०३०

त्रिंशः सर्गः ३०

ईश्वर उवाच ।

एवं सर्वमिदं विश्वं परमात्मैव केवलम् ।
ब्रह्मैव परमाकाशमेष देवः परः स्मृतः ॥ १ ॥

चितः सर्वात्मता सर्वभोक्तृभावेन संस्थितिः ।
यथा जीवदशां प्राप्ता चित्तच्चाप्यत्र वर्ण्यते ॥

चेतनाकाशमात्रात्म यथा सर्वमिदं प्रभो इति यत्त्वया पृष्टं तस्येदमुत्तरं
वर्णितमित्याह-एवमिति । कच्चिद्वेत्सि महाबाहो देव कः स्यादिति द्विज इति मया
त्वत्पृष्टदेवार्चनविधानमूलरहस्यं यत्त्वां प्रति पृष्टं
तदप्येतदेवेत्याह-एष देव इति ॥ १ ॥

तदेतत्पूजनं श्रेयस्तस्मात्सर्वमवाप्यते ।
तदेव सर्गभूः सर्वमिदं तस्मिन्व्यवस्थितम् ॥ २ ॥

परिच्छिन्नदेवार्चनं परिच्छिन्नफलमेतदर्चनं तु
सर्वकामावसानभूमिभूमानन्दप्राप्तिफलमिति सर्वोत्कृष्टमित्याह-तदेतदिति ।
सर्गभूः सर्वजगत्सर्गारोपाधिष्ठानम् ॥ २ ॥

अकृत्रिममनाद्यन्तमद्वितीयमखण्डितम् ।
अबहिः साधनासाध्यं सुखं तस्मादवाप्यते ॥ ३ ॥

तत्र बहुवित्तव्ययायाससाध्यताशङ्कां परिहरति-अबहिरिति । अबहिः साधनं च
तदसाध्यं चेति विग्रहः ॥ ३ ॥

प्रबुद्धस्त्वं मुनिश्रेष्ठ तेनेदं तव कथ्यते ।
नातिदेवार्चने योग्यः पुष्पधूपचयो महान् ॥ ४ ॥

प्रबुद्धो विवेकी मुख्याधिकारीति यावत् । अतिशयितो देवः अतिदेवस्तदर्चने ॥ ४ ॥

अव्युत्पन्नधियो ये हि बालपेलवचेतसः ।
कृत्रिमार्चामयं तेषां देवार्चनमुदाहृतम् ॥ ५ ॥

मूर्त्यादिरूपदेवार्चने तर्हि केऽधिकारिणस्तानाह-अव्युत्पन्नेति । अत एव
तदनुरूपमेव कृत्रिमप्रतिमादि तत्सामग्री चेत्याह-कृत्रिमेति । अर्चा प्रतिमा
तत्प्रचुरम् ॥ ५ ॥

शमबोधाद्यभावे हि पुष्पाद्यैर्वार्चयन्ति हि ।
मिथ्यैव कल्पितैरेवमाकारे कल्पितात्मके ॥ ६ ॥

तच्च शाल्योदनालाभे क्रोद्रवाशनमिवेत्याह-शमेति ॥ ६ ॥

स्वसङ्कल्पकृतैः कृत्वा क्रमैरर्चनमादृताः ।
बालाः सन्तोषमायान्ति पुष्पधूपलवार्चनैः ॥ ७ ॥

अर्चनं कृत्वा सन्तोषमायान्ति प्राप्नुवन्ति ॥ ७ ॥

स्वसङ्कल्पकृतैरर्थैः कृत्वादेवार्चनं मुधा ।
यतः कुतश्चिन्मिथ्यात्म फलमात्रं नयन्ति ते ॥ ८ ॥

यतः कुतश्चित्स्वप्नप्रायविमानाप्सरः प्रभृतिसाधनान्मिथ्यात्मकमेव
स्वर्गादिफलमासादयन्तीति मुधेत्यस्योपपत्तिः ॥ ८ ॥

पुष्पधूपार्चनं ब्रह्मन्कल्पितं बालबुद्धिषु ।
यत्स्याद्भवादृशां योग्यमर्चनं तद्वदाम्यहम् ॥ ९ ॥

अस्मदादिस्त्वसौ कश्चिद्देवो मतिमतां वर ।
देवस्त्रिभुवनाधारः परमात्मैव नेतरत् ॥ १० ॥

वयं आदिः कारणं यस्य सोऽस्मदादिरस्मत्कल्पितप्रपञ्चान्तर्गतः असौ
चक्षुरादिदृश्यमूर्तिरूपो देवः कश्चिदनिर्वचनीयो मायामय एवेत्यर्थः । कस्तर्हि
पारमार्थिको देवस्तमाह-देव इति ॥ १० ॥

शिवः सर्वपदातीतः सर्वसङ्कल्पनातिगः ।
सर्वसङ्कल्पवलितो न सर्वो न च सर्वकः ॥ ११ ॥

सर्वेभ्यो ब्रह्मविष्णुरुद्रादिदेवेभ्योऽप्यतीतसङ्कल्पना मनोवृत्तयस्तदतिगः । यतो
वाचो निवर्तन्ते अप्राप्य मनसा सह इति श्रुतेः । यस्तु सर्वैर्विषयभोगसङ्कल्पैर्वलितो
वेष्टितो ब्रह्मविष्ण्वादिपदरूपः स न साधनतोऽपि सर्वो न फलतोऽपि सर्व कं
भोगसुखं यस्मिंस्तथाविधः । स्वस्वकर्मोपासनतारतम्यानुसारेणैव
भोगसामग्र्यास्तत्फलसुखलवस्य च तत्र लाभादित्यर्थः ॥ ११ ॥

दिक्कालाद्यनवच्छिन्नः सर्वारम्भप्रकाशकृत् ।
चिन्मात्रमूर्तिरमलो देव इत्युच्यते मुने ॥ १२ ॥

आत्मदेवस्तु पूजनदशायां फलदशायां च
नित्यनिरतिशयपरमार्थसत्यपूर्णानन्दैकस्वभाव एवेति स एव देव इत्युक्तियोग्य
इत्याह-दिक्कालेति ॥ १२ ॥

