षट्त्रिंशः सर्गः ३६
ईश्वर उवाच ।
ततश्चिद्रूपमेवैकं सर्वसत्तान्तरास्थितम् ।
स्वानुभूतिमयं शुद्धं देवं रुद्रेश्वरं विदुः ॥ १ ॥
सर्वविश्वोद्भवात्तस्य सर्वाकारेण च स्थितेः ।
सर्वास्पर्शाद्विशुद्धेश्च सर्वैश्वर्यं प्रपञ्च्यते ॥
यत एतमात्मानमालोक्य न भूयः परिरोहति ततो हेतोर्दृष्टमात्रः संसाररुजं
द्रावयतीति रुद्रः स चासौ ईष्टे सर्वस्य जगत इतीश्वरः स्वामी तं विदुर्ब्रह्मविदः ।
तथा च श्रुतिः स दृष्टो मृडयाति नः । ध्रुवा अस्मिन्गोपतौ स्यात् इति ॥ १ ॥
बीजं समस्तबीजानां सारं संसारसंसृतेः ।
कर्मणां परमं कर्म चिद्धातुं विद्धि निर्मलम् ॥ २ ॥
चिद्धातुं चित्सारम् ॥ २ ॥
कारणं कारणौघानामकारणमनाविलम् ।
भावनं भावनौघानामभाव्यमभवात्मकम् ॥ ३ ॥
क्रियाशक्त्याः कारणम् । स्वसत्तया सर्वभावानां भावनं सत्ताप्रदम्
परमार्थतस्तु अकारणमभाव्यमभवात्मकं च ॥ ३ ॥
चेतनं चेतनौघानां चेतनात्मनि चेतनम् ।
स्वं चेत्यचेतनं चेत्यपरमं भूरिभावनम् ॥ ४ ॥
चेतनौघानां सर्वबुद्धिवृत्तीनां चेतनं प्रकाशकम् । चेतनात्मनि जीवेऽप्यन्तः
सारभूतं चेतनं चिद्रूपम् । स्वं प्रत्यग्भूतं चेत्यानां बाह्यवेद्यानामपि
चेतनं बुद्धिवृत्तिव्याप्तिकृताभिव्यक्त्या प्रथयितारम् । चेत्यानां
परममधिष्ठानतत्त्वभूतम् । भूरिभावनं आत्मानमेव मायया बहुत्वेन
भावितवन्तम् ॥ ४ ॥
आलोकालोकममलमनालोक्यमलोकजम् ।
आलोकं बीजबीजौघं चिद्घनं विमलं विदुः ॥ ५ ॥
आलोकानां चक्षुरादीनामादित्यादीनां चालोकं प्रकाशकम् । तच्छुक्लं ज्योतिषां
ज्योतिः इति श्रुतेः । अनालोक्यं चक्षुःसूर्याद्यप्रकाश्यम् । आलोकजमलौकिकम् । आलोकं
प्रकाशम् । एकमेव बीजं बीजौघात्मना स्थितम् ॥ ५ ॥
असत्यं सन्मयं शान्तं सत्यासत्यविवर्जितम् ।
महासत्तादिसत्तान्ते चिन्मात्रं विद्धि नेतरत् ॥ ६ ॥
न विद्यते सत् पृथिव्यप्तेजोवाय्वाकाशं च यत्र । सत्येन व्यावहारिकेणासत्येन
प्रातिभासिकेन चावस्थात्रयेण विवर्जितम् । महासत्ता जगत्सत्ता आदिसत्ता
कारणाव्याकृतसत्ता तयोरन्ते बाधे तत्साक्षि यच्चिन्मात्रं तदेव विद्धीत्यर्थः ॥ ६ ॥
स्वयं भवति रागात्मा रञ्जको रञ्जनं रजः ।
स्वयमाकाशमप्याशु कुड्यं भवति मण्डितम् ॥ ७ ॥
रञ्जनबीजावस्थायां रागात्मा विषयस्मृतौ चित्तक्षोभकत्वाद्रजकः ।
विषयसम्बन्धे रञ्जनम् । तद्वियोगे चित्तमालिन्यहेतुत्वाद्रजः । आकाश अमूर्तरूपोऽपि
कुड्यं मूर्तं चित्रादिरञ्जितं भवति ॥ ७ ॥
अस्मिंश्चिच्चेतसि स्फारे जगन्मरुमरीचयः ।
स्फुरिताः प्रस्फुरिष्यन्ति प्रस्फुरन्ति च कोटयः ॥ ८ ॥
स्वसत्तामात्रसम्पन्नं पदमस्मिन्स्वतेजसि ।
न किञ्चन च सम्पन्नमन्यदौष्ण्यादिवानले ॥ ९ ॥
अस्मिन्स्वतेजसि स्वप्रकाशे स्वसत्तामात्रेण जगत्पदं सम्पन्नमपि किञ्चन न
सम्पन्नं वस्त्वन्तराभावाद्यथा अनले ज्वालाङ्गारविस्फुलिङ्गप्रभादिवैचित्र्यं
