एकोनत्रिंशः सर्गः २९
श्रीवाल्मीकिरुवाच ।
इत्याकर्णयति स्वस्थसमचेतसि राघवे ।
विश्रान्ते स्वात्मनि स्वैरं परमानन्दमागते ॥ १ ॥
रामस्य बोधाद्विश्रान्तिः पुनरुक्तार्थविस्तरः ।
कैलासे प्राक् शिवेनेत्थं स्वोपदेशश्च कीर्त्यते ॥ १ ॥
इत्थं सानुग्रहं श्रीवसिष्ठेनोपदेशचमत्कारैः प्रतिवोधितस्य श्रीरामस्य
अन्येषां च श्रोतॄणां तत्त्वसाक्षात्कारोदयेन मुहूर्तार्ध
स्वरूपविश्रान्तिसमाधिना निष्कम्पस्थितिं श्रीवाल्मीकिरुवाच##-
तत्रस्थेषु च सर्वेषु तेषूपशमशालिषु ।
राघवस्यात्मविश्रान्तेः स्थित्यर्थं वचनामृतम् ॥ २ ॥
तत्रस्थेषु स्वात्मनि विश्रान्तेष्विति विभक्तिविपरिणामेन योज्यम् । मुनेर्ववनामृतं
विररामेति परेणान्वयः ॥ २ ॥
विरराम मुनेर्वारि सस्येष्वम्बुधरादिव ।
अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते ॥ ३ ॥
यथा वृष्टितर्पितेषु सस्येषु अम्बुधराद्वारि विरमति तद्वद्बोधिते
समाधेर्व्युत्थापितं अर्थाद्वसिष्ठेनैवेति गम्यते ॥ ३ ॥
पुनराह तमेवार्थं वसिष्ठो वदतां वरः ।
श्रीवसिष्ठ उवाच ।
राम सम्यक्प्रबुद्धोऽसि स्वात्मानमसि लब्धवान् ॥ ४ ॥
पुनस्तमेवार्थं दृढीकारायाहेत्यर्थः ॥ ४ ॥
एवमेवावलम्ब्यार्थं तिष्ठ नेह पदं कृथाः ।
इदं संसारचक्रं हि नाभौ सङ्कल्पमात्रके ॥ ५ ॥
अर्थं परमार्थमात्मतत्त्वम् । इह संसारे पदं स्थितिं मा कृथाः ।
तत्रोपायमाह-इदमिति ॥ ५ ॥
संरोधितायां वहनाद्रघुनन्दन रुद्ध्यते ।
क्षोभितायां मनोनाभ्यामिदं संसारचक्रकम् ॥ ६ ॥
क्षोभितायां रागद्वेषादिना विक्षेपं प्रापितायाम् ॥ ६ ॥
प्रयत्नाद्रोधितमपि प्रवहृत्येव वेगतः ।
परं पौरुषमास्थाय बलं प्रज्ञां च युक्तितः ॥ ७ ॥
पौरुषं अभ्यासवैराग्यदार्ढ्यलक्षणम् ॥ ७ ॥
नाभिं संसारचक्रस्य चित्तमेव निरोधयेत् ।
प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च ॥ ८ ॥
पौरुषेण न यत्प्राप्तं न तत्क्वचन लभ्यते ।
दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम् ॥ ९ ॥
निजं प्रयत्नमाश्रित्य चित्तमादौ निरोधयेत् ।
आविरिञ्चात्प्रवृत्तेन भ्रमेणाज्ञानरूपिणा ॥ १० ॥
असदेव सदाभासमिदमालक्ष्यतेऽनघ ।
अज्ञानभ्रमविस्तारमात्रकाकृतयोऽनघ ॥ ११ ॥
आकृतयः दृश्यजगदाकाराः ॥ ११ ॥
इमे देहा भ्रमन्तीह सर्वधर्मात्समुत्थिताः ।
सङ्कल्पः पुनरस्त्वेव देहस्यार्थे कदाचन ॥ १२ ॥
सर्वे धर्मा विकल्पा यस्मात् । सर्वधर्मा सङ्कल्पस्तस्मात् । धर्मादनिच्केवलात् इत्यनिचो
विषये तदभावश्छान्दसः । अत एव नैतद्देहनाशमात्रेणेष्टसिद्धिर्यतः
पुनर्देहपरम्परोत्पादकः सङ्कल्पोऽस्त्येव । तर्हि सङ्कल्पत्यागे क उपाय इति
चेत्तमाह-देहस्यार्थे इत्यादिना ॥ १२ ॥
सुखदुःखविचारित्वं न कार्यं राम धीमता ।
दुःखम्लानमुखः क्लेदी प्रसन्नात्क्लेदवर्जितात् ॥ १३ ॥
देहसुखदुःखचिन्तापरं नरं चित्रलिखितनरादप्यधमत्वेन निन्दति##-
अपि चित्रनराद्देहनरस्तुच्छतरः स्मृतः ।
आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि ॥ १४ ॥
न तथा स्थिरता देहे चित्रपुंसो यथा किल ।
विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा ॥ १५ ॥
किल प्रसिद्धम् । निर्निमित्तनश्वरत्वमप्यस्य चित्रदेहादधिको दोष इत्याह-विनाशित
इति ॥ १५ ॥
अवश्यनाशो मांसात्मा स्वयं देहो विनश्यति ।
क्पालितः सुस्थिरां शोभामादत्ते चित्रमानवः ॥ १६ ॥
स्वयं विनैव निमित्तमित्यर्थः ॥ १६ ॥
देहस्तु पालितोऽप्युच्चैर्नश्यत्येव न वर्धते ।
तेन श्रेष्ठश्चित्रदेहो नायं सङ्कल्पदेहकः ॥ १७ ॥
सङ्कल्पकृतो देहकः ॥ १७ ॥
ये गुणाश्चित्रदेहे हि न ते सङ्कल्पदेहके ।
चित्रदेहादपि जडाद्योऽयं तुच्छतरः किल ॥ १८ ॥
तस्मिन्मांसमये देहे कैवास्था भवतोऽनघ ।
दीर्घसङ्कल्पदेहोऽयं तस्मिन्नास्था महामते ॥ १९ ॥
नास्था युक्तेति शेषः ॥ १९ ॥
स्वप्नसङ्कल्पजाहेहादपि तुच्छतरो ह्ययम् ।
अल्पसङ्कल्पजो दीर्घैः सुखदुःखैर्न गृह्यते ॥ २० ॥
इदानीं स्वात्नमानोरथिकदेहेभ्योऽप्यस्य तुच्छतरतामाह-स्वप्नेत्यादिसार्धेन ॥
२० ॥
दीर्घसङ्कल्पजश्चायं दीर्घदुःखेन दुःखितः ।
देहो हि सङ्कल्पमयो नायमस्ति न वास्ति नः ॥ २१ ॥
अयं स्वयमेव नास्ति । अथवा नः अस्मदीयतया नास्ति । आत्मनोऽसङ्गाद्वयत्वादिति
भावः ॥ २१ ॥
किं व्यर्थमेतदर्थं हि मूढोऽयं क्लेशभाजनम् ।
यथा चित्रमये पुंसि क्षते क्षीणे न तत्क्षतिः ॥ २२ ॥