संवित्सर्वकलातीता सर्वभावान्तरस्थिता ।
सर्वसत्ताप्रदा देवी सर्वसत्तापहारिणी ॥ १३ ॥

ब्रह्म ब्रह्मन्सदसतोर्मध्यं तद्देव उच्यते ।
परमात्मपराभिख्यं तत्सदोमित्युदाहृतम् ॥ १४ ॥

सदसतोर्भावाभावयोर्वर्तमानतदन्यकालयोर्मूर्तामूर्तयोः
कारणकार्ययोर्व्यावहारिकप्रातिभासिकयोर्वा
आन्तरालिकसाक्षिचिन्मात्ररूपत्वादधिष्ठानत्वाद्वा मध्यम् ।
परमसूर्यचन्द्राग्निकरणज्योतिर्भ्य उत्कृष्ट आत्मैव परा सर्वावद्योतनक्षमा
अभिख्या प्रकाशो यस्य तत्तथाविधं सत् ओमिति पदेन श्रुतिषु
विराडादिपादत्रयात्मकसर्वप्रपञ्चप्रविलापनेन शिवमद्वैतं चतुर्थं मन्यन्ते
स आत्मा स विज्ञेयः इत्युदाहृतमित्यर्थः ॥ १४ ॥

महासत्तास्वभावेन सर्वत्र समतां गतम् ।
महाचिदिति सम्प्रोक्तं परमार्थ इति श्रुतम् ॥ १५ ॥

स्थितं सर्वत्र सर्वं तु लतास्वन्तर्यथा रसः ।
सत्तासामान्यरूपेण महासत्तात्मनापि च ॥ १६ ॥

व्यवहारे सर्वत्रानुगमात्सत्तासामान्यरूपेण । सर्वबाधे तु महासत्तात्मना ॥ १६ ॥

यच्चित्तत्त्वमरुन्धत्या यच्चित्तत्त्वं तवानघ ।
यच्चित्तत्त्वं च पार्वत्या यच्चित्तत्त्वं गणेषु च ॥ १७ ॥

तस्यैव सर्वेषां देवतादीनामात्मत्वादपि मुख्यं देवत्वमित्याह-यदित्यादिना ॥
१७ ॥ १८ ॥

चित्तत्त्वं यन्ममेदं च चित्तत्त्वं यज्जगत्त्रये ।
तद्देव इति तत्त्वज्ञा विदुरुत्तमबुद्धयः ॥ १८ ॥

तस्यैव सर्वेषां देवतादीनामात्मत्वादपि मुख्यं देवत्वमित्याह-यदित्यादिना ॥
१७ ॥ १८ ॥

पादपाण्यादिमानन्यो यो वा देवः प्रकल्प्यते ।
संविन्मात्रादृते ब्रह्मन्किंसारः किल कथ्यताम् ॥ १९ ॥

तस्यैव विमर्शे सर्वदेवतासारत्वाद्देवत्वमित्याह-पादेति । किंसारः स इति शेषः
॥ १९ ॥

चिन्मात्रमेव संसारसारः सकलसारताम् ।
गतः स देवः सर्वोऽहं तस्मात्सर्वमवाप्यते ॥ २० ॥

स सर्वः पूर्णो देव एवाहं न परिच्छिन्न इत्यर्थः ॥ २० ॥

न स दूरे स्थितो ब्रह्मन्न दुष्प्रापः स कस्यचित् ।
संस्थितः स सदा देहे सर्वत्रैव च खे तथा ॥ २१ ॥

स करोति च चाश्नाति स बिभर्ति प्रयाति च ।
स निःश्वसिति संवेत्तासोऽङ्गान्यङ्गानि वेत्ति च ॥ २२ ॥

स एव सर्वकर्ता सर्वभोक्ता चेत्याह-स करोतीत्यादिना ॥ २२ ॥

सोऽस्यां विचित्रचेष्टायां प्रकाशिन्यां च तद्वशात् ।
तत्स्वरूपनिबद्धायां पुर्यामास्ते मुनीश्वर ॥ २३ ॥

पुर्यामास्ते । स एष इह प्रविष्ट आनखाग्रेभ्यः इति श्रुतेरिति भावः ॥ २३ ॥

शरीरावसथायां च चलायां तत्प्रसादतः ।
सोऽस्यां गहनकोशायां हृद्गुहायां गुहेश्वरः ॥ २४ ॥

शरीरमावसथो महागृहं यस्यास्तथाविधायाम् । गहना दुर्विवेका
अन्नमयादिबहिःकोशा यस्यास्तथाविधायाम् । हृद्बुद्धिः सैव गूहतीति गुहा तस्याम् ।
आनन्दमयकोशगुहेश्वरः ॥ २४ ॥

मनःषष्ठेन्द्रियाचारसत्तातीतामलात्मनः ।
तस्य संव्यवहारार्थं सञ्ज्ञा चिदिति कल्पिता ॥ २५ ॥

उपदेशसंव्यवहारार्थम् ॥ २५ ॥

स एष चिन्मयः सूक्ष्मः सर्वव्यापी निरञ्जनः ।
इमं भास्वरमाभासं करोति न करोति च ॥ २६ ॥

भास्यारोपे करोतीव तदपवादे न करोति । नित्यभानस्य कृतत्वाभावादित्यर्थः ॥ २६ ॥

सा चिदत्यन्तविमला जगदर्थं जगत्क्रियाम् ।
इमां रञ्जयति प्राज्ञ रसेनेव मधुर्लताम् ॥ २७ ॥

रञ्जयति शोभयति । मधुर्वसन्तः ॥ २७ ॥

चारवो ये चमत्काराश्चितश्चिति यथास्थितम् ।
चमत्कुर्वन्ति किल ते तेन केचिन्नभोभिधाः ॥ २८ ॥

