०३४

चतुस्त्रिंशः सर्गः ३४

ईश्वर उवाच ।

इत्थं स्थितमिदं विश्वं सदसद्देवरूपि च ।
द्वैतैक्यपदनिर्मुक्तं युक्तं द्वैतैक्यमप्यतः ॥ १ ॥

सौषुप्तमिह तुर्यं च तुर्यातीतपदं तथा ।
उपदिश्येश्वरोऽन्त्येत्र विश्रान्त इति वर्ण्यते ॥

इत्थमनया देवपूजया पूज्यमानं विश्वं बाधदृशा असत् अधिष्ठानदृशा सत्
देवरूपि च युक्तम् । तत्त्वतो द्वैतैक्यपदनिर्मुक्तं व्यवहारे द्वैतैक्यरूपं च
युक्तमिति सर्वविरोधपरिहार इत्यर्थः ॥ १ ॥

चितेः कलङ्कवैरूप्यमिति संसारतां गतम् ।
अकलङ्कमसंसारि तच्चाभिन्नाद्वयात्मकम् ॥ २ ॥

कुतो वा द्वैतैक्यरूपि कुतो वा तन्निर्मुक्तं तदाह-चितेरिति । कलङ्को मोहस्तत्कृतं
वैरूप्यं जडभाव इति कल्पनादित्यर्थः । असंसारि इति दर्शनादिति शेषः ॥ २ ॥

इयमस्मीति सम्प्राप्तकलङ्का चिन्निबध्यते ।
एतामेव कलां बुद्ध्वा स्वकाभिन्नां विमुच्यते ॥ ३ ॥

तदेव स्पष्टमाह-इयमिति । इयं दृश्यदेहादिरूपा । एतां
दृश्यप्रथासमर्थां चित्कलाम् ॥ ३ ॥

चिदर्थाकारताभावाद्द्वित्वासत्त्वं समुज्झति ।
सुखादिमिलितां धत्ते न सत्यां सदिति क्षणात् ॥ ४ ॥

अर्थाकारतारा अर्थाकारस्य भावाद्भावनानिमित्ताद्द्वित्वं प्राप्य
स्वमखण्डसत्त्वं समुज्झति विस्मरति । देहसुखदुःखादिभिर्मिलितां न
सत्यामसत्यामेव स्वस्थितिं सदिति धत्ते सेयं सकलङ्कस्थितिः ॥ ४ ॥

शुद्धा निरंशा सत्या वाऽसत्या वेत्येवमादिभिः ।
विमुक्ता नामशब्दार्थैः सर्वैः सर्वात्मिकापि खम् ॥ ५ ॥

अकलङ्कस्थितिमाह-शुद्धेति । सत्या वा असत्या वा
इत्येवमादिभिर्विकल्पनामशब्दार्थैः सर्वैर्विमुक्ता व्यवहारे सर्वनामरूपात्मिकापि
खं शून्यस्वभावा सेत्यर्थः ॥ ५ ॥

सर्वं निरुपमं शान्तं मनसैतत्त्रिमार्गगम् ।
ब्रह्मेदं बृंहितं ब्रह्म शक्त्याऽऽकाशविकासया ॥ ६ ॥

उक्तनिष्कलङ्कस्थितिप्रतिष्ठार्थं सुषुप्त्यादि भूमिकाभेदान्दर्शयितुमुपक्रमते##-
विकसतीत्याकाशविकासा तथाविधया स्वमायाशक्त्या जाग्रत्स्वप्नसुषुप्तिलक्षणैः
सृष्टिस्थितिसंहारलक्षणैरध्यात्माधिभूताधिदैवलक्षणैर्वा त्रिभिर्मार्गैः
प्रवृत्तं जगन्मनसैव जृम्भितम् ॥ ६ ॥

मनसा मनसि च्छिन्ने स्वेन्द्रियावयवात्मनि ।
सत्यालोकाज्जगज्जाले प्रच्छन्ने विलयं गते ॥ ७ ॥

