अष्टत्रिंशः सर्गः ३८
ईश्वर उवाच ।
एष देवः स परमः पूज्य एष सदा सताम् ।
चिन्मात्रमनुभूत्यात्मा सर्वगः सर्वसंश्रयः ॥ १ ॥
शिवस्यानन्तचिन्मूर्तेर्बहिर्ध्यानेन पूजनम् ।
ज्ञानेन च महापुण्यन्न् विमुक्तिफलमीर्यते ॥
स एष नियतिनाटकसाक्षी चिदात्मैव परमो देवः ॥ १ ॥
घटे पटे वटे कुड्ये शकटे वानरे स्थितः ।
शिवो हरो हरिर्ब्रह्मा शक्रो वैश्रवणो यमः ॥ २ ॥
तस्य वक्ष्यमाणप्रकारेण पूजने सर्वदेवपूजनमन्तर्भवतीत्याशयेन तस्य
सर्वात्मतामाह-घटे इति ॥ २ ॥
बहिरन्तश्च सर्वात्मा सदा स्वात्मा सुबुद्धिभिः ।
विविधेन क्रमेणैष भगवान्परिपूज्यते ॥ ३ ॥
विविधेन वक्ष्यमाणबाह्याभ्यन्तरभेदेन क्रमेण ॥ ३ ॥
बहिस्तावन्महाबुद्धे क्रमेण परिपूज्यते ।
येन तच्छृणु तत्त्वज्ञ श्रोष्यस्यन्तःक्रमं ततः ॥ ४ ॥
पूजाक्रमेषु सर्वेषु देहगेहं पवित्रकम् ।
त्याज्यं देहावबोधात्म परं यत्नात्पवित्रकम् ॥ ५ ॥
शास्त्रोक्तसंस्कारैः स्नानाचमनादिभिश्च पवित्रकमपि देहगेहं यत्नात्त्याज्यम् ।
देहस्यावबोधः साक्षिचित्प्रकाशस्तद्रूपं परं पवित्रकं यत्नात्परिशोध्य
ग्राह्यमिति शेषः ॥ ५ ॥
पूजनं ध्यानमेवान्तर्नान्यदस्त्यस्य पूजनम् ।
तस्मात्त्रिभुवनाधारं नित्यं ध्यानेन पूजयेत् ॥ ६ ॥
पूजनसाधनं क्रिया च ध्यानमेव ॥ ६ ॥
चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम् ।
अन्तस्थचित्प्रकाशं स्वमहन्तासारमाश्रयेत् ॥ ७ ॥
समस्तानामाभासानां सूर्यादितेजसां बुद्धिवृत्तीनां च भासनम् । अहन्तायाः
सारं शोधितमन्तस्थचित्प्रकाशम् ॥ ७ ॥
अपारपरमाकाशविपुलाभोगकन्धरम् ।
अनन्ताधस्तनाकाशकोशपादसरोरुहम् ॥ ८ ॥
आकाशादपि विपुलाभोगा कन्धरा कण्ठादूर्ध्वभागो यस्य । अनन्तो
योऽधस्तनाकाशकोशः स पादसरोरोहे यस्य ॥ ८ ॥
अनन्तदिक्तटाभोगभुजमण्डलमण्डितम् ।
नानाविधमहालोकगृहीतपरमायुधम् ॥ ९ ॥
नानाविधेषु परितो ब्रह्माण्डेषु ये सत्यादयो महान्तो लोकास्ते दिग्भुजगृहीतानि
परमायुधानि यस्य ॥ ९ ॥
हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम्
प्रकाशपरमाकाशपारगापारविग्रहम् ॥ १० ॥
तर्हि ते किं ब्रह्माण्डाद्बाह्याः नेत्याह-हृत्कोशेति । प्रकाशरूपः
परमाकाशात्तमसः पारगः स्वयमपारो विग्रहः स्वरूपं यस्य ॥ १० ॥
अध ऊर्ध्वं चतुर्दिक्षु विदिक्षु च निरन्तरम् ।
ब्रह्मेन्द्रहरिरुद्रेशप्रमुखामरमण्डितम् ॥ ११ ॥
इदमप्यधस्तनादिब्रह्माण्डभेदेन ब्रह्मेन्द्रादिभेदादुपपाद्यम् ॥ ११ ॥
इमां भूतश्रियं तस्य रोमालिं प्रविचिन्तयेत् ।
विविधारम्भकारिण्यस्त्रिजगद्यन्त्ररज्जवः ॥ १२ ॥
भूतश्रियं चतुर्विधभूतशोभाम् । त्रिजगद्गतसर्वपदार्थचेष्टनाय रचिता
