०३२

द्वात्रिंशः सर्गः ३२

ईश्वर उवाच ।

मुने शृणु कथं कार्यकारिणी स्पन्दशालिनी ।
चरन्ती च तनुं पुंसामुपैति परमाभिधाम् ॥ १ ॥

विचेष्टयति देहादि यथा पुर्यष्टकं गता ।
यथा देहान्तरं याति तत्सर्वमिह वर्ण्यते ॥

परमा चित् प्रागुक्तरीत्या पुंसां तनुं पुर्यष्टकं चरन्ती प्रविष्टा सती कथं कया
रीत्या कार्याणि ऐहिकपारलौकिककर्माणि करोति तच्छीला कथं च
तदनुकूलदेहादिस्पन्दशालिनी सती अभिधां चलति स्नाति भुङ्क्ते यजते ब्राह्मणः
क्षत्रियो देवदत्त इत्यादिशब्दाभिलापयोग्यतां उपैति तत्सर्वं कथयामि
शृण्वित्यर्थः ॥ १ ॥

प्राक्तनैस्तैर्निहन्त्येव स्वमनोमननेहितैः ।
कर्मवातैर्विचित्रेहैः परिपीवरतां गतैः ॥ २ ॥

देहस्पन्दे चित्प्रतिबिम्बजीवचलनं हेतुस्तच्चलने च तदुपाधिपुर्यष्टकरूपमनस्तया
परिणता वास्तवचित्स्वभावतिरोधात्री मायाशक्तिर्हेतुस्तस्या मनोरूपेण परिणतौ
पूर्वपूर्वदेहान्तपरिणामसञ्चितकर्मराशिरेव हेतुः । बृहदारण्यके
[बृहदारण्यके पञ्चमाध्याये [द्वितीयटिप्पणीनिर्दिष्टा श्रुतत्तु
निर्णयसागरीयबृहदारण्यके तृतीयाध्याये द्वितीयब्राह्मणान्ते समुपलभ्यते
पूर्वसंशोधकैस्तु पञ्चमाध्यायगतेति यदुक्तं तत्प्रमादविलसितमिति मन्यामहे
। तृतीयटिप्पण्यां च हेतुष्वितिपदमादर्शाधारेणामाद्धिर्विनिवेशितम् ।] द्वितीये
ब्राह्मणे ।]-कर्म हैवतदूचतुः [तत्तत्र विचारावस्थायामेकान्ते स्थित्वा
कर्म हैवाश्रयं पुनः पुनः कार्यकरणोपादानहेतुमूचतुः । न केवलमूचतुरपि
तु कालेश्वराद्यभ्युपगतेषु हेतुषु यत्तौ प्रशशम्मतः कर्म हैव
तत्प्रशशंसतुरिति ।] कर्मैव तत्प्रशशंसतुः इति
ग्रहातिग्रहरूपबन्धहेतुत्वस्य [ग्रहाः प्राणजिह्वावाक्चक्षुः
श्रोत्रमनोहस्तत्वचः । अतिग्रहा अपानरसनामरूपशब्दकामकर्मस्पर्शसञ्ज्ञाः ।
] कर्मस्वेव व्यवस्थापनादित्याशयेनाह-प्राक्तनैरित्यादिना ।
शक्तिरनादिमायारूपा ब्रह्मशक्तिः । स्वावरणशक्त्या स्वाश्रयं ब्रह्मनिहन्त्येव
नास्ति न भातीति प्रतीतियोग्यतां नीत्वा प्राक्तनैरनादिकालादारभ्य
सञ्चयात्परिपीवरतामतिपुष्टतां
गतैर्विचित्रेहैर्बहुविधकामवासनान्वितैर्मननैस्तैर्मानसैरीहितैः
कायवाक्चेष्टारूपैश्च विहितनिषिद्धकर्मव्रातैर्निमित्तैर्मनस्तया
पुर्यष्टकात्मकमनोभावेन गता परिणता सती चितेः स्वाधिष्ठानचित्सत्तातश्चिदिव
स्वस्वभावबलाज्जडेव मिश्रभावमागता भूत्वा ज्ञानकर्मव्यवहारोचिता सती
स्वशक्तिभूतया अनया ज्ञानकर्मेन्द्रियादिप्रणाड्या सा मायाशक्तिरेव
द्रष्टदर्शनदृश्यादिनवविधसंसाररूपेण स्फुरति नृत्यति नान्यत्किञ्चिदिति
द्वयोरर्थः ॥ २ ॥