चमत्कारा आरोप्ये सत्तास्फूर्तिप्रदानरूपाः । चिति मायाशबले यत्स्थितं
पूर्वकामकर्मवासनानुसारेण नियतं चमत्कुर्वन्त्याविर्भावयन्ति ।
तांश्चिच्चमत्कारानेव नामकल्पनया व्यपदिशति-केचिदित्यादिना । सर्गभेदेन
नभोबहुत्वोक्तिः ॥ २८ ॥

केचिज्जीवाभिधानाश्च केचिच्चित्ताभिधानकाः ।
केचित्कलाभिधानाश्च केचिद्देशाभिधानकाः ॥ २९ ॥

केचित्क्रियाभिधानाश्च केचिद्द्रव्याभिधानकाः ।
केचिद्भावविकारादिजात्यौचित्याभिधानकाः ॥ ३० ॥

भावविकारा जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति इति यास्कोक्ताः
आदिपदाद्गुणभेदास्तेषां जात्या वैचित्र्येण औचित्येन च विचित्राभिधानकाः ॥ ३० ॥

प्रकाशाभिधानाः केचित्केचिच्छैलतमोभिधाः ।
अर्केन्द्राद्यभिधाः केचित्केचिद्यक्षाभिधानकाः ॥ ३१ ॥

तानेव प्रपञ्चयति-प्रकाशेति ॥ ३१ ॥

निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः ।
तन्यते तद्वदेवेयं जगल्लक्ष्मीश्चिदात्मना ॥ ३२ ॥

चितः किं स्वभोगेच्छया जगत्सृष्टिर्नेत्याह-निरिच्छेति । तथा चोक्तं
श्रीमद्गौडपादाचार्यैः-भोगार्थं सृष्टिरित्येके क्रीडार्थमिति चापरे ।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ इति । नचैवं सोऽकामयत बहु स्यां
प्रजायेय इत्यादिश्रुतिविरोधः । अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेदः इत्यादिश्रुत्यन्तरे इच्छाप्रयत्नाद्यनपेक्षनिःश्वसितप्रायत्वोक्तेः तदैक्षत
बहु स्यां प्रजायेय इति समानतात्पर्यकश्रुत्यन्तरानुगुण्याय
चाकामयतेत्युक्तेरचेतनप्रधानादिकर्तृकताशङ्कावारणमात्रतात्पर्यकत्वात् ।
तथा च भगवतो बादरायणस्य सूत्रम् कामाच्च नानुमानापेक्षा इति ॥ ३२ ॥

चिदेवासु समग्रासु सर्वदैवैकिकैव हि ।
त्रैलोक्याम्भोधिसंस्थासु शरीरजलजालिका ॥ ३३ ॥

त्रैलोक्यलक्षणानामम्भोधीनां संस्थासु तात्त्विकस्थितिषु विचार्यमाणासु चिदेव
शरीरं वास्तवतत्त्वं तद्रूपा जलजालिका जलसमूहस्थानीया नान्यदित्यर्थः ॥ ३३ ॥

शरीरपङ्कजभ्रान्तमनोभ्रमरसम्भृताम् ।
आस्वादयति सङ्कल्पमधुसत्तां चिदीश्वरी ॥ ३४ ॥

तस्या मनःसङ्कल्पकृतभोक्त्रादित्रिपुटीप्रकाशकत्वमेव
भोक्त्रविवेकाद्भोक्तृत्वमिति कल्प्यत इत्याशयेनाह-शरीरेति । ईश्वरी
स्वारोपितसर्वावभासनसमर्था ॥ ३४ ॥

ससुरासुरगन्धर्वं सशैलार्णवकं जगत् ।
चिति स्थितं प्रवहति जलावर्ते जलं यथा ॥ ३५ ॥

एवं कर्तृत्वमपि तस्याः
स्वाध्यारोपितकारकपरिभ्रमणप्रथानिमित्तत्वमेवेत्याशयेनाह-ससुरासुरेति ।
प्रवहति परिवर्तते ॥ ३५ ॥

बन्धचित्तमयाचारचारुचञ्चुरचक्रिकम् ।
संसारचक्रं चिच्चक्रे भ्राम्यति भ्रमभाजनम् ॥ ३६ ॥

बध्नातीति बन्धस्तथाविधो यश्चित्तमयः कर्तृत्वभोक्तृत्वरूप आचारस्तेन
चारवश्चञ्चुराश्चपलाश्च व्यष्टिजीवसंसरणचक्रिका यस्मिंस्तथाविधं
जीवसमष्टि संसारचक्रं मायाशबले चिच्चक्रे भ्राम्यति ॥ ३६ ॥

चिच्चतुर्भुजरूपेण जघानासुरमण्डलम् ।
कालो जलदखण्डेन सायुधेन यथाऽऽतपम् ॥ ३७ ॥

वर्णितलक्षणं चित एव सर्वकर्तृभोक्तृत्वं विशिष्य वर्णयति-चिदित्यादिना ।
कालो वर्षर्तुः सायुधेनैन्द्रधनुर्वज्रयुक्तेन जलदखण्डवेषेणातपमिव ॥ ३७ ॥

चित्त्रिनेत्रतया ब्रह्मन्वृषशीतांशुचिह्नया ।
गौरीकमलिनीवक्त्रपद्मषट्पदतां गता ॥ ३८ ॥

विष्णोः पद्मालितामेत्य चिद्ध्यानाधीनमानसा ।
त्रयी नलिन्याः सरसीं धत्ते पैतामहीं स्थितिम् ॥ ३९ ॥

विष्णोर्नाभिपद्मे अलितां भ्रमरत्वमिव एत्य प्राप्य । त्रयी वेदास्तल्लक्षणाया
नलिन्याः सरसीं महासरोभूतां स्थितिं मूर्तिम् ॥ ३९ ॥

चितो ब्रह्मन्विचित्राणि शरीराणीह भूरिशः ।
पत्राणीव तरोर्हेम्नि केयूरादिक्रियेव च ॥ ४० ॥

केयूरादीनां क्रियानिर्मितिरिव ॥ ४० ॥

चित्समस्तसुरानीकपरिवन्दितपादया ।
त्रैलोक्यचूडामणितां धत्ते वासवलीलया ॥ ४१ ॥

चूडामणितां वन्द्यतामिति यावत् ॥ ४१ ॥

चित्सुभास्वरतामेत्य त्रैलोक्योदरडम्बरे ।
पतत्युदेति संयाति स्वात्मन्येवाब्धिवारिवत् ॥ ४२ ॥