यन्त्ररज्जव इव इच्छाद्याः शक्तयस्तस्य शरीरगा नाड्यश्चिन्तनीयाः ॥ १२ ॥
इच्छाद्याः शक्तयस्तस्य चिन्तनीयाः शरीरगाः ।
एष देवः स परमः पूज्य एष सदा सताम् ॥ १३ ॥
चिन्मात्रमनुभूत्यात्मा सर्वगः सर्वसंश्रयः ।
घटे पटे वटे कुड्ये शकटे वानरे स्थितः ॥ १४ ॥
शिवो हरो हरिर्ब्रह्मा शक्रो वैश्रवणो यमः ।
अनन्तैकपदाधारसत्तामात्रैकविग्रहः ॥ १५ ॥
रूपभेदैरनन्तानां पदानामाधारो वाच्यस्तद्भेदपरित्यागे एकपदस्याधारो
लक्ष्या या सत्ता तन्मात्रैकविग्रहः ॥ १५ ॥
विवर्तितजगज्जालः कालोऽस्य द्वारपालकः ।
सशैलभुवनाभोगमिदं ब्रह्माण्डमण्डलम् ॥ १६ ॥
द्वारपालकः अविशुद्धिकाले मनसोऽन्तः प्रवेशनिरोधको विशुद्धौ तु प्रवेशानुकूल
इति ॥ १६ ॥
देहकोणोऽस्य कस्मिंश्चित्स्वाङ्गावयवतां गतम् ।
विचिन्तयेन्महादेवं सहस्रश्रवणेक्षणम् ॥ १७ ॥
स्वाङ्गे मायाशबलरूपे । अवयवतामेकदेशताम् । अथवा सर्वप्राणिनां
श्रवणेक्षणशिरःपाण्याद्यवयवास्तस्यैवेति विश्वरूपं चिन्तनीयमित्याह##-
सहस्रशिरसं शान्तं सहस्रभुजभूषणम् ।
सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिकम् ॥ १८ ॥
सर्वतः स्पर्शनमयं सर्वतो रसनान्वितम् ।
सर्वत्र श्रवणाकीर्णं सर्वत्र मननान्वितम् ॥ १९ ॥
सर्वतो मननातीतं सर्वतः परमं शिवम् ।
सर्वदा सर्वकर्तारं सर्वसङ्कल्पितार्थदम् ॥ २० ॥
तथा चिन्तनेऽप्यसङ्गाद्वयता वस्तुतस्तस्य न विस्मर्तव्येत्याह-सर्वत इति ॥ २० ॥
सर्वभूतान्तरावस्थं सर्वं सर्वैकसाधनम् ।
इति सञ्चिन्त्य देवेशमर्चयेद्विधिवत्ततः ॥ २१ ॥
सर्वस्य एकं साधनं सत्तास्फूर्तिपदम् । इति उक्तप्रकारेण ॥ २१ ॥
विधानमर्चनस्येदं शृणु ब्रह्माविदां वर ।
स्वसंविदात्मा देवोऽयं नोपहारेण पूज्यते ॥ २२ ॥
उपह्रियत इत्युपहारो गन्धपुष्पादिस्तेन उपहारेण पूज्यते ॥ २२ ॥
न दीपेन न धूपेन न पुष्पविभवार्पणैः ।
नान्नदानादिदानेन न चन्दनविलेपनैः ॥ २३ ॥
तदेव प्रपञ्चयति-नेति ॥ २३ ॥
न च कुङ्कुमकर्पूरबोगैश्चित्रैर्न चेतरैः ।
नित्यमक्लेशलभ्येन शीतलेनाऽविनाशिना ॥ २४ ॥
इतरैश्छत्रचामरदर्पणाद्यर्पणैः ॥ २४ ॥
एकेनैवाऽमृतेनैष बोधेन स्वेन पूज्यते ।
एतदेव परं ध्यानं पूजैषैव परा स्मृता ॥ २५ ॥
अखण्डसाक्षात्कारवृत्तिधारारूढेन स्वेन स्वात्मकेन बोधेन ।
पूर्वोक्तचिन्तनमप्येतदङ्गमितीयमेव सर्वपूजाभ्यः प्रधानेत्याशयेनाह##-
यदनारतमन्तस्थशुद्धचिन्मात्रवेदनम् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ॥ २६ ॥
अस्याः कालनियमोऽपि नास्तीति सदैव कार्येत्याह-पश्यन्निति ॥ २६ ॥
प्रलपन्विसृजन्गृह्णन्शुद्धसंविन्मयो भवेत् ।
ध्यानामृतेन सम्पूज्य स्वयमात्मानमीश्वरम् ॥ २७ ॥