अतो मनश्छेदेनैवास्य च्छेद इत्याह-मनसेति । सत्यस्यालोकात्साक्षात्कारात् ॥ ७ ॥

छिद्यते शीर्णसंसारकलना कल्पनात्मिका ।
भृष्टबीजोपमा सत्ता जीवस्य इतिनामिका ॥ ८ ॥

एवं तत्त्वबोधेन कल्पनाभिः सह मनसि च्छिन्ने प्रथमं यस्यां भूमिकायां
जीवन्मुक्तस्य स्थितिर्भवति तां लक्षणैर्नाम्ना च दर्शयति##-
महिमानमिति वीतशोकः इति श्वेताश्वतरकाठकश्रुत्योश्छान्दोग्ये
स्वपितिनामनिर्वचने स्वं अपि इतीति विभागे च इतिपदेन व्यवहृतत्वादितिनामिकेत्यर्थः ।
यद्यप्यज्ञसुषुप्तावपि स्वपितिनामास्ति तथापि
तत्त्वबोधेनाज्ञानलिङ्गादिबाधाद्यस्योपाधेर्यस्यामविद्यायां
लयस्तयोरभावादप्ययबोधकस्यापिशब्दस्य निवृत्तौ स्वरूपप्राप्त्यर्थक इतिशब्द
एवावशिष्टस्तन्नाम सम्पद्यत इति भावः ॥ ८ ॥

पश्यन्ती नाम कलितोत्सृजन्ती चेत्यचर्वणाम् ।
मनोमोहाभ्रनिर्मुक्ता शरदाकाशकोशवत् ॥ ९ ॥

एवं सर्वदृश्यबाधेनापरोक्षदृङ्मात्रपरिशेषात्पश्यन्ती इत्यपि तस्या
नामान्तरमित्याह-पश्यन्तीति । चेत्यस्य चित्तविषयस्य चर्वणां पुनःपुनः
प्रीत्यानुस्मरणं उत्सृजन्ती त्यजन्ती ॥ ९ ॥

शुद्धा चिद्भावमात्रस्था चेत्यचिच्चापलं गता ।
समस्तसामान्यवती भवतीर्णभवार्णवा ॥ १० ॥

प्राक्चेत्यचिच्चापलं गतापि साम्प्रतं चित्स्वभावमात्रस्था समस्तस्य सामान्यं
सत्ता तद्वती तन्मात्रेण परिशिष्टेति यावत् । भवे जीवद्दशायामेव तीर्णो भवार्णवो
यस्याम् ॥ १० ॥

अपुनर्भवसौषुप्तपदपाण्डित्यपीवरी ।
परमासाद्य विश्रान्ता विश्रान्ता विततए पदे ॥ ११ ॥

सौषुप्तमितिपदस्य सुष्ठु निरतिशयानन्दात्मकं सुप्तं स्वलाभरूपमिति
छान्दोग्यकृतव्युत्पत्त्यनुरूपं यत्पाण्डित्यं पण्डा शास्त्रजन्यं ज्ञानं तां
इतः प्राप्तः पण्डितस्तस्य भावः पाण्ण्दित्यं यश्च श्रोत्रियोऽवृजिनोऽकामहतः इति
श्रुत्युपदर्शितलक्षणविद्वदनुभवसिद्धं स यो मनुष्याणां राद्धः इत्यादिना
मानुषानन्दादिहैरण्यगर्भानन्दान्तशतशतगुणोत्तरोत्तरोत्कृष्टविषयानन्द##-
अथवा सौषुप्तपदस्य सौषुप्तस्थानस्य यत्पाण्डित्यं
निरस्तस्वाविद्यामौर्ख्यचिदेकघनपूर्णानन्दस्वप्रकाशस्वरूपं तेन पीवरी । अत एव
भागत्यागलक्षणयां महासुप्तपदनामिकापि सेति भावः ॥ ११ ॥

