०३५

पञ्चत्रिंशः सर्गः ३५

श्रीवसिष्ठ उवाच ।

ततो मुहूर्तेन हरो गौरीकमलिनीसरः ।
मद्विकासोन्मुखं स्वैरं विकासं बहिराददे ॥ १ ॥

ब्रह्मविष्णुहरादीनामत्र यः परमः पिता ।
महादेवः परात्मासौ पूज्यसीमान्त ईर्यते ॥

भक्तवात्सल्यातिशयान्मम विकासे प्रबोधने उन्मुखो मद्भाग्योदयेन प्रेरितः सन्
बहिर्विकासं नेत्रोन्मीलनं आददे स्वीचकार ॥ १ ॥

दृक्चयो द्योतयामास मुखाकाशतलोदितः ।
बोधं समुद्गकादर्क अंशुराशिरिवोद्गतः ॥ २ ॥

हरस्य मुखलक्षणे निर्मलत्वात्त्रिपुण्ड्रशरदभ्ररेखाङ्कितत्वाच्चाकाशतले उदितो
दृशां चन्द्रसूर्याग्निलक्षणनेत्रायां चयो बोधं समाधेः प्रबुद्धतां
द्योतयामास । यथा समुद्गकान्मेघसम्पुटकाद् द्यावाभूमिसम्पुटाद्वा उद्गतः
अंशूनां राशिरर्कोऽहर्द्योतयति तद्वदित्यर्थः । अर्क अंशुराशिरित्युत्वविषये यत्वं
छान्दसम् ॥ २ ॥

ईश्वर उवाच ।

मुने मननमाहूय स्वसत्तैवाशु मीयताम् ।
त्वमर्थं माहरानर्थं पवनः स्पन्दतामिव ॥ ३ ॥

तत्र भगवांस्तत्त्वबोधोपयोगितया उपायोपेयसारौ प्रथममाह-मुने इति । हे
मुने त्वया प्रथमं मननं विचारमाहूय सन्निधाप्य स्वस्य प्रतीचः सत्ता
पारमार्थिकरूपमेवाशु मीयतां प्रमाणैर्निर्धार्यताम् । तत्र प्रतीचि अनर्थं
बहिर्मुखत्वापादनेन सर्वानर्थमूलं त्वमर्थ युष्मत्प्रत्यययोग्यमचिदंशं
मा आहर । यथा अचलमेवाकाशं पवनः स्पन्दतां नयंस्तापरजोजाढ्यादिभाज
करोति तादृशमिति त्वमर्थोपमा ॥ ३ ॥

द्रष्टव्यमिह यत्किञ्चित्तद्दृष्टं किं समं भ्रमैः ।
न हि हेयमुपादेयं चेह पश्यामि तद्विदः ॥ ४ ॥

ननु त्वमर्थेष्वपि द्रष्टव्यं हेयमुपादेयं च वहस्ति तत्कुतो नादर्तव्यं तत्राह##-
भवति इत्यादिश्रुतेरात्मदर्शनेनैव सर्वद्रष्टव्यानां तत्त्वतो
दृष्टत्वाद्दृष्टैरदृष्टैर्वाभ्रमैः समं सह किं प्रयोजनम् ।
तद्विदस्तत्त्वविदः । इह भ्रान्तिविषये ॥ ४ ॥

शान्त्यशान्तिमयानेतान्विकल्पान्दलयन्नसिः ।
धीरोसि नान्यथाश्थित्वा त्वमेव भव चात्मदृक् ॥ ५ ॥

उपात्ता इष्टार्थाः प्रहीणा अनिष्टाश्च चित्ताश्वासनहेतुत्वाच्छान्तिमयास्त एव विपरीता
विक्षेपहेतुत्वादशान्तिमयास्तानेतान्विकल्पान् दलयंस्त्वमेव धीरः असिरसि । अन्यथा तु
न धीरोऽसि । अतः आस्थित्वा आस्थां विधाय आत्मदृक् चाद्धीरश्च भव । तथा च
दृश्याकारानास्कन्दितचिदात्मस्वभावावस्थितिरेव मुख्यः कल्प इति भावः ॥ ५ ॥

इमां दृश्यदशामाशु बाह्यबोधाय वा पुनः ।
समाश्रित्य मदुक्तं त्वं शृणु तूष्णीं स्थितेन किम् ॥ ६ ॥

