त्रयस्त्रिंशः सर्गः ३३
श्रीवसिष्ठ उवाच ।
चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः ।
अनन्तस्यैकरूपस्य द्वित्वं कथमुपागतम् ॥ १ ॥
यथा जीवजगद्भेदा मोहसङ्कल्पकल्पिताः ।
विचारेणैव सम्भाव्यास्तथा तर्कैरिहोच्यते ॥
सर्वगापि चिदेतस्मिंश्चेतसि प्रतिबिम्बतीति यदुक्तं यच्च दृढभावनया
पश्चात्तत्रैव रसशालिनीत्याद्युक्तं तत्रोभयत्राप्यनुपपत्तिं वसिष्ठः शङ्कते##-
चन्द्रार्धशेखरधर । अर्धशब्दस्य षोडशतमभागनिष्ठत्वेन
समांशवाचित्वाभावेनानपुंसकत्वात् अर्धं नपुंसकम् इत्यस्याप्रवृत्तेः
षष्ठीतत्पुरुषः । अनन्तस्य दिक्कालवस्तुकृतपरिच्छेदशून्यस्य एकरूपस्य
सजातीयविजातीयस्वगतभेदशून्यस्य चिल्लक्षणस्य तत्त्वस्य सजातीयजीवरूपं
विजातीयजडजगद्रूपं च द्वित्वं कथमुपागतम् किं स्वत उत परतः । नाद्यः ।
अविकारत्वादनवयवत्वाच्च । नापि द्वितीयः । द्वितीयस्यैवाप्रसिद्धेरिति भावः ॥ १ ॥
कथं च तन्महादेव रूढं पर्यायसङ्कुलम् ।
भवेद्दुःखोपघाताय प्रज्ञया विनिवारितम् ॥ २ ॥
यदि तु निर्निमित्तमेव तदा गतमिति ब्रूषे तर्हि सङ्कोचे
मानाभावादनन्तकोटिभिस्तत्पर्यायैर्बन्धनैः सङ्कुलं व्याप्तं चिरानुवृत्त्या
रूढं तत् प्रज्ञया तत्त्वबोधेनैकत्वागन्तुकत्वाभ्यां दुर्बलतमेन कथं
विनिवारितं सत् आत्यन्तिकदुःखोपघाताय भवेत् ।
निर्निमित्तस्यैकस्याप्युच्छेदाप्रसिद्धेः कथञ्चिदेकस्योच्छेदेऽप्यन्येषामनन्तानां
तादृशबन्धानां परिशेषात्पुनःपुनरन्यान्यनिर्निमित्तबन्धोत्पत्तेर्दुर्वारत्वाच्च
न प्रागुक्तब्रह्मशक्तिमायानिमित्तं मिथ्याभूतमेव तदिति न कश्चिद्दोष इति युक्तम् ।
सा ह्यागन्तुकी वा स्यात्सहजा वा आद्येऽपि स्वत उत्पन्ना उत परसम्बन्धाधेयेति विमर्शे
अनिर्मोक्षानवस्थादिदोषापत्तेः । सहजाया अग्न्यौष्ण्यशक्तिवत्सति
ब्रह्मण्यपनेतुमशक्त्या अनिर्मोक्षतादवस्थ्यात् ऐकरस्यश्रुतिवैरस्यप्रसङ्गाच्च ।
किं च मायाशक्तेर्मिथ्यात्वे अत्यन्तासत्त्वादसतः कार्योत्पादकत्वायोगात्स एव
समुत्थितो निर्हेतुकद्वैतोत्पादवादः । सत्यत्वे ज्ञानेन
निवृत्त्ययोगादनिर्मोक्षदोषानिर्मोक्ष इत्युभयतस्पाशा रज्जुः । न च निष्कर्षे
सत्त्वासत्त्वातिरिक्ता तृतीया विधा केनचिद्व्यवस्थापयितुं शक्या । तयैव विधया
ज्ञानोत्तरमपि द्वैतस्यानिवार्यत्वात् । न हि तृतीया सा ज्ञेन प्रथमा द्वितीया वा
कर्तुं शक्या । ज्ञानस्याकारकत्वादन्यस्यान्यात्मतायोगात्##-
