०३७

सप्तत्रिंशः सर्गः ३७

ईश्वर उवाच ।

इत्यादिकानां शब्दानामर्थश्रीः सत्यरूपिणि ।
तस्मिन्सर्वेश्वरे सर्वसत्तामणिसमुद्गके ॥ १ ॥

सद्योगादसतां सत्ता शिवस्यानन्तशक्तयः ।
प्रधानशक्तेर्नियतेर्नृत्यं चात्रोपवर्ण्यते ॥

यस्मिन्नीश्वरे इत्यादिकानां सर्गान्तोदाहृतश्लोकप्रभृतीनां शब्दानामर्थश्रीः
सत्यरूपिणी सत्यप्राया भवति तस्मिन्सर्वजगत्सत्तालक्षणस्य मणेः समुद्गके
सम्पुटप्राये मायाशबले सर्वेश्वरे का विमलाभासाः शक्तयो न कचन्तीति
परेणान्वयः । तस्य श्लोकस्य लोकतः परमार्थतश्च यथा सत्यार्थता तथा वर्ण्यते ।
तत्र लोकतस्तावत्कश्चिद्वृक्षोऽनेन वर्ण्यते । पल्लवैः
किसलयैर्दलैर्हरितपत्रैश्चामलैरम्लानैर्मालितानां लतानां मल्लेन कान्तेन । सर्वतो
लताभिरालिङ्गितेनेति यावत् । अत एवान्तरालेषु स्कन्धकोटरशाखान्तरालेषु करालेषु
गहनेन दुष्प्रवेशेन । दुरारोहेणेति यावत् । स्वयं चामलेन अम्लानेनानेन तरुणा
पुष्पफलपल्लवभ्रमरखगादिसमृद्ध्या विलासवत्या हेलया अवहेलनेन विलोलानि
तरलितानि घनानां मेघानां
विद्युत्संवलनस्निग्धशिशिरश्यामतासौन्दर्यातिशयविभ्रमसर्जितानि यया ।
गर्जितयेति पाठे सौन्दर्यातिशयाभिमानप्रयुक्तगर्जनानि ययेति योज्यम् । अथाविधया
स्वलक्ष्म्या वृक्षान्तरेषु वनान्तरेषु सर्वजगति वा प्रसिद्धा लक्ष्मीलता
स्वात्मन्येवोपसङ्ग्रहाद्वलिता सङ्कोचिता मुष्टिरिवाऽविरलिता घनीकृतेत्यर्थः । अथवा
भगवान् विष्णुरत्र वर्ण्यते । पल्लवैर्दलैऽस्चामलया वनमालया मालितानं
पुरुषाणां मध्ये मल्लेन श्रेष्ठेनामलेन परमार्थतो वसनभूषणादिना च
निर्मलेन । अन्तराले जठरे चतुर्दशभुवनभरितत्वाद्गहनेन विष्णुना
जगन्मोहनसौन्दर्यविलासवत्या प्राग्वदेव हेलाविलोलघनगर्जितया स्वदेहलक्ष्म्या
स्वमालिङ्गन्ती लक्ष्मीलक्षणाललनापि वलिता मुष्टिरिवाविरलिता अपृथक्कृतेत्यर्थः ।
परमार्थतोऽप्यन्तरालेविचित्रकामकर्मवासनागहनेनाज्ञानलक्षणेन गलेन
पल्लवप्रायैः सूक्ष्मभूतैस्तत्कार्यैर्दलप्रायैः स्थूलभूतैर्भुवनमदैश्च
[भुवनामोदैरित्यपि पाठः ।] मालितानां जगतां या लक्ष्मीलता सा हेलया