मनस्तया गता शक्तिः सज्जडेवागता चितेः ।
सा स्फुरत्यनया ब्रह्मन्नुचिता शक्तिभूतया ॥ ३ ॥

अस्याः प्रसादादिह सा चित्कलङ्कवती मुने ।
जगद्गन्धर्वनगरं करोति न करोति च ॥ ४ ॥

अस्या मायाशक्तेः अविचारलक्षणाद्विचारलक्षणाच्च प्रसादात्क्रमात्करोति न करोति चेति
सम्बन्धः ॥ ४ ॥

चित्ताद्यसत्तया देहो मूकस्तिष्ठति कुड्यवत् ।
तत्सत्तया हि स्फुरति नभःसम्प्रेरिताश्मवत् ॥ ५ ॥

तर्हि ब्रह्मचित्सन्निधानाद्देह एव सर्वं करोतु किं चित्तादिकल्पनया तत्राह##-

यथा स्फुरत्यतिजडमयोऽयस्कान्तसन्निधौ ।
तथा स्फुरति जीवोऽयं सति सर्वगते परे ॥ ६ ॥

जीवस्य प्राणकर्मेन्द्रियव्यापारेषु ब्रह्म सन्निधिमात्रेण साधारणं
निमित्तमित्याह-यथेति ॥ ६ ॥

सर्वस्थयात्मशक्त्यैव जीव एष स्फुरत्यलम् ।
मुकुरो बिम्बमादत्ते द्रव्यात्मन्यस्थितादपि ॥ ७ ॥

बुद्ध्यादि प्रथायां ज्ञानेन्द्रियप्रयोजनेषु च प्रतिबिम्बार्पणेनासाधरणं
निमित्तमित्याशयेनाह-सर्वस्थयेति । आत्मरूपया चिच्छक्त्यैव स्फुरति
स्वपरप्रथासमर्थो भवति । ननु भौतिकत्वाद्द्रव्यस्वभावे स्थितं जीवोपाधिभूतं
लिङ्गमद्रव्यस्वभावाद्ब्रह्मणः सकाशात्कथं प्रतिबिम्बमादत्ते द्रव्ये
द्रव्यस्यैव प्रतिबिम्बननियमदर्शनादिति चेत्तत्राह-मुकुर इति । मुकुरेण
द्रव्यस्वभावे अस्थितादपि गुणक्रियाजात्यादेः प्रतिबिम्बादावदर्शनान्न द्रव्यादेव
प्रतिबिम्बो ग्राह्य इति नियम इत्यर्थः ॥ ७ ॥

प्रविस्मृतस्वभावत्वाज्जीवोऽयं जडतां गतः ।
मोहाद्विस्मृतभावत्वाच्छूद्रतामिव सद्द्विजः ॥ ८ ॥

यदि ब्रह्मप्रतिबिम्बो जीवस्तर्हि कथं तस्य अज्ञाननिद्रालस्यादिजाड्यानुभवः । न हि
सूर्यप्रतिबिम्बे अभास्वरतासम्भव इत्याशङ्क्याह-प्रविस्मृतेति ॥ ८ ॥

प्रविस्मृतस्वभावा हि चिच्चित्तत्वमुपागता ।
मोहापहतचित्तत्वात्सुमहानिव दीनताम् ॥ ९ ॥