॥
ईश्वर उवाच ।
सर्वशक्ति हि तद्ब्रह्म सदेकं विद्यते यदा ।
तदा निर्मूल एवायं द्वित्वैकत्वकलोदयः ॥ ३ ॥
न वयं जीवजगदादिद्वैतं प्रमाणैरुपपादयितुं प्रवृत्ताः किन्तु
मोहादनादिकालादारभ्य भ्रान्त्या प्रसक्तं
तदध्यारोपापवादन्यायमाश्रित्यापवदितुम् । तत्राध्यारोपे सर्गादौ
यत्कामकर्मवासनादिनिमित्तकारणानां ब्रह्माविद्याद्युपादानकारणानां
वियदादिक्रमस्य व्यष्टिसमष्टिस्थूलसूक्ष्मादिविभागकोशभेदादीनां कल्पनं तत्
सर्वं स्वयमसत्यमपि सत्यवस्तुपरिचयोपायतया श्रुत्या कल्पितं
परमार्थसत्यप्रयोजनाविसंवादितया इतरवादिकल्पनापेक्षया उत्कृष्टमिति
श्रोतॄणां विश्वासजननाय लोकदृशैवोपपत्तिभिः शास्त्रेषु समर्थ्यते । परिचिते तु
सर्वात्मके सर्वप्रतीचि तस्याद्वितीयताबोधनाय परमार्थदृष्टिमेवावलम्ब्यापोद्यत
एवेति तस्मिन्नेकत्वमभ्युपेत्य तद्विरुद्धद्वित्वासम्भवोद्भावनं तव
स्वाभ्युपगतविरुद्धं सिद्धान्तविरुद्धं चेति कथं न पश्यसीत्याशयेन
श्रीभगवान्समाधत्ते-सर्वशक्तीत्यादिना । यदा ब्रह्म व्यवहारदृशा
सर्वशक्ति परमार्थदृशा तु एकं सदेव विद्यत इति व्यवस्थितं
दृष्टिद्वयमङ्गीकृतं तदा द्वित्वैकत्वलक्षणायाः कलायाः
सर्वशक्त्यैकदेशादुदयो यस्य तथाविधस्तदापेक्षो निर्मूल एव ।
यस्माद्व्यवहारदृशा अध्यारोपः परमात्मदृशाऽपवादः न
तावद्व्यवहारदृष्ट्या यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः इति
श्रुत्योपपादितात्सर्वज्ञात्सर्वशक्तिमतो जीवजगद्द्वैतागमोऽनुपपन्नः ।
धर्मिग्राहकमानेन तस्य तत्स्वभावस्यैव निर्णयात् ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् । यत्र नान्यत्पश्यति नान्यच्छृणोति
नान्यद्विजानाति स भूमा इति श्रुतिदर्शितपरमार्थदृष्टिगम्ये तु न कदाचिदपि
द्वित्वं तद्विरोध्येकत्वं वा प्रसक्तमिति तत्र तदनुपपत्त्युद्भावनं
निर्मूलमेवेत्यर्थः ॥ ३ ॥
सति द्वित्वे किलैकं स्यात्सत्येकत्वे द्विरूपता ।
कले द्वे अपि चिद्रूपे चिद्रूपत्वात्तदप्यसत् ॥ ४ ॥
ननु नेह नानास्ति किञ्चन न तु तद्द्वितीयमास्ति ततोऽन्यद्विभक्तम् विभुं
चिदानन्दमरूपमद्भुतम् इत्यादिश्रुतिभिर्द्वित्वमेव निषिध्यते
नैकत्वमित्यविरुद्धमेकत्वं कथं द्वित्वतुल्यकक्षतया निषिध्यते तत्राह-सतीति ।
सति प्रसिक्ते द्वित्वे तद्व्यावृत्तये एकत्वं कल्प्यते । सति चैकत्वे तदेवैकत्वान्तरसहितं