उक्तज्ञानाधारात्मना ध्यानामृतेन ॥ २७ ॥
परमास्वादयुक्तेन मुक्तेन कुसुमेहितैः ।
ध्यानोपहार एवात्मा [आत्मध्यानं इति पाठः ।] ध्यानं ह्यस्य
समीहितम् ॥ २८ ॥
परमास्वादयुक्तेनेति अयं भावः-पुष्पादिविषयार्पणं हि देवस्य न
साक्षादविच्छिन्नसुखार्पणं किन्तु परम्परयाऽल्पतरतदीयसुखाभिव्यञ्जनं
क्षुधितस्य व्रीहिमुष्ट्यर्पणमिव न तथा प्रीतये भवति । इदं तु प्रतीचः स्वयमेव
शोधनेन निरतिशयानन्दरूपतामाविर्भाव्य तस्य नित्यनिरतिशयस्यात्यन्तैकरस्येन
शिवायार्पणरूपं पूजनं परमास्वादनयुक्तमिति तदेव तादृशदेवस्यानुरूपं
पूजनं समीहितं न पुष्पादीत्यर्थः ॥ २८ ॥
ध्यानमर्घ्यं च पाद्यं च शुद्धसंवेदनात्मकम् ।
ध्यानसंवेदनं पुष्पं सर्वं ध्यानपरं विदुः ॥ २९ ॥
अतएवोक्तलक्षणध्यानेनैव सर्वोपचारसिद्धिरित्याह-ध्यानमिति ।
ध्यानाभिव्यक्तं संवेदनं चैतन्यं पुष्पप्रयोजनरूपत्वात्पुष्पम् । एवं
सर्वमुपचारं संवेदनमेव विदुः । असंविदितोपचारभोगाप्रसिद्धेरिति ॥ २९ ॥
विना तेनेतरेणायमात्मा लभ्यत एव नो ।
ध्यानात्प्रसादमायाति सर्वभोगसुखश्रियः ॥ ३० ॥
प्रसादं स्वरूपाभिव्यक्तिम् । किं ततस्तत्राह-सर्वेति । सर्वेषां
मनुष्यादिहिरण्यगर्भान्तानां भोगसुखश्रियः अयं प्रसन्न आत्मा भुङ्क्ते इति
परेणान्वयः । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्रुते सर्वान्कामान्सह इति
श्रुतेः इति श्रुतेः ॥ ३० ॥
अयमात्मा मुने भुङ्क्ते देहरूपो गृहे यथा ।
ध्यानेनानेन सुमते निमेषांस्तु त्रयोदश ॥ ३१ ॥
यथा देहरूपो देहाभिमानी स्वगृहे भोगान्भुङ्क्ते तद्वत् । तेनापि
विषयसंस्पर्शजन्यवृत्त्यभिव्यक्तात्मसुखस्यैवानुभवात् । ब्रह्मात्मसुखे
सर्वसुखानामन्तर्भावादिति भावः । इदानीं तत्त्वसाक्षात्काराभावेऽपि
यथोक्तध्यानमात्रेणापि तदुत्कर्षानुसारिफलोत्कर्षमाह-ध्यानेनेत्यादिना ॥ ३१ ॥
मूढोऽपि पूजयित्वेशं गोप्रदानफलं लभेत् ।
पूजयित्वा निमेषाणां शतमेकमिति प्रभुम् ॥ ३२ ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
पूजयित्वा स्वमात्मानं घटिकार्धमिति प्रभुम् ॥ ३३ ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
ध्यानबल्युपहारेण स्वयमात्मानमात्मना ॥ ३४ ॥
घटिकां पूजयेद्यस्तु राजसूयं लभेत सः ।
मध्याह्नपूजनादित्थं राजसूयैकलक्षभाक् ॥ ३५ ॥
ननु घटिकार्धध्याने अश्वमेधसहस्रफलं चेद्धटिकाध्याने ततोऽप्यधिकं
फलं वाच्यम् । तत्कथमेकराजसूयफलकीर्तनम् । न ह्यश्वमेधाद्राजसूयस्य
फलमधिकम् । बृहदारण्यके भुज्युप्रश्ने क्वन्वश्वमेधयाजिनो गच्छन्तीति
द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः इत्यादिना
