एकत्रिंशः सर्गः ३१
ईश्वर उवाच ।
चिनोत्यलीकमेवैवं सदुःखास्मीति भावनात् ।
चित्स्वप्नक्षीवतामोहपतिता सम्भ्रमे यथा ॥ १ ॥
जीवतादिनिषेधेन सा शुद्धा चित्प्रदर्श्यते ।
मनःप्राणेन्द्रियद्वारा बहिरन्तःप्रथा यया ॥
एवं वर्णितप्रकारं जीवजगद्भावमलीकमसदेवाज्ञानाच्चिनोति आरोपेण सञ्चिनोति ।
स्वप्ने क्षीबता मदिरामदस्तत्कृते सम्मोहे पतिता ॥ १ ॥
अमृतापि मृतास्मीति विपर्यस्तमतिर्वधूः ।
यथा रोदित्यनष्टैव नष्टास्मीति तथैव चित् ॥ २ ॥
वधूर्मुग्धा ॥ २ ॥
अकारणं विपर्यस्ता मतिर्भ्रान्तमपि स्थिरम् ।
यथा जगत्पश्यतीदं तथाहन्ताभ्रमाच्चितिः ॥ ३ ॥
भ्रान्तं कुलालचक्रादि यथा स्थिरं निश्चलं पश्यति तथा जगदपि स्थिरं पश्यति ॥ ३
॥
चित्तं हि कारणं त्वस्याः संसारानुभवे चितेः ।
न च तत्कारणं किञ्चिच्चित्त्वान्यत्वात्यसम्भवात् ॥ ४ ॥
तच्चित्तं किञ्चिद्वस्तु न । कुतः । चित्त्वस्य तदन्यत्वस्य च अत्यन्तमसम्भवात् । अचित्त्वे
जगदन्तःपातेन तत्कल्पनाहेतुत्वायोगादित्यर्थः ॥ ४ ॥
एवं हि कारणाभावाच्चेत्यस्यासम्भवादिति ।
नासौ चित्तं ततश्चेत्यं यत्नतश्चेत्यते यया ॥ ५ ॥
चित्तासत्त्वादेव तच्चेत्यजगतोऽप्यसत्त्वं सिद्धमित्याह-एवमिति । यया चिता चित्तं
यत्नतश्चेत्यते असौ चित् चित्तं तदधीनं चेत्यं च न किन्तु शुद्धैवेत्यर्थः ॥ ५ ॥
न दृश्यदर्शनद्रष्ट्टरूपं तैलमिवोपले ।
न कर्तृकर्मकरणं दृशीन्दाविव कृष्णता ॥ ६ ॥
चित्तनेषेधादेव चिति चक्षुरादिप्रयुक्तदृश्यदर्शनद्रष्ट्टरूपत्रिपुटीनिषेधोऽपि
सिद्ध इत्याह-नेत्यादिना । दृशि चिति ॥ ६ ॥
न मातृमेयमानानि नभसीव नवाङ्कुरः ।
न चिच्चेतनचेत्यादि नन्दने खदिरो यथा ॥ ७ ॥
चिच्चित्तवृत्तिश्चेतनस्तदाश्रयश्चेत्यानि तद्विषयाः ।
आदिपदान्मन्तृमतिमन्तव्यबुद्धिबोधबोद्धव्या अहङ्कर्त्रहङ्काराहङ्कार्याणि
गृह्यन्ते ॥ ७ ॥
नाहन्त्वत्वंवतत्त्वादि पर्वतत्वमिवाम्बरे ।
सदेहत्वान्यदेहत्वे शङ्खत्वमिव कज्जले ॥ ८ ॥
तत्त्वं परोक्षवस्त्वन्तरत्वम् । आदिपदात्तदाश्रयतद्व्याप्यतत्सम्बन्धा गृह्यन्ते ॥ ८
॥
नानाऽनाना न चाप्यन्तरणाविव सुमेरवः ।
न च शब्दार्थशब्दश्रीर्महोषरलता यथा ॥ ९ ॥
नाना जीवभेदा अनाना प्रतिदेहमात्माभेदाध्यासाश्चापि न । अणौ अन्तः सुमेरव इव ।
शब्दा नामानि अर्थारूपाणि तेषां शब्दश्रीः कथापि नास्ति ॥ ९ ॥
नेति नेति न चैवार्कमण्डले रजनी यथा ।