द्वित्वमिति कल्प्यत इति परस्परसापेक्षकल्पनत्वात्तुल्यकक्षे एव ते ।
तत्रैकत्वलक्षणधर्मस्यापि तदतिरिक्तस्य कल्पने
चिदैकरस्यव्याघातप्रसङ्गात्तदप्यसदेवेत्यर्थः ॥ ४ ॥
एकाभावादभावोऽत्र एकत्वद्वित्वयोर्द्वयोः ।
एकं विना न द्वितीयं न द्वितीयं विनैकता ॥ ५ ॥
कार्यकारणयोरेकसारत्वादेकरूअप्ता ।
फलान्तस्यापि बीजादेर्विकारादिह कल्पना ॥ ६ ॥
इदानीं व्यवहारपरमार्थदृष्ट्योरुपदेशादिव्यवहाराय मिश्रणेऽपि
सत्ताद्वैविध्यकल्पनान्न परमार्थसति व्यावहारिकसत्तया जीवजगद्द्वैतविरोध
इत्याह-कार्येति । बीजादेः पुनः फलान्तस्य यथा स एवायमिति
प्रत्यभिज्ञायमानैकस्वभावे अनुगतद्रव्ये विकारान्नानात्वकल्पना
तद्वदुपपत्तेरित्यर्थः ॥ ६ ॥
चित्त्वं चेत्यविकल्पेन स्वयं स्फुरति तन्मयम् ।
विकारादि तदेवान्तस्तत्सारत्वान्न भिद्यते ॥ ७ ॥
यदि तु सर्वविकाराणां परमार्थसत्ताव्यतिरिक्ता व्यावहारिकसत्ता नाभ्युपेयते तदा
सुतरां द्वैतं चिद्विकल्प एव फलित इति राहुशिरोद्वैतविरोधोद्भावनतुल्यस्त्वदाक्षेप
इत्याशयेनाह-चित्त्वमिति । अन्तः स एव सारः परमार्थो यस्य तत्त्वात् । एवं च
मायातत्कार्याणां पृथक्सत्त्वपक्षः अपृथक्सत्त्वपक्षः
असत्त्वपक्षस्तृतीयविधापक्षो वा
नानावादिकल्पितप्रधानपरमाणुक्षणिकाक्षणिकविज्ञानशून्यतादिपक्षो वा यः
कश्चित्त्वयाभ्युपगम्यतां तथाप्यसङ्गाद्वयचिन्मात्रास्पर्शी स सर्वोऽपि
चिदधीनसिद्धिकश्चिद्विकल्पमात्रमिति चितः कदापि बन्धप्रसक्तिरेव यत्र दुर्लभा
तत्राऽनिर्मोक्षोद्भावनं दूरनिरस्तमेवेति भावः ॥ ७ ॥
विकारादिविकल्पोऽयं तत उत्थाय वस्तुषु ।
याति सार्थकतां नानाकार्यकारणतादिभिः ॥ ८ ॥
तत्सारत्वमेवोपपादयति-विकारादीति । यतोऽयं
षड्भावविकारलक्षणस्तदाश्रयघटादिलक्षणश्च विकल्पस्ततः सद्वस्तुनः
सकाशादेवोत्थाय आविर्भूय जलाहरणाद्यर्थक्रियाकारणत्वादिभिः सार्थकतां
भोगपर्यवसानं याति । भोगश्च चिदवसानतैवेति तन्मात्रसारतेत्यर्थः ॥ ८ ॥
तरङ्गाः सलिले येऽपि तोये शैलस्य ते समाः ।
शशशृङ्गसमः सोऽपि यस्य सत्यः शशाङ्कुरः ॥ ९ ॥
एवं जगतो विकल्पनामात्रत्वे केचिज्जलतरङ्गादयो व्यावहारिकाः
मरुमरीचिकातोयतरङ्गाः प्रातिभासिकाः
वन्ध्यापुत्रशशशृङ्गादयस्त्वत्यन्तासन्त
इत्यवान्तरवैलक्षण्यविकल्पोऽप्यज्ञस्यैवेत्याह-तरङ्गा इति । यस्य तत्त्वविदःइ
शशादुद्भिन्नो वीहियवाद्यङ्कुरोऽपि ब्रह्मैवेति सत्यस्तस्य ये सलिले