अतश्चित्रादिदेहक्षतिरिव नास्यापि क्षतिः शोच्येत्याह-यथेति । तस्यात्मनः क्षतिर्न ॥
२२ ॥
तथा सङ्कल्पपुरुषे क्षते क्षीणे न तत्क्षतिः ।
यथा मनोराज्यमये क्षते क्षीणे न तत्क्षतिः ॥ २३ ॥
यथा द्वितीये शशिनि क्षते क्षीणे न तत्क्षतिः ।
यथा स्वप्नसमारम्भे क्षते क्षीणे न तत्क्षतिः ॥ २४ ॥
यथा नद्यातपजले क्षते क्षीणे न तत्क्षतिः ।
सङ्कल्पमात्ररचिते प्रकृत्यैव च नाशिनि ॥ २५ ॥
तथा शरीरयन्त्रेऽस्मिन्क्षते क्षीणे न तत्क्षतिः ।
दीर्घस्वप्नमये ह्यस्मिंश्चित्तसङ्कल्पकल्पिते ॥ २६ ॥
भूषिते दूषिते देहे न हि किञ्चिच्चितः क्षतम् ।
न चिदन्तमुपायाति नात्मा चलति राघव ॥ २७ ॥
कुतो न क्षतं तत्राह-न चिदिति ॥ २७ ॥
न ब्रह्म विकृतिं याति किंवा देहक्षये क्षतम् ।
भ्रमच्चक्रोपरिष्ठो हि पूर्वचक्रोपचक्रवत् ॥ २८ ॥
पूर्वस्य स्वाधिष्ठितचक्रस्य उपमाभूतं परितः समीपस्थं वा
महच्चक्रमुपचक्रं तद्वत् । स्वचक्रवैपरीत्येन भ्रमद्दिक्चक्रं यथा
पश्यतीत्यर्थः ॥ २८ ॥
यथा पश्यति दिक्चक्रं भ्रमदत्यन्तमोहितः ।
अकस्मादेव रूढेन मिथ्याज्ञानेन वल्गता ॥ २९ ॥
तत्रस्थेन तथैवेदं दृश्यते देहचक्रकम् ।
भ्रमितं च भ्रमद्रूपं पतद्रूपं प्रपातितम् ॥ ३० ॥
तत्रस्थेन मिथ्याज्ञानचक्रस्थेन जीवेन ॥ ३० ॥
हतं च हन्यमानं च दृश्यते देहचक्रकम् ।
धीरतामलमालम्ब्य घनभ्रममिमं त्यजेत् ॥ ३१ ॥
देहचक्रकं देहपरम्पराचक्रम् ॥ ३१ ॥
सङ्कल्पेन कृतो देहो मिथ्याज्ञानेन सन्नसन् ।
असत्येन कृतं यस्मान्न तत्सत्यं कदाचन ॥ ३२ ॥
प्रतीतितः सन्नपि परमार्थतः असन् । असत्येनाज्ञानादिना कृतं यस्माद्धेतोः ॥ ३२ ॥
असदभ्युत्थितो देहो रज्ज्वामिव भुजङ्गधीः ।
असत्यामेव सत्यां च करोत्यपि जगत्क्रियाम् ॥ ३३ ॥
जडेन राम क्रियते यन्न तत्कृतमुच्यते ।
कुर्वन्नपि तदा देहो न कर्ता क्वचिदेव हि ॥ ३४ ॥
तत्कृतं नैवोच्यते यदेति शेषः । चेतनवज्जडे अपराधारोपादर्शनादित्यर्थः ॥ ३४ ॥
निरीहो हि जडो देहो नात्मनोऽस्याभिवाञ्छितम् ।
कर्ता न कश्चिदेवातो द्रष्टा केवलमस्य सःइ ॥ ३५ ॥
इच्छातो हि कर्तृत्वं स्यात् सा तु न जडे देह निर्विकारे आत्मनि वा सम्भवतीत्याह##-
यथा दीपो निवातस्थः स्वात्मन्येवावतिष्ठते ।
साक्षिवत्सर्वभावेषु तथा तिष्ठेज्जगत्स्थितौ ॥ ३६ ॥
अकर्त्रात्मनिश्चयफलमाह-यथेति ॥ ३६ ॥
यथा दिवसकर्माणि भास्करः स्वस्थ [स्वस्थः स्वच्छ इति पाठौ ।] एव
सन् ।
करोत्येवमिमां राम कुरु पार्थिवसंस्थितिम् ॥ ३७ ॥
तर्हि कथं राज्यसंस्थितिसिद्धिस्तत्राह-यथेति ॥ ३७ ॥
अस्मिन्नसन्मये देहगृहे शून्ये समुत्थिते ।
सत्तामुपगते मिथ्याबालकल्पितयक्षवत् ॥ ३८ ॥
देहसत्यतादर्शने तु तदभिमानलक्षणाहङ्कारस्यावर्जनात्तद्भृत्यता
स्यादेवेत्याह-अस्मिन्नित्यादिना ॥ ३८ ॥
कुतोऽप्यागत्य निःसारः सर्वसज्जनवर्जितः ।
अहङ्कारः कुवेतालः प्रविष्टश्चित्तनामकः ॥ ३९ ॥
प्रविष्टः स्यादिति शेषः ॥ ३९ ॥
अस्य मा भृत्यतां गच्छ त्वमहङ्कारदुर्मतेः ।
अस्य भृत्यतया राम निरयः प्राप्यते फलम् ॥ ४० ॥
स्वसङ्कल्पविलासेन देहगेहे दुराकृतिः ।
उन्मत्तचित्तवेतालः परिवल्गति लीलया ॥ ४१ ॥
सत्यहङ्कारे अनर्थान्तरमप्याह-स्वसङ्कल्पेत्यादिना ॥ ४१ ॥
शून्यं देहगृहं प्राप्य चित्तयक्षेण तत्कृतम् ।
भीता येन महान्तोऽपि समाधिनियताः स्थिताः ॥ ४२ ॥
चित्तवेतालमुद्वास्य स्वशरीरकमन्दिरात् ।
संसारशून्यनगरे न बिभेति कदाचन ॥ ४३ ॥
चित्तभूताभिभूतेऽस्मिन्ये शरीरगृहे रताः ।
चित्रमद्यापि ते कस्माद्धटिता आत्मवत्स्थिताः ॥ ४४ ॥
देहगृहे रता आसक्तास्ते अनन्तकोटिदेहेषु नष्टेषु अद्यापि देहेन आत्मवत्तादात्म्येन
घटिताः कस्मात्स्थिताः । सदैव तद्घटनदुःखे अनुभूयमानेऽपि तद्विघटने
यत्नं न कुर्वन्ति तच्चित्रमित्यर्थः ॥ ४४ ॥
ग्रस्ते चित्तपिशाचेन देहसद्मनि ये मृताः ।
पिशाचस्येव या बुद्धिर्नापिशाचस्य राघव ॥ ४५ ॥
ये मृतास्तेषामिति शेषः ॥ ४५ ॥
अहङ्कारबृहद्यक्षगृहे दग्धशरीरके ।
विहरन्नास्थया साधो न तु वै तत्किले स्थिरम् ॥ ४६ ॥
सदैव तापत्रयवह्निदग्धे शरीरके आस्थया विहरन् ना पुरुषः पिशाच एवेति
विभक्तिविपरिणामेनानुषज्ज्यते । तत्रास्था कुतो न युक्ता तत्राह-न त्विति ॥ ४६ ॥
अहङ्कारानुचरतां त्यक्त्वा विततया धिया ।
अहङ्कारास्मृतिं प्राप्य स्वात्मैवाश्ववलम्ब्यताम् ॥ ४७ ॥
