिः रसो वै सः इति श्रुतिदर्शित आत्मा ॥
५६ ॥

समतामृतरूपेण यद्यन्नाम विभाव्यते ।
तत्तदायाति माधुर्यं परमिन्दोरिव च्युतम् ॥ ५७ ॥

इन्दोश्च्युतममृतमिव ॥ ५७ ॥

समताकाशवद्भूत्वा यत्तु स्याल्लीनमानसम् ।
अविकारमनायासं तदेवार्चनमुच्यते ॥ ५८ ॥

ब्रह्मैक्यदर्शनलक्षणया समतया स्वयमाकाशवद्भूत्वा लीनमानसं यथा
स्यात्तथा यदवस्थानं तदेव मुख्यमर्चनमित्यर्थः ॥ ५८ ॥

पूर्णेन्दुनेव पूर्णेन भाव्यं समसमत्विषा ।
स्वच्छेन चिद्धनैकेन ज्ञेनाप्युपलरूपिणा ॥ ५९ ॥

उपलरूपिणा स्फटिकशिलावन्निर्मलदृढेन ॥ ५९ ॥

अन्तराकाशविशदो बहिःप्रकृतकार्यकृत् ।
रञ्जनामिहिकामुक्तः सम्पूर्णो ज्ञ उपासकः ॥ ६० ॥

ईदृशो ज्ञस्तत्त्वविदेव उपासको मुख्यो मत्पूजक इत्यर्थः ॥ ६० ॥

स्वप्नेऽप्यदृष्टहृल्लेखमज्ञानाभ्रपरिक्षये ।
शान्ताहन्तादिमिहिकं ज्ञः शरद्व्योम राजते ॥ ६१ ॥

न दृष्टो हृदयं लिखतीति हृल्लेखः कामो विद्युदादिश्च यस्मिन् । ज्ञस्तत्त्वविदेव
शरद्व्योम ॥ ६१ ॥

सोमार्कमस्तमितमानसमातृमेयं सद्यःप्रसूतशिशुवेदनवद्वितानम् ।
पश्यन्प्रशान्तमतिचेतनचित्तबीजं जीवन्ननुत्तमपदस्थित एव तिष्ठ ॥ ६२ ॥

आनन्दामृतपरिपूर्णत्वात्सोम एव
सन्निष्कलङ्कस्वप्रकाशातिशयादर्कस्तथाविधम् । अस्तमितानि मानसं
मनोवृत्तिर्माता मेयं च यत्र तथाभूतम् । सद्यःप्रसूतस्य
शिशोर्वेदनवद्वितानं विगतविकल्पविस्तारं चेतनस्य चिदाभासस्य चित्तस्य च बीजं
मूलभूतं स्वात्मशिवं प्रशान्तमति यथा स्यात्तथा पश्यन्सन् त्वमनुत्तमे
जीवन्मुक्तपदे स्थितस्तद्भावेनैव तिष्ठ । सैव परा पूजेत्यर्थः ॥ ६२ ॥

देशकालकरणक्रमोदितैः सर्ववस्तुसुखदुःखविभ्रमैः ।
नित्यमर्चय शरीरनायकं तिष्ठ शान्तसकलेहया धिया ॥ ६३ ॥

विस्तरोक्तं सङ्क्षिप्योपसंहरति-देशेति । शान्ता सकला ईहा मनोरथा
यस्यास्तथाविधया धिया स्वात्मनि तिष्ठ । सैव मुख्या शिवपूजेत्यर्थः ॥ ६३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
देवार्चनविधिर्नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
देवार्चनविधिर्नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