न वस्तुतावस्तुते च तुषारे तु यथोष्णता ॥ १० ॥
अथात आदेशो नेति नेति इत्यादयः शास्त्रीयसर्वदृश्यनिषेधा अपि
तत्त्वप्रदर्शनपर्यन्तमेव । दृष्टे तु चित्तत्त्वे प्रतियोग्यप्रसिद्धेस्तेऽपि न
सम्भवन्तीत्याह-नेतीति । वस्त्वतिरिक्तौ वस्तुताऽवस्तुताख्यधर्मावपि न स्तः ॥ १० ॥
न शून्यताशून्यते वा शिलाकोश इव द्रुमः ।
शून्यताशून्यता नाम महती ख इवाखता ॥ ११ ॥
शिलायाः कोशे गर्भे । खे यथा प्रसिद्धा महती शून्यता अशून्यता च केवलं
केवलीभावलक्षणा स्वरूपस्वच्छतैव विमर्शे अवशिष्यते नाणुमात्रमपि भिन्ना
तथा चित्यपीति परेणान्वयः ॥ ११ ॥
केवलं केवलीभावस्वच्छतैवावशिष्यते ।
न चित्तात्कस्यचिद्दोषाज्जातयैतदवाप्यते ॥ १२ ॥
ननु तर्हि हिरण्यगर्भात्मकं समष्टिचित्तमेवास्याश्चितः सर्वानर्थहेतुर्दोषः ।
यस्मात्तत एव निमित्ताच्चतुर्विधशरीरेषु जातया अनया एतत्संसारदुःखमवाप्यते । न
च तदस्माभिरुच्छेत्तुं शक्यमित्याशङ्क्याह-न चित्तादिति । चिद्दोषाच्चितो
दोषभूतात् कस्य हिरण्यगर्भस्य चित्तान्निमित्ताज्जातया एतद्दुःखमवाप्यत इति न किन्तु
तेन सृष्टा ये देहेन्द्रियविषयास्तेषु सर्वेष्वहम्ममेति सत्या इति च
भावनामात्रेणायं प्रकृतः संसारलक्षणोऽनर्थः स्थित इत्यर्थः ॥ १२ ॥
तत्सर्वभावनामात्रेणानर्थः प्रकृतः स्थितः ।
तज्ज्ञेऽप्यभावनामात्रेणानर्थ उपशाम्यति ॥ १३ ॥
अत एव तत्त्वज्ञे अभावनामात्रादुपशाम्यतीत्याह-तज्ज्ञेऽपीति ॥ १३ ॥
तज्ज्ञेऽप्यभावनामात्रादृतेऽन्यत्रोपयुज्यते ।
न तृणं न च त्रैलोक्यमिति स्वायत्ततात्र या ॥ १४ ॥
अत एव तृणमिवापवदितुं शक्योऽपि त्रैलोक्यपदार्थो भावनाबलादेवातत्त्वविदां
दुःसाध्यः स्थित इत्याह-न तृणमिति ॥ १४ ॥
स्वायत्त एव चैषोऽर्थो दुःसाध्यो भावनास्थितः ।
यद्यन्न साध्यते पुंसा तत्कथं क्वेव लभ्यते ॥ १५ ॥
नन्वतिसुलभो भावनात्यागः स्वत एव कुतो न सिद्ध्यति तत्राह-यद्यदिति ।
तृणमात्रस्यापि करप्रसारणयत्नं विना लाभादर्शनादिति भावः ॥ १५ ॥
निर्विकल्पाद्वितीया चिद्यासौ सकलगा सती ।
परमैका परा साच्छा दीपिका तेजसामपि ॥ १६ ॥
भावनामात्रत्यागे परमपुरुषार्थरूपा परमार्थचित्सर्वत्र सुलभेत्याशयेन तां
वर्णयति-निर्विकल्पेत्यादिना ॥ १६ ॥
सैषावभासनकरी सर्वगा नित्यनिर्मला ।
नित्योदिता निर्मनस्का निर्विकारा निरञ्जना ॥ १७ ॥
घटे पटे वटे कुड्ये शकटे वानरे खरे ।
असुरे सागरे भूते नरे नागे च संस्थिता ॥ १८ ॥