प्रथममहङ्कारस्यानुचरतां भृत्यतां त्यक्त्वा ततो
योगभूमिकाभ्यासादहङ्कारस्य अस्मृतिं आत्यन्तिकविस्मृतिं प्राप्य ॥ ४७ ॥
अहङ्कारपिशाचेन ग्रस्ता ये निरयैषिणः ।
तेषां मोहमदान्धानां न मित्राणि न बाधवाः ॥ ४८ ॥
न मित्राणीति । अहङ्कारिणां विनयदौर्लभ्यादौद्धत्यावश्यम्भावाच्च न
कश्चित्स्निह्यतीति भावः ॥ ४८ ॥
अहङ्कारोपहतया बुद्ध्या या क्रियते क्रिया ।
विषवल्लया इव फलं तस्याः स्यान्मरणात्मकम् ॥ ४९ ॥
विवेकधैर्यहीनेन स्वाहङ्कारमहोत्सवः ।
मूर्खेणालम्बितो येन नष्टमेवाशु विद्धि तम् ॥ ५० ॥
फलं कलहजनवैरादिरूपमत एव मरणात्मकम् ॥ ४९ ॥ ५० ॥
अहङ्कारपिशाचेन वराका ये वशीकृताः ।
त एते नरकाग्नीनां राघवेन्धनतां गताः ॥ ५१ ॥
तस्य परलोकेऽपि दुःखमेवेत्याह-अहङ्कारेति ॥ ५१ ॥
अहङ्कारोरगो यस्य परिस्फूर्जति कोटरे ।
स्वदेहपादपोऽधीरैरचिरेण निपात्यते ॥ ५२ ॥
यस्य स्वदेहपादपस्य कोटरे हृदि स स्वदेहपादपः । बहुष्वेकवचनं जात्यैक्यात् ।
अधीरैरिति च्छेदः ॥ ५२ ॥
अहङ्कारपिशाचोऽस्मिन्देहे तिष्ठतु यातु वा ।
त्वमेनमालोकय मा मनसा महतां वर ॥ ५३ ॥
मा आलोकय ॥ ५३ ॥
अवधूतो ह्यवज्ञातश्चेतसैव तिरस्कृतः ।
अहङ्कारपिशाचस्ते नेह किञ्चित्करिष्यति ॥ ५४ ॥
अनवलोकनमात्रेण किं स्यात्तत्राह-अवधूत इति ॥ ५४ ॥
देहालये स्फुरत्यस्मिन् राम चित्तपिशाचके ।
अस्यानन्तविलासस्य किमिवागतमात्मनः ॥ ५५ ॥
आत्मनस्तदनुसरणादेवानर्थः । उपेक्षितस्तु स स्थितोऽप्यकिञ्चित्कर इत्याह-देहालये
इति ॥ ५५ ॥
चित्तयक्षाभिभूतानां याः पुंसां विततापदः ।
शक्यन्ते परिसङ्ख्यातुं न ता वर्षशतैरपि ॥ ५६ ॥
चित्तेति प्रकृताहङ्कारस्यैव वृत्त्यन्तरेऽप्यनर्थकारिताख्यानाय निर्देशः ॥ ५६ ॥
हा हा मृतोऽस्मि दग्धोऽस्मीत्येता वै दुःखवृत्तयः ।
अहङ्कारपिशाचस्य शक्तयोऽन्यस्य नानघ ॥ ५७ ॥
सर्वगोऽपि यथाकाशः सम्बन्धो नेह केनचित् ।
सर्वगोऽपि तथैवात्मा नाहङ्कारेण सङ्गतः ॥ ५८ ॥
अहमित्यात्मैवानुभूयत इति नैयायिकादीनां भ्रान्तिं वारयति-सर्वग इति ।
सम्बध्यत इति सम्बन्धः । संश्लिष्ट इत्यर्थः ॥ ५८ ॥
यत्करोति यदादत्ते देहयन्त्रमिदं चलम् ।
वातरज्जुयुतं राम तदहङ्कारचेष्टितम् ॥ ५९ ॥
वातरज्जुः सूत्रात्मा प्राणः ॥ ५९ ॥
वृक्षोत्पत्तौ यथा हेतुरकर्त्रपि किलाम्बरम् ।
आत्मसंस्थस्तथेहात्मा चित्तचेष्टासु कारणम् ॥ ६० ॥
यद्यहङ्कार एव सर्वचेष्टानिमित्तं नात्मा तर्हि केनेषितं पतति प्रेषितं मनः केन
प्राणः प्रथमः प्रति युक्तः । ऊर्ध्वं प्राणः प्रथमः प्रैति युक्तः । ऊर्ध्वं
प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये चामनमासीनं विश्वेदेवा उपासते
इत्यादिश्रुतिविरोधस्तत्राह-वृक्षोत्पत्ताविति । आत्मसंस्थः स्वे महिम्नि प्रतिष्ठितः
कारणं श्रुतिभिरुपचर्यत इत्यर्थः ॥ ६० ॥
आत्मसंस्निधिमात्रेण स्फुरत्यात्तवपुर्मनः ।
दीपसन्निधिमात्रेण कुड्यरूपमिवामलम् ॥ ६१ ॥
उपचारे मन-आदीनां सत्तास्फूर्तिप्रदत्वमेव निमित्तमित्याह-आत्मेति ।
आत्तवपुर्लब्धसत्ताकं कल्पितस्थूलदेहं च ॥ ६१ ॥
अपि विश्लिष्टयो राम नित्यमेवात्मचित्तयोः ।
द्यावापृथिव्योरिव कः सम्बन्धः प्रकटान्धयोः ॥ ६२ ॥
प्रकटान्धयोश्चिज्जडयोः ॥ ६२ ॥
चपलस्पन्दनेराभिरात्मशक्तिभिरावृतम् ।
चित्तमात्मेति मौर्ख्येण दृश्यते रघुनन्दन ॥ ६३ ॥
नन्वसम्बन्धे मन-आदेः सत्तास्फूर्त्यसिद्धिः सम्बन्धे
त्वात्मासङ्गत्वासिद्धिरित्याशङ्क्याह-चपलेति । चपलस्पन्दनानीरयन्ति प्रेरयन्तीति
चपलस्पन्दनेरास्तथाविधाभिरात्मनः प्राणस्य शक्तिभिरावृतं वशीकृतं
चित्तं तादात्म्याध्यासलक्षणेन प्राणस्य शक्तिभिरावृतं वशीकृतं चित्तं
तादात्म्याध्यासलक्षणेन मौर्ख्येणाज्ञानेन दृश्यते न वस्तुवृत्तेनेत्यर्थः ।
नाभिः इति पाठे चित्तविशेषणम् ॥ ६३ ॥
आत्मा प्रकाशरूपो हि नित्यः सर्वगतो विभुः ।
चित्तं शठमहङ्कारं विद्धि हार्दं बृहत्तमः ॥ ६४ ॥
असङ्गत्वोपपादनायविरुद्धत्वमेव प्रपञ्चयति-आत्मेति । शठं वञ्चकम् ॥
६४ ॥
आत्मासि वस्तुतस्त्वं हि सर्वज्ञो न मनो भृशम् ।
दूरे कुरु मनोमोहं किमेतेनाभिसङ्गतः ॥ ६५ ॥
पिशाचोऽपि मनो राम शून्यदेहगृहे स्थितः ।
भावयत्येष दुष्टात्मा मौनमुत्तम संस्पृशन् ॥ ६६ ॥
हे उत्तम मनःपिशाच आत्मानमसंस्पृशन्नपि मौनं तूष्णीमेव
स्वसंस्पृष्टं भावयतीत्यन्वयः ॥ ६६ ॥