लीलया नभसि विलोलानां घनानां गर्जितमिव गर्जितं यस्यास्तथाविधया
महावाक्यश्रुत्या विलसनं विलासस्तद्वत्या ब्रह्मविद्याकरिण्या मल्लेन
प्रतिमल्लताडनाय वलिता मुष्टिरिव अविरलिता चिदेकघनीकृता ।
एवमर्थान्तराण्यप्यस्य श्लोकस्य सुधीभिरूह्यानि । इत्यादिकानामित्यत्र
आदिपदादनर्थकत्वेन प्रसिद्धतमानि जरद्गवदशदाडिमादिवाक्यानि गृह्यन्ते ।
जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी
पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ अस्यापि लौकिकः
पारमार्थिको वार्थो ब्रह्मसत्तयैव कल्पयितुं शक्यते । तथाहि । लौकिकस्तावत्##-
वाहीकः स्वगृहद्वारि स्थितः सन्मद्रकाणि मद्रदेशप्रसिद्धगीतानि गायति । तं
काचिल्लशुनचिकित्स्यरोगयुक्तेन पुत्रेण सह लवणाकरं प्रति केनचिदावश्यकेन
कार्येण गमिष्यन्ती तत्र पुत्रजीवनकामा ब्राह्मणी लवणाकरादयमागत इति लोकेभ्यः
श्रुत्वा हे राजन्निति सबहुमानं सम्बोध्य रुमायां लवणाकरे लशुनस्य कोऽर्घः
किं समर्घं लशुनमुत महर्घमिति पृच्छतीत्यर्थः । पारमार्थिकोऽपि##-
विषयभोगार्थ स्थितो जरद्गवसदृशो जीवो वैषयिकाण्येव मद्रकाणि
स्त्रीपुत्रादिमङ्गलगीतानि बहिर्मुखो गायति न मनागपि स्वतत्त्वं दिदृक्षते
तमेतादृशमुपलभ्य पुन्नाम्नः संसारनरकान्नायत इति पुत्रो
ब्रह्मात्मताबोधस्तत्कामा ब्राह्मणीव [भुवनामोदैरित्यपि पाठः ।]
ब्राह्मणी श्रुतिः पृच्छति-हे राजन् स्वयं ज्योतिष्ट्वेन विराजमान स्वचैतन्येन
सर्वं जगद्रञ्जयंश्च हे आत्मन् रुमायां
सर्वाविद्याकामकर्मबीजविनाशकत्वाल्लवणाकरोषरप्राये त्वत्स्वरूपे परमशुद्धे
अत्यन्तापवित्रत्वाद्ब्राह्मणाभोग्यलशुनतुल्यस्य भोग्यस्य कोऽर्घो मौल्यविचारस्तव ।
तस्मात्परित्यज्य बाह्यदृष्टिं स्वात्मारामो भवेत्याशयेन कोऽयमात्मेति
वयमुपास्महे । कतरः स आत्मा किं कारणं ब्रह्म कुतः स्म जाताः इत्यादि
पृच्छतीत्यर्थः । एवं दशदाडिमादिवाक्येष्वप्यर्थसत्ता ऊह्या । भिण्डिं
भिण्डिमिति श्लोकस्य तु
बालमत्ताद्यव्यक्तजल्पितानुकरणस्यानुकार्यैरेवार्थैरर्थवत्ता । अनुकार्यस्य
त्वव्यक्तत्वादेव न वाक्यतेति ॥ १ ॥