तत्र चेत्त्वमसमर्थस्तर्हि तत्प्राप्तये कञ्चित्कालं श्रवणाद्यनुकूलां कतिपयामेव
बाह्यदृष्टिमवलम्ब्य निरन्तरं तत्त्वप्रापतये यतस्व न कदाचिदपि
प्रमादादुपरमस्वेत्याह-इयामिति । बाह्यबोधाय सूर्यो यथा सर्वलोकस्य चक्षुर्न
लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन
बाह्यः इति श्रुतौ अलेपकत्वसमर्थनाय सर्वप्रपञ्चबाह्यत्वेन दर्शितस्यात्मनो
बोधाय तूष्णीमात्मलाभप्रयत्नं विना स्थितेनावस्थितेन किं । कः पुरुषार्थ
इत्यर्थः ॥ ६ ॥

इत्युक्त्वा बाह्यबोधस्त्वं मा भवेति त्रिशूलधृक् ।
प्राणेनेदं देहगेहं परिस्फुरति यन्त्रवत् ॥ ७ ॥

बाह्याकारदर्शनानां मध्ये देहात्मतादर्शनमेव महाननर्थः
सर्वानर्थबीजं चेति तदेव मम त्याजयितुं भगवान् प्रवृत्त इति वसिष्ठ आह##-
यस्य तथाविधो मा भवेत्याशयेन वक्ष्यमाणदेहात्मताभ्रमनिरासोपायमाहेति
पूरयित्वा व्याख्येयम् । त्रिटितो वा ग्रन्थोऽत्रान्वेष्यः । तत्र देहस्य क्रियाशक्तिरिव
चेतनशक्तिरपि परायत्तेति नात्मप्रसक्तिरित्याशयेन प्राणाधीना देहचेष्टेत्याह##-

प्राणहीनं परिस्पन्दं त्यक्त्वा तिष्ठति मूकवत् ।
चालनी पावनी शक्तिः शक्तिः संवेदनी चितिः ॥ ८ ॥

देहस्य चालनी चलनानुकूला क्रियाशक्तिः पावनी पवनप्रयुक्ता संवेदनी शक्तिस्तु
आत्मचितिरेवेत्यर्थः ॥ ८ ॥

सा मूर्ता खादपि स्वच्छा सत्सत्तैवात्र कारणम् ।
चिनश्यतः प्राणदेहौ वियोगान्मरुदेव च ॥ ९ ॥

तत्र क्रियाशक्तेर्मूलमाश्रयश्च विनश्यतः । चिच्छक्तिस्तु न विनश्यतीत्याह##-

चिदात्मा खादपि स्वच्छो न विनश्यति किं भ्रमैः ।
मनःप्राणमये देहे चित्तत्त्वं परिजायते ॥ १० ॥

कुतो न विनश्यति तत्रोपपत्तिमाह-मनःप्राणमये इति । लिङ्गदेहसंवलिते इति यावत्
। परिजायते निरावरणमभिव्यज्यते ॥ १० ॥

मुकुरे ह्यमलाभासे प्रतिबिम्बं प्रवर्तते ।
सदप्यग्रगतं वस्तु प्रतिबिम्बक्रियां विना ॥ ११ ॥

स्थूलदेहमात्रस्य तु न चिदभिव्यक्तिसमर्थता मलिनत्वादिति दृष्टान्तेनोपपादयति##-

यथा नास्ति मलोपेते मुकुरे मुनिनायक ।
तथा नास्ति गतप्राणे विद्यमानेऽपि देहके ॥ १२ ॥

सर्वगापि चिदुच्छूनबोधात्स्पन्दादिकं प्रति ।
बोधात्कलङ्कविमला चिदेव परमं शिवम् ॥ १३ ॥

अत एव सर्वगतापि चिन्मायाकलङ्कावृतत्वाल्लिङ्गदेहादन्यत्र बाह्यक्रियासु
स्वतत्त्वबोधे चासमर्था लिङ्गदेहे अनादृतत्वात्तद्वृत्तिद्वारा
तदुभयसमर्थेत्याह-सर्वगेति ।
बाह्याकारेणोच्छूनाद्बोधाद्बुद्धिवृत्तेर्निमित्ताद्देहघटस्पन्दादिकं प्रति
समर्था । ब्रह्माकारबोधात्तु मायाकलङ्कविमला [कलङ्कं विहाय
विमलेत्यर्थः ।] स्वयमेव परमं शिवं परमकल्याणं कैवल्याख्यं
व्यवतिष्ठत इत्यर्थः ॥ १३ ॥