प्रसिद्धास्तरङ्गास्ते शैलस्य मूर्ध्नि कल्पिते तोये ये तरङ्गास्तैः समाः । स शैलोऽपि
शशशृङ्गसमः । स्वतोऽसत्त्वस्य ब्रह्मसत्तया सत्त्वकल्पनस्य च त्रिष्वपि
साम्यादित्यर्थः ॥ ९ ॥
वस्तुबोधोऽत्र सन्धत्ते तत्रालं वाग्विकल्पनैः ।
व्यवच्छेदादि दुश्छेद्यं वचोवाच्यात्किल द्विज ॥ १० ॥
यस्त्वत्र जगत्यबोधकृतः सर्वपदार्थानां परस्परव्यावृत्तिलक्षणो
व्यवच्छेदस्तं वस्तुबोधस्तत्त्वसाक्षात्कार एव सन्धत्ते स्फुटितशकलानि
सन्धानेनेवैकतां नयति । तत्र ईदृशे विषये वाग्विकल्पनैर्युक्त्युपन्यासैः अलं
साध्यं नास्ति । यतः अनपगते अज्ञाने वचोवाच्याद्युक्तिसहस्रादपि
अपरोक्षभ्रमसिद्धं व्यवच्छेदादि द्वैतं दुरुच्छेद्यमित्यर्थः ॥ १० ॥
ब्रह्मणः सर्वशक्तित्वं तत्त्वतो न विभिद्यते ।
तरङ्गकणकल्लोलजलौघ इव वारिणः ॥ ११ ॥
तत्त्वदृशा दर्शने तु ब्रह्मणः सर्वशक्तित्वं सर्वजगदाकारमायिकरूपं
तन्मात्रं तत्त्वतो न विभिद्यते । तत्रैव तिरोभवतीत्यर्थः ॥ ११ ॥
पुष्पपल्लवपत्रादि लताया नेतरद्यथा ।
द्वित्वैकत्वजगत्त्वादि त्वन्त्वाहन्त्वं तथा चितेः ॥ १२ ॥
तथा च अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव
सत्यम् इति श्रुतिदर्शितन्यायेन लताद्यैक्यदर्शने तदीयपुष्पपल्लवादिभेदानामिव
तत्त्वदर्शने जगद्भेदानामप्यनृतत्वे त्वत्प्रश्नोऽतिनिरालम्बन इत्याह##-
देशकालविकारादिः कृतो भेदश्चितस्तु यः ।
तच्चिदेतदसत्प्रोक्तं न प्रश्नोऽत्र तवोचितः ॥ १३ ॥
यो भेदः कृतः तत्सः चित् चिदेव चिद्द्वित्वमेव नास्ति तत्र द्वित्वं
कथमुपागतमित्येतत्त्वया असत्प्रोक्तम् । अत्र असद्विषये तव प्रश्नो नोचित इत्यर्थः ॥ १३ ॥
देशकालक्रियासत्तानियत्वाद्याश्च शक्तयः ।
चिदात्मिका एव चितः सत्त्वात्सम्पतिताः स्वतः ॥ १४ ॥
यतश्चितः सत्त्वादेव सम्पतिताः सम्पन्नसत्ताका अतश्चिदात्मिका एव ॥ १४ ॥
चित्तत्त्वं चित्तचेत्येहं चिद्ब्रह्माद्यभिधा स्मृता ।
यथा वीच्याद्यभिधार्हं स्थितमम्बुतरङ्गकम् ॥ १५ ॥
चित्तं चेत्यं तदीहाश्च तेषां समाहारो रूपप्रपञ्चश्चित्तत्त्वमेव । एवं
ब्रह्मादिस्तम्बपर्यन्ता अभिधा नाम प्रपञ्चोऽपि चिदेव स्मृता । अम्बुतरङ्गकं
अम्बुतरङ्गानुगतं रससामान्यं यथा वीच्याद्यभिधार्हं स्थितं तद्वत् ॥ १५ ॥
असम्भवत्तरङ्गस्य चिद्विलासमहाम्बुधेः ।
तरङ्गितत्वमिव यत्तत्तावच्चेत्यसङ्गिता ॥ १६ ॥
तरङ्गितत्वमिव यद्विवर्तनं तदेव चेत्यसम्बन्ध इत्यर्थः ॥ १६ ॥