का नाम विमलाभासास्तस्मिन्परमचिन्मणौ ।
न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः ॥ २ ॥

या बीजशक्तयो जगन्ति विचिन्वन्ति आरोपयन्ति ताः शक्तयः का नाम विमलाभासाः
स्फुटा भूत्वा न कचन्ति नाविर्भवन्ति ॥ २ ॥

एषा बीजकणान्तस्था चित्सत्ता स्ववपुर्मयम् ।
लब्ध्वा मृत्कालवार्यादि करोत्यङ्कुरमोदनम् ॥ ३ ॥

ताः शक्तीरेव युक्त्योदाहरति-एषेत्यादिना । व्रीह्यादिबीजकणान्तस्था एषा ऐश्वरी
चित्सत्ता क्षेत्रे परिष्कृतमृत्कालवार्यादिसहकारिकारणानि लब्ध्वा
प्रथममङ्कुरं करोति क्रमेण तण्डुलीभूय साक्षात्पुरुषभोज्यमोदनं
करोतीत्यर्थः ॥ ३ ॥

फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी ।
कठिनेन्द्रियसम्बन्धे करोति स्पन्दमम्भसाम् ॥ ४ ॥

फेनाः आवर्ताः विवर्ताश्च अन्तर्वर्तिनो यस्याः । तेष्वन्तर्वर्तिनी अनुगता वा
रससामान्यरूपिणी ऐश्वरशक्तिः कठिनशिलातलादिसम्बन्धे
निम्नदेशोपसर्पणलक्षणे जिह्वेन्द्रियसंयोगे तूदरोपसर्पणरूपं स्पन्दं करोति ॥ ४

एषा कुसुमगुच्छेषु रसरूपेण संस्थिता ।
कचति घ्राणरन्ध्रेषु करोति परिफुल्लताम् ॥ ५ ॥

रसरूपेण मकरन्दसंवलितगन्धरूपेण नासापुटयोः परिफुल्लताम् ॥ ५ ॥

शिलाङ्गस्था [चित्सत्ता तु शिलाङ्गाभामिति पाठः । मूलस्थपाठे तु चित्सत्तेति
विशेष्यमुपक्रमलब्धमिति बोध्यम् ।] शिलाङ्गाभामसतीं सत्यतापदम् ।
सर्गाधारदशां धत्ते गिरीन्द्रः स्थितिलीलया ॥ ६ ॥

शिलाङ्गा प्रतिमा तदाभाम् । शिलाव्यतिरेकेण पृथगसतीम् ।
व्यावहारिकसत्यतापदम् । सृज्यत इति सर्गः कार्यं तदाधारः शिलेति
भेदविकल्पदशामविकृतैव धत्ते । यथा अविकृतो
गिरीन्द्रस्तृणवृक्षलतादिकार्याणि धत्ते तद्वदित्यर्थः ॥ ६ ॥

पगे नो। ८६० अन्द् ८६१ रेपेअत्

पवनस्पन्दकोशात्मरूपिणीव त्वगिन्द्रियम् ।
संसाधयत्यात्मसुतं पितेवात्मतयानया ॥ ७ ॥

एवं पवनलक्षणो यः स्पन्दानां सर्वक्रियाणां कोशस्तदात्मस्वरूपा त्वगिन्द्रियं
स्पर्शग्रहणाय संसाधयत्यनुकूलयति । यथा पिता आत्मसुतं स्वकार्ये प्रवर्तयति
तद्वत् । अनया रीत्या इन्द्रियान्तरेष्वपि प्रवृत्तिशक्तयो बोध्या इत्यर्थः ॥ ७ ॥

अशेषसारसम्पिण्डमध्यात्मानं स्वसिद्धये ।
भावयित्वा नकिञ्चित्त्वमिव खत्वं करोत्यलम् ॥ ८ ॥

यथा प्रवृत्तिशक्त्या संसरति तथा निवृत्तिशक्त्या अशेषस्य जगतः साराणां
सत्तानां सम्पिण्डं एकघनमात्मानमधिकृत्य श्रवणमननाद्युपायैः
स्वसिद्धये मोक्षाय भावयित्वा नेतिनेतीति सर्वप्रतिषेधेन नकिञ्चित्त्वं शून्यत्वमिव
सर्वस्य करोति ॥ ८ ॥

स्वसत्ताप्रतिबिम्बाभमाकाशमुकुरोदरे ।
धत्ते कल्पनिमेषाङ्कं कालाख्यममलं वपुः ॥ ९ ॥

आमहापञ्चमेशानं परिणाममया इमे ।
इदमित्थमिदं नेति नियतिर्भवति स्वयम् ॥ १० ॥

सर्वशक्तिभेदानेकीकृत्य तत्कार्येयत्तामवधारयति-आमहेति । ब्रह्मा विष्णुश्च
रुद्रश्च ईश्वरश्च सदाशिवः इत्युत्कर्षपरम्परायां पञ्चममीशानं
सदाशिवमभिव्याप्य नियतिः सर्वकार्यव्यवस्थापिका मूलशक्तिः ॥ १० ॥