भवप्रदमकल्याणं धैर्यसर्वस्वहारिणम् ।
मनःपिशाचमुत्सृज्य योऽसि स त्वं स्थिरो भव ॥ ६७ ॥
चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं गुरवो न च मानवम् ॥ ६८ ॥
संशान्तचित्तवेतालं गुरुशास्त्रार्थबान्धवाः ।
शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान्मृगं यथा ॥ ६९ ॥
संशान्तेति । शुद्धचित्तमिति यावत् । मृगं मृगसदृशं वत्सम् ॥ ६९ ॥
अस्मिञ्जगच्छून्यपुरे सर्वमेव प्रदूषितम् ।
देहगेहं प्रमत्तेन चित्तयक्षेण वल्गता ॥ ७० ॥
चित्तवेतालवलिता समस्ता देहखण्डजा ।
इयं जगदरण्यानी शून्या कस्य न भीतये ॥ ७१ ॥
देहलक्षणे खण्डे परिच्छिन्नभागे जाता ॥ ७१ ॥
जगन्नगर्यामस्यां तु शान्तचित्तपिशाचकम् ।
देहगेहं कतिपयैः सेव्यते सद्भिरेव यत् ॥ ७२ ॥
समस्तेत्युत्सर्गः । क्वचिदन्यथात्वमपि यतो दृष्टमित्याह-जगदिति । यत् यतः ॥ ७२
॥
इह संश्रूयते या या दिक् सैव रघुनन्दन ।
प्रमत्तमोहवेतालैः पूर्णा देहश्मशानकैः ॥ ७३ ॥
अत एवाज्ञदेहाः श्मशानतुल्या इति निन्दति-इहेति ॥ ७३ ॥
अस्यां जगदरण्यान्यां मुह्यन्तं मुग्धबालवत् ।
स्वयमाराध्य धैर्यांशमात्मनात्मानमुद्धरेत् ॥ ७४ ॥
धैर्यांशमाराध्य दृढमवलम्ब्य ॥ ७४ ॥
जगज्जरदरण्येऽस्मिंश्चरद्भूतमृगव्रजे ।
धृतिं तृणरसै राम मा गच्छ मृगपोतवत् ॥ ७५ ॥
तृणसदृशैरसारैर्विषयरसैर्धृतिं कृतार्थताबुद्धिम् ॥ ७५ ॥
अस्मिन्महीतलारण्ये चरन्ति मृगपोतकाः ।
त्वमज्ञानगजं भुक्त्वा सैंहीं वृत्तिमुपाश्रय ॥ ७६ ॥
मृगपोतकसदृशा अन्ये मूढा विषयतृणानि चरन्ति चेच्चरन्तु नाम ॥ ७६ ॥
अन्ये नरमृगा मुग्धा जम्बूद्वीपे स्वजङ्गले ।
विहरन्ति यथा राम तथा मा विहरानघ ॥ ७७ ॥
अत्यल्पकालशिशिरे कर्दमालेपदायिनि ।
न मङ्क्तव्यं बन्धुरूपे महिषेणेव पल्वले ॥ ७८ ॥
ननु बन्धुजनैः समानशीलतया सदैवावस्थानं सुखं दृष्टं तत्र को
दोषस्तत्राह-अत्यल्पेति । विशेषणान्युभयत्र योज्यानि ॥ ७८ ॥
भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत्पदम् ।
प्रविचर्य महार्थं स्वमेकमात्मानमाश्रयेत् ॥ ७९ ॥
अपवित्रस्य तुच्छस्य दुर्भगस्य दुराकृतेः ।
देहस्यार्थे न मङ्क्तव्यं चिन्ताचण्ण्दी सुदारुणा ॥ ८० ॥
न मङ्क्तव्यमासक्तिकर्दमे इति शेषः । यतस्तन्मग्ना चिन्तालक्षणा चण्डी कोपना
सुदारुणा राक्षसी खादतीत्यर्थः ॥ ८० ॥
अन्येन रचितो देहो यक्षेणान्येन संश्रितः ।
दुःखमन्यस्य भोक्तान्यश्चित्रेयं मौर्ख्यचक्रिका ॥ ८१ ॥
अन्येन कर्मणा । यक्षेणाहङ्कारेण । अन्यस्य मनसः । अन्यो जीवः । मौर्ख्यस्य
चक्रिकापरिवर्तमाना परम्परा चित्रा । आश्चर्यरूपेत्यर्थः ॥ ८१ ॥
यथैकरूपा घनता दृषदोऽस्त्यात्मनस्तथा ।
सत्तामात्रैकसामान्यादितरस्याप्यसम्भवात् ॥ ८२ ॥
सदेकघनत्वादपि नात्मनि दुःखतद्भोगभोक्तृशरीरादिरूपान्तरावकाश
इत्याशयेनाह-यथेत्यादित्रिभिः । इतरस्य सद्रूपेतररूपस्य सदितरत्वस्यैव
असदलीकादिपदैः प्रसिद्धेरिति भावः ॥ ८२ ॥
यथोपलस्य घनता मानसादि तथात्मनः ।
सत्तामात्रादभिन्नत्वादभावादस्य संस्थितेः ॥ ८३ ॥
यथा उपलस्य घनता काठिन्यं नोपलात्पृथक्सती तथा मानसं
समष्टिव्यष्टिमनः समूहः । आदिपदात्तत्तत्कार्यस्थूलप्रपञ्चश्च । तत्कुतः ।
सत्तामात्रस्वभावादभिन्नत्वात्पृथक् अस्य मानसादेः संस्थितेरभावादित्यर्थः ॥
८३ ॥
यथोपलस्योपलता घटस्य घटता यथा ।
सत्तामात्रादभिन्नैव मानसादि तथात्मनः ॥ ८४ ॥
अयं च न्यायः प्रत्येकं घटतन्मानसवृत्त्यादिष्वपि योज्य इति सदद्वैतमेव
प्रसिद्धमित्याह-यथेति ॥ ८४ ॥
अत्रेमामपरां दृष्टिं महामोहविनाशिनीम् ।
शृणु या कथिता पूर्वं मम कैलासकन्दरे ॥ ८५ ॥
अत्रास्मिन्नर्थे इमां वक्ष्यमाणमानसशिवपूजालक्षणां दृष्टिं शृणु ॥ ८५ ॥
संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना ।
अस्तीन्दुकरसम्भारभासुरः पारगो दिवः ॥ ८६ ॥
तत्रादौ कैलासवर्णनमुखेन कथां प्रस्तौति-अस्तीत्यादिना । इन्दुकराणां
सम्भारः सङ्घात इव भासुरः ॥ ८६ ॥
कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम् ।
तत्रास्ते भगवान्देवो हरश्चन्द्रकलाधरः ॥ ८७ ॥
तं पूजयन्महादेवं तस्मिन्नेव गिरौ पुरा ।
कदाचिदवसं गङ्गातटे विरचिताश्रमः ॥ ८८ ॥
तपोर्थं तापसाचारे चिराय रचितस्थितिः ।
सिद्धसङ्घातवलितः कृतशास्त्रार्थसङ्ग्रहः ॥ ८९ ॥
तापसैराचर्यत इति तापसाचारः कृच्छ्रचान्द्रायणादिस्तस्मिन्नियता स्थितिर्यस्य