साक्षिवत्तिष्ठति सती स्पन्दते न च कुत्रचित् ।
दीपः प्रकाशनायेव करोति न पुनः क्रियाम् ॥ १९ ॥
यथा दीपः पदार्थप्रकाशनाय स्वरूपस्थित्यैव प्रभवति न तु काञ्चन क्रियां
करोति तद्वच्चिदपीत्यर्थः ॥ १९ ॥
मलिनाप्यमुनैषा साऽविकल्पाढ्या विकल्पिनी ।
जडेवाप्यजडाभासा न सर्वा सर्वगैव च ॥ २० ॥
एषा एवम्प्रभावापि सा चित् अमुना देहादिभावनेनैव अमलिनापि मलिना सम्पन्ना ।
एवमविकल्पाढ्यापि विकल्पिनीति सर्वत्र योज्यम् ॥ २० ॥
निर्विकल्पा परा सूक्ष्मा चिच्चिनोति स्वसंविदम् ।
वातावाताङ्गमर्मादि यथा यन्त्रादिवेष्टने ॥ २१ ॥
इदानीं सर्वगतायाः सूक्ष्मतमायाश्चित एकैकस्मिन्देह एव आनखाग्रं
विशेषव्याप्तिलक्षणे उपचये युक्तिमाह-निर्विकल्पेति । निर्विकल्पा
विशेषाभिमानादिविकल्पास्पर्शिनी परा सर्वगता सूक्ष्माचित् वाते प्राणप्रधाने
लिङ्गदेहे आवाता प्रतिबिम्बभावेनानुगता सती अङ्गानि हस्तपादादीनि मर्माणि
हृदयादिस्थानानि आदिपदाद्द्विसप्ततिसहस्रनाडीभेदं च व्याप्य सर्वगतां
स्वसंविदं तावन्मात्रे आकृष्येव चिनोति उपचयं नयति । यथा
दीर्घसूक्ष्मकौशेयादितन्तुस्तर्कुयन्त्रादिसूचीवेष्टने अतिदीर्घमपि स्वं तावन्मात्रे
उपसंहृत्य बदराद्याकारमुपचयं नयति तद्वदित्यर्थः ॥ २१ ॥
रूपालोकमनस्कारवलिता चिदबोधतः ।
बोधतश्चैव भवति निद्रां सदसती यतः ॥ २२ ॥
अत एव जाग्रतः पुरुषस्य चिद्बही रूपाद्यालोकनैरन्तर्मनस्कारैश्च वलिता सती बोधतो
बोधपक्षे भवति । निद्रां यतो गच्छतस्तु स्वप्ने वासनामयरूपालोकमनस्कारवलिता
सती अन्तर्बोधतो बहिस्त्वबोधत इति पक्षद्वयेऽपि भवति । सुषुप्तौ
त्वज्ञानमात्रसाक्षित्वान्न किञ्चिदवेदिषमित्युत्थितस्य परामर्शाच्च सदसती
सत्यप्यसत्प्राया अबोधपक्ष एव भवतीत्यर्थः ॥ २२ ॥
सा परैव चिदत्यच्छा चिन्तामायाति चेतनात् ।
साधुरेव यथाऽसाधुर्भाविते दुर्जनैषणाः ॥ २३ ॥
सा अत्यच्छा ब्रह्मचिदेव देहाद्यात्मता चेतना
तदनुकूलप्रतिकूलप्राप्तिपरिहारचिन्तामायाति । यथा साधुरेव दुर्जनसङ्गत्या चिरं
चित्ते भाविते संस्कृते सति दुर्जनैषणाह् प्राप्य असाधुर्भवति तद्वदित्यर्थः ॥ २३ ॥
मलेन स्वर्णमायाति ताम्रतां मलमार्जनात् ।
पुनः कनकतामेति यथा चित्परमा तथा ॥ २४ ॥
अत एव पुनर्ब्रह्मात्मताभाविते चित्ते स ब्रह्मैव भवतीत्याशयेन दृष्टान्तमाह##-
स्वारोपशान्त्या स्वादर्शो यथैति प्रतिमास्थितिम् ।