चित्तत्वं चित्तधर्मं जाढ्यमालिन्यादि । सुमहान् गाधिलवणहरिश्चन्द्रादिरिव ॥ ९ ॥

जडयाऽवशया देहो वातशक्तिसमानया ।
सञ्चाल्यते तदनया वारीव वीचिमालया ॥ १० ॥

चित्ततादात्म्याध्यासाच्चित्तधर्मदैन्यादि
प्राप्तिवत्प्राणतादात्म्याध्यासात्तद्धर्मदेहसञ्चलनहेतुत्वमप्यस्याः
सिद्धमित्याह-जडयेति । वातशक्तिः प्राणस्तत्तादात्म्यापत्त्या तत्समानतया ॥ १० ॥

कर्मात्मना वराकेण जीवेन मनसामुना ।
चाल्यन्ते देहयन्त्राणि पाषाणा इव वायुना ॥ ११ ॥

कर्मात्मना उक्तरीत्या क्रियास्वभावत्वमापन्नेन मनसा मननशक्तिमता ।
उपाधिपारवश्याद्वराकेणात्यन्तदीनेन । यथा
नौकास्तम्भनिबद्धदीर्घपटाद्युपाधिपरवशेन वायुना नौकास्थाः पाषाणा
अभिमतं देशं प्रति चाल्यन्ते तद्वत् ॥ ११ ॥

शरीरशकटानां हि कर्षणे परमात्मना ।
मनःप्राणोदयौ ब्रह्मन्कृतौ कर्मकृतौ दृढौ ॥ १२ ॥

मनःप्राणोदयौ मनःप्राणशक्तिकर्मकृतौ भृत्यौ बलीवर्दौ वा ॥ १२ ॥

चिज्जडं तूररीकृत्य रूपं जीवत्वमेत्य च ।
मनोरथमुपारुह्य वहत्प्राणतुरङ्गमम् ॥ १३ ॥

स्वाप्नव्यवहारसाधारण्याय मनस एव रथत्वं कल्प्यम् मुख्यामुख्यप्राणानां
तु तुरङ्गमत्वमित्याशयेनाह-चिदिति ॥ १३ ॥

क्वचिज्जातपदार्थत्वं क्वचिन्नष्टपदार्थताम् ।
क्वचिद्बहुपदार्थत्वं क्वचिदेकपदार्थताम् ॥ १४ ॥

क्वचित् जाग्रत्स्वप्नयोर्जातपदार्थत्वमाविर्भूतपदार्थत्वं बहुपदार्थत्वं च ।
क्वचित्सुषुप्ते नष्टपदार्थतां तिरोभूतसर्वपदार्थतां अविद्यैकपदार्थतां च गते
वेति परेणान्वयः ॥ १४ ॥

गतेव भिन्नेवास्त्येवमत्यजन्ती निजं पदम् [पदमित्यत्र वपुरिति पाठो
व्याख्यानुगुणः स्यात् ।] ।
जलतेव तरङ्गत्वं सैवासदसदोदिता ॥ १५ ॥

किं सा दुग्धं दधिभावेनेव जीवजगद्भावेन परिणामान्नष्टा नेत्याह-अस्तीति ।
एवं परिणतापि निजं पारमार्थिकं वपुः स्वरूपमत्यजन्ती सती तत्त्वदृशा
असज्जाग्रदिव व्यवहारदृशाप्यसत्स्वप्न इव च आ उदिता ईषद्विकसितेत्यर्थः ॥ १५ ॥

उपजीव्यात्मनो रूपं परं स्फुरति वृत्तिषु ।
आलोकमुपजीव्येमं रूपश्रीर्दृश्यगा यथा ॥ १६ ॥

आत्मन्यध्यस्तत्वादेवात्मसत्तामेवोपजीव्य मनोवृत्तिप्रतिफलितात्म चिद्बलेनैव
मनोरूपं जीवजगत्प्रथत इत्याह-उपजीव्येति ॥ १६ ॥

परमात्मनि चित्तत्त्वे स्थिते सति निरामये ।
जीवो जीवति सालोकं दीपे सति गृहं यथा ॥ १७ ॥