तथाविधः सन् ॥ ८९ ॥
पुष्पार्थं स्यूतपुटिकः पुस्तकव्यूहसङ्ग्रही ।
एवङ्गुणविशिष्टस्य कैलासवनकुञ्जके ॥ ९० ॥
तपः प्रचरतो राम मम कालोऽत्यवर्तत ।
अथैकदा कदाचित्तु बहुलस्याष्टमे दिने ॥ ९१ ॥
बहुलस्य श्रावणकृष्णपक्षस्याष्टमे दिने । रात्रेरग्रे मुखे प्रदोषे
पूजाजपध्यानादिना क्षयमागते सति ॥ ९१ ॥
गते श्रावणपक्षस्य रात्र्यग्रे क्षयमागते ।
दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्विव ॥ ९२ ॥
प्राणिसञ्चाराद्युपरमात्संशान्तरूपासु दिक्षु करादिचेष्टयाप्यर्थानिवेदनं
काष्ठमौनव्रतं तत्र स्थितास्विव ॥ ९२ ॥
खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च ।
एतस्मिन्नन्तरे तत्र यामार्धे प्रथमे गते ॥ ९३ ॥
गहनेषु वनेषु ॥ ९३ ॥
समाधिं तनुतां नीत्वा स्थितोहं बाह्यमग्नदृक् ।
अपश्यं कानने तेजो झटित्येव समुत्थितम् ॥ ९४ ॥
तनुतां ईषद्बहिःप्रवणतामिति यावत् ॥ ९४ ॥
शुभ्राभ्रशतसङ्काशं चन्द्रबिम्बगणोपमम् ।
प्रकटीकृतदिक्कुञ्जं तदालोक्य मया स्मयात् ॥ ९५ ॥
स्मयात् विस्मयात् ॥ ९५ ॥
अन्तःप्रकाशशालिन्या बहिर्दृष्ट्यावलोकितम् [बुद्धिदृष्ट्या इति पाठः ।
] ।
यावत्पश्यामि तं सानुं प्राप्तश्चन्द्रकलाधरः ॥ ९६ ॥
बहिर्दृष्ट्या अवलोकितमन्तर्विचारितमित्यर्थः । विचार्य च यावत्तं पुरस्थन्न् सानुं
प्रस्थदेशं पश्यामि तावत्तत्र प्राप्त इत्यर्थः ॥ ९६ ॥
गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः ।
शिष्यान्सम्बोध्य तत्रस्थान्गृहीत्वार्घ्यं सुसंयतः ॥ ९७ ॥
सुसंयतः सावधानः ॥ ९७ ॥
अगमं सुमनास्तस्य दृष्टिपूतमहं पुरः ।
तत्र पुष्पाञ्जलिं दत्त्वा दूरादेव त्रिलोचनः ॥ ९८ ॥
सुमनाः सन्तुष्टमनाः । पुरः पुरोदेशम् ॥ ९८ ॥
दत्तार्घ्येण मया देवः सम्प्रणम्याभिवन्दितः ।
ततश्चन्द्रप्रभासख्या ऋज्व्या शीतलया तया ॥ ९९ ॥
सम्यक् साष्टाङ्गं प्रणम्याभिवन्दितः स्तुतः । स्वभाग्यमहोदयं
स्वस्मिंस्तदनुग्रहदृष्टिपातं वर्णयति-तत इति । तया
स्वानुभूतालौकिकनिरतिशयानन्दाविर्भावचमत्कारकारिण्या ॥ ९९ ॥
दृशा सर्वार्तिहारिण्या चिरमस्म्यास्पदीकृतः ।
पुष्पसानूपविष्टाय तस्मै त्रैलोक्यसाक्षिणे ॥ १०० ॥
अर्घ्यं पुष्पं तथा पाद्यमभ्युपेत्यार्पितं मया ।
मन्दारपुष्पाञ्जलयो विकीर्णा बहवः पुरः ॥ १०१ ॥
अभ्युपेत्य अभिमुखं समीपे गत्वा ॥ १०१ ॥
नानाविधिर्नमस्कारैः स्तोत्रैश्चाभ्यर्चितः शिवः ।
ततो भगवती गौरी तादृश्यैव सपर्यया ॥ १०२ ॥
तादृश्या शिवपूजासदृश्या सपर्यया पूजया ॥ १०२ ॥
सम्पूजिता सखीयुक्ता गणमण्डलिका तथा ।
पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा ॥ १०३ ॥
तदाज्ञया तत्र सानावुपविष्टं भाम् ॥ १०३ ॥
तत्रोपविष्टं प्रोवाच मामर्धेन्दुकलाधरः ।
ब्रह्मन्प्रशमशालिन्यः प्राप्तविश्रान्तयः पदे ॥ १०४ ॥
तत्र कुशलप्रश्ने कर्तव्ये सर्वकौशल्यपरमकाष्ठां परमात्मनि
चित्तविश्रान्तिमेव भगवान्प्रथममनुजिघृक्षया पृच्छति-ब्रह्मन्निति ॥ १०४ ॥
कच्चित्कल्याणकारिण्यः संविदस्ते स्थिताः परे ।
कच्चित्तपस्ते निर्विघ्नं कल्याणमनुवर्तते ॥ १०५ ॥
संविदश्चित्तवृत्तयः । परे परमात्मवस्तुनि ॥ १०५ ॥
कच्चित्प्राप्यमनुप्राप्तं कच्चिच्छाम्यन्ति भीतयः ।
एवंवादिनि देवेशे सर्वलोकैककारिणि ॥ १०६ ॥
गिरानुनयशालिन्या मयोक्तं रघुनन्दन ।
त्र्यक्षानुस्मृतिकल्याणवतामिह महेश्वर ॥ १०७ ॥
अनुनयो विनयस्तच्छालिन्या ॥ १०७ ॥
न किञ्चिदपि दुष्प्रापं न च काश्चन भीतयः ।
त्वदनुस्मरणानन्दपरिघूर्णितचेतसाम् ॥ १०८ ॥
न ते सन्ति जगत्कोशे प्रणमन्ति न ये पुनः ।
ते देशास्ते जनपदास्ता दिशस्ते च पर्वताः ॥ १०९ ॥
जगत्कोशे ते प्राणिनो न सन्ति ये न प्रणमन्ति । सर्वेऽपि प्रणमन्त्येवेत्यर्थः । ते देशाः
प्रशस्ततमा इत्यर्थः । अपशवो वा अन्ये गोअश्रेभ्यः पशवो गोअश्वाः
इतिवत्प्राशस्त्यलाभः ॥ १०९ ॥
त्वदनुस्मरणैकान्तधियो यत्र स्थिता जनाः ।
फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम् ॥ ११० ॥
भूतस्य प्राक्सञ्चितस्य पुण्यस्य वृक्षस्थानीयस्य फलं तनोति अनन्तकोटिगुणतया
विस्तारयति । वर्तमानस्यैतद्देहारभ्यस्य सेचनममृतसेकेनेवाभिवर्धनं तनोति ॥
११० ॥
तनोति चैष्यतो बीजं त्वदनुस्मरणं प्रभो ।
ज्ञानामृतैककलशो धृतिज्योत्स्नानिशाकरः ॥ १११ ॥