एतत्ते मनसि क्षीणे प्रथमं कथितं पदम् ।
द्वितीयं शृणु विप्रेन्द्र शक्तेरस्याः सुपावनम् ॥ १२ ॥

उत्तरं स्थानं वर्णयिष्यन्वर्णितं प्रथमं स्थानमुपसंहरति-एतदिति ।
शक्तेश्छिच्छक्तेर्दृढीकाराद्वा ॥ १२ ॥

एषैव मनसोन्मुक्ता चिच्छक्तिः शान्तिशालिनी ।
सर्वज्योतिस्तमोमुक्ता वितताकाशसुन्दरी ॥ १३ ॥

ज्योतिर्भिः सूर्यचन्द्राग्निवाक्करणरूपैस्तमोभिरन्धकाराज्ञानतत्कार्यैश्च मुक्ता ॥
१३ ॥

घनसौषुप्तलेखावच्छिलान्तःसन्निवेशवत् ।
सैन्धवान्तस्थरसवद्वातान्तःस्पन्दशक्तिवत् ॥ १४ ॥

तस्याः पूर्वापेक्षया ये विशेषास्तानाह-घनेति । सर्वेषां [सर्वेषां
पदानां इति शेषः ।] परां परिणतिमित्युत्तरत्रोपमानतया सम्बन्धः ॥ १४ ॥

कालेनायाति तत्रैव परां परिणतिं यदा ।
शून्यशक्तिरिवाकाशे परमाकाशगा तदा ॥ १५ ॥

यदा पूर्वभूमिकैवाभ्यासवशाद्घनसौषुप्तादिवत्परां परिणतिं याति तदा
आकाशे विद्यमाना शून्यशक्तिः परमाकाशं
चिदेकघनब्रह्माकाशभावमागतेव भूत्वा चेत्यांशोन्मुखतां त्यजतीति
परेणान्वयः । स्वतो व्युत्थानशून्यता भवतीत्ययं पूर्वापेक्षया फलतोऽपि विशेष
इति भावः ॥ १५ ॥

चेत्यांशोन्मुखतां नूनं त्यजत्यम्ब्विव चापलम् ।
वातलेखेव चलनं पुष्पलेखेव सौरभम् ॥ १६ ॥

कालताकाशते त्यक्त्वा सकलए सकलाकला ।
न जडा नाजडा स्फारा धत्ते सत्तामनामिकाम् ॥ १७ ॥

क्रिया हि कालस्य कला । परिच्छिन्नमवकाशसापेक्षं वस्त्वाकाशस्य कला ताभ्यां
सकले कालताकाशते तत्परित्यागादेव त्यक्त्वा सकलं दृश्यमात्रं न कलयतीति
सकलाकला । व्यावर्तनीयजडाभावान्नाजडा । अनामिकां शब्दाभिलापायोग्यां
वक्ष्यमाणविशेषणां सत्तां धत्ते ॥ १७ ॥

दिक्कालाद्यनवच्छिन्नमहासत्तापदं गताम् ।
तुर्यतुर्यांशकलितामकलङ्कामनामयाम् ॥ १८ ॥

जाग्रत्स्वप्नसुषुप्तिभ्यस्तुर्यो यो विराढिरण्यगर्भाव्याकृतेभ्यस्तुर्य्ॐऽशस्तेन
कलितां प्रथमानाम् ॥ १८ ॥

काञ्चिदेव विशालाक्ष साक्षिवत्समवस्थिताम् ।
सर्वतः सर्वदा सर्वप्रकाशस्वादुतत्पराम् ॥ १९ ॥

अत एव सर्वनिमित्तकसार्वकालिकसर्ववस्तुगोचरेभ्यः प्रकाशेभ्यः प्रथाभ्यः
स्वादुभ्यश्चानन्देभ्यश्च तत्परां तादृशोत्कर्षवतीं स्पृहणीयतरां च ॥ १९ ॥