सम्पन्नमपि औष्ण्यैकस्वभावाद्वह्नेरन्यन्न तद्वदित्यर्थः ॥ ९ ॥
गर्भीकृतमहामेरुं परमाणुसमं विदुः ।
आच्छादितमहामेरुं परमाणुसमं विदुः ॥ १० ॥
अत एव अणोरणीयान्महतो महीयान् इति श्रुतिः सर्वविरुद्धधर्माणां तत्र समावेशं
दर्शयतीत्याशयेनाह-गर्भीकृतेति । गर्भीकरणं गौणमिति
शङ्कावारणायाच्छादितेत्यर्धेन तद्व्याख्यानम् ॥ १० ॥
गर्भीकृतमहाकल्पो निमेषोऽसावुदाहृतः ।
आक्रान्तकल्पेनानेन न सन्त्यक्ता निमेषता ॥ ११ ॥
कालतोऽप्यस्मिन्दैर्ध्यसौक्ष्म्यमविरुद्धमित्याह-गर्भीकृतेति । आक्रान्तः
सर्वतोव्याप्तः कल्पो द्विपरार्धान्तकालो येन । अत्रापि प्राग्वदपौनरुक्त्यम् ॥ ११ ॥
वालाग्रकादप्यणुना व्याप्तानेनाखिला मही ।
सप्ताब्धिवसनाप्युर्वी [वलनापीति इति पाठः ।] नास्यान्तमधिगच्छति ॥ १२
॥
उक्तं प्रपञ्चयति-वालाग्नेत्यादिना ॥ १२ ॥
अकुर्वन्नेव संसाररचनां कर्तृतां गतः ।
कुर्वन्नेव महाकर्म न करोत्येव किञ्चन ॥ १३ ॥
द्रव्यमप्येष निर्द्रव्यो निर्द्रव्योऽपि हि द्रव्यवान् ।
अकायोऽपि महाकारो महाकायोऽप्यकायवान् ॥ १४ ॥
महाकायो ब्रह्माण्डशरीरः ॥ १४ ॥
अद्याप्येष सदा प्रातः प्रातरप्यद्यतां गतः ।
न वाद्यमद्य न प्रातस्त्वद्य प्रातश्च वा सदा ॥ १५ ॥
अद्यशब्दवाच्यषष्टिघटिकात्मकोऽपि प्रातः आद्यत्रिमुहूर्तमात्रात्मा परमार्थतस्तु
न वा आद्यं मुहूर्त न वा अद्य नापि प्रातः । अद्यप्रातरादिशब्दानां यदि
तत्तदधिष्ठानचिति लक्षणा तदा सदैव स तत्तच्छब्दयोग्य इत्यर्थः ॥ १५ ॥
भिण्डिं भिण्डिं खिले मत्ता पुरुपिच्छिलिसालघम् ।
विविच्चलित्सदालोका लासो गुलुगुलुः शिली ॥ १६ ॥
एवमुन्मत्तबालादिप्रलपितनिरर्थकापशब्दजालमपि स एवेति तेषु कांश्चिदनुकृत्य
दर्शयति-भिण्न्डिमिति ॥ १६ ॥
इत्याद्यनर्थकं वाक्यं तथा सत्यं स एव च ।
न तदस्ति न यत्सत्यं न तदस्ति न यत्त्वसौ [न यन्मृषा इति पाठः ।] ॥
१७ ॥
तथा सत्यं सार्थकं वेदशास्त्रादिशब्दजालमपि स एव । उक्तं सर्वं पिण्डीकृत्य
व्यतिरेकमुखेनाप्याह-न तदस्तीति ॥ १७ ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ १८ ॥
अयमेव प्रह्लादेनापि प्राग्दृष्ट्वा प्रणत इति स्मारयन्नुपसंहरति-यस्मिन्निति ॥
१८ ॥
यत्रान्तरालगहनेन विलासवत्या हेलाविलोलघनसर्जितयामलेन ।
मल्लेन पल्लवदलामलमालितानां लक्ष्मीलताऽविरलिता वलितेव मुष्टिः ॥ १९ ॥
यात्रारोपादसतोऽपि सत्ता भवतीति यदुक्तं सत्सम्भावनाय यथा यत्रानर्थका अपि
श्लोकाः सार्थका भवन्तीति दृष्टान्तप्रदर्शनमभिप्रेत्यानर्थकं
श्लोकमुदाहरति-यत्रेति । यत्र इत्यादिकानां शब्दानामर्थश्रीः सत्यरूपिणीति
उत्तरसर्गाद्येनान्वयस्तत्रैतद्व्याख्यास्यामः ॥ १९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पू० परमेश्वरवर्णनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
परमेश्वरवर्णनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