साक्षिणि स्फार आभासे गृहे दीप इव क्रियाः ।
सत्ये तस्मिन्प्रकाशन्ते जगच्चित्रपरम्पराः ॥ ११ ॥

कथं तन्नियतिः स्वयं भवतीति चेन्नियमेन तत्प्रथाहेतुत्वादित्याह-साक्षिणीति ।
स्फारेऽपरिच्छिन्ने । आभासे ज्योतिषि ॥ ११ ॥

परमाकाशनगरनाट्यमण्डपभूमिषु ।
स्वशक्तिवृत्तं संसारं पश्यन्ती साक्षिवत्स्थिता ॥ १२ ॥

आकाशनगरं गन्धर्वपुरं तत्रत्यनाट्यमण्डपभूमिप्रायजाग्रदादिषु ॥ १२ ॥

श्रीवसिष्ठ उवाच ।

शिवस्यास्य जगन्नाथ शक्तयः काः कथं स्थिताः ।
साक्षिता का च किं तासां वृत्तं स्यात्कियदेव तत् ॥ १३ ॥

का इति सामान्यविषयभागप्रश्नः । कथमिति प्रातिस्विकप्रकारभेदप्रश्नः ॥ १३ ॥ १४ ॥

ईश्वर उवाच ।

अप्रमेयस्य शान्तस्य शिवस्य परमात्मनः ।
सौम्य चिन्मात्ररूपस्य सर्वस्यानाकृतेरपि ॥ १४ ॥

इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च ।
तथा नियतिसत्ता च महासत्ता च सुव्रत ॥ १५ ॥

सोऽकामयत बहु स्याम् इति श्रुतेः प्रथममिच्छासत्ताभिव्यक्ता ततो व्योमाभिव्यक्तौ
तत्सत्ता तत्र कालात्मनः सूत्रस्याभिव्यक्तौ कालसत्ता ततो
नियतसंस्थानभूतभौतिकाविर्भावे नियतिसत्ताभिव्यज्यते तासु सर्वास्वनुगता
महासत्तेति भावः ॥ १५ ॥

ज्ञानशक्तिः क्रियाशक्तिः कर्तृताऽकर्तृतापि च ।
इत्यादिकानां शक्तीनामन्तो नास्ति शिवात्मनः ॥ १६ ॥

ऐश्वरानसाधारणशक्तिभेदानुक्त्वा जीवसाधारणांस्तानाह-ज्ञानशक्तिरिति ।
कर्तृता प्रवृत्तिशक्तिरकर्तृता निवृत्तिशक्तिश्च क्रियाशक्तेरवान्तरभेदौ ।
यद्यपीच्छाशक्तिरपि जीवेऽस्ति तथापि ज्ञानेश्वरवत्क्रियां विना स्वविषयं साधयतीति
क्रियाशक्तिपरवशा तत्रैवान्तर्भूतेति भावः । इति सामान्येन परिगणिता अपि
प्रातिस्विकरूपेण गणयितुमशक्या इत्याह-इत्यादिकानामिति । एतेन
चतुर्थप्रश्नस्याप्युत्तरमुक्तमेव ॥ १६ ॥

श्रीवसिष्ठ उवाच ।

शक्तयः कुत एवैता बहुत्वं कथमासु च ।
उदयश्च कथं देव भेदाभेदश्च कीदृशः ॥ १७ ॥

अद्वितीये शक्तिशक्तिमत्त्वभेदे एव निमित्तं दुर्वचम् दूरे
शक्त्यवान्तरभेदवैचित्र्यादीति मन्यमानो वसिष्ठ आक्षिपति-शक्तय इति ।
शक्तितद्वतोर्भेदोऽभेदश्च विरुद्धः कीदृशः । किमुपपत्तिक इत्यर्थः ॥ १७ ॥

ईश्वर उवाच ।

शिवस्यानन्तरूपस्य सैषा चिन्मात्रतात्मनः ।
एषा हि शक्तिरित्युक्ता तस्माद्भिन्ना मनागपि ॥ १८ ॥