सुभास्वरतां सूर्यादितेजोरूपताम् ॥ ४२ ॥

चिच्चन्द्रिका चतुर्दिक्षु अवभासं वितन्वती ।
विकासयति निःशेषभूतसत्ताकुमुद्वतीम् ॥ ४३ ॥

साक्षादपि तस्या आह्लादप्रथानिमित्ततामाह-चिच्चन्द्रिकेति ॥ ४३ ॥

चिद्दर्पणमहालक्ष्मीस्त्रिजगत्प्रतिबिम्बितम् ।
गृह्णात्यनुग्रहेणान्तः स्वगर्भमिव गर्भिणी ॥ ४४ ॥

महती लक्ष्मीः स्वच्छभास्वरतालक्षणा शोभा वैष्णवी माया वा ॥ ४४ ॥

चिच्चतुर्दशभूतानां मण्डलानि महान्ति च ।
भूतीकरोति वारिश्रीः समुद्रस्वमिवाम्बुधिः ॥ ४५ ॥

चतुर्दशभुवनस्थायां भूतानाम् । भूतीकरोति सत्तां सम्पादयति । यथा वारिश्रीः
रसशक्तिः अम्बुघिर्जलसमूहरूपा सती समुद्रस्वं समुद्रस्वरूपसत्तां सम्पादयति
तद्वत् ॥ ४५ ॥

विचित्रालोककुसुमा घनसङ्कल्पपल्लवा ।
व्योमकेदारिकारूढा सत्तौघफलशालिनी [अत्र फलदायिनीति पाठो
व्याख्यानुगुणः स्यात् ।] ॥ ४६ ॥

इदानीं तामेव चितं लतात्वेन रूपयति-व्योमेत्यादिना । व्योमात्र
मायाकाशस्तल्लक्षणायां केदारिकायां क्षेत्रभक्तौ रूढा हिरण्यगर्भात्मना
अङ्कुरिता । सत्तौघाः सर्वपदार्थसत्यतास्तल्लक्षणफलदायिनी ॥ ४६ ॥

जीवजालरजःपुञ्जवासनारसरञ्जिता ।
संवेदनत्वग्वलिता चित्तेहाकलिकाकुला ॥ ४७ ॥

संवेदनानि सविकल्पज्ञानानि । चित्तेहाश्चित्तवृत्तयः ॥ ४७ ॥

अतीतासङ्ख्यत्रिजगत्केसरोज्ज्वलरूपिणी ।
अनारतस्पन्दमहाविलासोल्लासहासिनी ॥ ४८ ॥

सर्वर्तुपर्वपरुषा जडशैलादिगुल्मका ।
विग्रहग्रन्थिवलिता मूलाग्रपरिवर्तिता ॥ ४९ ॥

जडाः शैलादय एव गुल्मका मूलप्ररोहा यस्याः । विग्रहाश्चतुर्विधशरीराण्येव
ग्रन्थयस्तैर्वलिता । आमूलाग्रं प्रवृत्तिप्रतानैः परिवर्तिता वेष्टिता ॥ ४९ ॥

चिल्लतेयं विकसिता पेलवं सदसद्वपुः ।
विचित्रं दृश्यकुसुमं परामर्शासहं बहु ॥ ५० ॥

पेलवमित्यादिविशेषणविशिष्टं दृश्यकुसुमं अनया जन्यत इति परेणान्वयः ।
सदसद्वपुरित्यस्य परामर्शासहमित्युपपत्तिः ॥ ५० ॥

अनयेह हि सर्वत्र च्छायाच्छमिव जयन्ते ।
मन्यते तन्यते वस्तु गीयते क्रियतेऽपि च ॥ ५१ ॥

छाया चन्द्रादिकान्तिरिवाच्छं स्फुटं दृश्यकुसुममम् । मन्यते
अभिमानविषयीक्रियते । तन्यते विस्तार्यते ॥ ५१ ॥

महाचितानया नित्यं भासन्ते भास्करादयः ।
देहाः स्वदन्ते च मिथस्तत्सच्चिज्जडविभ्रमैः ॥ ५२ ॥

तस्याश्चितः सत् सत्यं चित् चेतनम् । जडं
चेत्यविवेकप्रयुक्तैर्भोक्तृभोग्यताविभ्रमैर्दम्पत्योर्देहा वस्तुतोऽमङ्गलरूपा अपि
मिथः स्वदन्ते प्रीतिविषया भवन्ति ॥ ५२ ॥

चिता चावर्तवर्तिन्या सिद्धन्येव प्रनृत्यति ।
जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी ॥ ५३ ॥

आवर्तो वात्यावर्तस्तद्वर्तिन्या चितैव सिद्धा तत्सत्तयैव दृश्यदेहिनी
दर्शनयोग्याकारवती जगज्जालरजोलेखा अन्या चिद्व्यतिरिक्तेव भूत्वा प्रनृत्यति ॥ ५३ ॥

चित्सर्वं जगदारम्भमिमं प्रकटयत्यलम् ।
त्रैलोक्यदीक्पकशिखादीपो वर्णाश्रयं यथा ॥ ५४ ॥

त्रैलोक्यप्रकाशनदीपकशिखाभूता चित् । दीपः प्रसिद्धो वर्णाश्रयं
रूपवद्द्रव्यं यथा प्रकटयति तद्वत् ॥ ५४ ॥

चिच्चन्द्रबिम्बे विमले शशवत्प्राप्य सङ्गमम् ।
सर्वत्र लक्ष्यतामेति पदार्थश्रीर्जगद्गता ॥ ५५ ॥

चिदधीनप्रकाशतामेव जगतः प्रपञ्चयति-चिच्चन्द्रबिम्बे इत्यादिना ॥ ५५ ॥

चिद्रसायनसेकेन पदार्थपटलावली ।
रूपमेति फलं चैव प्रावृट्सिक्तेव सल्लता ॥ ५६ ॥

चिच्छाययैव सर्वस्य जाड्यं सम्यगुदेति च ।
सर्वस्यास्य शरीरस्य गृहस्येव तमस्त्विह ॥ ५७ ॥