तथा सर्गमिवागम्य बोधात्स्वं याति तत्पदम् [चित्पदं इति पाठः ।] ॥
२५ ॥
यथा शोभन आदर्शो दर्पणः स्वारोपितमलस्य मार्जनेन शान्त्या प्रतिमास्थितिं
पुनः पुनः प्रतिबिम्बाभिव्यक्तियोग्यां स्थितिं स्वच्छतामेति
तद्वच्चिदप्यज्ञानाज्जडजीवभावादिसर्गमिवागम्य । वा ल्यपि इत्यनुनासिकलोपविकल्पः
। आगत्य स्थिता तत्त्वबोधात्तत्कैवल्यपदं यातीत्यर्थः ॥ २५ ॥
अभाववेदनादस्याः संसारः सम्प्रवर्तते ।
स्वभाववेदनादेष त्वसदेवोपशाम्यति ॥ २६ ॥
अभावः असदज्ञानं तद्वेदनात् ॥ २६ ॥
यदा चित्त्वाच्चिनोत्यन्तरन्यतामसतीं तदा ।
अहन्तामिव सम्प्राप्य नश्यतीवाप्यनाशिनी ॥ २७ ॥
अन्यतां भेदम् । उदरमन्तरं कुरुते अथ तस्य भयं भवति इति श्रुतेरिति भावः ॥ २७
॥
ईषत्स्पन्दादधो याति भृगुप्रान्तात्तरोः फलम् ।
यथा तथैष संवित्तेरधःपातो महानिव ॥ २८ ॥
ईषत्स्पन्दाद्वृन्तवियोजकप्रच्युतिमात्रात् । भृगुर्गिरितटं तत्प्रान्तात् । एष जीवभावः
॥ २८ ॥
रूपादीनां तु सत्तैषा चित एवामलैव चित् ।
द्वित्वैकत्वे त्वबोधोत्थे बोधेन विलयं गते ॥ २९ ॥
चित एवेति । अध्यस्तस्याधिष्ठानव्यतिरिक्तसत्त्वाभावादिति भावः । द्वित्वैकत्वे
भेदाभेदाध्यासौ ॥ २९ ॥
सत्तामात्रेण चित्तस्य बोधश्चित्तेन्द्रियादिषु ।
आलोकसत्तामात्रेण व्यवहारः क्रियास्विव ॥ ३० ॥
चित्तस्य चित्तसाक्षिणः ॥ ३० ॥
वातात्कनीनिकास्पन्दस्तद्दीप्तिर्दृष्टिरुच्यते ।
तद्बाह्यवति तद्रूपरूपबोधस्तु चित्परा ॥ ३१ ॥
सामान्येनोक्तं विशिष्य चक्षुरादिषु विभज्योपपादयंश्चित एव सर्वत्र फलीभावं
दर्शयति-वातादित्यादिना । चित्सन्निधिप्रेरिताद्वातात्
व्यानवायोर्निमित्ताच्चक्षुःकनीनिकयोः स्पन्दो भवति । तस्यां स्थिता
दीप्तिस्तैजसमिन्द्रियं दृष्टिश्चक्षुरित्युच्यते । तया कुल्याद्वारा जलमिव बाह्यं
बहिःप्रापणीयं यदन्तःकरणं तद्वति तद्व्याप्ते घटादौ तद्रूपस्य
तत्समानाकारस्य रूपस्य नीलपीतादेर्घटाद्याकारस्य च यो बोधः सत्ताप्रथा सा परा
चिदेवेत्यर्थः ॥ ३१ ॥
त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गः स्पर्श उच्यते ।
मननं स्पर्शसंवित्तिस्तत्संवित्तिस्तु चित्परा ॥ ३२ ॥
एवं स्पार्शनत्रिपुटीस्थलेऽपि त्वङ्मारुतौ जडौ तुच्छौ स्वतः सत्तास्फूर्तिशून्यौ ।
अतश्चिदधीनसत्तास्फूर्तिबलादेव तयोः सङ्गः स्पर्शेन्द्रियकल्पनानिमित्तत्वात्स्पर्श