पृथिवीसमुद्रादिपरिमाणमुक्त्वा ततः परतस्तद्यावती क्षुरस्य धारा यावद्वा
मक्षिकायाः पत्रं तावानन्तरेणाकाशः इति ब्रह्माण्डखर्परद्वयसन्धिमुक्त्वा
तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्तान्वायुरात्मनि स्थित्वा
तत्रागमयद्यत्राऽश्वमेधयाजिनोऽभवन् इत्यश्वमेधयाजिनां
ब्रह्माण्डखर्परसन्धिद्वारा वायुना बहिर्निःसार्य
सर्वकर्मफलोत्कर्षस्थानप्रापणश्रवणविरोधात् । ब्रह्महत्याश्वमेधाभ्यां न
परं पुण्यपापयोः इति प्रसिद्धेः । पूर्वरामायणे इलोपाख्याने नाश्वमेधात्परो
यज्ञः प्रियश्चैव महात्मनः इति श्रीरामवचनविरोधाच्छारीरके इतरकर्मिणां
धूमादिमार्गेण चन्द्रमण्डलप्राप्तिरेवाश्वमेधयाजिन एकस्य त्वर्चिरादिमार्गेण
ब्रह्मलोकावाप्तिरिति सिद्धान्ताधिकरणाच्चाश्वमेधस्य राजसूयापेक्षया
फलाधिक्यस्य सिद्धत्वादिति चेत् । नैष दोषः । परस्य
पूर्वाविरोधेनाबाधकत्वादेवोपपत्तेः । यत्र
घटिकार्धपूजनेनाश्वमेधसहस्रफलं तत्र घटिकामात्रपूजनेन तस्य
द्वैगुण्यं प्राप्तमेव तत्र राजसूयफलं स्वाराज्यलक्षणं
श्रूयमाणमितरेषामश्वमेधयाजिनां स्वाराज्ये पर्यवस्यतीति प्रजाभ्यो राज्ञ इव
महान् भोगोत्कर्षो घटिकापूजकस्य सिद्ध्यति । न चात्र
तक्रकौण्डिन्यन्यायाश्रयणन्न् युक्तम् । वाक्यवैयर्थ्यप्रसङ्गात् । तथा चेदृशे
विषये महाभाष्ये उक्तम् । असति खल्वपि सम्भवे बाधनं भवति अस्ति च सम्भवो
यदुभयं स्यादिति । नप्यत्रापच्छेदाधिकरणन्यायावसरः ।
अदक्षिणत्वरार्ववेदसदक्षिणत्वयोरिव ब्रह्मलोकतत्स्वाराज्यफलयोर्विरोधाभावादिति
विशेषद्योतनाय तुशब्दः ॥ ३५ ॥
दिवसं पूजयित्वैवं परे धाम्नि वसेन्नरः ।
एषोऽसौ परमो योग एषा सा परमा क्रिया ।
बाह्यसम्पूजनं प्रोक्तमेतदुत्तममात्मनः ॥ ३६ ॥
दिवसमिति । चिरैकाम्ये ज्ञानोदयावश्यम्भावादिति भावः ॥ ३६ ॥
एतत्पवित्रमखिलाघविघातहेतुं यस्त्वाचरिष्यति नरः क्षणमप्यखिन्नः ।
तं वन्दयिष्यति सुरासुरलोकपूगः प्राप्तास्पदं जगति मामिव मुक्तमात्मन् ॥
३७ ॥
उक्तां बाह्यपूजां प्रशंसन्नुपसंहरति-एतदिति । हे आत्मन् इति प्रेमातिः शयेन
वसिष्ठसम्बोधनम् । एतदुक्तलक्षणं पूजनं यस्तु नर-अखिन्नो
विक्षेपखेदशून्यः सन् क्षणमप्याचरिष्यति तं क्रमात्सर्वबन्धमुक्तमत एव
प्राप्तास्पदं सुरासुरलोकपूगो जगति मामिव वन्दयिष्यति । अभिवादनस्तुत्यादिना
पूजयिष्यतीत्यर्थः ॥ ३७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पूर्वार्धे बाह्यपूजनं नामाष्टत्रिंशः सर्गः ॥ ३८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
बाह्यपूजनं नामाष्टत्रिंशः सर्गः ॥ ३८ ॥