विदुर्देवं तदाभासं सर्वसत्तार्थदं तथा ।
स हरिः स शिवः सोऽजः स ब्रह्मा स सुरेश्वरः ॥ १४ ॥

अत एवाभिव्यक्ता चिदेव सर्वसत्तास्फूर्तिनिमित्तत्वाद्दीव्यति द्योतत इति व्युत्पत्त्या देव इति
विद्वत्पक्ष इत्याह-विदुरिति । तस्या आभासमभिव्यक्तं रूपम्
तदभिव्यक्त्युत्कर्षादेव हरिहरादिदेवानामप्युत्कृष्टदेवत्वमित्याशयेनाह-स
हरिरिति । अजो हिरण्यगर्भः । ब्रह्मा चतुर्मुखः ॥ १४ ॥

अनिलानलचन्द्रार्कवपुः स परमेश्वरः ।
स एष सर्वगो ह्यात्मा चित्खनिश्चेतनः स्मृतः ॥ १५ ॥

चित्खनिः सर्वचैतन्याकारः ॥ १५ ॥

देवेशो देवभृद्धाता देवदेवो दिवः पतिः ।
महाचितः समुल्लासं मुह्यन्तीव न केचन ॥ १६ ॥

ये नाम केचन महाचितः समुल्लासं निरतिशयामभिव्यक्तिं प्राप्य न मुह्यन्तीव
मिथ्यामोहपरवशा न भवन्ति त एते जगति ब्रह्मविष्णुहरादयः परमदेवाः
प्रसिद्धा इत्यर्थः ॥ १६ ॥

ये नाम ते जगत्येते ब्रह्मविष्णुहरादयः ।
परस्मात्परिनिर्याता ब्रह्मविष्णुहरादयः ॥ १७ ॥

यस्तु परब्रह्मदेवस्तद्दृष्ट्या गुणैकदेशाभिमानिन एते
सृष्ट्यादिकार्यार्थमाविर्भूता विस्फुलिङ्गप्राया लक्ष्यन्त इत्याशयेनाह##-

कणास्तप्तायस इव वारिधेरिव बिन्द्ववः ।
तेष्विव भ्रमभूतेषु जातेष्विव परात्पदात् ॥ १८ ॥

उपाध्युपहितप्राधान्याभ्यां क्रमाद्दृष्टान्तौ । इदं
चाशास्त्रीयव्यवहारदृशोक्तं विमर्शदृशा तु
ब्रह्मादीनामप्याविर्भावसर्गादिचेष्टानुग्रहोपदेशब्रह्माण्डाधिपत्य##-

स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु ।
सहस्रशतशाखेयमविद्योदेति पीवरी ॥ १९ ॥

वेदवेदार्थवेदादिजीवजालजटावली ।
ततस्तस्या अनन्तायाः प्रसृतायाः पुनः पुनः ॥ २० ॥

वेदा वेदार्थाः सर्गादिक्रमाः साङ्गोपाङ्गक्रियाकलापा उपासनभेदा
ब्रह्मतत्त्वव्युत्पादनोपायभेदाश्च तदधिकारिणो जीवास्तेषां
कामकर्मवासनाजननमरणाद्यनर्थजटाश्चेत्येतेषामावली पङ्क्तिरूपा अविद्येति
पूर्वत्रान्वयः । अविद्याविलासभेदास्त्वानन्त्याद्वक्तुमशक्या इत्याह-तत इति ॥ २० ॥

सम्पन्नदेशकालायाः क्रमः स्याद्वर्णनासु कः ।
ब्रह्मविष्णुहरादीनामतोऽयं परमः पिता ॥ २१ ॥