एष्यतः करिष्यमाणस्य वृद्ध्यर्थं बीजं तनोति ॥ १११ ॥
अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो ।
त्वदनुस्मरणोदारचिन्तामणिमता मया ॥ ११२ ॥
सर्वासामापदां मूर्ध्नि दत्तं भूतपते पदम् ।
इत्युक्त्वा सुप्रसन्नं तं भगवन्तं महेश्वरम् ॥ ११३ ॥
सर्वासां वर्तमानानामेष्यन्तीनां च ॥ ११३ ॥
अवोचं प्रणतो भूत्वा यद्राम तदिदं शृणु ।
भगवंस्त्वत्प्रसादेन पूर्णा मे सकला दिशः ॥ ११४ ॥
पूर्णा इष्टार्थैरिति शेषः ॥ ११४ ॥
किन्तु पृच्छामि देवेश सन्देहे तत्र निर्णयम् ।
ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगमनामयम् ॥ ११५ ॥
त्यक्ता उद्वेगाश्चित्तक्षोभहेतवो यस्मिंस्तथाविधं देवार्चनविधानं ब्रूहीति
परेणान्वयः ॥ ११५ ॥
सर्वपापक्षयकरं सर्वकल्याणवर्धनम् ।
देवार्चनविधानं तत्कीदृशं भवति प्रभो ॥ ११६ ॥
ईश्वर उवाच ।
शृणु ब्रह्मविदां श्रेष्ठ देवार्चनमनुत्तमम् ।
वदामि मुच्यते येन कृतेन सकृदेव हि ॥ ११७ ॥
पूर्णा मे सकला दिश इत्युक्त्या वसिष्ठस्य
विषयभोगाभिलाक्षशून्यताद्योतनात्सर्वपापक्षयकरं सर्वकल्याणवर्धनमिति
विशेषणाभ्यां च
सर्वानर्थनिवृत्त्युपलक्षितनिरतिशयानन्दरूपमोक्षसाधनविषय एवायं प्रश्न
इति निश्चितवान्सर्वज्ञः परमकारुणिक ईश्वरः सर्वभावेन प्रपन्नाय वसिष्ठाय
परमपुरुषार्थसाधनं तत्त्वज्ञानमेव
सर्वदेवार्चनपरमरहस्यभूतमुपदेष्टुकामः प्रतिजानीते-शृण्विति ॥ ११७ ॥
कच्चिद्वेत्सि महाबाहो देवः कः स्यादिति द्विज ।
न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः ॥ ११८ ॥
तत्र वक्ष्यमाणदेवार्चनानुरूपमलौकिकदेवस्वरूपमुपदेष्टुं शिष्यस्य
तद्बुभुत्सां जनयन्पृच्छति-कच्चिदिति । महाबाहो
निरन्तरदेवार्चनसफलीकृतबाहो इति बाहुसापेक्षबाह्यपूजामात्रशूरताद्योतनाय
सम्बोधनम् । ननु प्रसिद्धा एव पुण्डरीक्षाक्षत्रिलोचनादयो देवाः किमेतावत्यपि
विषये भगवान्मामनभिज्ञं सम्भावयतीति मन्यमानस्य वसिष्ठस्य
परिच्छिन्नेषु श्रद्धाजाड्यं प्रथममपनेतुमाह-न देव इत्यादिना ॥ ११८ ॥
न देवः कमलोद्भूतो न देवस्त्रिदशेश्वरः ।
न देवः पवनो नार्को नानलो न निशाकरः ॥ ११९ ॥
कमलोद्भूतो ब्रह्मा । त्रिदशेश्वर इन्द्रः । निशाकरग्रहणं
तत्कलाधीनशरीरकत्रयस्त्रिंशत्कोटिदेवदेहोपलक्षणम् ॥ ११९ ॥
न ब्राह्मणो नाऽवनिपो नाहं न त्वं द्विजोत्तम ।
न देवो देहरूपो हि न देवश्चित्तरूपधृक् ॥ १२० ॥
पुनर्नाहं न त्वमिति निषेधो रुद्रवसिष्ठयोस्तत् यद्रोदयन्ति तस्माद्रुद्राः । यदहं
वसिष्ठोऽस्मि तत्त्वं वसिष्ठोऽसि इत्यादिश्रुतिषु मुख्यसमष्टिप्राणताप्रसिद्धेः कतम
एको देव इति प्राणः इति प्राणस्यैव सर्वदेवात्मकत्वश्रुतेश्च प्राणभावेन
प्राप्तदेवतात्वनिवारणार्थम् । एवं नैनद्देवा आप्नुवन्पूर्वमर्शत् इत्यादिश्रुतिषु
आध्यात्मिकेषु चक्षुरादिषु देवशब्ददर्शनात् । त्वचे स्वाहा लोमभ्यः स्वाहा
इत्यादिमन्त्रलिङ्गाच्च देहाद्याध्यात्मिकभावानामपि प्रसक्तं देवतात्वं
वारयति-देहरूप इति ॥ १२० ॥
न देवः कमलारूपी नापि देवो भवेन्मतिः ।
अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥ १२१ ॥
आध्यात्मिकप्रस्तावात्कमलात्र देहादिशोभा । मतिग्रहणं
सर्वाध्यात्मिकभावोपलक्षणार्थम् । तत्तुल्यन्यायादाधिभौतिकेष्वपि
सर्वभावेष्वदेवत्वमुक्तं बोध्यम् । कस्तर्हि देवस्तमाह-अकृत्रिममिति ।
डुकृञो ड्वितः क्त्रिः क्रेर्मम्रित्यम् इति मप् । कृत्रिमं क्रियासाध्यं तद्विलक्षणं
परमार्थदेवनं निरतिशयप्रमोदश्चित्प्रकाशो देव इत्यर्थः ।
पुण्डरीकाक्षादिमत्यन्ता हि चित्प्रकाशाधीनसत्तास्फूर्तिकत्वात्तस्मिन्नध्यस्तास्तेषां
चित्प्रकाशात्पृथक्करणे स्वरूपसिद्धिरेव दुर्लभा दूरे देवत्वमिति तेष्वपि
सत्ताप्रकाश एवानावृतः स्फुरन्सर्वत्रैको देवस्तदभिव्यक्त्यतिशयादेव
पुण्डरीकाक्षादयोऽपि अभिभूतजाड्यत्वाद्वह्निशब्देन ज्वलदङ्गारा इव देवा उच्यन्त
इति न श्रुतिस्मृत्यादिवादविरोधोऽपीति भावः ॥ १२१ ॥
आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः ।
अकृत्रिममनाद्यन्तं देवनं चिच्छिवं विदुः ॥ १२२ ॥
आकारादिना देशतो वस्तुतश्च परिच्छिन्ने मिते कालतः परिच्छिन्ने तत् देवनं कुतः ।
अयं भावः । देवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्विति
दशस्वर्थेषु प्रसिद्धाद्दीव्यतेः पचाद्यचि देवशब्दव्युत्पादनात्सङ्कोचे