तदेतत्परमं ब्रह्म सत्येश्वरशिवादिभिः ।
शून्यैकपरमात्मादिनामभिः परिगीयते ॥ १७ ॥
शून्यपदेन असद्वा इदमग्र आसीत् इति श्रुतिस्थमसत्पदं लक्ष्यते ॥ १७ ॥
एवं रूपपदातीतं यद्रूपं परमात्मनः ।
यत्तु नामाहममलं विषयो न गिरां च तत् ॥१८ ॥
मत्तत्त्वं परमार्थतस्तदेवेत्याह-एवमिति । रूपाणि पदानि नामानि च तदतीतं यत्
अहम् । तुशब्दः पुरोदृश्यमानसाकाररूपव्यावृत्त्यर्थः । तत् गिरां वाचां
चान्मनसां चन विषयः ॥ १८ ॥
यदिदं दृश्यते तस्यास्तल्लताया महाचितेः ।
फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः ॥ १९ ॥
यदिदं दृश्यते जगत् तत् तस्याश्चितेश्चिल्लक्षणाया लतायाः
फलपल्लवपुष्पादीत्यन्वयः ॥ १९ ॥
महाविद्योपनयना चिद्भवत्यभिधा सती ।
सा जीवत्वेन बाह्यत्वं तदा द्वीन्द्विव पश्यति ॥ २० ॥
यदि तु अनृतमेव जीवजगद्भावं विवेकाय पृच्छसि तदा शृणु । सा चित् महती
अविद्या उपनयनं विचित्रवर्णरञ्जितोपनेत्रं यस्यास्तथाविधा यदा भवति तदा
जीवत्वेन अभिधीयत इत्यभिधा तथाविधा सती द्वीन्द्विव स्वबाह्यत्वं
बाह्यजीवजगद्भावं पश्यतीत्यर्थः ॥ २० ॥
स्वयमान्यैवमस्मीति भावयित्वा स्वभावतः ।
अन्यतामिव संयाति स्वविकल्पात्मिकां स्वतः ॥ २१ ॥
अन्या अब्रह्माचिद्रूपास्मि ॥ २१ ॥
अकलङ्केन रूपेण रूपं यत्सकलङ्कवत् ।
संसारसरितं प्राप्य चेतनेनैव चेतति ॥ २२ ॥
अकलङ्केनैव रूपेण स्थितापि सकलङ्कवद्यत्पुर्यष्टकरूपं कल्पितं तेन
संसारसरितं प्राप्य औपाधिकचेतनेनैव चेतति न निष्कलङ्कचेतनेनेत्यर्थः ॥ २२ ॥
चिद्वपुः स्वयमेतेन ह्येकतामेति जीवताम् ।
चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः ॥ २३ ॥
एतेन पुर्यष्टकेन एकतां तादात्म्याध्यासलक्षणां जीवतां एति । तन्मयश्चित्प्रचुरः
सन् जीवति प्राणनादिक्रियां लभते ॥ २३ ॥
आतिवाहिकदेहोऽपि जीवतां समुपागतः ।
भावनापञ्चकं भूत्वा द्रव्यमस्मीति वेत्त्यलम् ॥ २४ ॥
इत्थं सर्वगापि चिदेतस्मिंश्चेतसि प्रतिबिम्बतीत्येतदाक्षेपांशं समाधाय
दृढभावनया पश्चात्तत्रैव रसशालिनीत्येतदाक्षेपांशं समाधातुं तस्य
स्थूलदेहप्राप्तिक्रममाह-आतिवाहिकेति । भावनापञ्चकं
पाञ्चभौतिकस्थूलदेहसंस्कारात्मकं भूत्वा देहलाभाय
व्रीहियवतिलमाषादिद्रव्यमहं सम्पन्नमस्मीति वेत्ति । त इह व्रीहियवास्तिलमाषा इति
जायन्ते इति श्रुतेरित्यर्थः । श्रुतौ इतिशब्दो भाविदेहानुकूलद्रव्यमात्रोपलक्षणार्थः