ननु चिद्यदि रसायनमिव पदार्थपटलावलीं सर्वतो व्याप्य स्फुरति तर्हि तत्र जाड्यं
न स्यात् । न हि सर्वतो रसार्द्रे शुष्कतायाः प्रसक्तिरस्तीति तत्राह-चिच्छाययैवेति ।
यथा पञ्चीकरणेन गृहस्यापि सर्वतस्तेजोव्याप्तिसत्त्वात्तदन्तस्तमःप्रसक्त्यभावेऽपि
तैजसमास्वरताया भूतान्तरभागैरभिभवाद्बहिरभिव्यक्तसौरालोकव्याप्तौ
तत्प्रयुक्तच्छायया अन्तस्तम उदेति तथा घटाद्यधिष्ठानचिद्भास्वरताया
अप्यध्यस्तेनाभिभवाद्बहिश्चाक्षुषवृत्त्याद्यभिव्यक्तचिद्व्याप्त्या स्फुरणे
तच्छायया अन्तर्जाड्यमुदेतीत्यर्थः ॥ ५७ ॥

चिच्चमत्कृतयो देहे न भवेयुरिमा यदि ।
त्रैलोक्यदेहास्त्यक्त्वैते न स्पृशेयुः किलाकृतिम् ॥ ५८ ॥

तथा च यथा सौराद्यालोकवशादेव गृहप्रासादाद्याकृतिवैचित्र्यसिद्धिस्तथा
देहान्तरभिव्यक्तप्रमातृचिच्चमत्कृतिवशादेव
गवाश्वपटपटाद्याकृतिवैचित्र्यसिद्धिर्नान्यथेत्याह-चिच्चमत्कृतय इति ।
त्रैलोक्यदेहास्त्रैलोक्यान्तर्गताः साकारपदार्थाः एते छायाजाड्ये त्यक्त्वा
आकृतिमाकारमपि न स्पृशेयुः साधकान्तराभावादित्यर्थः ॥ ५८ ॥

चिदाकाशप्रकाशेऽस्मिन्सङ्कल्पशिशुधारिणि ।
क्रियाकुलवधूर्देहगृहे स्फुरति चञ्चला ॥ ५९ ॥

क्रिया विहितानिषिद्धेषु प्रवृत्तिः सैव कुलवधूः ॥ ५९ ॥

चिदालोकं विना कस्य रसनाग्रे स्फुरन्नपि ।
कथं कदा प्रकटतामेति दृष्टः क्व वा रसः ॥ ६० ॥

उक्तमर्थमनुभावयितुं व्यतिरेकमुखेनापि प्रसिद्धोदाहरणेषु समर्थयति##-
किंवृत्तत्रयेण प्रकारकालदेशानां निरासः ॥ ६० ॥

शृण्वङ्ग स्वाङ्गशाखोऽपि कुन्तलालिलतोऽप्यलम् ।
चिन्मज्जनं विना देहवृक्षः क इव राजते ॥ ६१ ॥

स्वाङ्गानि शाखाः यस्य । कुन्तलालिः केशसमूहो लता यस्मिन् । चिन्मज्जजं चिद्व्याप्तिं
विना ॥ ६१ ॥

वर्धते विलुठत्यत्ति चिच्चराचरकारिणी ।
चिदेवास्तीतरन्नास्ति चिन्मात्रमिदमुत्थितम् ॥ ६२ ॥

एवं च
चिदधीनजन्मवृद्ध्यादिसर्वभावत्वाज्जगज्जलाधीनसर्वभावस्तरङ्गादिर्जलमिव
चिदेव परमार्थत इति सिद्धमित्युपसंहरति-वर्धत इति ॥ ६२ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्तवांस्तदा त्र्यक्षः सुधांशुस्वच्छया गिरा ।
पुनः पृष्टो मया राम सुधांशुस्वच्छया गिरा ॥ ६३ ॥

यदि सर्वगता देव चिदस्त्येका तदात्मकः ।
तदयं चावनिस्फारमयान्धेव न चेतति ॥ ६४ ॥

यद्येका चिदेवास्ति तत्तर्हि तदात्मकः अयं देहो निद्रामूर्च्छामरणेषु
चकाराद्दृश्यान्तरे च अवनिस्फारमयी मृत् प्रचुरभूतविकारभूता अन्धा
नेत्रादिहीनाभित्तिरिव न चेतति तत्कथमित्यर्थः ॥ ६४ ॥

अयं चित्वान्पुरा भूत्वा चिद्धीनः सम्प्रति स्थितः ।
इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम् ॥ ६५ ॥

तदेव स्पष्टं पुनराह-अयमिति । अयं देहादिः पुरा कृश्यभावात्पूर्वं
जीवनदशायां च चित्त्वान् चेतनावान् । तसौ मत्वर्थे इति भत्वाज्जश्त्वाभावः । भूत्वा
सम्प्रति दृश्यमरणादिदशायां चिद्धीनः स्थित इतीयं कल्पना कथं
चितोऽविनाशिस्वभावत्वादपरिणामित्वाच्च कथमपि जाड्यायोगादिति प्रश्नार्थः ॥ ६५ ॥

ईश्वर उवाच ।

शृण्वेतदखिलं ब्रह्मन्यदा पृष्टं वदामि ते ।
महानयं त्वया प्रश्नः कृतो ब्रह्मविदां वर ॥ ६६ ॥

यथा तच्चेतनस्यैव जीवादित्वं तदुच्यतामिति प्राक्तनप्रश्नोत्तरमश्रुत्वैव
प्रश्नान्तरे वसिष्ठेन कृते द्वयोरप्युत्तरं सहैव वक्तुकाम ईश्वर उवाच##-

चिदस्ति हि शरीरेह सर्वभूतमयात्मिका ।
चलोन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता ॥ ६७ ॥