एषा द्वितीया पदता कथिता तव सुव्रत ।
तृतीयं शृणु वक्ष्यामि पदं पदविदां वर ॥ २० ॥

उक्तां तुर्याख्यां द्वितीयभूमिकामुपसंहृत्य तृतीयामवतारयति-एषेति ।
पदं भूमिकाम् ॥ २० ॥

एषा दृक्चेत्यवलनादनामार्थापदं गता ।
ब्रह्मात्मेत्यादिशब्दार्थादतीतोदेति केवला ॥ २१ ॥

तस्यां पूर्वापेक्षया ये विशेषास्तानाह-एषेत्यादिना । दृक् ब्रह्माकारा
अखण्डवृत्तिश्चेत्यं तद्व्याप्तं ब्रह्म तयोर्वलनात् क्षीरोदकवदेकीभावान्नमयति
गोचरयतीति नामग्राहकांशः अर्थ्यते गम्यते इत्यर्थो
ग्राह्यांशस्तदुभयशून्यतापदं गता । अत एव
ब्रह्मात्मेत्यादिपदवाक्यार्थादतीता । तथा च सम्प्रज्ञातसमाधिगम्यैव पूर्वा
भूमिका इयं त्वसम्प्रज्ञातसमाधिप्रतिष्ठागम्येति विशेष इति भावः ॥ २१ ॥

स्थैर्येण कालतः स्वस्था निष्कलङ्का परात्मना ।
तुर्यातीतादिनामत्वादपि याति परं पदम् ॥ २२ ॥

स्थैर्येण षड्भावविकारराहित्येन कालतोऽपि स्वस्था स्थिरा । तमसोऽपि परेण आत्मना
स्वेनैव निरस्तकलङ्का । या अतिशयितं परं पदं परमपुरुषार्थ इत्यर्थः ॥ २२ ॥

सा परा परमा काष्ठा प्रधानं शिवभावतः ।
चित्येका निरवच्छेदा तृतीया पावनी स्थितिः ॥ २३ ॥

सर्वेषां पराणां परा परमा काष्ठा अवधिः शिवभावतः
परममङ्गलत्वात्सर्वेभ्यो मङ्गलेभ्यः प्रधानम् । एका मुख्या निरवच्छेदा
विच्छित्तिरहिता चिति स्थितिस्तृतीयेत्यर्थः ॥ २३ ॥

चिरमस्यां प्रतिष्ठायां सर्वाध्वाध्वगदूरगा ।
सा ममाप्यङ्ग वचसां न समायाति गोचरम् ॥ २४ ॥

अस्यां प्रतिष्ठायां भूमिकायां स्थितिः सा सर्वेभ्यः
शैवशास्त्रप्रसिद्धषडध्वभ्यः
श्रुतिप्रसिद्धधूमार्चिराद्यध्वभ्यस्तदध्वगेभ्यस्तैरध्वभिरुपास्ति##-
गोचरं विषयतां न समायाति किन्तु स्वयमेवानुभूयत इत्यर्थः ॥ २४ ॥

त्रिमार्गकलनातीतमिति ते कथितं मुने ।
तिष्ठ तस्मिन्पदे नित्यमिति देवः सनातनः ॥ २५ ॥

त्रिभ्यो जाग्रदादिमार्गेभ्यः कलनायास्तत्सापेक्षतुर्यत्वसङ्ख्यायाश्चातीत इति
एवंरूपो देवः सनातनो नित्यो नान्यः । अतोऽन्यदार्तं इति श्रुतेरिति भावः ॥ २५ ॥

एतन्मयमिदं विश्वं मुने तन्मयवेदनात् ।
सत्यसंवेदनान्नेदं न च नेदं मुनीश्वर ॥ २६ ॥

तन्मयवेदनात्तदुपादानकत्वदर्शनात् एतन्मयम् ।
उपादानातीताद्वितीयसत्यसंवेदनात्तु इदं नेदं च । द्विविधविकल्पातीतमित्यर्थः ॥ २६ ॥