। तेन स्थावरस्वेदजादिदेहप्राप्तिस्थले तत्तद्बीजानुकूलजलादिद्रव्यभावोऽप्यस्य भवतीति
द्योतनाय द्रव्यमस्मीति वेत्तीति सामान्योक्तिः ॥ २४ ॥
तद्द्रव्यं प्राणिना भुक्तमाशु गच्छति वीर्यताम् ।
ततोऽहं प्राणवाञ्जातो वेत्तीत्यनुभवात्मकम् ॥ २५ ॥
वीर्यतां रेतस्त्वम् । वृक्षादौ तु बीजभावम् । ततः स्त्रियां निषेकक्रमेणाहं
प्राणवान् स्थूलदेहो जातोऽस्मीति वेत्तीत्यर्थः ॥ २५ ॥
अहन्तादिक्रमेणाशु पञ्चकानुभवभ्रमात् ।
स्थावरं जङ्गमं सर्वं वेत्ति तत्तद्भवत्यलम् ॥ २६ ॥
अनुभवात्मकं ब्रह्मैव उक्तेनाहन्तादिक्रमेण पञ्चानां सङ्घः पञ्चकं
स्थूलदेहस्तदनुभवभ्रमाचक्षुरादिद्वारा बाह्यं स्थावरं जङ्गमं च वेत्ति
पुनस्तद्वासनया स्वयमपि तत्तद्भवतीत्यर्थः ॥ २६ ॥
काकतालीययोगेन दृढाभ्यासक्षयेण च ।
वासनान्तरसंश्लेषात्सूक्ष्ममाकारमुज्झति ॥ २७ ॥
ननु पूर्वमशकादिदेहत्यागे तद्देहाकारवासनात्मना सूक्ष्मतया स्थितस्य
पुर्यष्टकस्य दृढाभ्यस्तमशकाकारस्य सौक्ष्म्यस्य च कथं
निवृत्तिर्हस्त्याकारस्य स्थौल्यस्य चानभ्यस्तस्य कथं लाभस्तत्राह-काकतालीयेति
। यथा आकस्मिके काकतालसम्बन्धे काकमरणप्रयोजकं कर्मैव निमित्तं नान्यत्
तथा दृढाभ्यस्तवासनाभिभवे चिरव्यवहितहस्त्याद्यहम्भाववासनोद्भवे च
कर्मैव निमित्तम् । उद्भूतहस्तिवासनान्तरसंश्लेषात्तु चिराभ्यस्तमपि
सूक्ष्ममशकाकारमुज्झतीत्यर्थः ॥ २७ ॥
द्वित्वस्वसंविदा द्वित्वमेकस्यैव प्रवर्तते ।
पुंसो वेतालसङ्कल्पाद्वेताल इव भासुरः ॥ २८ ॥
विरोधिवासनोद्भवेन पूर्ववासनोपमर्दे उत्तरस्याभ्यासेन दार्ढ्ये च
दृष्टान्तानाह-द्वित्वेत्यादिना ॥ २८ ॥
अद्वित्ववेदनाद्द्वित्वमात्मनोऽपि निवर्तते ।
न करोमीति सङ्कल्पात्पुरुषस्येव कर्तृता ॥ २९ ॥
द्वित्वसङ्कल्पतो द्वित्वमेकस्यैव प्रवर्तते ।
अदिव्त्वसंविदा द्वित्वमनेकस्यापि नश्यति ॥ ३० ॥
अनेकस्य जगतोऽपि ॥ ३० ॥
परमात्मतया द्वित्वं न किलात्मनि विद्यते ।
अविकारादिमत्त्वेन सर्वगत्वेन सर्वदा ॥ ३१ ॥
यत्स्वसङ्कल्परचितमसङ्कल्पक्षयं हि तत् ।
यथा मुने मनोराज्यं गन्धर्वनगरं यथा ॥ ३२ ॥
असङ्कल्पात् क्षयो यस्य तथाविधम् । हि प्रसिद्धम् ॥ ३२ ॥
तथा सङ्कल्पने क्लेशो न सङ्कल्पविनाशने ।
सङ्कल्पयक्षो गन्धर्वपुर्याः सृष्टौ न तु क्षये ॥ ३३ ॥
किञ्चेत्यर्थे तथाशब्दः । सङ्कल्पने मानसप्रयत्नेन रचने क्लेशः श्रमोऽस्ति न तु