चिदेव तत्त्वं पारमार्थिकं रूपं यस्य तथाविधे ॥ १७ ॥

आधयो व्याधयश्चैव प्रयान्त्यस्य प्रपीनताम् ।
अपामिव तरङ्गत्वं वीचित्वस्येव फेनता ॥ १८ ॥

एवं देहचेष्टाहेतुता चित उपपादिता । इदानीं तस्या देहान्तरप्राप्तिप्रकारं वक्तुं
वैराग्याय च देहनिमित्तदुःखानि प्रपञ्चयति-आधय इत्यादिना ॥ १८ ॥

आधिव्याधिभिराकीर्णशरीराम्भोजषट्पदः ।
जीवो वैषम्यमायाति तरङ्गत्वे यथा पयः ॥ १९ ॥

वैषम्यं दैन्यदुःखादि ॥ १९ ॥

चिच्छक्तिः सर्वशक्तित्वान्नाहं चिदिति भावनात् ।
अत्र सैवैति वैवश्यं सूर्यो दीप्तैरिवाम्बुदैः ॥ २० ॥

अत्र देहे । यथा सूर्यो दीप्तैः
स्वप्रकाशितैरेवाम्बुदैर्मेघैस्तिरोधानम्लानिखण्डितत्वादिवैवश्यं
द्रष्टदृष्ट्या तद्वत् ॥ २० ॥

वैवश्याच्च्यवती मौढ्यान्न विन्दत्यात्मसंविदम् ।
घनजाढ्यपराभूतः स्वाङ्गावदलनं यथा ॥ २१ ॥

च्यवती ज्ञानानधिकृतयोनिष्ववतरन्ती । शप्श्यनोरिति नुमोऽभावश्छान्दसः । यथा
घनेन मदिरादिमदजाड्येन पराभूतः पुरुषः खड्गादिना स्वाङ्गावदलनं न
विन्दति नानुसन्धत्ते तद्वत् ॥ २१ ॥

प्राप्य चाप्यनुसन्धानमस्या मोहो विनश्यति ।
घनमोहरतो जन्तुः स्वकार्यस्मरणं यथा ॥ २२ ॥

कदा तर्हि चितो मोहो नश्यति तदाह-प्राप्येति । यथा मदादिघनमोहरतो जन्तुः
कालेन स्वकर्मस्मरणं प्राप्य निर्मोहो भवति तद्वत् ॥ २२ ॥

यदाङ्गसंविदां वातस्पन्दशक्तिः प्रमोषतः ।
न करोत्यनुसन्धानं कुष्ठी स्पन्दैषणं यथा ॥ २३ ॥

इदानीं देहत्यागप्रकारं वक्तुमुपक्रमते-यदेति । यदा वातस्य प्राणस्य
स्पन्दशक्तिः अङ्गसंविदां आनखाग्राल्लिङ्गोपाधिद्वारा प्रविष्टजीवसंविदां
हृदि लिङ्गस्योपसंहारेण प्रमोषतो निमित्ताद्धस्तपादादेरनुसन्धानं न करोति ।
यथा कुष्ठी गलितानामङ्गुल्यादीनां स्पन्दैषणं न करोति तद्वत् । तदा हृदि
स्थितं भुशुण्डोपाख्याने वर्णितं पद्मपत्रं प्राणसञ्चारानुकूलतया न स्फुरति
न कम्पत इति परेणान्वयः ॥ २३ ॥

असंवित्स्पन्दतो देहे पद्मपत्रं हृदि स्थितम् ।
न स्फुरत्यपरामृष्टं दारुपात्रं यथा बहिः ॥ २४ ॥

यथा यज्ञे ऋत्विग्भिरपरामृष्टं दारुपात्रं न स्पन्दते तद्वत् ॥ २४ ॥

निःस्पन्दे पद्मपत्रेऽन्तः प्राणाः शान्तिं प्रयान्त्यमी ।
तालवृन्ते यथाऽस्पन्दे बहिः पवनशक्तयः ॥ २५ ॥