वक्ष्यमाणोपोद्घातेन प्रथमं बिम्बप्रतिबिम्बचिद्द्वैविध्यं देहे दर्शयति##-
विज्ञानमयशब्दवाच्यकर्तृभोक्तृस्वभावेत्यर्थः । परा कूटस्थचित्तु निर्विकल्पा
॥ ६७ ॥

सङ्कल्पबुद्धा सैवान्तः स्वयमन्येव संस्थिता ।
सङ्कल्पितेतरवरा दौःशील्यं स्त्री यथा गता ॥ ६८ ॥

तस्याश्चलस्वभावत्वमिव भेदोऽप्युपाधिकृत एवेत्याशयेनाह-सङ्कल्पेति ।
हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति
श्रुतिदर्शितसङ्कल्पेन स्वात्मानमेव जीवात्मा बुद्धा बुद्धव्ती । आदिकर्मणि क्तः
कर्तरि च इति कर्तरि क्तः । यथा सुशीलैव स्त्री स्वप्ने सङ्कल्पित तरो वर उपपतिर्यया
तथाविधा सती दौःशील्यं गता सती द्वितीयेव सम्पन्ना तद्वत् ॥ ६८ ॥

स एव हि पुमान्कोपाद्यथेहान्य इव क्षणात् ।
भवत्येवं विकल्पाङ्का चित्स्वरूपान्यतां गता ॥ ६९ ॥

पुमान् मनुष्यः अन्यो राक्षस इव क्रूरो भवति तद्वत् ॥ ६९ ॥

विकल्पकल्पिता ब्रह्मंश्चित्स्वरूपपरिच्युता ।
जाड्यं क्रमाद्भावयन्ती प्रयाति कलनापदम् ॥ ७० ॥

एवंरीत्या स्वरूपात्परिच्युता चित् क्रमाज्जाढ्यं जडतादात्म्यं भावयन्ती सती
कलनायाः सविकल्पबुद्धेः पदं विषयतां प्रयाति स्वकल्पनयैवेत्यर्थः ॥ ७० ॥

चित्स्वयं चेत्यतामेति साकाशपरमाणुताम् ।
शब्दबीजात्मिकां पश्चाद्वाततन्मात्रगामिनी ॥ ७१ ॥

आकाशसहितानि परमाणूनि सूक्ष्मभूतानि तद्भावरूपां
शब्दस्पर्शरूपरसगन्धरूपभोग्यानां बीजात्मिकां चेत्यतां
मायोपलक्षितचिद्विषयतां एति पश्चाद्वाततन्मात्रं समष्टिप्राणभावस्तद्गामिनी
भवति ॥ ७१ ॥

देशकालविभागान्ता तन्मात्रवलिता क्रमात् ।
जीवो भूत्वा भवत्याशु बुद्धिः पश्चादहं मनः ॥ ७२ ॥

तथाभूतायास्तस्याः
पञ्चीकरणप्रयुक्तस्थूलभूतात्मकसमष्टिव्यष्टिस्थूलदेहभावं
तदन्तर्लिङ्गदेहे जीवभावं तत्र बुद्ध्यादिभावं च दर्शयति-देशेति ।
तन्मात्रैः सूक्ष्मभूतैः पञ्चीकरणेन वलिता संवलिता सती
सप्तद्वीपचतुर्दशलोकात्मकदेशविभागान्ता
निमेषादिद्विपरार्धावधिकालविभागान्ता च क्रमाद्भवति । ततस्तत्र
प्राणधारणाज्जीवो भूत्वा बुद्धिरहङ्कारो मनः अर्थाच्चित्तं च भवतीत्यर्थः ॥ ७२ ॥

मनस्त्वं समुपायाता संसारमवलम्बते ।
चण्डालोऽस्मीति मननाच्चण्डालत्वमिव द्विजः ॥ ७३ ॥

सङ्कल्पिताऽप्रबोधेन जाड्याऽविश्वप्रबोधिनी ।
शबलं रूपमासाद्य सङ्कल्पाद्यात्यनारतम् ॥ ७४ ॥

ब्रह्मचिदेव अप्रबोधेनाज्ञानेन शबलं रूपमासाद्य देहजीवाकारेण सङ्कल्पिता
सती तत्प्रयुक्तजाड्येन अविश्वप्रबोधिनी असर्वज्ञा भूत्वा
पुनःपुनर्भोगसङ्कल्पादनारतं याति संसरति ॥ ७४ ॥

अनन्तसङ्कल्पमयी जाड्यसङ्कल्पपीवरा ।
चिज्जाड्यान्मोदमायाति पयः पाषाणतामिव ॥ ७५ ॥

पयो जलं पाषाणतां करकात्वमिव मोहं जीवताभ्रममायाति ॥ ७५ ॥

ततश्चित्तं मनोमोहो मायेति विहिताभिधा ।
जाड्यं निपुणमाश्रित्य संसारे जायते मुने ॥ ७६ ॥

मोहमान्द्यमुपायाता तृष्णानिगडपीडिता ।
कामक्रोधभयोपेता भावाभावातिपातिनी ॥ ७७ ॥

भावो विभवः । अभावो दारिद्र्यं तदनुपातिनी ॥ ७७ ॥

त्यक्तानन्तनिजाभोगा व्यवच्छेदविकारिणी ।
दुःखदावानलातप्ता शोकाशिवकृशाशया ॥ ७८ ॥

व्यवच्छेदेषु भार्यापुत्रादिवियोगेषु शोकादिविकारिणी । शोकैरशिवैश्च कृशायशा
कृपणा ॥ ७८ ॥

इयमस्मीति भावेन शून्येन विकलीकृता ।
देहमात्रगृहीतास्था परं दैन्यमुपागता ॥ ७९ ॥

इयं प्रत्यक्षदुःखमोहादिस्वभावैवाहमस्मीति भावेन भ्रमेण ॥ ७९ ॥

मग्ना मोहमहापङ्के जीर्णेव वनदन्तिनी ।
भावाभावलतादोला परिलोलशरीरका ॥ ८० ॥

असारापारसंसारविकारव्यवहारिणी ।
तापोपतप्तहृदया रागतेजोनुरञ्जिता ॥ ८१ ॥

रागेण तेजसा क्रोधेन चानुरञ्जिता ॥ ८१ ॥

निजयूथपरिभ्रष्टा मृगीवावशतां गता ।
आविर्भावोदिताकारा तिरोभावेऽस्तमागता ॥ ८२ ॥

विभवानां भूतमात्राणां वा आविर्भावे उदिताकारा हृष्टा अभिव्यक्ता वा । अस्तं
दैन्यं तिरोभावं वा ॥ ८२ ॥