सङ्कल्पस्य विनाशने । औदासीन्यमात्रेण स्वत एव तत्सिद्धेः । प्रसिद्धश्चायमर्थ
इत्याह-सङ्कल्पयक्ष इति । गन्धर्वोऽत्र मनस्तत्पुर्या मनोरथरचितपुर्याः
सृष्टौ सङ्कल्प एवासम्भावितरचनासमर्थत्वाद्यक्षो दिव्यशिल्पी प्रसिद्धः न तु
तत्क्षये इत्यर्थः ॥ ३३ ॥
पुष्टसङ्कल्पमात्रेण यदिदं दुःखमागतम् ।
तदसङ्कल्पमात्रेण क्षयि कात्र कदर्थना ॥ ३४ ॥
कदर्थना क्लेशः ॥ ३४ ॥
यत्किञ्चिदपि सङ्कल्प्य नरो दुःखे निमज्जति ।
न किञ्चिदपि सङ्कल्प्य सुखमव्ययमश्नुते ॥ ३५ ॥
सङ्कल्पव्यालनिर्मुक्ता न यदा तव चेतना ।
न तदा नन्दनोद्याने त्वमुच्चैः परिराजसे ॥ ३६ ॥
उच्चैः सर्वगुणोत्कृष्टे नन्दनोद्याने स्थितोऽपीति शेषः । न परिक्षीणक्लेशो राजसे ॥ ३६ ॥
स्वविवेकानिलैः कृत्वा सङ्कल्पजलदक्षयम् ।
परां निर्मलतामेहि शरदीव नभोन्तरम् ॥ ३७ ॥
सङ्कल्पनाशने तर्हि क उपायस्तमाह-स्वविवेकेति ॥ ३७ ॥
सङ्कल्पसरितं मत्तां मणिमन्त्रेण शोषय ।
तत्रोह्यमानमात्मानं समाश्वास्य भवामनाः ॥ ३८ ॥
सङ्कल्पानिलनिर्धूतं भ्रान्तं पर्णतृणांशवत् ।
भूताकाशे चिदात्मानमवलम्ब्य विलोकय ॥ ३९ ॥
पर्णतृणस्य अंशाः खण्डास्तद्वद्भ्रान्तम् । भूताकाशे सर्वभूतहृदाकाशे ॥
३९ ॥
स्वसङ्कल्पनकालुष्यं विनिवार्यात्मनात्मनः ।
परं प्रसादमासाद्य परमानन्दवान् भव ॥ ४० ॥
सर्वशक्तिमयो ह्यात्मा यद्यथा भावयत्यलम् ।
तत्तथा पश्यति तदा स्वसङ्कल्पविजृम्भितम् ॥ ४१ ॥
यद्वस्तु ॥ ४१ ॥
सङ्कल्पमात्रमेवेदं जगन्मिथ्यात्वमुत्थितम् ।
असङ्कल्पनमात्रेण ब्रह्मन्क्वापि विलीयते ॥ ४२ ॥
सङ्कल्पवातवलितं जन्मजालकदम्बकम् ।
असङ्कल्पानिलस्पर्शाद्विश्राम्यति परे पदे ॥ ४३ ॥
सङ्कल्पलक्षणेन पुरोवातेन वलितं कन्दलितं जन्मलक्षणानां जालानां
जलधराणां कदम्बकं असङ्कल्पलक्षणस्य पाश्चात्यानिलस्य स्पर्शात्परे पदे
ब्रह्माकाशे विश्राम्यति । विलीयत इति यावत् ॥ ४३ ॥
तृष्णाकरञ्जलतिकामिमां रूढिमुपागताम् ।
सङ्कल्पमूलोद्धरणात्परिशोषवतीं कुरु ॥ ४४ ॥
प्रतिभाससमुत्थानं प्रतिभासपरिक्षयम् ।
यथा गन्धर्वनगरं तथा संसृतिविभ्रमः ॥ ४५ ॥
अविद्याकामसङ्कल्पनाशेऽपि यदि जगद्भासेत तर्हि तत्प्रतिभासमात्रमिति
जीवन्मुक्तानुभवसिद्धो दृष्टसृष्टिपक्षः परिशिष्यत इत्याशयेनाह##-
प्रभुरस्मीति विस्मृत्य तावच्छोचति भूमिपः ।
भूमिपोऽस्मीति सञ्जाता यावन्नास्य हृदि स्मृतिः ॥ ४६ ॥
यावदज्ञानं तावदेव जगत्प्रतिभासः शोकहेतुर्न तदुत्तरकालमित्याशयेनाह##-