शान्तिं तेजसि विलयम् । मनः प्राणे प्राणस्तेजसि इति श्रुतेः ॥ २५ ॥

प्राणे शान्तेतरस्पर्शे [शान्तेऽन्तरस्पर्शादित्यपि पाठः ।] जीवो
निष्पूर्णमूकताम् ।
याति शान्ते नभोवायौ न दृश्यत्वं यथा रजः ॥ २६ ॥

रूपोपाधिविलयान्निरर्गलं पूर्णो नामोपाधिविलयान्मूकश्च यः कारणात्मा
तद्भावं याति ॥ २६ ॥

विरजं विगताधारं मनो हि शिष्यते मुने ।
तिष्ठत्यात्मपदं लब्ध्वा जलादितरुबीजवत् ॥ २७ ॥

रजोगुणप्रधानस्वाधारप्राणोपरमादेव विरजं विगताधारं च मनोपि सहैव
प्राणेन कारणात्मपदं लब्ध्वा तद्भावेनैव शिष्यते । तर्हि किं सर्वथा गतं
नेत्याह-तिष्ठतीति ।
जलादिभूतमात्रोपष्टब्धपार्थिवतरुबीजवत्पुनर्देहाविर्भावोन्मुखं
तिष्ठतीत्यर्थः ॥ २७ ॥

इति वैकल्यमायातैः कारणौघैः समन्ततः ।
पुर्यष्टके शमं याते देहः पतति निश्चलः ॥ २८ ॥

स एवास्या देहत्याग इत्याह-इतीति ॥ २८ ॥

चिच्चेत्यचेतनान्मोहात्स्पन्दमायान्ति वासनाः ।
तदीरिता स्मरत्यन्तरन्यद्विस्मरति स्वयम् ॥ २९ ॥

पुर्यष्टकस्य तर्हि केन हेतुनोद्भव इतिचेद्धृत्पद्मस्पन्दात्तत्स्पन्दश्च
पूर्वपूर्वभोक्त्रादिभावस्मृतेः । सा च वासनास्पन्दाद्वासनास्पन्दे च
स्वरूपाज्ञानकृतं चितश्चेत्याकारचेतनं हेतुरिति तत्त्वोन्मुखत्वय
चितश्चेत्याकारता प्रतिपत्तिलक्षणा बहिर्मुखतैव प्रथमं पौरुषयत्नेन
निरोद्धव्येत्याशयेनाह-चिच्चेत्यचेतनादिति ॥ २९ ॥

हृत्पद्मपत्रस्फुरणात्स्फुटं पुर्यष्टकं भवेत् ।
हृत्पद्मयन्त्रे वहनाद्रुद्धे पुर्यष्टकं क्षयि ॥ ३० ॥

वहनाच्चलनाद्रुद्धे । निश्चले सतीति यावत् ॥ ३० ॥

देहे पुर्यष्टकं यावदस्ति तावत्स जीवति ।
शान्ते पुर्यष्टके देहो मृत इत्युच्यते द्विज ॥ ३१ ॥

विरुद्धमलसम्बोधाच्छेदभेददशावशात् ।
न प्रस्फुरति हृत्पद्मयन्त्रमभ्यन्तरे यदा ॥ ३२ ॥

परस्परविरुद्धानां वातपित्तकफाख्यानां मलानां रागद्वेषादिवासनामलानां
च सम्बोधात् प्रकोपात् शस्त्रादिकृतदेहच्छेदभेदादिवशाच्च । अभ्यन्तरे
देहमध्ये ॥ ३२ ॥

तदा पुर्यष्टकं शान्तिमुपैति गगने शनैः ।
संरोधिते वातयन्त्रे यथा पवनसन्ततिः ॥ ३३ ॥

वातयन्त्रे व्यजनादौ ॥ ३३ ॥

स्वसंवित्तिवशाज्जीवो वैवश्यमुपगच्छति ।
पद्मयन्त्रं शरीरस्थं प्रवाहं याति नित्यदा ॥ ३४ ॥

स्वस्य संवित्तिः सङ्कल्पस्तद्वशात् वैवश्यं मरणादि दुःखसहस्रम् । सर्वैकान्य
किं यत्तदः काले दा इति दाप्रत्ययविधानान्नित्यदेति च्छान्दसम् ॥ ३४ ॥