स्वसङ्कल्पोपयातासु भीता सम्भ्रमदृष्टिषु ।
पलायते वाप्यन्यासु वेतालेष्विव बालिका ॥ ८३ ॥

उष्ट्रीव मधुरं विन्दुं वाञ्छते भावितं सुखम् ।
अवान्तरपरिभ्रष्टा दोषाद्दोषं पतत्यधः ॥ ८४ ॥

यथा उष्ट्री कण्टकनिम्बपत्रादिषु चर्व्यमाणेषु स्ववासनाभावितं बिन्दुमल्पतरं
मधुरं रसं काङ्क्षते तद्वद्दुःखबहुलेषु विषयेषु सुखं काङ्क्षत इत्यर्थः ।
अथवा यथा उष्ट्री
विषमप्राण्शुवप्रप्ररूढवृक्षाग्रसम्बद्धमधुपटलप्रसृतमधुबिन्दुलेहन्
अ-वाञ्छया वृक्षमारुरुक्षुर्युगपत्पुरः##-
तद्वत्पततीत्यर्थः ॥ ८४ ॥

परं वैषम्यमायाति सङ्कटात्सङ्कतं गता ।
दुःखाद्दुःखं निपतिता विपदो विपदि स्थिता ॥ ८५ ॥

नानानर्थगणोपेत्ता चेष्टापरवशाशया ।
कष्टात्कष्टमनुप्राप्ता परितापानुतापिनी ॥ ८६ ॥

नरकादिभूमिषु कष्टात्कष्टमनुप्राप्ता ॥ ८६ ॥

क्रमादाबद्धवैदग्ध्याद्वैदग्ध्याङ्गमुपागता ।
विचित्रबन्धनिर्माणपराक्रमपदं गता ॥ ८७ ॥

क्रमान्मानुष्यलाभेपि बाल्यात्प्रभृति
व्यवहारकौशलाभ्यासाद्वैदग्ध्यात्कौशलाद्वैदग्ध्याङ्गं
काव्यनाटकतर्काद्यभ्यासमुपागता सती विचित्रस्य खबन्धस्य
धनगृहक्षेत्रपरिवारादेर्निर्माणे यः पराक्रमस्तत्पदमेव गता न
मोक्षोपयोगिविवेकपदमित्यर्थः ॥ ८७ ॥

सर्वतः शङ्कते भीता प्राणात्ययमुपागता ।
क्षीणतोयेव शफरी विवर्तनपरायणा ॥ ८८ ॥

एवं क्रमेण वयःपारं प्राप्य प्राणात्ययमुपागता सती सर्वतो भीता शङ्कते ।
विवर्तनं भूमौ लुठनं तत्परायणा ॥ ८८ ॥

बाल्ये विवशसर्वार्था यौवने चिन्तयाऽऽवृता ।
वार्धकेऽप्यतिदुःखार्ता मृता कर्मवशईकृता ॥ ८९ ॥

सङ्क्षेपोक्तं प्रपञ्चयति-बाल्ये इति । विवशाः पराधीनाः सर्वे अर्था भोगा
यस्याः । चिन्तया वित्तविषयादिचिन्तया । आवृता पिहितविवेका ॥ ८९ ॥

जायते स्वर्गनगरे नागी पातालकोटरे ।
आसुरी दैत्यविवरे नरस्त्री वसुधातले ॥ ९० ॥

कर्मगतीरेव प्रपञ्चयति-जायत इत्यादिना ॥ ९० ॥

राक्षसी राक्षसाधारे वानरी वनकोटरे ।
सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते ॥ ९१ ॥

कुलपर्वते हिमवदादौ ॥ ९१ ॥

विद्याधरी देवगिरौ व्याली च वनगर्तके ।
लता तरौ खगी नीडे वीरुत्सानौ वने मृगी ॥ ९२ ॥

देवगिरौ मेरौ । वीरुत् गुल्मिनी ॥ ९२ ॥

शेते नारायणोऽम्भोधौ ध्यानी ब्रह्मपुरेऽब्जजः ।
कान्तागतो हरः शैले स्वर्गे सुरवरो हरिः ॥ ९३ ॥

नारायणादीनामपि जीवगतिषु प्रपञ्चनं पदमेव हि तन्नित्यमनित्यापदिनः
स्मृताः इत्यादिशिवपुराणानुरोधात् । नारायणादिसाल्प्यमुक्तजीवविषये वा योज्यम् ।
अथवा इत आरभ्य न जीवगतयः प्रपञ्च्यन्ते किन्तु चितेः
सर्वव्यापारकर्तृतैवेत्यदोषः । कान्तया गतः अर्धाङ्गसङ्गतः ॥ ९३ ॥

दिनं करोति तीक्ष्णांशुर्वर्षत्यम्बुधरो जलम् ।
करोति श्वसनं संवित्सपर्वतमहोदधिम् ॥ ९४ ॥

श्वसनादिपदैर्वाय्वादिव्यापारा लक्ष्यन्ते ॥ ९४ ॥

ऋतुचक्रं प्रवहति सहसा कालमण्डलम् ।
दिनरात्रितयोपैति तेजस्तिमिरतां क्रमात् ॥ ९५ ॥

ऋतुघटितं संवत्सरचक्रम् । कालमण्डलं युगमन्वन्तरादि ॥ ९५ ॥

क्वचिद्बीजरसोल्लासात्क्वचित्पाषाणमौनिनी ।
क्वचिन्नदी रसवती क्वचित्कुमुदविस्तृतिः ॥ ९६ ॥