मानाभावान्मायिकनिरङ्कुशैश्वर्यस्वच्छन्दक्रीडाविजिगीषाव्यवहार##-
द्युतिमोदावेव मुख्यावर्थौ तौ च नित्यनिरतिशयानन्दस्वप्रकाशे ब्रह्मण्येव
सम्भवतो न परिच्छिन्नेषु जडेष्विति । अतः अकृत्रिमं चिच्छिवमेव देवं तत्त्वतो
विदुरित्यर्थः ॥ १२२ ॥
तदेव देवशब्देन कथ्यते तत्प्रपूजयेत् ।
तदेवास्ति यतः सर्वं सत्तासत्तात्मरूपधृक् ॥ १२३ ॥
यतः सर्वं जगज्जीवतत्संसाररूपं तत्सत्तयैव सत्तात्मरूपधृक् न स्वत इति
तदेवास्ति नान्यदित्यर्थः ॥ १२३ ॥
अज्ञातशिवतत्त्वानामाकाराद्यर्चनं कृतम् ।
योजनाध्वन्यशक्तस्य क्रोशाध्वा परिकल्प्यते ॥ १२४ ॥
तर्हि किं पुण्डरीकाक्षाद्याकारार्चनविधिर्व्यर्थ एव नेत्याह-अज्ञातेति कृतं
विहितम् ॥ १२४ ॥
इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् ।
अकृत्रिममनाद्यन्तं फलमानन्द आत्मनः ॥ १२५ ॥
आत्मनस्तत्त्वतः साक्षात्कारान्तपूजनेन प्रसन्नादित्यर्थः ॥ १२५ ॥
अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् ।
त्यक्त्वा स मन्दारवनं कारञ्जं याति काननम् ॥ १२६ ॥
कृत्रिमकामभोगानात्मपूजनात्सिद्ध्यन्तीति तदर्थं कृत्रिमपूजैव कार्या
तत्राह-अकृत्रिमेति ॥ १२६ ॥
बोधः साम्यं शम इति पुष्पाण्यग्राणि तत्र च ।
शिवं चिन्मात्रममलं पूज्यं पूज्यविदो विदुः ॥ १२७ ॥
अकृत्रिमपूजने तर्हि का सामग्री तामाह-बोध इति । साम्यं सर्वत्रात्मौपम्येन
दर्शनम् ॥ १२७ ॥
शमबोधादिभिः पुष्पैर्देव आत्मा यदर्च्यते ।
तत्तु देवार्चनं विद्धि नाकारार्चनमर्चनम् ॥ १२८ ॥
आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः ।
कृत्रिमार्चासु ये सक्ताश्चिरं क्लेशं भजन्ति ते ॥ १२९ ॥
ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं च ते ।
आत्मध्यानादृते ब्रह्मन्कुर्वन्तो देवपूजनम् ॥ १३० ॥
ज्ञातज्ञेया ये कदाचिदात्मध्यानादुत्थिताः सन्तः साकारदेवपूजनं
कुर्वन्तश्चेद्दृश्यन्ते तत्ते बालक्रीडोपमं कुर्वन्ति न कृत्रिमभोगाशयेत्यर्थः ॥
१३० ॥
आत्मैव देवो भगवाञ्छिवः परमकारणम् ।
ज्ञानार्चनेनाविरतं पूजनीयः स सर्वदा ॥ १३१ ॥
त्वमेतच्चेतनाकाशमात्मानं जीवमव्ययम् ।
स्वभावं विद्धि न त्वन्यः पूज्यः पूजात्मपूजनम् ॥ १३२ ॥
त्वं जीवं स्वभावकृत्रिमं अव्ययं चेतनाकाशं चिदाकाशं ब्रह्म विद्धि न
त्वन्यः अनात्मा पूज्यः । यतो ज्ञानलक्षणमात्मपूजनमेव मुख्यपूजा
नान्येत्यर्थः । यथाहुः देहो देवालयः प्रोक्तो जीवो देवः सदाशिवः ।
त्यजेदज्ञाननिर्माल्यं सोहम्भावेन पूजयेत् ॥ इति ॥ १३२ ॥
श्रीवसिष्ठ उवाच ।
चेतनाकाशमात्रात्म यथा जगदिदं प्रभो ।
यथा तच्चेतनस्यैव जीवादित्वं तदुच्यताम् ॥ १३३ ॥
तदेवास्ति यतः सर्वं सत्तासत्तात्मरूपधृक् । इति ब्रह्मण एव
जगज्जीवतत्संसरणसत्तात्मनावस्थानमुक्तं तत्रोपपत्तिं जिज्ञासुर्वसिष्ठः
पृच्छति-चेतनेति ॥ १३३ ॥
ईश्वर उवाच ।
चिद्व्योमेइव किलास्तीह पारावारविवर्जितम् ।
सर्वत्रासम्भवच्चेत्यं यत्कल्पान्तेऽवशिष्यते ॥ १३४ ॥
तत्र चित्सत्तायाश्चेत्यानधीनत्वं तावत्सर्वचेत्यप्रलयेऽप्यनपायात्प्रसिद्धमिति
तदधीनभानस्य चेत्यस्य भानान्तरमिव न सत्तान्तरमपि युक्तमित्युपापत्तिमाह##-
सर्गकालेऽपि असम्भवच्चेत्यं
पारादिपरिच्छेदशून्यत्वात्प्रलयकालवदित्यनुमानलक्षणात्रोपपत्तिर्दर्शिता बोध्या
॥ १३४ ॥
यद्यत्स्वयं प्रकचति तस्य स्वकचनस्य तु ।
स्वयं यत्स्पन्दितं नाम तेनेदं जगदित्यलम् ॥ १३५ ॥
कथं तर्हि जगद्रूपप्रतिभासस्तत्राह-यद्यदिति । तस्यापरिच्छिन्नत्वादेव
मायावरणान्तः [मायावरणासम्भवादिति पाठः ।]
असम्मानान्मायिकवासनादिमार्गेण यत्स्पन्दितं स्पन्दनमिव प्रसिद्धं तेनेदं
जगदिति अलं भाति । तथाहि-यद्यत्सूर्यचन्द्रप्रदीपेन्द्रियमन-आदि स्वयं
प्रकचति बहलीभूतप्रकाशं भवति तस्य स्वकचनस्य स्वबिम्बे असम्मानात्स्वयं
यद्बिम्बाद्बहिः प्रभाकारेण स्पन्दितं स्पन्दनं नाम प्रसिद्धं तदेव
नीलपीतादितद्विषयरूपं जगदित्यलमत्यन्तं प्रसिद्धमित्यर्थः ॥ १३५ ॥
इत्येवं स्वप्नपुरवज्जगद्भाति चिदात्मकम् ।
एवं चिद्व्योममात्रात्म जगदच्छं न भित्तिमत् ॥ १३६ ॥
इति उक्तरीत्या एवं विचित्ररूपं जगच्चिदात्मकमेव सत्स्वप्नपुरवच्चिदिव भाति भ्रान्त्या
। एवं मदुक्तरीत्या परमार्थतो विमृष्टं तु जगन्न भित्तिमत् अमूर्तमच्छं