वासना विमला येषां हृदयान्नापसर्पति ।
स्थिरैकरूपजीवास्ते जीवन्मुक्ताश्चिरायुषः ॥ ३५ ॥

अत एव भोगवासनाशून्येषु तत्सङ्कल्पाभावान्न मृत्युवश्यतेत्याह-वासनेति ।
विमला रागादिमलरहिता ॥ ३५ ॥

संरुद्धे पद्मयन्त्रे हि प्राणे शान्तिमुपागते ।
देहः पतत्यधैर्योऽयं काष्ठलोष्टसमः क्षितौ ॥ ३६ ॥

यथैव व्योम मरुति लीनं पुर्यष्टकं भवेत् ।
तथैव तत्रैव तदा लयमेति मनो मुने ॥ ३७ ॥

व्योममरुति हृद्व्योमवायौ प्राणे ॥ ३७ ॥

सुचिराभ्यस्तभावं तु वासनाखचितं मनः ।
यत्र तत्र भ्रमत्स्वर्गनरकादि प्रपश्यति ॥ ३८ ॥

एवं लीनस्य मनसः पुनः स्वर्गनरकादिभोजकादृष्टप्रबोधितस्य हार्दाकाशे एव
चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यो
निर्गमनयमलोकादिगमनस्वर्गनरकभोगादिकं स्वकल्पनैव न तु बहिः स्वर्गादयो
नामान्ये सन्तीत्याशयेनाह-सुचिरेति ।
सुचिरमनादिकालादभ्यन्तस्तत्तद्भोगयोग्यशरीरादिभावो येन । यत्र तत्रेति
स्वर्गादेर्नियतदेशसत्त्वनिराकरणार्थम् ॥ ३८ ॥

शरीरं शवतामेति मनोमारुतवर्जितम् ।
गते गृहजने दूरं गृहं संशून्यतामिव ॥ ३९ ॥

सर्वगा चिच्चेतनतो जीवीभूय मनःस्थिता ।
पुर्यष्टकवपुर्भूत्वा साऽऽतिवाहिकदेहिनी ॥ ४० ॥

तस्या देहान्तरग्रहणक्रममाह-सर्वगेति । सर्वगा ब्रह्मचिदेव अनेन
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति
श्रुत्युक्तचेत्याकारानुप्रवेशचेतनतः ॥ ४० ॥

तन्मात्रपञ्चकं चित्तं क्रोडीकृत्य व्यवस्थिता ।
स्वप्नभ्रमवदाकारं भावात्स्थूलं प्रपश्यति ॥ ४१ ॥

तन्मात्राणि सूक्ष्मभूतानि तेषां पञ्चानां सङ्घातात्मकं
चित्तमातिवाहिकदेहाख्यं पुर्यष्टकम् । भावात्सङ्कल्पनात् ॥ ४१ ॥

दृढभावनया पश्चात्तत्रैव रसशालिनी ।
आतिवाहिकदेहत्वं विस्मरत्यखिलं क्षणात् ॥ ४२ ॥

रसशालिनी अहन्ताशक्तिमती ॥ ४२ ॥

असत्येव शरीरेऽस्मिन्कृतकृत्रिमभावना ।
नयत्यसत्यं सत्यत्वं सत्यं चासत्यतामपि ॥ ४३ ॥

अस्मिन् उक्तलक्षणे स्थूलदेहे । असत्यं जगत्सत्यत्वं नयति आरोपेण प्रापय्ति । सत्यं
स्वीयब्रह्मभावम् । असत्यतां नास्ति न भातीति स्वप्रतीतियोग्यताम् ॥ ४३ ॥