उच्यते । तद्द्वारा तत्संयुक्तशीतोष्णादिद्रव्येषु मननं तदाकारा मनोवृत्तिः
स्पर्शसंवित्तिरित्युच्यते । तत्संवित्तिस्तदवच्छिन्ना विषयान्तत्रिपुटीप्रथा तु परा
साक्षिचिदेवेत्यर्थः ॥ ३२ ॥
गन्धतन्मात्रपवनसम्बन्धो गन्धसंविदः ।
आसां तु मनसा हीनं वेदनं परमैव चित् ॥ ३३ ॥
एवं घ्राणेन्द्रियात्मना गन्धात्मना च विभक्तस्य गन्धतन्मात्रस्य
नासाप्रवेशिपवनेन कृतः सम्बन्धो गन्धसंविदां
गन्धाकारान्तःकारणवृत्तीनां निमित्तत्वाद्गन्धसंविदः । आसां त्रिपुटीनां
मनसा हीनं विविक्तं यत्प्रथालक्षणं वेदनं सा परमा साक्षिचिदेवेत्यर्थः ॥ ३३ ॥
शब्दतन्मात्रश्रवणवातसङ्गान्मनो विना ।
सुषुप्तसदृशी संवित्परमा चिदुदाहृता ॥ ३४ ॥
एवं शब्दतन्मात्रस्य श्रवणेन्द्रियस्य व्यानवातस्य च सङ्गादुत्पन्ना
मनोवृत्तयः शब्दसंवित्तयस्तासु मनोशं विना विहाय सुषुप्तसदृशी निर्विकारा
या साक्षिसंवित्सा परमा चित् । एवं रासनत्रिपुटीसक्षिचिदपि विविच्य द्रष्टव्येति भावः ॥
३४ ॥
क्रियोन्मुखत्वं सङ्कल्पात्सङ्कल्पो मननक्रमः ।
मननं चित्तकालुष्यमात्मा चिन्निर्मला भवेत् ॥ ३५ ॥
एवं
कर्मेन्द्रियप्रवृत्तिनिमित्तसङ्कल्पात्मकमनोवृत्तितन्मालिन्यसाक्षितयाप्यात्मचिद्विवे
चनीयेत्याह-क्रियोन्मुखत्वमिति ॥ ३५ ॥
चित्प्रकाशात्मिका नित्या स्वात्मन्येवावसंस्थिता ।
इदमन्तर्जगद्धत्ते सन्निवेशं यथा शिला ॥ ३६ ॥
एवं चान्तर्बहिश्च सर्वद्वैतस्फूर्तेः साक्षिचिन्मात्रात्मकत्वे सर्वं द्वैतं
तस्यामेवाध्यस्तमिति फलितमित्याह-चिदिति । यथा स्फटिकशिला स्वान्तर्गतं
वनगिरिनद्यादि प्रतिबिम्बसन्निवेशं धत्ते तद्वत् ॥ ३६ ॥
अद्वितीया दधानेदं विकारादिविवर्जितम् ।
नास्तमेति न चोदेति स्पन्दते नो न वर्धते ॥ ३७ ॥
विकारादिविवर्जितमिति क्रियाविशेषणम् । अधिष्ठानतत्त्वात्मना विकारादिविवर्जितमिति वा ॥
३७ ॥
सङ्कल्पाज्जीवतामेत्य निःसङ्कल्पात्मनात्मना ।
चिज्जडं नो जडं भावं भावयन्ती स्वसंस्थिता ॥ ३८ ॥
चित् जडं जगत् नो जडमजडं वास्तवभावं भावयन्ती सती स्वयं स्वरूपे स्थिता
भवतीत्यर्थः ॥ ३८ ॥
रथस्त्वस्याश्चितेर्जीवो जीवस्याहङ्कृती रथः ।
अहङ्कृते रथो बुद्धिस्ततो बुद्धेर्मनो रथः ॥ ३९ ॥
इदानीं चितो बहिःसंसरणे रथपरम्परां कल्पयन्नाह-रथ इति द्वाभ्याम् ॥ ३९ ॥
मनसस्तु रथः प्राणः प्राणस्याक्षगणो रथः ।
अक्षौघस्य रथो देहो देहस्य स्पन्दनो रथः ॥ ४० ॥
स्पन्दनः कर्मेन्द्रियगणः ॥ ४० ॥