क्वचिद्वृक्षादौ बीजात्मकस्तदङ्कुरताहेतू रसात्मकश्चोल्लासो यस्याः ।
पाषाणैर्मौनिनी निश्चला ॥ ९६ ॥

क्वचित्फलावलीपाकैः क्वचित्काष्ठानलादिभिः ।
क्वचिच्छैत्यहिमद्वारि क्वचित्खादि न किञ्चन ॥ ९७ ॥

तृतीयान्तपदद्वयानन्तरमुपलक्षितेत्यध्याहार्यम् । शैत्येन हिममिवाचरत् हिमत्
वारि जलं यस्याः । खं आकाशं आदिपदाद्वायुश्च अन्यत्र किञ्चन ॥ ९७ ॥

क्वचिदुज्ज्वलिताकारा क्वचित्कष्टा शिला क्वचित् ।
क्वचिन्नीलाथ हरिता क्वचिदग्निः क्वचिन्मही ॥ ९८ ॥

कष्टा कुशकण्टकादिदुर्गमा ॥ ९८ ॥

सर्वात्मत्वात्सर्वगत्वात्सर्वशक्तित्वयोगतः ।
सर्वत्वादेवंरूपैव खादप्यच्छैव सा परा ॥ ९९ ॥

सर्वशक्तित्वं माया तद्योगतः । सर्वत्वादेवंरूपा जगद्रूपैव । सर्वनाम्नो
वृत्तिमात्रे पुंवद्भावश्छान्दसत्वान्न कृतः । परमार्थतस्तु खादप्यच्छैव
सा चिदित्यर्थः ॥ ९९ ॥

चिच्चिनोति यथात्मानं येन यत्र यदा यदा ।
तत्तथानुभवत्यम्बु स्पन्दाद्वीच्यादितां यथा ॥ १०० ॥

चित् आत्मानं स्वं येन भावेन यत्र यथा चिनोति विवर्तेनोपचयं नयति तथा तं
भावमनुभवतीत्यर्थः ॥ १०० ॥

हंसी क्रौञ्ची बकी काकी सारसी तुरगी वृकी ।
बकी बलाका हरिणी वानरी किन्नरी शुनी ॥ १०१ ॥

तान्भावान्पुनः प्रपञ्चयति-हंसीत्यादिना ।
पुनर्बकीग्रहणमतिदीर्घपादचञ्चुजात्यन्तरसङ्ग्रहार्थम् । एवं
बलाकाग्रहणमप्यतिधवलतूलकण्ठजातिग्रहणाय ॥ १०१ ॥

वटीका पिङ्गली शाली मक्षिका भ्रमरी शुकी ।
धीः श्रीर्ह्रीः प्रीती रतिश्च शम्बरी शर्वरी शशी ॥ १०२ ॥

वटीकादयः पक्षिजातिभेदाः । शाली शारिका । प्रीती रतिरिति ढ्रलोपे इति दीर्घः । शम्बरी
माया ॥ १०२ ॥

एतास्वन्यासु चान्यासु परिभ्रमति योनिषु ।
विवर्तमानसंसारे जलावर्ते तृणं यथा ॥ १०३ ॥

योनिषु देहभेदेषु ॥ १०३ ॥

बिभेत्यथ स्वसङ्कल्पात्स्वशब्दादिव गर्दभी ।
नानया सदृगन्यास्ति मुग्धा बाला चलाऽबला ॥ १०४ ॥

अबला दुर्बला ॥ १०४ ॥

एषा सा कथिता तुभ्यं जीवशक्तिर्महामुने ।
प्राकृताचारविवशा वराकी पशुधर्मिणी ॥ १०५ ॥

कर्मात्मेत्यभिधां प्राप्ता शोच्याख्य परमात्मनः ।
अनन्तं दुःखबहुलं स्वयं विभ्रममाश्रिता ॥ १०६ ॥

कर्मात्मा कर्मानुसारस्वभावा । तथा च श्रुतिः यथाकारी यथाचारी तथा भवति
साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यो वै पुण्येन कर्मणा भवति
पापः पापेन इति ॥ १०६ ॥

असदेवानयाक्रान्तं विनाशि सहजं मलम् ।
तण्डुलेनेव कञ्चूकमनन्ययाऽव्यवस्थितम् [कञ्चूकमित्यत्रार्षो
दीर्घश्छन्दोनुरोधात् ।] ॥ १०७ ॥

अनन्यया स्वातिरिक्तसत्तास्फूर्तिशून्यया अविद्यया अव्यवस्थितमनियतम् ॥ १०७ ॥

अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी ।
शोचन्ती प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥ १०८ ॥

भर्तृहीना नायिकेवानाथा स्थितेति शेषः ॥ १०८ ॥

जडगतेरवलोकय शक्ततां निजपदस्मरणेन विनेह चित् ।
व्रजति कष्टमधः पतनाय या यदरघट्टघटीघनपीठवत् ॥ १०९ ॥

हे राम त्वं जडगतेरविद्यायाः शक्ततां सामर्थ्यमवलोकय । यद्यस्माद्धेतोर्या
पूर्णब्रह्मस्वभावापि चित् अरघट्टस्य घटीयन्त्रस्य घटीषु प्रविष्टं
घनपीठमाकाशस्तेन तुल्यं तद्वत् निजस्य निरतिशयानन्दपूर्णभावस्य
घनसमुद्रादिसकलजलोपलक्षितसर्वजगदन्तर्भावनसामर्थ्यस्य च स्मरेण विना
देहमात्रपरिच्छिन्नाहं घटीमात्रपरिच्छिन्नमहं भोगनिमित्तपुण्यव्यये
अल्पजलक्षरणे च मम रिक्ततैव सम्पन्नेति मन्यमाना पुनः पुनः स्वपतनाय
अधोधोव्रजति तत्कष्टमित्यर्थः ॥ १०९ ॥

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० शिवपूजोपाख्याने
चेत्योन्मुखचिद्विचारो नाम त्रिंशः सर्गः ॥ ३० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चेत्योन्मुखचिद्विचारो नाम त्रिंशः सर्गः ॥ ३० ॥