नास्य तज्जातया ब्रह्मन्प्राक्स्मृतिर्वर्तमानया ।
शरदेवोपगतया प्रावृड् जाड्यापवारिणी ॥ ४७ ॥
ननु तत्त्वविदोऽपि प्राक्तनचिराभ्यस्तसंसारस्मृतिपरम्परया वर्तमाना ब्रह्मास्मीति
स्मृतिराच्छाद्येत तथा च पुनः संसारशोकप्रसङ्ग इत्याशङ्क्याह-नास्येति ।
अस्य भूमिपस्य तत्त्वविदश्च तस्मादाप्तोपदेशाज्जातया वर्तमानया भूपोऽस्मि
ब्रह्मास्मीति स्मृत्या बाधिता प्राक्तनदुःखस्मृतिः स्वजाड्येन अपवारिणी
आच्छादनसमर्था न । यथा उपगतया शरदा निरस्ता प्रावृड्
मेघजाड्येनापवारणसमर्था न भवति तद्वैदित्यर्थः ॥ ४७ ॥
घनप्रवाहयाऽकस्माच्चित्तेहा सैव वर्धते ।
य एवोच्चैःस्वरस्तन्त्र्याः स एवाक्रामति श्रुतिम् ॥ ४८ ॥
कोऽस्याः प्राबल्ये हेतुरिति चेन्मनननिदिध्यासनाभ्यासलक्षणपौरुषप्रयत्नकृत##-
चित्तवृत्तिरकस्माद्धनप्रवाहा सैव वर्धते इतराभिभवसमर्था भवति । यथा
तारमन्द्रतन्त्रीस्वरयोर्मध्ये य एव उच्चैःस्वरः स एवान्यमभिभूय श्रुतिं
श्रोत्रं आक्रामति । श्रूयत इत्यर्थः ॥ ४८ ॥
अहमेकोऽहमात्मास्मीत्येकां भावय भावनाम् ।
तया भावनया युक्तः स एव त्वं भवस्यलम् ॥ ४९ ॥
सेयमहं ब्रह्मास्मीति स्मृतिरेवाविच्छेदेन सन्तता मुख्या मम मानसपूजा न
बाह्येत्याशयेनाह-अहमिति । एकः अद्वितीय एवाहं शिवो देवः स च
अहन्त्वदहङ्कारोपलक्षित आत्मा नित्यापरोक्षचिदेकरसोऽस्मीत्येकामविच्छिन्नां
भावनां स्मृतिधारां भावय । तया एवंरूपया देवपूजाभावनया युक्तः स
शिव एव त्वं अलं नितरां भवसि नान्यया पूजयेत्यर्थः ॥ ४९ ॥
एवं ह्यसम्भवदिदं त्वविरागभास्वत्तत्सत्त्वमुत्तमपदं परमेकदेवः ।
पूजासु पूजकसुपूजनपूज्यरूपं किञ्चिन्नकिञ्चिदिव चित्तपदैकमूर्तिः ॥ ५० ॥
एवमुक्तरीत्या इदं बाह्यपूजनं त्वादृशानामसम्भवदेव । हि यस्मादविरागेषु
तुच्छफलरागिष्वेव भास्वत्प्रकाशमानम् । त्वद्योग्यस्तु उत्तमपदं
तत्परमार्थसत्त्वं परं ब्रह्मैव एको देवः । यत्पूजासु पूजकः पूजाद्रव्यस्वामी
सुष्ठु षोडशोपचारैः पूजनं पूज्यं प्रतिमालिङ्गादि च किञ्चित् नकिञ्चित्तुच्छमिव
भवति । यतः सा सामग्री चित्तस्य पदानि
सङ्कल्पास्तदेकमूर्तिर्मनःकल्पनामात्रमित्यर्थः ॥ ५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
द्वैतैक्यप्रतिपादनं नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
द्वैतैक्यप्रतिपादनं नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