सर्वगा हि चिदंशेन जीवीभूयाभवन्मनः ।
मनः पुर्यष्टकरथमाक्रामति ततो जगत् ॥ ४४ ॥

चित्तसंसरणे क्रममाह-सर्वगेति । अंशेन बुद्धिप्रतिबिम्बितांशेन ॥ ४४ ॥

पुर्यष्टकं वातमयं देहमुत्थापयत्यलम् ।
हृत्स्पन्दिवेताल इव जीवतीत्युच्यते तदा ॥ ४५ ॥

वातमयं सूत्रभूतप्राणप्रचुरम् । यदा उत्थापयति तदा हृदि प्रविश्य स्पन्दी
स्पन्दनशीलो वेतालो यस्य तथाविधः श इव जीवतीत्युच्यते जनैरित्यर्थः ॥ ४५ ॥

क्षीणे पुर्यष्टके चित्तं यदा व्योमनि लीयते ।
तदा स्फुरति देहोऽयं मृत इत्युच्यतेऽपि च ॥ ४६ ॥

व्योमनि हार्दाकाशे ब्रह्मणि । स्फुरति काष्ठलोष्टादिवदचेतनः स्फुटो भवति ॥ ४६ ॥

स्वभाववशतो जीवो विस्मृत्या शक्तिमृच्छति ।
वैवश्यात्कालवशतः पर्णं जर्जरतामिव ॥ ४७ ॥

स्वस्याऽजरामरब्रह्मरूपतां विस्मृत्य जरठदेहगतामशक्तिं स्वयं ऋच्छति
प्राप्नोति ॥ ४७ ॥

जीवशक्त्या परामृष्टे निरुद्धे पद्मयन्त्रके ।
प्राणे संरोधमायाते म्रियते मानवो मुने ॥ ४८ ॥

ततः पूर्ववन्म्रियत इत्याह-जीवशक्त्येति । जीवसम्बन्धिन्या प्रागुक्तस्मृतिशक्त्या
अपरामृष्टे अत एव चलनान्निरुद्धे सति ॥ ४८ ॥

यथा जातानि जातानि चान्यान्यन्यानि कालतः ।
वृक्षात्पर्णानि शीर्यन्ते शरीराणि तथा नृणाम् ॥ ४९ ॥

पुनः पुनर्नानाशरीरग्रहणं तत्र संसरणं जरामरणान्तमेव
बोध्यमित्याशयेनाह-यथेति । नृणां जीवानाम् ॥ ४९ ॥

जायन्ते च म्रियन्ते च शरीराणि शरीरिणाम् ।
पादपानां च पर्णानि का तत्र परिदेवना ॥ ५० ॥

चिदम्बुधौ स्फुरन्त्येता देहबुद्बुदपङ्क्तयः ।
इतश्चान्या इतश्चान्या एतास्वास्था न धीमतः ॥ ५१ ॥

सर्वगापि चिदेतस्मिंश्चेतसि प्रतिबिम्बति ।
पदार्थमन्तरादत्ते नान्यो हि मुकुरादृते ॥ ५२ ॥

उक्तमेवोपसंहर्तुमनुवदति-सर्वगेति ॥ ५२ ॥

चिदमलनभसि प्रयत्नरूपाः परिवितते तदतन्मयाः स्फुरन्ति ।
कलकलमुखराः स्फुटाभिरामा विविधशरीरविमोहतापनाय ॥ ५३ ॥

परितो वितते पूर्णे चिदमलनभसि प्रयत्नरूपाः
पूर्वतनस्वीयशुभाशुभप्रयत्नपरिणतिरूपाः । अत एव सुखदुःखफलभोगे
हास्यरोदनादिकलकलैः कोलाहलैर्मुखराः । तदतन्मयाश्चिदचित्प्रचुरजीवजगद्रूपाः
कल्पनाः स्फुटाभिरामा आपातरमणीया विविधैः शरीरैर्जननमरणादिभ्रान्त्या
आत्मविमोहतापनाय स्फुरन्ति । प्रतिभासन्त इत्यर्थः ॥ ५३ ॥

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
देहपातविचारो नाम द्वात्रिंशः सर्गः ॥ ३२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
देहपातविचारो नाम द्वात्रिंशः सर्गः ॥ ३२ ॥