मायिकविकल्पककल्पनाप्रयुक्तचिद्भेदा एव शक्तय इत्युच्यन्ते ते वस्तुतः
शिवादभिन्ना एवेति न कश्चिद्विरोध इत्याशयेनेश्वरः समाधत्ते-शिवस्येति ।
अनन्तरूपस्येति । माया हि स्वरूपतोऽनन्तं शिवं गुणतः शक्तितः कार्यतश्चानन्तं
कुर्वाणा तस्यानन्त्यं वर्धयतीव न तु विहन्तीति भावः । मनागपि विकल्पनाद्भिन्ना
न वस्तुत इत्यर्थः ॥ १८ ॥

ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वादिविभावनात् ।
शक्तयो विविधं रूपं धारयन्ति बहूदकम् ॥ १९ ॥

विभावनाद्विकल्पनात् । तरङ्गादिभेदविकल्पैर्बहु उदकमिव बहूदकम् ॥ १९ ॥

एवं जगति नृत्यन्ति ब्रह्माण्डे नृत्यमण्डपे ।
कालेन नर्तकेनेव क्रमेण परिशिक्षिताः ॥ २० ॥

ऋतुमासादिकालनियतिक्रमेण परिशिक्षिता नटा इव ॥ २० ॥

यैषा परपराभासा सैषा नियतिरुच्यते ।
क्रियाथ कृतिरिच्छा वा कालेत्यादिकृताभिधा ॥ २१ ॥

पराभिधाना परार्धद्वयकाला । अपराभिधाना अवान्तरकल्पतदवयवरूपा । सा
ईश्वरस्य क्रियेति कृतिर्यत्न इति अथवा इच्छेति कामं वादिनः कल्पयन्तु अस्माभिः
कलनामात्रत्वात्कालः कल्पनात्कल्प इति विकल्पपर्यायनामभिरेव कृताभिधेत्यर्थः
॥ २१ ॥

आमहारुद्रपर्यन्तमिदमित्थमिति स्थितेः ।
आतृणापद्मजस्पन्दं नियमान्नियतिः स्मृता ॥ २२ ॥

तस्यां कालशक्तौ नियतिपदं व्युत्पादयति-आमहेति । द्विविधो हि नियमः ।
इदमित्थं संस्थानमित्याकारनियमो विकारनियमश्च । तत्राद्य आतृणं
आमहारुद्रपर्यन्तम् द्वितीयस्तु आतृणमापद्मजस्पन्दमित्युभयथा
नियमनान्नियतिशब्दवाच्येत्यर्थः ॥ २२ ॥

नियतिर्नित्यमुद्वेगवर्जिताऽपरिमार्जिता ।
एषा नृत्यति वै नृत्यं जगज्जालकनाटकम् ॥ २३ ॥

यावत्तत्त्वबोधेनाऽपरिमार्जिता तावन्नृत्यतीत्यर्थः ॥ २३ ॥

नानारसविलासाढ्यं विवर्ताभिनयान्वितम् ।
कल्पक्षणहतानेकपुष्करावर्तघर्घरम् ॥ २४ ॥

तन्नृत्ये नाटकलक्षणानि दर्शयति-नानेत्यादिना । कल्पः प्रलयस्तल्लक्षणे
नाट्योपरमक्षणे हता विद्युदाघातवादिता अनेके पुष्करावर्ताख्या मेघा एव
घर्घरा वाद्यभेदा यत्र ॥ २४ ॥

सर्वर्तुकुसुमाकीर्णं धारागोलकमन्दिरम् ।
भूयोभूयः पतद्वर्षभूरिस्वेदजलोत्करम् ॥ २५ ॥

धारा वर्षधारास्तद्युक्तं ब्रह्माण्डगोलकमेव महानाट्यमन्दिरं यस्य ॥ २५ ॥

पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् ।
पूर्णं संशुद्धसप्ताब्धिरत्नौघवलयाकुलम् ॥ २६ ॥

पयोदा मेघा एव पल्लवा दशाप्रान्तास्तैरालोलं यन्नीलमम्बरमाकाशं तदेव
श्लेषान्नीलवस्त्रं तेन कृता दिनरात्र्यादिनानावेषभ्रमा यत्र ।
संशुद्धैर्निर्णिक्तैः सप्ताब्धिलक्षणैः रत्नौघखचितवलयैराकुलम् ॥ २६ ॥