नेदं प्रवर्तते किञ्चिन्नेदं किञ्चिन्निवर्तते ।
शान्तं समसमाभासं प्रथते स्वस्य कोशवत् ॥ २७ ॥

तदेव स्पष्टमाह-नेदमिति । स्वस्य कोश उदरं तद्वत् ॥ २७ ॥

अद्वैतैक्यादसङ्क्षोभाद्धनचेतनया तया ।
अविकारादिमत्त्वाच्च नित्यानित्यतया चिरम् ॥ २८ ॥

कुतस्तत्समेभ्योऽपि समाभासं तत्र हेतुमाह-अद्वैतैक्यादिति द्वाभ्याम् ।
प्रलयाब्धिवद्द्वैतैक्याभावेऽपि स्वात्मनि सङ्क्षोभः स्यान्नेत्याह##-
सैन्धवखण्डे द्रवत्वादिविकारस्तद्रस एव दृष्टस्तद्वत्किञ्चन स्यात्तत्राह##-
यस्मात्तादृशतया ॥ २८ ॥

चिद्धनत्वाच्छिशुशिलाकोशानां जगतामपि ।
मनागपि न भेदोऽस्ति सतामप्यसतामपि ॥ २९ ॥

सतामसतामपि शिशुकल्पितनभः शिलाकोशानां जगतामपि चिद्धनत्वान्न मनागपि
भेदोऽस्तीति समसमाभासमिति सुष्ठूक्तमिति भावः ॥ २९ ॥

समस्तं सुशिवं शान्तमतीतं वाग्विलासतः ।
ओमित्यस्य च तन्मात्रातुर्या स परमा गतिः ॥ ३० ॥

उक्तमेव तुर्यातीतत्वमुपपादयन्नुपसंहरति-समस्तमिति । ओमित्यस्याक्षरस्य
विराडादिभिरकारादिमात्राभेदेन कल्पितैश्चतुर्भिः पादैः प्रविभक्तस्य या
नादबिन्दुशक्तिशान्ताख्यास्तस्या अर्धमात्राया मात्रास्तासु तुर्या शान्ताख्या सा
परमा गतिः । तस्यां हि ओतानुज्ञात्रनुज्ञाऽविकल्पाख्यासु स्थितिषु अविकल्पाख्या
तुरीयतुरीया तापनीयश्रुतौ परमा गतिर्व्युत्पादितेति भावः ॥ ३० ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवानमलदृक्परिणामतोऽस्मिन् पारे पदे समुपशान्तरवाभिधाने ।
तूष्णीमतिष्ठदमुना मुनिना च सार्धं विश्रान्तवृत्तिरथ तत्र
मुहूर्तमीशः ॥ ३१ ॥

ईशः शिव इति वर्णितप्रकारेणोक्तवानुपदिष्टवान्सन् अथ अमुना वसिष्ठेन मुनिना
चादन्यैः स्कन्दनन्द्यादिभिश्च सार्ध सम्यगुपशान्तो रवः
प्रणवार्धमात्राचरमभागो यत्रेति व्युत्पत्त्या शान्तरवाभिधाने अस्मिन्
सर्वसंसारपारे तुरीयतुरीयपदे अमला या दृग् भूमानन्दचित् तदैकरस्येन
परिणामतो विश्रान्ता वृत्तिर्यस्य तथाविधः संस्तत्र वसिष्ठाश्रमे मुहूर्त
तूष्णीं निश्चेष्ट एवातिष्ठत् । मनसः परमपदविश्रान्तौ
तदधीनसर्वेन्द्रियचेष्टानां कुण्ठीभावादिति भावः ॥ ३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
परमेश्वरोपदेशो नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
परमेश्वरोपदेशो नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