स्पन्दनं कर्म संसारे जरामरणपञ्जरम् ।
एवं प्रवर्तितं चक्रमिदमादिविभूतिजम् ॥ ४१ ॥
सर्वेषामपि रथानां संसारे स्पन्दनं भ्रमणमेव कर्म । साध्यमित्यर्थः ।
जरामरणोपलक्षिता देहा एव पञ्जराणि यत्र तथाविधं जीवखगदोलाचक्रं
आदेर्मूलकारणस्येश्वरस्य विभूत्या मायैश्वर्येण जातम् ॥ ४१ ॥
प्रतिभासत एवात्मन्यसत्स्वप्न इवाततः ।
मनागपि न सत्यात्म मृगतृष्णाम्बुवत्स्थितम् ॥ ४२ ॥
मायिकत्वमेवोपपादयति-प्रतिभासत इति ॥ ४२ ॥
रथस्त्वत्र स्मृतः प्राणः कल्पनाया मुनीश्वर ।
यत्र प्राणमरुत्तत्र मननं परितिष्ठति ॥ ४३ ॥
मनसस्तु रथः प्राण इति यदुक्तं तत्र वक्ष्यमाणार्थोपयुक्तं विशेषं
वक्तुमुपपत्तिमाह-रथ इति । कल्पनाया मानसकल्पनाया निमित्तत्वादिति शेषः ।
तदेव दर्शयति-यत्रेत्यादिना ॥ ४३ ॥
आलोकश्रीः स्थिता यत्र रूपं तत्रैव राजते ।
प्राणो बली स्थितो यत्र तदेव परिवेपति ॥ ४४ ॥
बली सूत्ररूपत्वात्सर्वधारणचालनसमर्थः ॥ ४४ ॥
यत्प्रयाति वनं वात्या तदेव परिघूर्णते ।
मनस्याकाशसंलीने न प्राणः परिवेपति ॥ ४५ ॥
एवं मनसोऽपि प्राणक्रियानिमित्तत्वमस्तीति व्यतिरेकमुखेनाह-मनसीति । आकाशे
हार्दाकाशे संलीने सति ॥ ४५ ॥
तेजस्यसत्तामायाते न रूपमिव राजते ।
प्राणे प्रशान्ते मरुति मनोन्तर्न मनागपि ॥ ४६ ॥
रूपं यथा न राजते तद्वदित्यर्थः । एवं प्राणनिरोधादपि मनो निरुध्यत इत्याह##-
वात्यायामुपशान्तायां रजो न परिकम्पते ।
यत्र प्राणो मरुद्याति मनस्तत्रैव तिष्ठति ॥ ४७ ॥
अत एव तस्य तद्रथत्वमुक्तमित्याह-यत्रेति ॥ ४७ ॥
यत्र यत्रानुसरति रथस्तत्रैव सारथिः ।
प्राणसम्प्रेरितं चित्तं याति देशान्तरे क्षणात् ॥ ४८ ॥
क्षेपणोन्मुक्तपाषाण इव तत्रान्यथा क्षयि ।
यत्र पुष्पं तत्र गन्धो यत्राग्निस्तत्र सोष्णता ॥ ४९ ॥
क्षेपणं यन्त्रविशेषः । अन्यथा प्राणनिरोधे मनः क्षयि । क्षीयत इत्यर्थः ॥ ४९ ॥
यत्र प्राणो मरुद्याति यत्रेन्दुस्तत्र तच्छविः ।
संवित्तिः पवनस्पन्दान्नाडीसंस्पर्शनश्च सः ॥ ५० ॥
प्राणः समष्टिव्यष्टिरूपः । इन्दुश्चन्द्रस्तदंशभूतं मनश्च । छविश्चन्द्रिका
मनोवृत्तयश्च । अत एव चाक्षुषादिसंवित्तिषु प्रत्येकं वायोरपि निमित्तता
प्राङ्मयोपदर्शितेत्याशयेनाह-संवित्तिरिति । सर्वाङ्गेष्वन्नरसप्रवेशार्थं
सर्वनाडीसंस्पर्शनश्च स पवनः ॥ ५० ॥
संवित्तिस्फारता चित्तं मनस्तत्प्राणकोटरे ।