यामपक्षदिनप्रेक्षाकटाक्षोद्भासिताम्बरम् ।
मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम् ॥ २७ ॥

मज्जनं वलयैस्तिरोधानम् उन्मज्जनमुद्घाटनं ताभ्यां व्यग्राणि
कुलाद्रिकुलान्येव शेखराणि शिरोग्राणि यत्र ॥ २७ ॥

भ्रमच्छशिमणिप्रोतगङ्गामुक्ताफलत्रयम् ।
सन्दृष्टादृष्टसन्ध्याभ्रविलोलकरपल्लवम् ॥ २८ ॥

मुक्ताफलत्रयपदेन हारत्रयं लक्ष्यते ॥ २८ ॥

अनारतरणल्लोललोकालङ्कारकोमलम् ।
भूरिभूतलपातालनभस्तलपदक्रमम् ॥ २९ ॥

लोका जना भुवनानि वा तल्लक्षणैरलङ्कारैः कोमलं मञ्जुलम् । पदैः क्रम्यन्त इति
पदक्रमाः नटीपादविन्यासस्थानादिभेदाः ॥ २९ ॥

मग्नोन्मग्नमहानेकताराघर्मकणोत्करम् ।
चन्द्रार्ककुण्डलस्पन्दस्मितस्फुटनभोमुखम् ॥ ३० ॥

मग्ना अस्तमिता उन्मग्ना उदिताश्च महत्यो भास्वरास्तारा एव घर्मकणोत्कराः
स्वेदबिन्दुसमूहा यत्र । चन्द्रार्ककुण्डलयोः स्पन्दैः स्मितैरीषद्धास्यैः स्फुटं
व्यक्तीकृतं नभोलक्षणं नटीमुखं यत्र ॥ ३० ॥

कल्पितानेकब्रह्माण्डकपाटकवितानकम् ।
सुखदुःखदशादोषभावाभावरसान्तरम् ॥ ३१ ॥

ब्रह्माण्डपदेन तद्भित्तयो लक्ष्यन्ते । ता एव कपाटकानीव वितानकानि तिरस्करिण्यो
यत्र । लुठन्तः असुरव्याकुलीकृता ऊर्ध्वाधो लोकान्तरव्यूहा एव ध्वनन्तः
मुक्तागुम्फितदशा उत्तरीयान्तरीयपटपल्लवा यत्र ।
सुखदुःखयोराविर्भावादिदशास्तन्निमित्तदोषाश्च भावाः स्थायिभावा
अभावास्तद्भिन्ना विभावाः सञ्चारिभावा रसान्तराणि शृङ्गारादिरसभेदाश्च
यत्र । स्थायिभावानामेव विभावादिभिर्व्यज्यमानानां
रसत्वमित्यालङ्कारिकसिद्धान्तादिति भावः ॥ ३१ ॥

अस्मिन्विकारवलिते नियतेर्विलासे संसारनाम्नि चिरनाटकनाट्यसारे
साक्षी सदोदितवपुः परमेश्वरोऽयमेकः स्थितो न च तया न च तेन भिन्नः ॥ ३२ ॥

एवं नाटकं वर्णयित्वा तद्द्रष्टारं विमर्शे स्वमात्रपरिशेषं परमात्मानं
दर्शयति-अस्मिन्निति । विकारैः
प्रसिद्धैर्नाट्यशास्त्रप्रसिद्धस्वेदस्तम्भरोमाञ्चादिविकारैश्च वलिते नियतेर्नट्या
अस्मिन्संसारनाम्नि चिरनाटकनाट्यसारे विलासे साक्षी साक्षाद्द्रष्टा प्रभुस्थानीयः
अयं प्रत्यग्रूपः परमेश्वर एक एव स्थितः स च तया नट्या तेन नाट्येन च न
परमार्थतो भिन्न इत्यर्थः ॥ ३२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
नियतिनृत्यं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
नियतिनृत्यं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