वर्णनासु कः पुरुषः क्रमत इति क्रमः समर्थः स्यात् । न कश्चिदित्यर्थः । अथवा
क्रम्यत इति क्रमः प्रयोजनम् । किं प्रयोजनं स्यान्न किञ्चिदित्यर्थः । यतो
ब्रह्मविष्ण्वादयोऽपि तदधीनशरीरोपाधिपरिग्रहा अतः अयं चिदात्मा
महादेवस्तेषामपि पितेत्यर्थः । तथा चाथर्वशिरःश्रुतिः ध्यायीतेशानं
प्रध्यायितव्यम् । सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि
चेन्द्रियाणि सहभूतैः न कारणं कारणानां धाता ध्याता कारणं तु ध्येयः
सर्वैश्वर्येण सम्पन्नः सर्वेश्वरश्च शम्भुराकाशमध्ये इति ।
पुराणेष्वप्युक्तम् त्रयस्ते कारणात्मानो जाताः साक्षान्महेश्वरात् । तपसा तोषयित्वा
तं पितरं परमेश्वरम् । परस्परस्माज्जायन्ते परस्परजयैषिणः ॥ इति ॥ २१ ॥

मूलबीजं महादेवः पल्लवानामिव द्रुमः ।
सर्वसत्त्वाभिधः सर्वः सर्वसंवेदनैककृत् ॥ २२ ॥

महत्यपरिच्छिन्ने आत्मज्ञानयोगैश्वर्ये महीयते पूज्यते सर्वोत्कर्षेण वर्तत इति
महादेवः । तथा च श्रुतिः यः सर्वान्भावान्परित्यज्यात्मज्ञानयोगैश्वर्ये महति
महीयते तस्मादुच्यते महादेवः इति । सर्वेषां सत्त्वानां बलानि अभिधाश्च यस्य ॥ २२

सर्वसत्ताप्रदो भास्वान्वन्द्योऽभ्यर्च्यश्च तद्विदः ।
प्रत्यक्षवस्तुविषयः सर्वत्रैव सदोदितः ॥ २३ ॥

तद्विदस्तं परिचितवतः पुंसः प्रत्यक्षं प्रतीन्द्रियं प्रतिवस्तु च स्फुरद्रूपत्वात्स
एव विषयो नान्यः ॥ २३ ॥

संवेदनात्मकतया गतया सर्वगोचरम् ।
न तस्याह्वानमन्त्रादि किञ्चिदेवोपयुज्यते ॥ २४ ॥

सन्निधानार्थमाह्वानं प्रकाशनार्थं च मन्त्रा उपयुज्यन्ते । सर्वगते सदा
स्फूर्तिरूपे तु तस्मिन्नाह्वानमन्त्रयोः प्रयोजनमस्तीति भावः ।
आदिपदात्प्रतिष्ठापनावगुण्ठनावरोधनादिपरिग्रहः ॥ २४ ॥

नित्याहूतः स सर्वस्थो लभ्यते सर्वतः स्वचित् ।
यां यां वस्तुदशां याति तत एव मुने शिवम् ॥ २५ ॥

तत एव लभ्यते ॥ २५ ॥

स्वरूपं समवाप्नोति रूपालोकमनोदृशाम् ।
आद्यं पूज्यं नमस्कार्यं स्तुत्यमर्घ्यं सुरेश्वरम् ॥ २६ ॥

रूपाणां तदालोकनानां तन्मननलक्षणानां मनसां तत्साक्षिदृशश्च
स्वरूपं स्वयमेव आप्नोति धत्ते नान्यदित्यर्थः । अतस्तमेव
सर्वपूजादिव्यवहाराणामाद्यं पुरःस्फूर्तिकं देवं पूजादियोग्यं विद्धि ॥ २६ ॥

एनं तं विद्धि वेद्यानां सीमान्तं महतामपि ।
एतमात्मानमालोक्य जराशोकभयापहम् ।
सम्भृष्टबीजवज्जन्तुर्न भूयः परिरोहति ॥ २७ ॥

एवं वेद्यानामप्ययमेव सीमेत्याह-एनमिति ॥ २७ ॥

सकलजन्तुषु यत्त्वभयप्रदं विदितमाद्यमुपास्यमयत्नतः ।
त्वमजमात्मगतं परमं पदं भवसि किं परिमुह्यसि दृष्टिषु ॥ २८ ॥

यत् सकलजन्तुषु विदितं सत् अभयप्रदं यत्सर्वस्मादाद्यं यत् अयत्नत उपास्यं
तदजं पदं त्वमेव भवसि अतः किं बाह्यदृष्टिषु परिमुह्यसीत्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
महादेवस्य पूज्यसीमान्तत्वकथनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
महादेवस्य पूज्यसीमान्तत्वकथनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