चिद्व्योममात्रामैवेत्यर्थः ॥ १३६ ॥
अत्यन्तासम्भवाच्चेत्यं दृश्यं चिद्व्योममात्रकम् ।
चित्त्वात्कचति सर्गादौ यत्तज्जगदिति स्मृतम् ॥ १३७ ॥
तर्हि किं चिदेव चेत्याकारेण परिणतं स्वं पश्यति नेत्याह-अत्यन्तेति ।
अपरिणामित्वादद्वयत्वाच्चात्यन्तासम्भवाचेत्यमप्यावृतचित्स्वभावाद्यदन्यथा
कचति प्रथते तदेव दृश्यं जगदित्यर्थः ॥ १३७ ॥
तस्मात्स्वप्नपुराकारं यदिदं भासते जगत् ।
तत्र चिद्व्योममात्रात्मन्यन्यता नाम का कुतः ॥ १३८ ॥
चिन्मात्रमेव गिरयश्चिन्मात्रं जगदम्बरम् ।
चिन्मात्रमात्मा जीवश्च चिन्मात्रं भूतसन्ततिः ॥ १३९ ॥
अत एवारोपितरूपबाधेन चिन्मात्रस्वरूपं द्रष्टव्यमित्याह##-
चिद्व्योममात्रादितरत्सर्गादौ सर्ववेदने ।
भिन्नस्वर्गे पुरे वापि किं सम्भवति कथ्यताम् ॥ १४० ॥
स्वर्गे ऊर्ध्वलोकेषु पुरे स्वनगरे वा अपिशब्दात्पातालेषु वा चिद्भिन्नं किं सम्भवति
तत्कथ्यतां निरूपणकुशलैः । अचितः स्वतःसत्तास्फूर्तिसत्त्वे
अचित्त्वव्याघातात्तदभावे अलीकत्वादलीकस्य चित्तास्फूर्तिसत्त्वे अचित्त्वव्याघातात्तदभावे
अलीकत्वादलीकस्य
चिताप्युज्जीवनादर्शनाच्चितोऽसङ्गत्वेनाचित्सम्बन्धाद्ययोगात्साधकान्तरस्य
चाप्रसिद्धेरिति भावः ॥ १४० ॥
आकाशं परमाकाशं ब्रह्माकाशं जगच्चितिः ।
इति पर्यायनामानि तत्र पादपवृक्षवत् ॥ १४१ ॥
ननु यजति ददाति जुहोति इत्यादिशब्दान्तरात्मकर्मभेद इव चित् आकाशं
जगदित्यादिनामान्तराद्भेदोऽस्त्विति चेत्तत्राह-आकाशमिति ।
भूताकाशाव्याकृताकाशाद्यर्थत्रयपरत्वेनाभिप्रेतानां
त्रयाणामप्याकाशशब्दानां काशृदीप्ताविति धात्वर्थानुगमेन
चिन्मात्रवचनत्वसम्भवाद्गमेरपि ये गत्यर्थास्ते ज्ञानार्था । इत्यनुशासनात्
वर्तमाने पृषन्महद्वृहज्जगच्छतृवच इति क्विपि द्वित्वादिनिपातनेऽपि
ज्ञानार्थत्वानपायाच्चित्पर्यायनामतोपपत्तेरिति भावः ॥ १४१ ॥
एवं द्वौ स्वप्नसङ्कल्पमायाभिः स्वनुभूयते ।
तदा किल चिदाकाशमेव भाति जगत्तया ॥ १४२ ॥
तदेति दर्शनाद्यदेत्यध्याहार्यम् । एवंरीत्या द्वौ द्वैतं स्वप्नादिभिः समं
यदानुभूयते तत्त्वदृशा तदेत्यर्थः ॥ १४२ ॥
यथैतत्संविदाकाशं स्वप्ने भाति जगद्वपुः ।
तथेदं जाग्रदाख्येऽपि स्वप्ने भाति तदेव नः ॥ १४३ ॥
यथा स्वप्नपुरे चित्खं वर्जयित्वेतरत्क्वचित् ।
न किञ्चित्सम्भवत्येवं जाग्रत्येवं महाचितः ॥ १४४ ॥
द्वितीय एवं शब्दः अपिशब्दार्थे ॥ १४४ ।
यतो न सम्भवत्यन्यच्चेत्यन्न् किञ्चित्ततोऽखिलम् ।
चित्तं सञ्चेत्यमप्येतदचेत्यं सज्जगत्स्थितम् ॥ १४५ ॥
अखिलं चित्तं सञ्चेत्यमपि जगत् अचेत्यं सन्मात्रमेव स्थितम् ॥ १४५ ॥
परमाकाशकलनं त्रिजगत्स्वयमुत्थितम् ।
स्वप्नवद्विद्धि चिद्व्योम्नि न त्वेतद्वैतवत्स्थितम् ॥ १४६ ॥
परमाकाशस्य ब्रह्मणः कलनं बहु स्यां प्रजायेय इति श्रुतिदर्शित आद्यसङ्कल्प
एव त्रिजगद्भूत्वा स्वयमुत्थितं द्वैतवत् द्वैतवाद्यभिमतसत्यवस्तुवदित्यर्थः ॥ १४६
॥
यथा चिद्व्योममात्रात्म स्वप्ने घटपटादिकम् ।
सर्गादावेव सर्गोऽयं तथा चिद्व्योममात्रकम् ॥ १४७ ॥
जगत्सामान्ये उक्तं न्यायं घटपटादिविशेषेऽपि दर्शयति-यथेत्यादिना । सर्गो
घटपटादिः ॥ १४७ ॥
शुद्धसंवित्तिमात्रत्वादृतेऽन्यत्स्वप्नपत्तने ।
यथा न विद्यते किञ्चित्तथास्मिन्भुवनत्रये ॥ १४८ ॥
याः काश्चन दृशो ये ये भावाभावास्त्रिकालगाः ।
सदेशकालचित्तास्तत्सर्वं चिद्व्योममात्रकम् ॥ १४९ ॥
स एष देवः कथितो यः परः परमार्थतः ।
यस्त्वं सोऽहमशेषं वा जगदेव च योऽखिलः ॥ १५० ॥
स ज्ञानेन पूज्यो देवः प्रथमप्रश्नोत्तरत्वेन कथितः ॥ १५० ॥
सर्वस्य वस्तुजातस्य जगतोऽन्यस्य ते मम ।
देहो हि चेतनाकाशं परमात्मैव नेतरत् ॥ १५१ ॥
देहः पारमार्थिकस्वरूपम् ॥ १५१ ॥
सङ्कल्पने स्वप्नपुरे शरीरं चिद्व्योमतोऽन्यन्न यथास्ति किञ्चित् ।
तथेह सर्गे प्रथमैकसर्गान्मुने प्रभृत्यस्ति न रूपमन्यत् ॥ १५२ ॥
उक्तमनूद्योपसंहरति-सङ्कल्पन इति । प्रथमादेकस्य हिरण्यगर्भस्य
सर्गात्प्रभृति प्रवृत्ते इहास्मिन्सर्गे तथा
सङ्कल्पनस्वप्नपुरशरीरादिवदेवान्यद्रूपं नास्ति ॥ १५२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० जगतः
परमात्ममयत्ववर्णनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे जगतः
परमात्ममयत्ववर्णनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