सर्वत्र विद्यते संविद्व्योमस्वच्छा जडाजडे ॥ ५१ ॥
चित्तमनोघटितलिङ्गशरीरात्मके तस्मिन् प्राणकोटरे चितो बिम्बप्रतिबिम्बभावेन
द्विगुणीकरणेन स्फारतापि तत्तस्मादेवोपपन्नेत्याह-संवित्तीति ॥ ५१ ॥
क्षुभ्यन्तीव तु सा प्राणस्पन्दादित्यनुभूयते ।
सत्तामात्रस्वरूपेण जडेषु समवस्थिता ॥ ५२ ॥
तत्रोपपत्तिमाह-क्षुभ्यन्तीवेति । स्फुटाभिव्यक्त्या सञ्चलन्तीव यतो लिङ्गे
चिदनुभूयते इत्यर्थः ॥ ५२ ॥
प्राणसम्बोधिता [प्राणसम्बोधितो वेत्ति वेदनात्मतया जडः इति मूले
पाठः जडोऽपि देहः प्राणसम्बोधितः सन्नित्यादिर्व्याख्यापाठश्चान्यत्र ।
] वेत्ति वेदनात्मतया जडे ।
नानास्फारसमुल्लासैर्यः पूर्वं परिवल्गति ।
प्राणेऽतीते त्वमननः स एवाशु न वेपति ॥ ५३ ॥
जडेऽपि देहे प्राणसम्बोधिता सती सर्गादिवेदनात्मतया आध्यासिकचित्तादात्म्यबलेन
वेत्ति । यो देहः पूर्वं जीवनदशायां परिवल्गति व्यवहरति स एव न वेपति न कम्पते ॥
५३ ॥
पुर्यष्टके चित्परमा स्वे मुने प्रतिबिम्बति ।
आदर्श एव प्रतिमा दृश्यते नोपलादिषु ॥ ५४ ॥
भूतान्तःकरणप्राणज्ञानकर्मेन्द्रियैर्युतम् । अविद्याकामकर्माढ्यं लिङ्गं
पुर्यष्टकं विदुः । तस्मिन्पुर्यष्टके ॥ ५४ ॥
मनः पुर्यष्टकं विद्धि सर्वकार्यैककारणम् ।
तदैव भेदैः कथितमन्यैः स्वाशयकल्पितैः ॥ ५५ ॥
ननु प्राणनिमित्तो मनसि चित्प्रतिबिम्ब उक्त इदानीं तु पुअर्यष्टके स उच्यते तत्कथं न
विरोधस्तत्राह-मन इति । अन्यैराचार्यैः स्वाशयकल्पितैः शिष्यबोधनोपायैः ॥ ५५
॥
यस्मादुदेति कलनाकुलदृश्यजालं यत्तत्र च स्थितवदित्यनुभूतमुच्चैः ।
यस्मान्मनो विपरिवर्तति देहदृष्ट्या सर्वं तु तत्परमवस्त्विति विद्धि विश्वरम्
॥ ५६ ॥
इदानीं जीवतदुपाधितद्भोग्यलक्षणस्य विश्वस्योत्पत्तिस्थितिलयेषु
चिदेकरससन्मात्रब्रह्माधीनत्वात्परमार्थतो ब्रह्मैव
तदित्यनुभावयन्नुपसंहरति-यस्मादिति । यस्माद्धेतोस्तत्र चित्येवोदेति ।
यद्यस्मात्तत्रैव स्थितवत् । चकारात्तत्रैव लीयते । यस्माद्धेतोर्मन एव देहदृष्ट्या
विपरिवर्तति भ्रमति । छान्दसं परस्मैपदम् । तत्तस्माद्विश्वं परमवस्तु
ब्रह्मैव नान्यदिति विद्धीत्यर्थः ॥ ५६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
मनःप्राणैक्यप्रतिपादनं नामैकत्रिंशः सर्गः ॥ ३१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मनःप्राणैक्यप्रतिपादनं नामैकत्रिंशः सर्गः ॥ ३१ ॥